त्रिपञ्चाशदधिकशततमः सर्गः १५३
अन्यमुनिरुवाच ।
आवयोश्चरतोस्तस्मिन्वने चिरतरं तपः ।
मृगानुसरणश्रान्तो मृगव्याध उपैष्यति ॥ १ ॥
इह व्याधागमाद्युक्त्या तद्गुरुत्वसमर्थनम् ।
काले विवेकाद्विज्ञानं सर्वैकात्म्यं च वर्ण्यते ॥
तस्मिन् वर्णितगुणे वने ॥ १ ॥
तं त्वं स्वभावपुण्याभिः कथाभिर्बोधयिष्यसि ।
तपस्तत्रैव विपिने स विरक्तश्चरिष्यति ॥ २ ॥
ततस्तपस्विचर्याणामात्मज्ञानबुभुत्सया ।
मध्ये स स्वप्नजिज्ञासुः प्रक्ष्यति स्वप्नसङ्कथाम् ॥ ३ ॥
तपस्विचर्याणामभ्यासाच्छान्तिदान्त्यादिसाधनसम्पत्त्यनन्तरं स व्याध
आत्मज्ञानबुभुत्सया मध्ये तदुपोद्घाततया स्वप्नजिज्ञासुः सन् स्वप्नसङ्कथां
प्रक्ष्यति ॥ ३ ॥
कथयिष्यसि तस्मै त्वमात्मज्ञानमखण्डितम् ।
स्वप्नाख्येन प्रसङ्गेन सोऽतो योग्यो भविष्यति ॥ ४ ॥
ततस्त्वं स्वप्नाख्येन प्रसङ्गेन आत्मज्ञानं कथयिष्यसि ॥ ४ ॥
इत्यनेन प्रकारेण गुरुस्तस्य भविष्यसि ।
तेन तात मयोक्तोऽसि गिरा व्याधगुरो इति ॥ ५ ॥
तेन हेतुना ॥ ५ ॥
इति ते सर्वमाख्यातं यथायं संसृतिभ्रमः ।
यथाहं यादृशश्च त्वमिह यत्ते भविष्यति ॥ ६ ॥
पृष्टस्योत्तरं समाप्य प्राक्तनमुपसंहरति - इतीति ॥ ६ ॥
इति तेनाहमुक्तः सन्विस्मयाकुलया धिया ।
तेन सार्धं विमृश्यैतत्परं विस्मयमागतः ॥ ७ ॥
एतत् दृश्यजातम् ॥ ७ ॥
अथ रात्र्यां व्यतीतायां स प्रभाते महामुनिः ।
तथा सम्पूजितो येन तत्रैव रतिमाप्तवान् ॥ ८ ॥
रतिं प्रीतिम् ॥ ८ ॥
अनन्तरं गृहे तस्मिंस्तस्मिन्ग्रामगृहे तथा ।
स्थितावावां स्थिरमती कृतभावौ परस्परम् ॥ ९ ॥
तस्मिन्वनस्थे गृहे तथा तस्मिन्प्राक्तने ग्रामगृहे च । कृतभावौ बद्धप्रीती ॥ ९ ॥
ततो वहति कालोऽयमृतुसंवत्सरात्मकः ।
स्थितोऽहमागतान्भावांस्त्यजन्गृह्णन्गिरिर्यथा ॥ १० ॥
भावान् अनिष्टेष्टमिश्रान् । गिरिपक्षे दवाग्निवृष्ट्यादीन् ॥ १० ॥
नाभिवाञ्छामि मरणं नाभिवाञ्छामि जीवितम् ।
यथा स्थितोऽस्मि तिष्ठामि तथैव विगतज्वरम् ॥ ११ ॥
ततो विचारितं तत्र तन्मया दृश्यमण्डलम् ।
किं कारणमिदं तु स्यात्किमयं वेत्ति चेतसा ॥ १२ ॥
कोऽयं पदार्थसङ्घातः किं नामैतस्य कारणम् ।
अस्त्यस्मिन्स्वप्नसन्दर्शे चिद्व्योमैकस्वरूपिणि ॥ १३ ॥
एतस्य कारणं निमित्तं किमस्ति ॥ १३ ॥
द्यौः क्षमा वायुराकाशं पर्वताः सरितो दिशः ।
चिन्मात्रनभ एवैते कचन्त्यात्मन्यवस्थितम् ॥ १४ ॥
आत्मनी चिदेकघनस्वभावे अवस्थितं चिन्मातनभ एव ॥१४ ॥
चिच्चन्द्रिकाचतुर्दिक्कमवभासं तनोति यत् ।
तदिदं जगदाभाति चित्रमप्रतिघात्म खे ॥ १५ ॥
खे चिदाकाशे अप्रतिघात्म स्थौल्याभावात्प्रतिघाताऽयोग्यस्वभावम् ॥ १५ ॥
नेमेऽद्रयो न चेयं भूर्नेदं खं नायमप्यहम् ।
चिन्मात्रव्योमकचनमिदमाभाति केवलम् ॥ १६ ॥
नन्वद्र्यादयः सप्रतिघाः कथमप्रतिघाः स्युस्तत्राह - नेम इति ॥ १६ ॥
पदार्थजातस्यास्य स्यात्किं नाम बत कारणम् ।
पिण्डग्रहे हेतुना तु विना कोऽप्यर्थसम्भवः ॥ १७ ॥
यदा चिन्मात्रकचनं तर्हि कारणमेव नास्ति पिण्डग्रहतद्धेत्वोरप्रसिद्धेरित्याह ##-
भ्रान्तिमात्रमिदं चेत्स्याद्भ्रान्तेः किं नाम कारणम् ।
द्रष्टा मन्ता च को भ्रान्तेः कारणं वा क्व कीदृशम् ॥ १८ ॥
तर्हि भ्रान्तिरेवेयमस्त्वित्याशङ्क्य तत्रापि निमित्तद्रष्ट्रादि दुर्वचमित्याह -
भ्रान्तीति ॥ १८ ॥
यस्याहमवसं संविन्मात्रकं हृदयौजसि ।
असौ मया सह गतः किलाशेषेण भस्मसात् ॥ १९ ॥
संविन्मात्रकमहं यस्य देहे प्रविष्टः सन् हृदयौजस्यवसम् असौ प्राणी मया
मद्देहेन सह भस्मसाद्गतः ॥ १९ ॥
तस्मादिदमनाद्यन्तं चिदाभामात्रमम्बरम् ।
अकर्तृकर्मकरणं रूपं चिद्घनमक्रमम् ॥ २० ॥
तस्मात्तद्देहमद्देहादीनामसत्त्वादिदं सर्वं चिदाभामात्रमम्बरमेव ॥ २० ॥
इदं चिद्व्योमकचनं घटावटपटादिकम् ।
स्फुटं कुत इवाकारि घटावटपटाद्यतः ॥ २१ ॥
घटावटपटाद्यत आकारतो भवितुं स्फुटं रूपं कुत इव अकारि । न
कुतश्चिदित्यर्थः ॥ २१ ॥
नापि चिन्मात्रकचनं चिन्मात्रं व्योम केवलम् ।
तस्य किं कचनं कीदृक् कथं कचति किं नभः ॥ २२ ॥
चिन्मात्रकचनमिति बुद्धिरपि राहोः शिर इतिवद्विकल्पमात्रम् ।
षष्ठीतत्पुरुषप्रयोजकयोर्भेदसम्बन्धयोरप्रसिद्धेरित्याशयेनाह - नापीति ॥ २२
॥
अयं फेनश्चिदम्भोधेः किमस्य कचनं नवम् ।
कचत्स्वभाव एवायमनन्तश्चिद्घनः स्थितः ॥ २३ ॥
फेन इव फेनः ॥ २३ ॥
चिन्मात्रकचनं शुद्धं ब्रह्म बृंहितचिद्घनम् ।
इदं जगदिवाभाति क्व दृश्यं द्रष्ट्टता कुतः ॥ २४ ॥
सदैव बृंहितचिद्घनं ब्रह्म ॥ २४ ॥
आद्यन्तवर्जितममेयमनादिमध्यमेकं विभुं [विभुमिति पुंस्त्वमार्षम्
।] विगतकारणकार्यसत्त्वम् ।
सत्तामयं भुवनशैलदिगन्तनानाऽनानात्मकं किमपि चेतनमेव सर्वम् ॥ २५ ॥
कालत आद्यन्तवर्जितं देशतोऽप्यनादिमध्यं वस्तुत एकमत एव विगतकारणं
विगतकार्यं विगततदधीनसत्त्वकं च स्वतःसत्ताप्रधानं स्वसत्तयैव
भुवनादिसत्तानिर्वाहकत्वान्नानाऽनानात्मकमिव किमपि वाङ्मनसागोचरं
यच्चेतनं तदेव सर्वं न तद्व्यतिरिक्तमणुमात्रमप्यस्तीत्यर्थः ॥ २५ ॥
इति श्रीवासिष्ठ० वा० दे० मो० निर्वा० उ० अवि० श० सर्वैकात्म्यप्रतिपादनं नाम
त्रिपञ्चाशदधिकशततमः सर्गः ॥ १५३ ॥
इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे निर्वाणप्रकरणे उत्तरार्धे
सर्वैकात्म्यप्रतिपादनं नाम त्रिपञ्चाशदधिकशततमः सर्गः ॥ १५३ ॥