१५१

एकपञ्चाशदधिकशततमः सर्गः १५१

अन्यमुनिरुवाच ।

तत्र ते नगरं तानि गृहाणि तरवश्च ते ।
क्षिप्रेण शुष्कतृणवत्सर्वं भस्मत्वमागतम् ॥ १ ॥

दग्धाश्रमतनोर्वह्नेः प्रशमो भस्मनोऽनिलैः ।
वर्ण्यतेऽयं नयस्तस्मात्स्वप्ने जागरितस्थितिः ॥ १ ॥

न केवलमाश्रमादिकमेव किन्तु नगरादि सर्वं भस्मत्वमागतम् ॥ १ ॥

तत्रैवं भस्मतां प्राप्ते सुप्ते ते भवतस्तव ।
तनू तथातिसन्तापविदारितमहाशिले ॥ २ ॥

तथा अतिसन्तापविदारितमहाशिवे तत्राश्रमे भवतो वर्तमानस्य तव सुप्ते ते द्वे तनू
शरीरे एवमुक्तप्रकारेण भस्मतां प्राप्ते इत्यन्वयः ॥ २ ॥

स शशाम शनैर्वह्निर्निःशेषीकृतकाननः ।
परिपीतार्णवोऽगस्त्य इवास्तं समुपाययौ ॥ ३ ॥

परिपीतार्णवोऽगस्त्य इव आदावङ्गारमात्रशेषेण शशाम । ततोऽस्तमदर्शनं
समाययौ ॥ ३ ॥

तस्मिन्नस्तं गते वह्नौ तद्भस्मेद्धं सुशीतलम् ।
दुधाव कणशो वायुरशेषं पुष्पराशिवत् ॥ ४ ॥

आदौ इद्धं पश्चात्सुशीतलम् । वायुर्दुधाव व्यधूनयत् ॥ ४ ॥

ततो न ज्ञायते नासीत्क्वाश्रमः क्व तनू तथा ।
क्व पेटकं बहूनां तत्स्वप्नपूर्जाग्रतो यथा ॥ ५ ॥

बहूनां जनानां पेटकं करण्डभूतं तन्नगरम् ॥ ५ ॥

अभावमुपयाते ते यदैवं भवतस्तनू ।
स्वपतस्ते भ्रमवतः संविदेव विजृम्भते ॥ ६ ॥

तस्मात्क्व तद्गलबिलं विराडात्मा स च क्व ते ।
दग्धो दग्धस्य सौजस्कः सौजस्कस्यैव देहकः ॥ ७ ॥

देहदाहेऽपि तदोजः परिशेषमाशङ्क्याह - सौजस्क इति । ओजःसहितस्यैव तस्य
सुप्तस्य सौजस्क एव देहको दग्धः ॥ ७ ॥

लब्धवानसि नो तस्माद्धेतोर्देहद्वयं मुने ।
अनन्ते स्वप्नसंसारजाग्रतीहावतिष्ठसे ॥ ८ ॥

स्वप्नसंसारात्मके जाग्रत्यवतिष्ठसे ॥ ८ ॥

तदेवं स्वप्न एवायं जाग्रद्भावमुपागतः ।
सर्वे वयमिह स्वप्नपुरुषास्तव सुव्रत ॥ ९ ॥

तथा च जाग्रत्स्वप्नयोर्भेदो नास्तीति यत्प्रागुक्तं तदिदं दर्शितमित्याशयेनाह -
तदेवमिति ॥ ९ ॥

अस्माकं त्वं स्वप्नरस्तव स्वप्ननरा वयम् ।
अयमेव चिदाकाशः सर्वदात्मात्मनि स्थितः ॥ १० ॥

सर्वदा अवस्थात्रयेऽप्यात्मनि अद्वयस्वस्वभावे ॥ १० ॥

ततः प्रभृति सम्पन्नो भवान्स्वप्ननरो भवन् ।
जाग्रत्प्रत्ययवाञ्जाग्रन्नरो गार्हस्थ्यसुस्थितः ॥ ११ ॥

प्राक् स्वप्ननरो भवन्नपि भवांस्ततः प्रभृति जाग्रन्नरः सम्पन्नो गार्हस्थ्ये
सुसंस्थितः ॥ ११ ॥

एतत्ते कथितं सर्वं यथावृत्तमशेषः ।
अनुभूतं सुदृश्यं च ध्यानेनैतच्च पश्यसि ॥ १२ ॥

सन्देहे त्वमपि ध्यानेन एतन्मदुक्तं सर्वं पश्यसि द्रक्ष्यसि । वर्तमानसामीप्ये
वर्तमानवत् ॥ १२ ॥

इत्यादिमध्यरहितोऽयमनन्तरूपः संविद्घनः कचति काञ्चनतापवत्खे ।
तत्फाललोलवपुरात्मनि चिन्मयात्मा सर्गात्मभिर्विकसितैरसितैः सितैश्च ॥ १३ ॥

खे काञ्चनमयस्ताप आतपस्तद्वत् यः कचति तत्फालः स्वकचनशक्त्युत्फालस्तेन
लोलवपुः संश्चिन्मयात्मा आत्मनि दुष्कर्मफलभूतैरसितैः सत्कर्मफलभूतैः
सितैश्चान्मिश्रकर्मफलभूतैर्मिश्रैश्च विकसितैः सर्गात्मभिर्भावैः संविद्घन
एव कचति नान्य इत्यर्थः ॥ १३ ॥

इत्यार्षे श्रीवासिष्ठ० वाल्मी० दे० मो० नि० उ० अवि० वि० श० अभावदर्शनं
नामैकपञ्चाशदधिकशततमः सर्गः ॥ १५१ ॥

इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे निर्वाणप्रकरणे
उत्तरार्धेऽभावदर्शनं नामैकपञ्चाशदधिकशततमः सर्गः ॥ १५१ ॥