१५२

द्विपञ्चाशदधिकशततमः सर्गः १५२

मुनिरुवाच ।

इत्युक्त्वा स मुनिस्तत्र तूष्णीं स्वशयने निशि ।
आसीद्विस्मयतश्चाहमथाशं प्रोह्यमानवत् ॥ १ ॥

स्वप्नार्थसत्यताशङ्कां निवार्यान्यमुनिर्मुनेः ।
इह व्याधगुरुत्वस्य हेतूक्तिमुपचक्रमे ॥

अथ अहं वात्ययाप्रोह्यमानवदासम् ॥ १ ॥

ततश्चिरेण कालेन मयोक्तं तस्य सन्मुने ।
एवं स्वप्नो विभो सर्वः सद्रूप इति मे मतिः ॥ २ ॥

सद्रूपो यथार्थः मे मतिरित्युक्त्या असम्भावनया विस्मयो द्योतितः ॥ २ ॥

अन्यमुनिरुवाच ।

सत्सम्भवति यत्रान्यत्तत्रेदं सदिति स्मयः ।
युक्तो यत्र त्वेतदेव सत्ताल्पं तत्र का प्रमा ॥ ३ ॥

यत्र यदि अन्यज्जाग्रद्वस्तु सत् सम्भवति सम्भवेत् तत्र तर्हि इदं स्वप्नादि सदिति स्मयो
विस्मयो युक्तः स्यात् । यत्र तु एतज्जाग्रद्दृश्यमेव सत्तया अल्पं सत्ताल्पं
मिथ्याभूतं तत्र स्वप्ने सत्यतायाः का प्रमा । सुतरां मिथ्यात्वमेवेत्यर्थः ॥ ३ ॥

यथा स्वप्नस्तथैवायमादौ सर्गोऽवभासते ।
पृथ्व्यादिरहितोऽप्येष पृथ्व्यादिभिरवस्थितः ॥ ४ ॥

इत्थमद्यतनात्स्वप्नात्सर्गस्वप्नोऽमलात्मकः ।
शृणु पुष्करपत्रक्ष मुने व्याध महागुरो ॥ ५ ॥

इत्थं परिदृश्यमानादद्यतनादस्मदीयस्वप्नादपि जाग्रत्त्वेन प्रसिद्धः
सर्गस्वप्नः अमलचैतन्यमात्रात्मकः । इयत्यपि सत्ता तस्य दुर्लभेत्यर्थः । हे व्याध
महागुरो हे पुष्करपत्राक्ष मुने अत्रोपपत्तिं शृणु । त्वदपेक्षयापि
मन्दमतेर्व्याधस्य बोधनकाले त्वया उपपादनश्रमो ज्ञास्यते इति द्योतनाय तथा
सम्बोधनम् । पुष्करपत्राक्षेति सम्बोधनतात्पर्य प्रागुक्तमेव ॥ ५ ॥

अद्य दृष्टपदार्थाभ्यां स्वप्नं स्वप्नवतोऽभवत् ।
सर्गस्वप्नस्तु दृष्टार्थ एवादौ खे विराजते ॥ ६ ॥

वक्तुं प्रतिज्ञातामुपपत्तिमाह - अद्येति । अय जाग्रति दृष्टाभ्यां
पदतदर्थाभ्यां बुद्धौ स्वसंस्काराधानात्स्वप्नवतस्तव रात्रौ स्वप्ने
शब्दोऽर्थश्चाभवदिति संस्कारादिसामग्रीसत्त्वात्सत्यः सम्भाव्येतापि ।
सृष्ट्यादिकाले प्रसिद्धः सर्गस्वप्नस्तु प्राग्दृष्टः अर्थो यस्य तथाविध एव खे
चिदाकाशे विराजते । तत्र च चिरप्रलयकालेन व्यवधाने
पूर्वानुभवसंस्कारादेरुच्छिन्नत्वादद्यतनस्वप्नापेक्षयापि तुच्छ एव
सम्भाव्यते न समसत्ताकोऽपीत्युपपत्तिरित्यर्थः ॥ ६ ॥

एवं सत्स्वप्न इत्येव सन्दिग्धमिव वक्षि किम् ।
स्फुटमप्यनुभूतं सत्स्वप्नध्यानोद्यमः कथम् ॥ ७ ॥

एवं जाग्रत्प्रपञ्चस्याधिकमिथ्यात्वे सति स्वप्नो विभो सर्वः सद्रूप इति मे मतिः इति
मतिपदेन सन्दिग्धमिव सूचयन् किं वक्षि । स्फुटमप्यनुभूतं सदिदं
स्वगृहं मदुपदेशाद्यनुभूय पुनः स्वप्नध्याने तवोद्यमः कथं जातः । न
हि स्वप्नदर्शी कश्चित्स्वप्नोऽयं मिथ्येति तदानीं पश्यतीति भावः ॥ ७ ॥

इदमित्थं यदाभोगि स्फुटं स्वप्नजगन्मुने ।
सदेवानुभवत्येव तत्र सन्दिग्धता कथम् ॥ ८ ॥

किं च सदेव जगदनुभवतस्ते असत्त्वसन्देहे बीजमपि नास्तीत्याह - इदमिति ॥ ८ ॥

अथैवंवादिनस्तस्य वाक्यमाक्षिप्तवानहम् ।
पृष्टवान्व्याधगुरुता कासौ मे कथ्यतामिति ॥ ९ ॥

आक्षिप्तवान् प्रश्नान्तरकरणेन निरुद्धवान् ॥ ९ ॥

अन्यमुनिरुवाच ।

श्रूयतामिदमाख्यानमपरं कथयामि ते ।
सङ्क्षेपेण महाप्राज्ञ नास्त्यन्तो विस्तरस्य मे ॥ १० ॥

अस्म्यहं तावदादीर्घतपास्त्वमतिधार्मिकः ।
श्रुत्वेदं मद्वचः सत्यमिहैव रतिमेष्यसि ॥ ११ ॥

अहं यावत्त्वं व्याधगुरुर्भविता तावदिहैवास्मि । हे मुनिनायक त्वमपि इदं
मद्वचः श्रुत्वा इहैव त्वद्गृहे रतिमेष्यसि ॥ ११ ॥

इहस्थं मामिमं त्वं च न त्यक्ष्यसि सपर्यया ।
अहं भवद्भिः सहितो निवत्स्यामीति निश्चयः ॥ १२ ॥

इहस्थं मां च त्वं न त्यक्ष्यसि ॥ १२१ ॥

साधो यातेषु वर्षेषु ततः कतिपयेष्विह ।
सर्वबन्धुविनाशस्ते दुर्भिक्षेण भविष्यति ॥ १३ ॥

मत्तसीमान्तसामन्तविग्रहेण तदैव च ।
सर्वो गृहात्तनुप्राणिर्ग्रामकोऽयं विनङ्क्ष्यति ॥ १४ ॥

वैरवलादिना मत्तानां सीमान्तस्थानां सामन्तानां क्षुद्रभूपानां विग्रहेण
परस्परयुद्धप्रसङ्गेन तनवोऽल्पीभूताः प्राणिनो यत्र तथाविधः सन्नयं
ग्रामको गृहाद्विनङ्क्षयति पलायिष्यति ॥ १४ ॥

ततो दुःखमजानन्तौ चिरमाश्वसितौ मिथः ।
शान्तौ विदितवेद्यत्वात्समौ सर्वार्थनिस्पृहौ ॥ १५ ॥

तदा आवां किं करिष्यावस्तदाह - तत इति द्वाभ्याम् ॥ १५ ॥

इहैवैकत्र कस्मिंश्चित्तरुखण्डकजालके ।
समाचारौ निवत्स्यावः शून्ये चन्द्ररवी यथा ॥ १६ ॥

उत्पत्स्यते त्वरण्येऽस्मिन्कालेन वनमुत्तमम् ।
शालताललताजालवलिताखिलभूतलम् ॥ १७ ॥

अस्मन्निवासादरण्ये उत्तमं वनं वृक्षनिकुरम्बमुत्पत्स्यते । उत्तमत्वमेव
प्रपञ्चयति - शालेत्यादिसार्धेन ॥ १७ ॥

तालीतमालदलताण्डवमण्डिताशं व्याकोशपद्मवनवन्द्यविकासिवृक्षम् ।
कूजच्चकोरचयचारुलतानिकुञ्जमुद्भासि नन्दनमिवागतमन्तरिक्षात् ॥ १८ ॥

व्याकोशैः पद्मवनैरधश्चरणाश्रयणाद्वन्द्या वन्द्यमाना इव पुष्पैर्विकासिनो
वृक्षा यत्र । अन्तरिक्षात्स्वर्गादागतं नन्दनमिव स्थास्नु वनमुत्पत्स्यत इति
पूर्वत्रान्वयः ॥ १८ ॥

इत्यार्षे श्रीवासिष्ठमहा० वा० दे० मो० नि० उ० अ० वि० श० मुनिरात्रिसङ्कथावर्णनं
नाम द्विपञ्चाशदधिकशततमः सर्गः ॥ १५२ ॥

इति मुनिरात्रिस।कथावर्णनं नाम द्विपञ्चाशदधिकशततमः सर्गः ॥ १५२ ॥