१५७

सप्तपञ्चाशदधिकशततमः सर्गः १५७

अथ सिन्धुर्वदिष्यति ।

आर्यानार्यवपुः कोऽहमभवं विमतिः पुरा ।
यद्वशान्मे कुसंस्कारः प्राक्तनोऽस्ति भवप्रदः ॥ १ ॥

वर्ण्यते सिन्धुजीवस्य जातिस्तामसतामसी ।
सिन्धोश्च त्यजतो राज्यं विवेकान्मुक्तिरन्ततः ॥

हे आर्येति मन्त्रिसम्बोधनम् ॥ १ ॥

मन्त्री वदिष्यति ।

रहस्यं शृणु भो राजन्सावधानपरः क्षणम् ।
चोदितः सन्दधासीदमद्य मान्द्यविनाशनम् ॥ २ ॥

अवधानपरेण चित्तेन सहितः सावधानपरः । अद्य मया त्वं चोदितः प्रेरितः सन्
मान्द्यस्य अज्ञानस्य विनाशनमिदं मद्वचनं हृदि दधासि धारयिष्यसि ॥ २ ॥

किमप्याद्यन्तरहितमस्तीह सदनामयम् ।
स्थितं त्वमहमित्यादिरूपेण ब्रह्मशब्दितम् ॥ ३ ॥

पृष्टां सिन्धुजीवप्राक्तनस्थितिं वक्तुं ब्रह्मण
एवोपाधिसम्बन्धाज्जीवभावविवक्षया आद्यां ब्रह्मस्वरूपस्थितिं दर्शयति -
किमपीति । तस्यैव सार्वात्म्यमाह - स्थितमिति ॥ ३ ॥

तद्ब्रह्म स्वयमेवाहं चिच्चेतामीति संविदम् ।
जीवतामिव गत्वास्ते चित्तीभूयात्यजद्वपुः ॥ ४ ॥

अहं चित् अतश्चेतामीति सङ्कल्पसंविदं प्राप्य समष्टिव्यष्टिचित्तीभूय तदुपाधौ
जीवतामिव गत्वा आस्ते । वपुरुपाधिमत्यजत् ॥ ४ ॥

चित्तं तु गगनाच्छात्म वपुर्विद्ध्यातिवाहिकम् ।
तदेव वास्ति नेहान्यदाधिभौतिकतादिकम् ॥ ५ ॥

किं तद्वपुर्यदत्यजज्जीवतां गतं तदेवाह - अचित्तं त्विति । स्थूलमिदं वपुस्तर्हि
किं तत्राह - तदेवेति ॥ ५ ॥

चित्तमेतदनाकारमपि साकारवत्स्थितम् ।
सङ्कल्पैः परलोकाद्यैः स्वप्नाद्यैरेतदेव सत् ॥ ६ ॥

तच्चित्तमेव परलोकेहलोकाद्यैः स्वप्नजाग्रज्जीवमरणभोगमोक्षाद्यैः
सङ्कल्पैरनाकारमपि साकारजगद्वत्स्थितम् ॥ ६ ॥

अनाकारमपि स्फारं चित्तं जगदिदं विदुः ।
य एव पवनो नाम स एव स्पन्दनं यथा ॥ ७ ॥

इदं रहस्यं तत्त्वविदो विदुर्नान्ये इत्याह - अनाकारमिति ॥ ७ ॥

यथा गगनशून्यत्वे जगच्चित्ते तथैककम् ।
अत्राप्रतिघरूपेऽस्ति न मनागपि भिन्नता ॥ ८ ॥

अप्रतिघरूपे जगदाकारकल्पने निरङ्कुशसामर्थ्ये । अत्र चित्ते ॥ ८ ॥

हृदयस्थं जगज्जालं न किञ्चित्किञ्चिदास्थितम् ।
जगद्विद्धि निराकारं चित्तमेव न वास्तवम् ॥ ९ ॥

मिथ्यात्वान्न किञ्चिद्धृदयस्थं वासनारूपमेव जगज्जालं बहिरिव
किञ्चिदिवास्थितम् ॥ ९ ॥

सत्त्वमेव वपुः पूर्वमुदितं ब्रह्मणः पदात् ।
अयमेव स सम्पन्नो योऽद्यत तामसतामसः ॥ १० ॥

पूर्वं प्राथमिकसर्गे सात्त्विकदेवताघटितरूपत्वात्सत्त्वमेव हैरण्यगर्भाख्यं
समष्टिवपुर्ब्रह्मणः पदादुदितम् । अयं समष्टिरेव व्यष्टिभावे
तामसविषयासङ्गेनोत्पत्तिप्रकरणोक्तरीत्या
राजससात्त्विकादित्रयोदशधाविभागक्रमेण स ते जीवोऽद्य तामसतामसः सम्पन्नः ॥
१० ॥

सिन्धुर्वक्ष्यति ।

किमुच्यते महाभाग वद तामसतामसः ।
क्रियन्ते पूर्वमेवैताः केन सञ्ज्ञाः परे पदे ॥ ११ ॥

प्रश्नः स्पष्टः ॥ ११ ॥

मन्त्री वदिष्यति ।

जन्तोः सावयवस्येह हस्ताद्यवयवा यथा ।
तथानवयवस्यैवमातिवाहिकतात्मनः ॥ १२ ॥

अपरिच्छिन्नस्यैवात्मनो हिरण्यगर्भभावेन परिच्छिन्नत्वे मायया कृते
हिरण्यगर्भ एव सर्वाः सञ्ज्ञाः करोतीत्याशयेनोत्तरमाह - जन्तोरिति । एवं तथा
॥ १२ ॥

पश्चादात्मनि सैवात्मा नानासञ्ज्ञाः करिष्यति ।
आधिभौतिकतानाम्नि पृथ्व्याद्या आतिवाहिके ॥ १३ ॥

आत्मनि स्वव्यष्टिजीवेषु स समष्ट्यात्मैव सञ्ज्ञाः करिष्यति । सैवात्मेति सोचि लोपे
चेत्पादपूरणम् इति सलोपः । तथा आतिवाहिके समष्टिस्वदेहे पञ्चीकरणेन
आधिभौतिकतानाम्नि कृते तदवयवेषु पृथ्व्याद्याः सञ्ज्ञाः करिष्यति ॥ १३ ॥

स्वप्नाभेऽस्मिञ्जगद्भाने सङ्कल्पेनात्मरूपिणा ।
सञ्ज्ञात्मनात्मरूपेण स्वयं व्यवहरिष्यति ॥ १४ ॥

एवं नामरूपे कल्पयित्वा व्यष्टिभावेन स्वयमेव व्यवहरिष्यति ॥ १४ ॥

त्वामातिवाहिकाकारा यत्तत्स्फुरितवान्नवम् ।
जातिर्महातमस्कोऽयमिति तत्राभिधा कृता ॥ १५ ॥

तत्र नवं व्यष्टिभावकल्पने त्वामुद्दिश्य यत् सृष्टिसङ्कल्पेन यद्व्यष्टिभावेन
हिरण्यगर्भो यत् महातमस्कोऽयमिति स्फुरितवान् । तत्तस्माद्धेतोस्तवातिवाहिकाकारा
जातिस्तामसतामसी महातमस्केत्यभिधा कृतेत्यर्थः ॥ १५ ॥

ब्रह्मणे निर्विकारस्य विकारिण इव प्रभो ।
जातयो जीवतापत्तौ कलिता विविधाभिधाः ॥ १६ ॥

नेयमेकैवाभिधा किन्तु ब्रह्मणो जीवभावे तत्तदुपाधिगुणानुसारेण
राजससात्त्विकादयस्त्रयोदशाभिधाः कृता इत्याह - ब्रह्मण इति ॥ १६ ॥

प्राथम्येनैव यद्ब्रह्म जीवतामिव गच्छति ।
तदैव बुद्ध्या भोक्ता तज्जातिः सात्त्विकसात्त्विकी ॥ १७ ॥

तत्र मोक्षशैघ्र्यविलम्बप्रयोजकचित्तगुणदोषैरेव जीवानां जातिभेदकल्पनेति
दर्शयंस्तासु पञ्चजातीर्विभज्य लक्षयति - प्राथम्येनेत्यादिना । यद्यदि कल्पादौ
प्राथम्येनैव जीवतामिव गच्छति ब्रह्मणि तदा तस्मिन्नेव जन्मनि
औत्पत्तिकज्ञानैश्वर्ययुक्तया बुद्ध्या विषयभोक्ता तस्मिन्नेव जन्मनि मुच्यत इति
यावत्तज्जातिः सात्त्विकसात्त्विकी यथा सनकादीनाम् ॥ १७ ॥

वर्तमाने भवे भव्यगुणैर्युक्ता तु मानद ।
केवला सात्त्विकी प्रोक्ता जातिर्जातिविदां वरैः ॥ १८ ॥

कञ्चित्कालं भवे भवहेतावज्ञाने वर्तमाने सति तस्मिन्नेव जन्मनि
ज्ञानैश्वर्यादिभिर्भव्यगुणैर्युक्ता चेद्भूत्वा मुच्यते तदा केवलसात्त्विकी
प्रोक्तेत्यर्थः ॥ १८ ॥

नवा भवैश्चेद्बहुभिर्भोगमोक्षैकभागिनी ।
जातिस्तत्प्रोच्यते तज्ज्ञैः सद्भी राजसराजसी ॥ १९ ॥

या जातिः कल्पादौ नवा अभिनवतयाभिव्यक्तापि बहुभिर्जन्मभिर्भोगेषु भुक्तेषु
क्रमेण मोक्षैकभागिनी चेद्भवति तदा राजसराजसीत्यर्थः ॥ १९ ॥

वर्तमाने भवे भव्यगुणैर्मुक्ता तु मानद ।
केवला राजसी प्रोक्ता जातिः स्वल्पभवे भवेत् ॥ २० ॥

स्वल्पभवे दशपञ्च जन्मोत्तरकालमपि तस्मिन्कल्पे भव्यैर्विवेकादिगुणैर्मुक्ता
रहिता बहुतरजन्मपर।परोत्तरं भव्यगुणान् लभते चेत्केवलराजसीत्यर्थः ॥ २० ॥

प्रथमात्यन्तबहुभिर्भवैश्चेन्मोक्षगामिनी ।
जातिस्तत्प्रोच्यते तज्ज्ञैः सद्भिस्तामसतामसी ॥ २१ ॥

प्रथमा कल्पादिमारभ्य अत्यन्तबहुभिः स्थावरकीटकिरातादिभिरन्ते मोक्षभागिनी
चेत्तामसतामसीत्यर्थः ॥ २१ ॥

सामान्येनैव बहुभिर्जन्मभिर्मोक्षभागिनी ।
केवला तामसी प्रोक्ता जातिर्जातिविशारदैः ॥ २२ ॥

सामान्येनानुत्कृष्टेन रक्षःपिशाचशूद्रादिजन्मभिर्बहुभिर्मोक्षभागिनी
चेत्केवलतामसी ॥ २२ ॥

क्रमेणानेन जातीनां विविधा भेदकल्पना ।
तासां तामसतामस्यां जातौ जातोऽसि मानद ॥ २३ ॥

तासां जातीनां मध्ये त्वं तामसतामस्यां जातौ जातोऽसि ॥ २३ ॥

बहूनि तव जन्मानि समतीतानि तान्यहम् ।
विविधानि विचित्राणि वीर जानामि नो भवान् ॥ २४ ॥

भवान् नो जानाति ॥ २४ ॥

विशेषेण त्वनेनैष व्यर्थं कालोऽतिवाहितः ।
महाशवशरीरेण त्वयानन्तखगामिना ॥ २५ ॥

एवं तामसतामस्या जात्यासि जनितो यदा ।
तदा दुर्लभमोक्षस्त्वं संसारकुहरादिति ॥ २६ ॥

इतिशब्दः प्रश्नोत्तरसमाप्तौ ॥ २६ ॥

सिन्धुर्वदिष्यति ।

आर्योदाहर केनैषा प्राग्जातिर्जीयतेऽधमा ।
यावत्तथैव तिष्ठामि स्याच्चेत्तद्वद पावनम् ॥ २७ ॥

प्राक्तनी अधमा तामसतामसी जीवजातिः केनोपायेन जीयते अभिभूयते । हे आर्य
तमुपायमुदाहर । तत्तादृशं पावनं शोधनं स्याच्चेद्यावद्देहं तथैव
तेनैव त्वदुक्तप्रकारेण तिष्ठामि स्थास्यामि तद्वद ॥ २७ ॥

मन्त्री वदिष्यति ।

न किञ्चन महाबुद्धे तदस्तीह जगत्त्रये ।
यदनुद्वेगिना नाम पौरुषेण न लभ्यते ॥ २८ ॥

पौरुषेण पुरुषप्रयत्नेन ॥ २८ ॥

ह्यस्तनी दुष्क्रियाभ्येति शोभां सत्क्रियया यथा ।
अद्यैव प्राक्तनीं तस्माद्यत्नात्सत्कार्यवान् भव ॥ २९ ॥

अद्यैव सत्क्रियया ह्यस्तनी दुष्क्रिया यथा शोभां शोभनतामभ्येति तथा तस्मादेव
यत्नात्प्राक्तनीं जित्वा सत्कार्यवान् भव ॥ २९ ॥

यो यमर्थं प्रार्थयते तदर्थं यतते तथा ।
सोऽवश्यं तदवाप्नोति न चेच्छ्रान्तो निवर्तते ॥ ३० ॥

ना यथा यतते नित्यं यद्भावयति यन्मयः ।
यादृगिच्छेच्च भवितुं तादृग्भवति नान्यथा ॥ ३१ ॥

ना पुरुषः ॥ ३१ ॥

मुनिरुवाच ।

एवमुक्तः स तेनाथ सिन्धुरुद्धुरया धिया ।
तदा तत्र तथा नाम राष्ट्रं त्यक्ष्यत्यशेषतः ॥ ३२ ॥

तेन मन्त्रिणा एवमुक्तः सन् । उद्धुरया उत्सृष्टराज्यभारया ॥ ३२ ॥

गमिष्यति वनं दूरं प्रार्थितोऽपि हि मन्त्रिभिः ।
नाश्रयिष्यति तद्भूयो राज्यमुच्छिन्नशात्रवम् ॥ ३३ ॥

नाश्रयिष्यति न स्वीकरिष्यति ॥ ३३ ॥

तिष्ठतः साधुमध्येऽस्य तद्विवेककथावशात् ।
पुष्पासङ्गादिवामोदो विवेकः समुदेष्यति ॥ ३४ ॥

पुष्पसङ्गात्तैलादिष्वामोद इव विवेकः समुदेष्यति ॥ ३४ ॥

ततः कथमिदं जन्म कुतः संसार आगतः ।
इत्थं विचारसान्तत्यात्स यास्यति विमुक्तताम् ॥ ३५ ॥

विमुक्ततां जीवन्मुक्तताम् ॥ ३५ ॥

नित्यं विचारणपरोऽथ भवन्स सिन्धुः सत्सङ्गमेन पदमाप्स्यति पावनं
सः ।
तद्यत्र पत्रमिव वातविधूयमानं नो वस्तुतां व्रजति काचन नाम लक्ष्मीः ॥
३६ ॥

स सिन्धुः राजा सत्सङ्गमेन नित्यं विचारणपरः सन् अथ पावनं तत्तादृशं
मोक्षाख्यं पदमेष्यति । यत्र मोक्षपदे काचन हिरण्यगर्भैश्वर्यपर्यन्तापि
लक्ष्मीर्वातविधूयमानं शुष्कपत्रमिव वस्तुतामुपादेयतां नो व्रजति किन्तु
तुच्छैव भवतीत्यर्थः ॥ ३६ ॥

इत्यार्षे श्रीवासिष्ठमहा० वा० दे० मो० नि० उ० अ० वि० शवोपाख्याने सिन्धुनिर्वाणं
नाम सप्तपञ्चाशदधिकशततमः सर्गः ॥ १५७ ॥

इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे निर्वाणप्रकरणे उत्तरार्धे
सिन्धुनिर्वाणं नाम सप्तपञ्चाशदधिकशततमः सर्गः ॥ १५७ ॥