चतुःपञ्चाशदधिकशततमः सर्गः १५४
मुनिरुवाच ।
इति निर्णीय दृश्येऽस्मिन्स्थितोऽस्मि विगतज्वरः ।
अवीतरागो निराशङ्को निर्वाणो निरहङ्कृतिः ॥ १ ॥
विचारजा निजा जीवन्मुक्तस्थितिरिहोदिता ।
मुनिनाभ्यासहीनस्य व्याधस्य त्वनवस्थितिः ॥
स्वकृतविचारफलं स्वजीवन्मुक्तिस्थितिं मुनिः प्रपञ्चयति - इतीत्यादिना ॥ १ ॥
निराधारो निराधेयो निर्मानो निरुपाश्रयः ।
स्वभावस्थः स्वयं शान्तः सर्गात्मा सर्वथोदितः ॥ २ ॥
निर्मानो विगताभिमानः ॥ २ ॥
यथाप्राप्तस्य कर्तास्मि न कर्तास्मि कदाचन ।
स्वयमेव हि यो व्योम कर्तृता तस्य कीदृशी ॥ ३ ॥
यः स्वयमेव व्योम निष्क्रियं तस्य ॥ ३ ॥
द्यौः क्षमा वायुराकाशं पर्वताः सरितो दिशः ।
इत्येकात्म नभः सर्वं भूतजालैकचिद्वपुः ॥ ४ ॥
एकात्म सत् नभश्चिदाकाशमेव ॥ ४ ॥
शाम्यामि परिनिर्वामि सुखमासे च केवलम् ।
न विधिप्रतिषेधौ मे न मे बाह्यं न मेऽन्तरम् ॥ ५ ॥
इति मे तिष्ठत इह यथासंस्थानसंस्थितेः ।
अद्यायं त्वमनुप्राप्तः काकतालीयवत्पुरः ॥ ६ ॥
हे व्याध अयं त्वमद्यानुप्राप्तः ॥ ६ ॥
ईत् ते सर्वमाख्यातं यथा स्वप्नो यथा वयम् ।
यथा जगद्यथा च त्वं यथा दृश्यमिदं तथा ॥ ७ ॥
एवमनुप्राप्ताय पृच्छते ते इति यथावर्णितप्रकारं सर्वम् । तदेव प्रपञ्चयति ##-
त्वं च यादृग्दृश्यमिदं यथा दृश्यमिदं पुरः ।
यथा भावा यथा ब्रह्म यथेमा जनताः पुरः ॥ ८ ॥
त्वं द्रष्टा च यादृक् । इदं देहेन्द्रियाद्याध्यात्मिकमान्तरं दृश्यं यथा ।
इदं पुरोदृश्यमाधिभौतिकं च दृश्यं यथा । तेषु च
रागद्वेषहानोपादानादिभावा यथा ॥ ८ ॥
एतद्बुद्ध्वा भवाञ्छान्तो मिथ्या लुब्धक लुब्धक ।
शान्तैवैवमियं सत्ता चिन्मात्रव्योमरूपिणी ॥ ९ ॥
हे लुब्धक लुब्धकेत्यादराद्द्विर्वचनम् । भवानेतत्सर्वं मिथ्या इति बुद्ध्वा शान्तो
भवतु । यत इयमात्मसत्ता शान्तैव स्वयं न्निर्वाणा आभाति नाशान्ता ॥ ९ ॥
स्वयमाभाति निर्वाणा नैव वाभाति किञ्चन ।
लुब्धक उवाच ।
एवं चेत्तदहं त्वं च सर्वे वा विबुधादयः ॥ १० ॥
शान्तिस्वरूपमेव दर्शयति - नैवेति । आत्यन्तिकदृश्याभानमेव
तच्छान्तिरित्यर्थः । स्फुटतरस्य नरदेवतिर्यक्स्थावरादेः
स्वप्नप्रायत्वमसम्भावितमिति काक्वा ध्वनयंल्लुब्धक आह - एवं चेदिति ॥ १० ॥
सर्व एव मिथः स्वप्नपुरुषाः सदसन्मयाः ।
मुनिरुवाच ।
एवमेतदिदं सर्वमन्योन्यं स्वप्नवत्स्थितम् ॥ ११ ॥
सन्त एवासन्मयाः स्युरिति शेषः । इष्टापत्त्या मुनिरुत्तरमाह - एवमेतदिति ॥ ११ ॥
अन्योन्यमात्मनि तथा सदसच्चानुभूयते ।
दृश्यं येन यथा बुद्धं तथा तेनानुभूयते ॥ १२ ॥
आत्मनि सत् अन्येष्वसच्च । तथैव सर्वानुभवादित्यर्थः । बोधानुसारिव्यवस्थत्वादपि
तत्तथेत्याह - दृश्यमिति ॥ १२ ॥
नानैकं वस्त्वतोऽनेकं न सन्नासन्न मध्यगम् ।
जाग्रति स्वप्ननगरमिव वेदनमात्रकम् ॥ १३ ॥
यतो नानैकं वस्तु । यथैको घटो
नानाकपालकपालिकातदवयवपरम्परापरमाण्वन्तनानावस्त्वात्मक
एकत्वप्रतीतेरेकवस्त्वात्मकश्च । तत्र नानात्वदर्शिनामेकमसत् । एकत्वदर्शिनां
नानात्वमसत् । उभयदर्शिनामुभयं सदसच्च पाक्षिकम् । तत्त्वविदां तु
वेदनमात्रकमिति नैकमपीत्यनुभवसिद्धमिति भावः । मध्यगं सदसत् ॥ १३ ॥
अदृष्टपूर्वदूरस्थदृश्यमानपुरोपमम् ।
इति ते सर्वमाख्यातं बोधितोऽसि निरन्तरम् ॥ १४ ॥
स्वयं प्राज्ञोऽसि जानासि यथेच्छसि तथा कुरु ।
एवं प्रबोधितस्यापि तव व्याध मते मतिः ॥ १५ ॥
मते स्वामिमते जगत्सत्यत्वभ्रमे एव मतिर्विश्रान्ता परे पदे तु न विश्रान्तेति
परेणान्वयः ॥ १५ ॥
क्षणं प्रबोधविश्रान्ता न विश्रान्ता परे पदे ।
नाभ्यासेन विना बोध एष याति मनोहृदि ॥ १६ ॥
तत्कुतस्तत्राह - नेति । एष बोधोऽभ्यासेन परां परिणतिं विना मनोहृदिं
मनोन्तर्न याति न प्रविशति । यथा अम्बुधारणे कार्ये दारुणि परां
कमण्डल्वाद्याकारां कर्तनादिनिर्मितां परिणतिं विना तदन्तरम्बु न प्रविशति
तद्वदिति परेणान्वयः ॥ १६ ॥
परां परिणतिं प्राज्ञ दारुणीवाम्बुधारणे ।
अभ्यासाद्बोधविश्रान्तौ गुरुशास्त्रैकसेवनात् ।
द्वैताद्वैतदृशोः शान्त्या निर्वाणं चित्तमुच्यते ॥ १७ ॥
अभ्यासेन बोधस्यान्तर्विश्रान्तौ सिद्धायां तच्चित्तमेव निर्वाणमिति
तदनुभविमिरुच्यत इत्याह - अभ्यासादिति ॥ १७ ॥
निर्मानमोहा जितसङ्गदोषा अध्यात्मनित्या विनिवृत्तकामाः ।
द्वन्द्वैर्विमुक्ताः सुखदुःखसञ्ज्ञैर्गच्छन्त्यमूढाः पदमव्ययं तत् ॥
१८ ॥
उक्तेऽर्थे भगवद्वचनसम्मतिं दर्शयति - निर्मानेति । अन्तर्निर्मानमोहाः ।
बहिर्जितसङ्गदोषाः । अन्तर्निर्मानमोहाः । बहिर्जितसङ्गदोषाः ।
अन्तर्बहिश्चाध्यात्मनित्याः । सर्वतः पूर्णानन्दात्मलाभाद्विनिवृत्तकामाः ।
सुखदुःखयोः सम्यग्ज्ञानं सञ्ज्ञा येभ्यस्तथाविधैः प्रियादिद्वन्द्वैर्विमुक्ता
अमूढास्तत्त्वविदस्तद्विष्णोः परमं पदं निर्वाणाख्यं गच्छन्ति ।
अनुभवन्तीत्यर्थः ॥ १८ ॥
इत्यार्षे श्रीवा० वा० दे० मो० निर्वा० उ० अवि० वि० श० यथाभूतार्थवर्णनं नाम
चतुःपञ्चाशदधिकशततमः सर्गः ॥ १५४ ॥
इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे निर्वाणप्रकरणे उत्तरार्धे
यथाभूतार्थवर्णनं नाम चतुःपञ्चाशदधिकशततमः सर्गः ॥ १५४ ॥