१५५

पञ्चपञ्चाशदधिकशततमः सर्गः १५५

अग्निरुवाच ।

इत्याकर्ण्याथ स व्याधस्तदा तस्मिन्वनान्तरे ।
आसीच्चित्रकृताकार इव विस्मयमन्थरः ॥ १ ॥

व्याधस्य मूढतपसा चिरक्लेशाद्विधेर्वरात् ।
नभोगतिः कार्यवृद्धिर्मृतिश्च मुनिनोच्यते ॥

चित्रकृत आकारः प्रतिमेव विस्मयेन मन्थरो जडीकृतः ॥ १ ॥

न विशश्राम चेतोऽस्य स्वाभ्यासेन विना पदे ।
आसीदुद्भ्रान्त इव स प्रोह्यमान इवार्णवे ॥ २ ॥

न विशश्राम विश्रान्तिं न लेभे ॥ २ ॥

आरूढ इव वा चक्रे चक्रेण तपसा हृतः ।
नक्रेणेव समाक्रान्तः पराक्रम विवर्जितः ॥ ३ ॥

केनचित्सिद्धेन तपसा स्वीयतपोबलेन चक्रेण चक्रवातेन हृत इव ॥ ३ ॥

किमेतत्स्यादुतान्यत्स्यान्निर्वाणमिति संशयात् ।
नाध्यगच्छदसौ शान्तिं मूर्खो यौवनवानिव ॥ ४ ॥

अविद्याकृतमेवेदं दृश्यमित्येव चिन्तयन् ।
अविद्या जगदित्येषा नायाति निपुणं हृदि ॥ ५ ॥

यत इदं जगदविद्यैवेत्यर्थो हृदि नायाति अत इदं जगदविद्याख्यया ब्रह्मशक्त्या
कृतमुत्पादितं सत्यमेवेति चिन्तयन्सन् ॥ ५ ॥

कियदन्तमिदं दृश्यं स्यात्पश्याम्येतदादितः ।
दूरतोर्ध्वप्रमाणेन तपोलब्धशरीरकः ॥ ६ ॥

इदं दृश्यं कियदन्तं कियद्दूरावधिकं स्यादेतत्तपोलब्धशरीरकः सन्नादितः
पृथिवीमारभ्य दूरतया ऊर्ध्वप्रमाणेन देहेन गत्वा पश्यामि द्रक्ष्यामि ॥ ६ ॥

भावाभावात्मनो नित्यमस्यान्ते स्थीयते सुखम् ।
तस्मादाकाशमप्यस्ति यत्र नो तत्र याम्यहम् ॥ ७ ॥

भावाभावात्मनोऽस्य दृश्यस्यान्ते असंसारप्रदेशे नित्यं सुखं स्थीयते स्थास्यते
मया ॥ ७ ॥

इति निर्णीय हृदये मूर्ख एव बभूव सः ।
गतं तादृशमप्युक्तं विनाभ्यासेन भस्मनि ॥ ८ ॥

तादृशमतिविस्तीर्णं सदृष्टान्तोपपत्तिकमपि मुन्युक्तमभ्यासेन विना भस्मनि
हुतमिव वृथा गतमित्यर्थः ॥ ८ ॥

ततस्ततः प्रभृत्येव तेनैव मुनिभिः सह ।
लुब्धकत्वं परित्यज्य तपश्चरितुमुद्यतः ॥ ९ ॥

तेनैव निर्णयेन ॥ ९ ॥

तस्मिञ्जगति तैर्भावैस्तैः समं निवसन्सदा ।
बहून्यब्दसहस्राणि चकार सुमहत्तपः ॥ १० ॥

तैस्तपस्विषु प्रसिद्धैर्भावैर्लक्षणैः ॥ १० ॥

तपः कुर्वन्कदाचित्स पुनः पप्रच्छ तं मुनिम् ।
कदा स्यादात्मविश्रान्तिर्ममेत्याह मुनिस्ततः ॥ ११ ॥

मम निरुपप्लवे आत्मनि विश्रान्तिः कदा स्यादिति पप्रच्छ । ततो मुनिस्तं प्रत्याह ॥ ११ ॥

मुनिरुवाच ।

ज्ञानं तदुपदिष्टं ते जीर्णदार्वल्पकाग्निवत् ।
संस्थितं हृदये किन्तु दाह्यमाक्रम्य नोचितम् ॥ १२ ॥

जीर्णदार्वल्पकाग्निवत् संस्थितमित्युक्त्या जन्मान्तरे उद्बोधमेष्यतीति सूचितम् ।
साम्प्रतं दग्धुमुचितं दाह्यं दग्धुं शक्यमपि दृश्यानर्थमाक्रम्य न
संस्थितम् ॥ १२ ॥

नाभ्यासेन विना ज्ञाने शिवे विश्रान्तवानसि ।
अभ्यासेन तु कालेन भृशं विश्रान्तिमेष्यसि ॥ १३ ॥

कालेन चिरेण ॥ १३ ॥

भविष्यदिदमात्मीयमथाकर्णय निर्णयम् ।
मम वर्णयतः कर्णभूषणं भूतलाद्भुतम् ॥ १४ ॥

भूतले केनापि मनसाप्यसम्भावनादत्यद्भुतम् ॥ १४ ॥

संस्तुतानवबुद्धात्मा ज्ञानसारतयानया ।
दोलायमानसंवित्त्वं न मूर्खो न च पण्डितः ॥ १५ ॥

संस्तुतो ज्ञातुं प्रस्तुतः तया विद्वत्प्रसिद्धया ज्ञानसारतया अनवबुद्धश्चात्मा
येन तथाविधोऽत एव दोलायमानसंवित्त्वम् । असमर्थसमासश्छान्दसः ॥ १५ ॥

अविद्यारूपमाभोगि किम्प्रमाणमिदं जगत् ।
स्यादित्यात्मविकल्पेन तपस्त्वं कर्तुमुद्यतः ॥ १६ ॥

आत्मविकल्पेन स्वमनोरथकल्पनामात्रेण ॥ १६ ॥

इत्थं तपस्त्वया घोरं कार्यं युगशतं पृथु ।
परमेष्ठी ततस्तुष्टस्त्वामुपैष्यति सामरः ॥ १७ ॥

इत्थमनेनैव साम्प्रतं क्रियमाणप्रकारेण । युगशतं व्याधस्य
जीवनासम्भवादर्थादनेकजन्मभिः ॥ १७ ॥

मार्गयिष्यसि तस्य त्वं वरदस्य वरं वर [स्वजातिसिद्धहिंसादिपरित्यागेन
तपःप्रवृत्तत्वाल्लुब्धकस्यैव वरेति सम्बोधनं ।] ।
इदमुद्दामदौरात्म्यान्निजं [नपुंसकत्वमार्षं इदमिति वा पाठः ।]
सन्देहसंशयम् [सन्देहस्य अविद्यारूपमित्यादिनानुपदोक्तस्य सम्यक्
शयः शयनं निवृत्तिरिति यावत् । स यस्मिन्निति सन्देहसंशयस्तथाविधमिति
वरविशेषणम् ।] ॥ १८ ॥

वरदस्य तस्य विधेः सन्निधौ उद्दामदौरात्म्यान्निजं मनोरथकल्पितं वरं
मार्गयिष्यसि । प्रार्थयिष्यसीति यावत् ॥ १८ ॥

देवायं दृश्यरूपेऽस्मिन्दृष्टेऽविद्याभ्रमे सति ।
क्वचिदादर्शवन्नास्ति प्रतिबिम्बमलोज्झितः ॥ १९ ॥

यत्प्रार्थयिष्यसि तच्छृण्वित्याह - देवेति । हे देव विधे अस्मिन् दृश्यरूपे
दृष्टे अविद्याभ्रमे सति आदर्शवत्स्थिते ब्रह्मणि प्रतिबिम्बमलेनोज्झितः प्रदेशो
नास्ति यत्र गतस्य मे निर्विक्षेपस्थितिः स्यादित्यर्थः ॥ १९ ॥

चिद्व्योमदर्पणस्यास्य परमाण्वाकृतेरपि ।
अन्तस्थस्यैव वा यत्र तत्रेदं प्रतिबिम्बति ॥ २० ॥

कुतो नास्ति तत्राह - चिद्व्योमदर्पणस्येति । यतः
परमाण्वाकृतेरप्यन्तःस्थितस्यास्य चिद्व्योमदर्पणस्य यत्र तत्र इदं जगद्रूपं
प्रतिबिम्बति ॥ २० ॥

तस्मात्कियदनन्तं स्यादिदं दृश्यमनर्थकृत् ।
तस्य पारे कियद्वा स्यादाकाशं दृश्यमेव तत् ॥ २१ ॥

हे विधे यस्मात्साविद्यचितेरियं स्थितिस्तस्मादिदमविद्याप्रयुक्तं दृश्यं
कियद्दूरमिदमनर्थकृद्दृश्यं स्यात् । तस्य दृश्यस्य पारे अनन्तं निरविद्यं
ब्रह्म कियद्दूरं वा स्यादाकाशवत् संसारशून्यं ब्रह्म तन्मया
दृश्यमवश्यं गत्वा द्रष्टव्यमेव । आवश्यके कृत्यः ॥ २१ ॥

एवमर्थमहं ज्ञातुमिमं सम्प्रार्थये वरम् ।
शृणु देवेश्वराविघ्नं तच्चैवाशु प्रयच्छ मे ॥ २२ ॥

एवंरूपमर्थं ज्ञातुं प्रत्यक्षमनुभवितुमिमं वक्ष्यमाणं वरं
सम्प्रार्थये ॥ २२ ॥

इयं स्वच्छन्दमृत्युर्मे नीरोगाऽस्तु तनुश्चिरम् ।
गारुडेन च वेगेन संयुता व्योमगामिनी ॥ २३ ॥

इयं मे तनुः स्वच्छन्दमृत्युर्नीरोगा गारुडेन गरुडवेगसदृशेन वेगेन
संयुता व्योमगामिनी चास्तु ॥ २३ ॥

प्रतिनाडीकमेषा तु वृद्धिं गच्छतु योजनम् ।
क्रमेण जगतो बाह्ये भवत्वाकाशरूपिणी ॥ २४ ॥

तु पुनः प्रतिनाडीकं प्रतिक्षणं प्रत्यवयवं च योजनमेषा मे तनुर्वृद्धिं
गच्छतु । कालक्रमेण जगतो लोकत्रयाद्बाह्ये भवतु बहिर्गच्छतु ।
आकाशवद्विशालरूपिणी ॥ २४ ॥

साकाशस्यास्य दृश्यस्य लभेय परमेश्वर ।
अन्तमित्थमनन्तस्य परमोऽस्त्विति मे वरः ॥ २५ ॥

अहं साकाशस्यास्य दृश्यवर्गस्यान्तं लभेय ॥ २५ ॥

इति साधो त्वया प्रोक्ते देवदेवो वरं प्रभुः ।
एवमस्तु तवेत्युक्त्वा यास्यत्यन्तर्धिमीश्वरः ॥ २६ ॥

गते तस्मिन्महादेवे देवैः सह दिवस्पतौ ।
तपसा ते कृशो देहश्चन्द्रकान्तिर्भविष्यति ॥ २७ ॥

महति देवे वेधसि । त्रिमूर्तीनामभेदाद्वा महादेवे । चन्द्रस्य कान्तिरिव कान्तिर्यस्य
तथाविधो भविष्यति ॥ २७ ॥

मामापृच्छन्नमस्कृत्य तस्मिन्नेव क्षणे ततः ।
प्लुतिमेष्यति स व्योम्नि चित्तस्थार्थदिदृक्षया ॥ २८ ॥

स भवान्व्योम्नि तस्मिन्वरप्राप्त्युत्तरक्षण एव ततो
मदाश्रमात्प्लुतिमूर्ध्वमुड्डयनमेष्यति ॥ २८ ॥

द्वितीय इव शीतांशुर्दिव्तीय इव भास्करः ।
द्वितीय इव वौर्वाग्निश्चन्द्रार्कस्पर्धयोत्थितः ॥ २९ ॥

ततो गरुडवेगेन दृश्यस्य नभसस्तथा ।
अन्तं प्राप्तुं वहन्वेगाज्जगतः सरितामिव ॥ ३० ॥

वहन्गच्छन्सन् सरितामन्त इव जगतस्त्रैलोक्यस्यान्ते ते वपुर्वर्धिष्यते इति
परेणान्वयः ॥ ३० ॥

जगतोन्ते ततोऽजस्रं ततो वर्धिष्यते वपुः ।
कल्पान्तमत्तार्णववन्निष्पाराम्बरपूरणम् ॥ ३१ ॥

निष्पारस्याप्यम्बरस्य पूरणं निरवकाशतासम्पादकम् ॥ ३१ ॥

द्रक्ष्यस्यथ महाव्योम्नि वर्धमानो बृहद्वपुः ।
सर्गान्निरर्गलाधारनिरन्तगगनक्रमात् ॥ ३२ ॥

निरर्गलमप्रतिबन्धमेवाधारभूतं यदनन्तं गगनं तस्य क्रमादाक्रमणात् ॥
३२ ॥

परमार्थमहाकाशशून्यतावातचक्रकान् ।
स्वभावद्रवतोद्देशाच्चिदर्णवतरङ्गकान् ॥ ३३ ॥

सर्गानेव विशिनष्टि - परमार्थेत्यादिना । परमार्थमहाकाशस्य
शून्यताप्रयुक्तान्वातचक्रकान्वात्या इव स्थितान् । स्वभावः
अज्ञाततास्वभावस्तल्लक्षणद्रवताया
उद्देशादुत्सेकादाविर्भूतांश्चिदर्णवतरङ्गकान् ॥ ३३ ॥

संविद्घने यथा स्वप्ने पुराद्या भान्ति खात्मकाः ।
तथा तदा तवैष्यन्ति सर्गवर्गा निरर्गलाः ॥ ३४ ॥

एष्यन्ति दृष्टिपथमिति शेषः ॥ ३४ ॥

विस्फुरन्ति महाव्योम्नि पर्णौघाः क्षुभितानिलैः ।
तथा सर्गाननन्तांस्त्वं द्रक्ष्यस्यक्षीणनिश्चयः ॥ ३५ ॥

यथा विस्फुरन्ति तथा विस्फुरितानिति शेषः ॥ ३५ ॥

सभासत्येक्षणरुचां यथा जालं सदप्यसत् ।
जगदात्म तथाकाशसंविदां खे सदप्यसत् ॥ ३६ ॥

यथा सौधस्थस्त्रीजनानां विचित्रवातायनजालेन बहिष्ठनृत्यसभासत्येक्षणं
रोचते नान्यद्येषां तथाविधानां विचित्रं वातायनजालं सदप्यसत्प्रायं तथा
चिदाकाशसंविदां तत्त्वविदां जगदात्मकं वैचित्र्यं तत्र
सदप्यसत्प्रायमेवेत्यर्थः ॥ ३६ ॥

सर्वोर्वीजनदृष्टानां लग्नानामिन्दुमण्डले ।
यादृग्जालं जगत्तादृक्स्थितेऽनन्यत्वमात्मनः ॥ ३७ ॥

सर्वैरुर्वीस्थैर्जनैरिन्दुमण्डलसंलग्नतया दृष्टानां धूमनीहारधूल्यादीनां
जालमिन्दुमण्डलस्थजनदृशा यादृगत्यन्तासत् जगदपि आत्मनः अनन्यत्वं
प्राप्य स्थिते तत्त्वविदि तादृक् अत्यन्तासदेवेत्यर्थः ॥ ३७ ॥

पुनः सर्गः पुनर्व्योम पुनः सर्गः पुनर्नभः ।
इत्येवं पश्यतस्तेऽत्र दीर्घकालः प्रयास्यति ॥ ३८ ॥

अथ दीर्घेण कालेन प्रस्फुरन्सर्गपर्णके ।
उद्वेगमेष्यसि व्योम्नि महामहिमनि स्वयम् ॥ ३९ ॥

प्रस्फुरन् सञ्चरन् । व्योम्न्यव्यक्ताकाशे ॥ ३९ ॥

उद्वेगमेष्यसि ततस्तपसोऽनुभवत्फलम् ।
निर्देक्ष्यसि तदा देहमनन्ताम्बरपूरकम् ॥ ४० ॥

निर्देक्ष्यसि द्रक्ष्यसि वक्ष्यसि च ॥ ४० ॥

किमिदं कुशरीरं मे भारभूतमिव स्थितम् ।
मेर्वादिभूभृतां लक्षमपि यस्मिंस्तृणायते ॥ ४१ ॥

तदेवाह - किमिदमित्यादिना ॥ ४१ ॥

देहो ममाप्रमाणोऽयं व्याप्तं व्योम मयाखिलम् ।
पूरयामि खमद्यापि भावि नैवोपगम्यते ॥ ४२ ॥

अप्रमाणः अपरिमितः । यद्भावि तन्नैव उपगम्यते ज्ञायते ॥ ४२ ॥

अविद्या बत घोरेयमनन्ता च प्रमीयते ।
मीयते न च केनापि ब्रह्मज्ञानं समं विना ॥ ४३ ॥

इयं दृश्यरूपा । प्रमीयते अनुभूयते । मीयते इयत्तया परिच्छिद्यते हिंस्यते वा ॥ ४३

तमिमं सन्त्यजाम्येव देहमाविवृतान्तरम् ।
नानेन किञ्चिदाप्नोमि साधुसच्छास्त्रसङ्गमम् ॥ ४४ ॥

अनेनाति प्रवृद्धदेहेन साधुसच्छास्त्रसङ्गममन्यद्वा मोक्षसाधनं
किञ्चिन्नाप्नोमि ॥ ४४ ॥

अनन्तापारपर्यन्तं निरालम्बाम्बरास्पदम् ।
किं नामेदं शरीरं मे सुदुष्प्रापार्थसङ्गमम् ॥ ४५ ॥

सुदुष्प्रापः आर्याणां तत्त्वविदां सङ्गमो येन ॥ ४५ ॥

इति सञ्चिन्त्य तं देहं धारणां प्राणरेचनीम् ।
कृत्वा त्यक्ष्यसि सम्भुक्तात्फलाच्छुष्कं यथा खगः ॥ ४६ ॥

प्राणं रेचयति शरीराद्बहिर्नयति तच्छीलां धारणां कृत्वा । यथा खगः पक्षी
सम्भुक्तात्फलाद्दाडिमादेः शुष्कं नीरसं बीजत्वगादिभागं त्यजति तद्वत् अ॥ ४६ ॥

कृत्वा देहपरित्यागं जीवः प्राणसमन्वितः ।
व्योम्नि स्थास्यति ते तस्मिन्वातात्सूक्ष्मोऽपि वातवत् ॥ ४७ ॥

छिन्नपक्षो महामेरुरिव देहः पतिष्यति ।
तत्र भूलोकशैलादि सर्वं चूर्णीकरिष्यति ॥ ४८ ॥

तत्र तस्मिन् जगति ॥ ४८ ॥

शुष्का भगवती देहं तत्तदा भक्षयिष्यति ।
समातृमण्डला तेन निर्दोषा भूर्भविष्यति ॥ ४९ ॥

शुष्का नीरक्ता प्राग्वर्णिता समातृमण्डला भगवती काली तद्देहं
प्राग्वर्णितप्रकारेण गणैः सह भक्षयिष्यति ॥ ४९ ॥

इत्यात्मोदन्तमखिलं श्रुतवानसि सुव्रत ।
तपस्तालीवने कृत्वा यथेच्छसि तथा कुरु ॥ ५० ॥

व्याध उवाच ।

अहो नु भगवन्दुःखं परिभोक्तव्यमक्षयम् ।
मया व्यर्थमनर्थाय यदर्थेन दुरर्थितम् ॥ ५१ ॥

इदं भाविस्वदृढसङ्कल्पफलं श्रुत्वा ततो निर्विण्णो व्याधस्तत्परिहारोपायोऽस्ति
वा न वेति पृच्छति - अहो इत्यादिना । यद्यस्माद्धेतोः अर्थेन पुरुषार्थभ्रमेण
दुःखमेवार्थितं सङ्कल्पेन समर्थितम् ॥ ५१ ॥

विद्यते किं विभो काचिद्युक्तिः सैषा स्थितिर्वर ।
अन्यथा भवितव्योऽर्थो यदि नास्ति तदुच्यताम् ॥ ५२ ॥

हे वर श्रेष्ठ भगवन् सैषा भाव्यर्थस्थितिस्त्वयोक्ता । अयं भवितव्योऽर्थो यया
युक्त्यान्यथा स्यात्तथाविधा काचिद्युक्तिर्विद्यते यदि वा नास्ति तत्त्वया उच्यताम् ॥ ५२ ॥

मुनिरुवाच ।

अवश्यम्भवितव्योऽर्थो न कदाचन केनचित् ।
विधातुमन्यथा शक्यस्तन्न क्षरति यत्नतः ॥ ५३ ॥

यतस्तत् इदानिन्तनयत्नतो न क्षरति न नश्यति ॥ ५३ ॥

वामावामशिरःपादविपर्ययविधौ यथा ।
पुंसो न विद्यते शक्तिस्तथा भाव्यन्यथास्थितौ ॥ ५४ ॥

यथा पुंसः स्वदेहेऽपि वामावामभागयोः शिरःपादयोर्वा विपर्ययविधौ
व्यत्यासकरणे शक्तिर्न विद्यते तथा भाव्यर्थानामप्यन्यथास्थितौ स्थापने ॥ ५४ ॥

ज्योतिःशास्त्रार्थविज्ञानैरिह भाव्यर्थवेदनम् ।
भवत्यन्यदपूर्वं तु न किञ्चन कदाचन ॥ ५५ ॥

तस्य परिज्ञानमात्रं तु शास्त्रीयोपायैर्भवति नान्यथात्वमित्याह -
ज्योतिःशास्त्रेति ॥ ५५ ॥

जयन्ति कर्माणि हि वेदनानि यैः प्राकृतैरद्यतनान्युपेत्य ।
शरीरदाहैरपि निर्विकारसंविन्नयैर्ब्रह्मतयैव सुप्तम् ॥ ५६ ॥

तर्हि प्राक्तनदृढसङ्कल्पकर्मणामानन्त्यादनिर्मोक्षप्रसङ्ग इत्याशङ्क्याह

  • जयन्तीति । यैः पुरुषधौरेयैः प्राकृतैः सुकृतैरद्यतनानि
    शमदमादिसाधनान्युपेत्य संविन्नयैर्ब्रह्मसंवित्प्रापकैः
    श्रवणाद्युपायैस्तत्त्वज्ञानं प्राप्य ब्रह्मतयैव सुप्तं न जगद्दर्शनेन
    जागरितं ते पुरुषश्रेष्ठाः प्राक्तनानि सर्वकर्माणि दुःसङ्कल्पवेदनानि
    चात्यन्तदृढतराण्यपि मूलोच्छेदेन जयन्ति नान्ये इत्यर्थः ॥ ५६ ॥

इत्यार्षे श्रीवासिष्ठमहा० वा० दे० मो० नि० उ० अ० वि० श० भाविसम्पत्तिवर्णनं नाम
पञ्चपञ्चाशदधिकशततमः सर्गः ॥ १५५ ॥

इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे निर्वाणप्रकरणे उत्तरार्धे
भाविसम्पत्तिवर्णनं नाम पञ्चपञ्चाशदधिकशततमः सर्गः ॥ १५५ ॥