१५६

षट्पञ्चाशदधिकशततमः सर्गः १५६

व्याध उवाच ।

अनन्तरं हे भगवन्वितताकाशवासिनः ।
किं भविष्यति मे तत्र देहेऽधःपातिनि क्षितौ ॥ १ ॥

वायौ स्थितो व्याधजीवः सन्धुर्भूत्वा विदूरथम् ।
हत्वा मन्त्रिमुखाच्छ्रोता स्वतत्त्वमिह वर्ण्यते ॥

कृत्वा देहपरित्यागं जीवः प्राणसमन्वितः । व्योम्नि स्थास्यति ते
तस्मिन्वातात्सूक्ष्मोपि वातवत् इति यदुक्तं तत् श्रुत्वा व्याधस्तदुत्तरं स्वभविष्यं
पृच्छति - अनन्तरमिति ॥ १ ॥

मुनिरुवाच ।

शृणुष्वावहितस्तस्मिन्देहे तव परिक्षते ।
किं भविष्यति भव्यात्मंस्तस्मिन्परमकाम्बरे ॥ २ ॥

परिक्षते नष्टे सति । परमकाम्बरे अव्याकृताकाशे ॥ २ ॥

देहे तस्मिन्परिभ्रष्टे जीवस्तु प्राणसंयुतः ।
भविष्यत्यम्बरे वातलवो व्याततरूपिणि ॥ ३ ॥

तस्मिन्वातलवे चेतो दृश्यं हृत्स्थं स्थितं पुरः ।
अस्फारं द्रक्ष्यति भूपीठं भवान्स्वप्ने जगद्यथा ॥ ४ ॥

तस्मिन्नेव वातलवे ते चेतो हृत्संस्थितं स्वान्तस्थं वासनामयं भूपीठं
तदुपलक्षितं स्फारं जगत् द्रक्ष्यति ॥ ४ ॥

महत्त्वाच्चित्तवृत्तेस्तु जीवो द्रक्ष्यति ते ततः ।
राजाहमस्मि भूपीठ इति सङ्कल्पितार्थभाक् ॥ ५ ॥

चित्तवृत्तेरेव जगदाकारेण महत्त्वात्ते जीवस्तत्र राजाहमस्मीति द्रक्ष्यति ॥ ५ ॥

तत्रास्य सहसैवाशु प्रतिभोदेष्यति स्वयम् ।
अहमस्मि नृपः श्रीमान्सिन्धुर्नाम्नातिमानितः ॥ ६ ॥

अतिशयेन सामन्तैर्मानितः पूजितः ॥ ६ ॥

अष्टवर्षाय मे राज्यं गते पितरि काननम् ।
भुवश्चतुःसमुद्रायाः पित्रा दत्तमुपागतम् ॥ ७ ॥

चतुःसमुद्रान्ताया भुवो राज्यं मे पित्रा दत्तमुपागतम् ॥ ७ ॥

सीमान्ते भूपतिः शत्रुर्विदूरथ इति श्रुतः ।
विद्यते यः प्रयत्नेन विना नाम न जीयते ॥ ८ ॥

यः शत्रुर्विद्यते स प्रयत्नेन विना न जीयते ॥ ८ ॥

इदं मे कुर्वतो राज्यं संवत्सरशतं गतम् ।
अहो भृत्यकलत्रौघैः सह भुक्तं मया सुखम् ॥ ९ ॥

कष्टमेष प्रवृद्धो मे सीमान्तवसुधाधिपः ।
अनेन सह सङ्ग्रामो दारुणः समुपस्थितः ॥ १० ॥

इति चिन्तयतस्तत्र विदूरथमहीभुजा ।
भविष्यति महद्युद्धं चतुरङ्गबलक्षयि ॥ ११ ॥

विदूरथमहीभुजा सह युद्धं भविष्यति ॥ ११ ॥

महता तेन युद्धेन हनिष्यसि विदूरथम् ।
करवाललतालूनजङ्घं त्वं विरथोऽपि सन् ॥ १२ ॥

त्वं विदूरथं हनिष्यसि ॥ १२ ॥

चतुःसागरपर्यन्ते भूतले भूपतिस्ततः ।
भविष्यसि भयाक्रान्तदिक्पालादृतशासनः ॥ १३ ॥

भयाक्रान्तैर्दिक्पालैरप्यादृतं शासनं यस्य ॥ १३ ॥

स त्वं सिन्धुर्भवन्प्राप्तसकलावनिमण्डलः ।
पण्डितैर्मन्त्रिभिः सार्धं करिष्यसि कथा इमाः ॥ १४ ॥

पण्डितैः शास्त्रतत्त्वविद्भिः । इमा वक्ष्यमाणाः ॥ १४ ॥

मन्त्री वदिष्यति ।

अत्याश्चर्यमिदं देव यदेवं स विदूरथः ।
देवेन विजितो युद्धे नीतश्च यमसादनम् ॥ १५ ॥

तत्र तत्त्ववित्कश्चिन्मन्त्री वदिष्यति - अत्याश्चर्यमिति ॥ १५ ॥

त्वं वक्ष्यसि ।

भोः साधो सधनस्यास्य कल्पान्तार्णवरंहसः ।
वैरी विदूरथो राजा किमर्थं वद दुःसहः ॥ १६ ॥

सधनत्वादेव सेनया स्वबाहुबलेन च कल्पान्तार्णवरंहसो मम विदूरथो राजा
किमर्थ केन बलेन दुःसहो जातस्तद्वदेत्यर्थः ॥ १६ ॥

मन्त्री वदिष्यति ।

लीला नामास्य भार्यास्ति तयातितपसार्जिता ।
माता सरस्वतीदेवी जगद्धात्री निरञ्जना ॥ १७ ॥

माता अर्जिता मातृभावेन स्वाधीनीकृतेत्यर्थः ॥ १७ ॥

गृहीतायाः सुतात्वेन सास्या भुवनभाविनी ।
संसाधयति कार्याणि मोक्षादीन्यपि हेलया ॥ १८ ॥

तदेवाह - गृहीताया इति । सा सरस्वती सुतात्वेन गृहीताया अस्या लीलाया
मोक्षादीन्यपि कार्याणि संसाधयति ॥ १८ ॥

वरेण शब्दमात्रेण जगदप्यजगत्क्षणात् ।
करोति सा भवन्नाशे तस्याः कैव कदर्थना ॥ १९ ॥

तस्या भवतां नाशे परिब्भवे कदर्थना क्लेशरूपा अशक्तिः कैव ॥ १९ ॥

सिन्धुर्वदिष्यति ।

त्वया वै युक्तं कथितं यद्येवं तद्विदूरथः ।
अशक्यो जेतुमाश्चर्य एतस्य समरे वधः ॥ २० ॥

युक्तमुपपन्नं कथितम् । यद्येवं तर्हि स विदूरथो जेतुमशक्य एवात एतस्य समरे
वधो यो जातः स आश्च्र्यः असम्भाव्य इत्यर्थः ॥ २० ॥

तदेवं सम्प्रसादेन भगवत्या समन्वितः ।
किमित्यस्मिन्रणे [तस्मिन्नस्मिन् रणे इति सम्बन्धः ।] तस्मिञ्जयं राजा न
लब्धवान् ॥ २१ ॥

मन्त्री वदिष्यति ।

तेन सम्प्रार्थिता देवी सर्वकालमखेदिना ।
मोक्षोऽस्तु मम संसारादिति तामरसेक्षण ॥ २२ ॥

तया तेन [हेतुना ।] विभो तस्य स एवावन्ध्यसंविदा ।
सम्पादितस्तेन [राज्ञा विदूरथेन ।] तदाश्रित आजौ पराजयः ॥ २३ ॥

आवन्ध्यसंविदा सत्यसङ्कल्पया तया देव्या स मोक्ष एव सम्पादितः । तेन स्वत एव
पराजय आश्रितः ॥ २३ ॥

सिन्धुर्वदिष्यति ।

यद्येवं तन्मया देवी सदैवैषा प्रपूज्यते ।
मोक्षं किमिति मे नैषा ददाति परमेश्वरी ॥ २४ ॥

मन्त्री वदिष्यति ।

एषा हि ज्ञप्तिरास्तेऽन्तः सर्वस्य हृदये सदा ।
संविद्रूपा भगवती सैव प्रोक्ता सरस्वती ॥ २५ ॥

ज्ञप्तिः पराख्या वैखर्यन्तसर्वशब्दबीजभूता ॥ २५ ॥

येन येन यथात्मीया प्रार्थ्यते स्वयमेव सा ।
प्रयच्छति तथैवाशु तस्माच्चिदनुभूयते ॥ २६ ॥

आत्मीया स्वात्महिता । तस्मात्प्रदानात्तदीयसत्यसङ्कल्पचिदेव वरफलात्मना
अनुभूयते ॥ २६ ॥

न प्रार्थितैषा भवता मोक्षार्थमरिमर्दन ।
प्रार्थितैव त्वया संविदात्मीया शत्रुशान्तये ॥ २७ ॥

सिन्धुर्वदिष्यति ।

न प्रार्थिता मया कस्मादनेनैषा सरस्वती ।
संविच्छुद्धा मया कस्मात्प्रार्थिता नेह मुक्तये ॥ २८ ॥

मयेव अनेन विदूरथेन राज्यार्थं कस्मान्न सम्प्रार्थिता । मया वा अनेनेव मुक्तये
कस्मान्न प्रार्थितेति इवशब्दाध्याहारेण योज्यम् ॥ २८ ॥

मदाशयगताप्येषा ज्ञप्तिं दत्त्वा सरस्वती ।
मन्मोक्षाय किमित्यङ्ग सद्रूपापि न चेष्टते ॥ २९ ॥

तव स्वेच्छानुसारिप्रवृत्तौ मां प्रति प्रश्नोऽयमयुक्त इत्याशङ्क्य तत्तात्पर्यं
प्रकाशयति - मदाशयेति । आशयश्चित्तं तद्गता मदात्मभूताप्येषा मम
मोक्षेच्छालक्षणां ज्ञप्तिं दत्त्वा साधनसम्पत्तिद्वारेण मन्मोक्षाय कुतो न
चेष्टत इत्याशय इत्यर्थः ॥ २९ ॥

मन्त्री वदिष्यति ।

अशुभः प्राक्तमोऽभ्यासस्तवास्ति रिपुघातिनः ।
तेनैषा मुक्तये नत्वा त्वया न प्रार्थिता विभो ॥ ३० ॥

नत्वा नमस्कृत्य ॥ ३० ॥

यच्चित्तस्तन्मयो जन्तुर्भवतीत्याजगत्स्थितेः ।
आबालमेव संसिद्धं कर्तुं शक्नोति कोऽन्यथा ॥ ३१ ॥

न स्वतन्त्र्येण देवा अनुगृह्णन्ति किन्तु भक्तचित्तानुसारेणैवेत्यर्थे यच्चित्तस्तन्मयो
भवति गुह्यमेतत्सनातनम् इति श्रुतिः प्रमाणमित्याशयेनाह - यच्चित्त इति । न
चैताल्लोकेऽप्यप्रसिद्धमित्याह - आबालमिति ॥ ३१ ॥

यदेव येनामलयामलात्म संवेद्यतेऽभ्यासमयं विदान्तः ।
सर्वोपमर्देन तदेव सोऽङ्ग सदस्त्वसद्वास्तु भवत्यविघ्नम् ॥ ३२ ॥

येन पुरुषेण अमलया विदा ज्ञप्त्या अन्तः स्वचित्ते अमलात्मरूपं यदेव राज्यं
मोक्षोऽन्यद्वा अभ्यासमयं दृढाभ्यासप्रचुरं यदेव कृत्वा संवेद्यते तत्
सत्तदानीं विद्यमानमसत्तद्विलक्षणं वास्तु तदेव सर्वेतरवासनोपमर्देन स
पुरुषः अविघ्नं स्वयमेवावश्यं भवति नान्यः कश्चित्तत्फलभूतोऽस्तीत्यर्थः ॥ ३२

इत्यार्षे श्रीवासिष्ठमहारामायणे वा० दे० मो० नि० उ० अ० श० सिन्धुसम्बोधनं
नाम षट्पञ्चाशदधिकशततमः सर्गः ॥ १५६ ॥

इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे निर्वाणप्रकरणे उत्तरार्धे
सिन्धुसम्बोधनं नाम षट्पञ्चाशदधिकशततमः सर्गः ॥ १५६ ॥