१५०

पञ्चाशदधिकशततमः सर्गः १५०

मुनिरुवाच ।

एवम्प्रकारया युक्त्या तेनायं मुनिना तदा ।
तथाहं बोधितो येन गतो विदितवेद्यताम् ॥ १ ॥

तद्वाक्यैः स्वात्मबोधोऽत्र तत्सहस्थितिरात्मनः ।
प्राग्देहगमनाशक्तेः प्रश्ने दाहादि चोच्यते ॥

अयमहं तेन मुनिना एवं प्रागुक्तप्रकारया युक्त्या तथा बोधितो यथा तेन
बोधनेन तदैव विदितवेद्यतां तत्त्वज्ञतां गतः ॥ १ ॥

ततोऽसौ न मया त्यक्तश्चिरप्रार्थनया तया ।
अवसत्तेन तत्रासौ मृतस्यापि तथैव च ॥ २ ॥

चिरप्रार्थनया तया भक्त्या अनुवृत्त्या सेवया तेन विनयादिगुणकदम्बेन च
वशीकृतोऽसौ मृतस्य आत्मविचारशून्यत्वात्प्राङ्मृतप्रायस्यापि मम तत्र
गृहे तथैव अवसत् । तथा चोक्तं वृद्धैः - गच्छतस्तिष्ठतो वापि जाग्रतः
स्वपतोऽपि वा । न विचारपरं चेतो यस्यासौ मृत उच्यते ॥ इति ॥ २ ॥

येनैतन्मुनिना प्रोक्तमिन्दूदयशुभं वचः ।
सोऽयं पश्य मुनिश्रेष्ठस्तव पार्श्वे व्यवस्थितः ॥ ३ ॥

तथाविधो दयालुर्मदुपदेष्टा मुनिरिदानीं त्वत्पार्श्वत एवास्तीति तं दर्शयति -
येनेति ॥ ३ ॥

अनेनोक्तमनुक्तेन ममैतन्मोहघातिना ।
दृश्यपूर्वापरज्ञेन यज्ञेनेवात्तमूर्तिना ॥ ४ ॥

आत्तमूर्तिना धृतशरीरेण यज्ञेन मदीययज्ञादिसुकृतेनेव स्थितेन ॥ ४ ॥

अग्निरुवाच ।

तदाकर्ण्य वचस्तस्य मुनेर्व्याधोऽभवत्तदा ।
प्रत्यक्षः स्वप्नसर्गः किमिति खिन्न इव स्मयात् ॥ ५ ॥

तन्मुनेर्वच आकर्ण्य व्याधः स्वप्नसर्गस्तदुपदेष्टा मुनिरिदानीं मत्प्रत्यक्षः किं
सम्भावित इति असम्भावनया विस्मयात्खिन्न इव अभवत् ॥ ५ ॥

व्याध उवाच ।

अहो महच्चित्रमिदं मुने मनसि दुःसहम् ।
कथितं मेऽद्य भवता भवतापापहारिणा ॥ ६ ॥

असम्भावनामेव सस्पष्टमाह - अहो इति ॥ ६ ॥

यत्स्वप्नकथितस्येयं जाग्रत्प्रत्यक्षतोच्यते ।
लभ्यतेऽपि च तन्नाम वेद चित्रमिदं मुने ॥ ७ ॥

किं तच्चित्रं मया कथितं तदाह - यदिति । स्वप्ने स्वोपदेष्ट्टत्वेन कथितस्य
मुनेरिदानीं जाग्रत्प्रत्यक्षता यदुच्यते मया च प्रत्यक्षमुपलभ्यते तदहं चित्रं
वेदेत्यर्थः ॥ ७ ॥

कथमेष महान्स्वप्नपुरुषः स मुनीश्वर ।
जाग्रत्यपि स्थिरीभूतो भूतो बालमतेरिव ॥ ८ ॥

भूतो वेतालः ॥ ८ ॥

एवमाश्च्र्यमाख्यानमुच्यतां मे यथाक्रमम् ।
कुतः कस्य किमेतद्वा परमो हि स विस्मयः ॥ ९ ॥

एवंविधमाश्चर्यमिदमाख्यानं मे यथाक्रमं सम्पूर्णमुच्यताम् । इदं
स्वाप्नपुरुषस्येदानीं दर्शनं कुतो निमित्तात्कस्य वेदं दर्शनं किं वा स्वप्नो
जाग्रद्वा ॥ ९ ॥

मुनिरुवाच ।

ततः शृणु महाभाग वृत्तं चित्रं किमत्र मे ।
कथयामि समासेन सहसा मां कुरु त्वराम् ॥ १० ॥

अनेनैतत्तदा तत्र वर्णितं बोधनाय मे ।
बुधोऽहमभवं चाशु महतोऽस्य तया गिरा ॥ ११ ॥

अनेन त्वत्पार्श्वस्थेन मुनिना ॥ ११ ॥

तत एतद्गिरा पूर्वं स्वस्वभावः स्मृतो मया ।
अवदातोऽवदातेन नभसेव तपात्यये ॥ १२ ॥

पूर्वः अनादिसिद्धसन्मात्रस्वभावः । तपात्यये माघमासात्यये । हिमात्यय इति यावत्
॥ १२ ॥

अहो नु सोऽहमभवं मुनिरित्युदिताशयम् ।
अहमासं हृदा स्फीतात्स्नातोऽवस्थितविस्मयात् ॥ १३ ॥

ततोमे पूर्वमुनिभावोऽपि स्मृतिभागत इत्याह - अहो इति ।
अवस्थिताद्विस्मयाद्धृदा स्नात इवार्द्रीकृत आसम् ॥ १३ ॥

इमां भोगास्थयावस्थां प्राप्तोऽस्म्यज्ञ इवाध्वगः ।
धावञ्छ्रमार्तिरम्ब्वर्थी व्यर्थया मृगतृष्णया ॥ १४ ॥

तामवस्थामनुशोचति - इमामित्यादिना । श्रमप्रयुक्ता आर्तिर्यस्य
तथाविधोऽध्वगः पुरुषोऽम्ब्वर्थी सन् व्यर्थया मृगतृष्णयेव भोगास्थया
अहमिमामवस्थां प्राप्तोऽस्मि ॥ १४ ॥

कष्टं दृश्योपलम्भेन भ्रान्तिमात्रात्मना सता ।
बालो वेतालकेनेव प्राज्ञोऽपि च्छलितो ह्यहो ॥ १५ ॥

अहो नु चित्रमेतेन मिथ्याँजानेन वल्गता ।
नीतः सर्वार्थशून्येन पदवीं कामिमामहम् ॥ १६ ॥

अथवा यः सोऽहमपि भ्रान्तिमात्रं न सन्मयः ।
तथापि चित्रशतता यन्नामासद्विडम्ब्यते ॥ १७ ॥

अथवा यः सोऽहमिति प्रत्यभिज्ञाविषयस्तत्ताहन्तादिः सोपि भ्रान्तिमात्रम् । तथा च
कस्य चित्रमिति नो वाच्यम् । तथापि यत्साक्षिणा असद्रूपं विडम्ब्यते तत्र चित्रशतता
अस्त्येवेत्यर्थः ॥ १७ ॥

नाहमस्मि [नायमस्मीत्यपि पाठः ।] न चैवेयमिदं नायमपि भ्रमः

चित्रं सर्वमिदं मिथ्या सर्वं च सदिव स्थितम् ॥ १८ ॥

किमिदानीं मया कार्यमिह बन्धभिदान्तरः ।
विद्यते मेऽङ्कुरश्छेद्यं तत्तावत्सन्त्यजाम्यहम् ॥ १९ ॥

बन्धन्न् भिनत्तीति बन्धभित् आन्तरो यो ब्रह्माकारवृत्तिविशेषः सोऽङ्कुरो विद्यते
तदपि छेद्यमेवेति तत्तावत्सन्त्यजामि ॥ १९ ॥

आस्तामेतदविद्यैषा व्यर्थरूपा किमेतया ।
भ्रान्त्या भ्रान्तिरसद्रूपा त्यक्तैवैषा मयाधुना ॥ २० ॥

जगद्भ्रान्तिस्तु अविद्यात्वाद्विद्यावृत्त्यैवोच्छिन्नैवेति न सेदानीं त्याज्येत्याह -
आस्तामिति ॥ २० ॥

उपदेष्टा मुनिरयमेषोऽत्र भ्रान्तिमात्रकम् ।
ब्रह्मैवाहमिवाभाति रूपमेतद्दिवाभ्रवत् ॥ २१ ॥

अयमुपदेष्टा मुनिरपि अहं शिष्य इव ब्रह्मैव तथा आभातीति न
त्यक्तव्यान्तरमस्तीत्यर्थः । दिवा वा दृष्टाभ्रपुरुषवत् ॥ २१ ॥

तदेवं तावदुदितज्ञानं वक्ष्ये महामुनिम् ।
इति सञ्चिन्त्य स मुनिस्तत्र प्रोक्त इदं मया ॥ २२ ॥

उदितं ज्ञानन्न् यस्मात्तं गुरुं महामुनिं एवं वक्ष्यमाणं स्वाभिप्रायं
ज्ञानं वक्ष्ये ॥ २२ ॥

मुनिनायक गच्छामि गच्छरीरमिदं निजम् ।
द्रष्टुं यच्च प्रवृत्तोऽस्मि शरीरं तदपीक्षितुम् ॥ २३ ॥

तत् आश्रमस्थं निजं मुनिशरीरं यच्चेदं प्राणिशरीरं द्रष्टुं प्रवृत्तोऽस्मि
तदपि ईक्षितुं बहिर्गच्छामीत्यर्थः ॥ २३ ॥

इत्याकर्ण्य स मामाह हसन्मुनिवरस्तदा ।
कुतस्तौ भवतो देहौ तौ सुदूरतरं गतौ ॥ २४ ॥

तौ देहौ कुतो भवतः स्तः । यतस्तौ दाहेन भस्मीभावात्सुदूरतरं गताविति भावः ॥
२४ ॥

गच्छात्मनैव वा पश्य वृत्तान्तं वृत्तकोविद ।
पश्य तावद्यथावृत्तं दृष्टान्तं ज्ञास्यसि स्वयम् ॥ २५ ॥

आत्मना स्वयमेव गत्वा तद्वृत्तान्तं पश्य वा ॥ २५ ॥

इति सञ्चिन्त्य तं देहं विदं भूसत्तयाश्मिकम् ।
त्यक्त्वा चिदात्मा तत्प्राणात्पवने योजितो मया ॥ २६ ॥

इति तेनोक्ते सतीति शेषः । अहं तं प्राक्तनं देहं सञ्चिन्त्य तत्र गन्तुकामेन मया
स्वसंविदं स्वाप्नभूसत्तया आस्मिकं पार्थिवशरीरमेवाहमस्मीति कल्पितं रूपं
त्यक्त्वा प्राणोपहितचिदात्मा स्वजीवस्तत्प्राणात् द्वारभूतात्पवनस्कन्धे योजितः ॥ २६ ॥

प्राक्तनं देहमालोक्य यावदायाम्यहं मुने ।
इहैव तावत्स्थातव्यमित्युक्त्वाहं गतोऽनिलम् ॥ २७ ॥

मुनिं प्रति किमुक्त्वा त्वमनिलं प्रविष्टस्तदाह - प्राक्तनमिति । गतः प्रविष्टः ॥
२७ ॥

अथ वातरथारूढो गगनं भ्रान्तवानहम् ।
पुष्पामोद इवानन्तं गत्वा च त्वरया चिरम् ॥ २८ ॥

ततश्चिरमपि भ्रान्त्वा यदा गलबिलं चलन् ।
अहं न प्राप्तवांस्तस्य किञ्चिदस्याशयस्थितः ॥ २९ ॥

ततोऽहं चिरमपि भ्रान्त्वा बहिर्निर्गमनद्वारं तस्य प्राणिनो गलबिलं किञ्चिदन्यदपि
द्वारं न प्राप्तवांस्तदा वाताशयस्थितोऽहं खेदमुपायात इति परेणान्वयः ॥ २९ ॥

तदा खेदमुपायातः परमं पुनरागतः ।
इदमेव जगज्जालमहमालानमात्मनः ॥ ३० ॥

ततः परममिदमेवात्मन आलानं बन्धनस्तम्भभूतं स्वगृहं पुनरागतः
सन्निह इममनुत्तमं मुनिं स्वगुरुमग्रे उपलब्धवानिति प्रेणान्वयः ॥ ३० ॥

इहेमं लब्धवानग्रे ततो मुनिमनुत्तमम् ।
पृष्टवानहमेकाग्रस्तत एवमिदं गृहे ॥ ३१ ॥

इदं वक्ष्यमाणम् ॥ ३१ ॥

किमेतद्भगवन्ब्रूहि पूर्वापरविदांवर ।
त्वं पश्यसि यथावृत्तमुत्तमज्ञानचक्षुषा ॥ ३२ ॥

यस्य देहं प्रविष्टोऽहं स च मद्वपुरेव च ।
क्व तावुभौ गतौ देहौ न लब्धौ केन हेतुना ॥ ३३ ॥

स च प्राणी ॥ ३३ ॥

मयातिचिरमाभोगि भ्रान्तं संसारमन्डलम् ।
स्थावरादाऽऽत्मनः कस्मात्प्राप्तं गलबिलं न तत् ॥ ३४ ॥

आ आत्मन इति च्छेदः । आ स्थावरादात्मन आभोगि विशालं संसारमण्डलं
भ्रान्तमित्यन्वयः ॥ ३४ ॥

गत्वेति पृष्टः स मुनिः समुवाच महाशयः ।
जानासि तत्स्वयं कस्मादिति तामरसेक्षण ॥ ३५ ॥

कुमिवाच तदाह - जानासीति । तत्पूर्वस्वशरीरादिवृत्तं मदुक्तोपायं विना
स्वयं स्वबुद्ध्यैव कस्माज्जानासि । तामरसेक्षणेति
सम्बोधनान्नाक्षिसौन्दर्यमात्रेण तद्द्रष्टुं शक्यमिति सूच्यते ॥ ३५ ॥

एतदालोकयसि चेत्स्वयं योगैकसंविदा ।
तत्पश्यस्येव निःशेषं यथा करतलाम्बुजम् ॥ ३६ ॥

तर्हि तद्दर्शने क उपायस्तत्राह - एतदिति । योगैकाग्रया संविदा आलोकयसि चेत्तत्तर्हि
ज्ञानचक्षुषा एतन्निःशेषं समग्रं पश्यस्येव ॥ ३६ ॥

तथापि यदि शुश्रूषा तवास्ति वचसा मम ।
तदिदं शृणु वक्ष्यामि यथावृत्तमखण्डितम् ॥ ३७ ॥

यदि मद्वचनेनैव श्रोतुमिच्छा न द्रष्टुमिच्छा तर्हि यथावृत्तं वक्ष्यामि
शृणु ॥ ३७ ॥

तपस्तामरसोष्णांशुः कल्याणकमलाकरः ।
ज्ञानाब्जस्य हरेर्नाभिर्नास्ति तावदयं भवान् ॥ ३८ ॥

तत्र स्वजीवतत्त्वं प्रथमं बुध्यस्व ततस्ते पूर्वदेहवृत्तान्तं कथयिष्यामीति
मन्यमानो व्यष्टिजीवभावमिथ्यात्वं समष्टिभावस्यैव सत्यत्वं त्रीणि
रूपाणीत्येव सत्यम् इति श्रुतिदर्शितन्यायमाश्रित्याह - तप इति । भवान् अयं
त्वयानुभूयमानव्यष्टिजीवविशेषरूपो नास्ति । किन्तु सर्वप्राणितपस्तामरसानां
सुकृताब्जानां फलदानेन विकासनेनोष्णांशुः सूर्यभूतः सर्वकल्याणानां
मानुषानन्दादिप्राजापत्यानन्दान्तानां सुखानां कमलाकर इव समष्टिभूतो
हरेर्ज्ञानस्वरूपस्य नाभ्यब्जस्य नाभिः कर्णिका तदधिरूढसर्वजीवसमष्ट्यात्मा
हिरण्यगर्भ एवासि ॥ ३८ ॥

स त्वं कदाचित्तपसि स्थितः स्वप्नदिदृक्षया ।
कस्यचिद्धृदयं जन्तोः प्रविष्टः पुष्टसंविदा ॥ ३९ ॥

तर्हि मम कथं व्यष्टिभावस्तत्रैते भ्रान्तिविशेषाश्चागतास्तत्राह - स त्वमिति ।
व्यष्टिभावस्वप्नदिदृक्षया तषसि मनोराज्यरूपे आलोचने स्थित आश्रमे तापसोऽभूः
। तत्र पुष्ट्या व्यष्टिभावसंविदा परशरीरान्तःस्वप्नादिकौतुकदिदृक्षया
कस्यचिज्जन्तोर्हृदयं प्रविष्टः ॥ ३९ ॥

यत्त्वं प्रविष्टो हृदयं तत्रेदं भुवनत्रयम् ।
दृष्टवानसि विस्तीर्णं रोदसी विपुलोदरम् ॥ ४० ॥

इति त्वयि चिरं व्यग्रे देहस्तस्य तथापि च ।
स संसुप्ताकृतिर्यत्र स्थितस्तत्र महावने ॥ ४१ ॥

इत्यनया रीत्या त्वयि चिरं परशरीरान्तर्गतस्वप्नदर्शनव्यग्रे सति तव देहस्तथा तत्र
महावने सुप्ताकृतिस्त्वत्प्रविष्टः स प्राणी स्थितस्तस्य देहोऽपि च स युष्मदाश्रमो
युष्मदाश्रमकुटीसहितस्तेनाग्निना दग्ध इति दशमश्लोकेनान्वयः ॥ ४१ ॥

लग्नोऽग्निर्धूमधूम्राभ्रसाम्बराम्बरडम्बरः ।
वलद्बलचलालातचक्रसूर्येन्दुमण्डलः [स्फुरद्बल इति पाठो
व्याख्यानुकूलः ।] ॥ ४२ ॥

तत्र महावने अग्निर्लग्नः । तमेवाग्निं वर्णयति - धूमधूम्राभ्रेत्यादिना ।
स्फुरद्भिर्बलाच्चलद्भिरलातचक्रैः सम्पादितानि सूर्यमण्डलानीन्दुमण्डलानि च
येन ॥ ४२ ॥

दग्धाभ्रभस्मसम्पूर्णधूमाभ्रासितकम्बलैः ।
आनीलाकाशदलपैरिव सञ्छादिताम्बरः ॥ ४३ ॥

दग्धाभ्रेषु भस्मसम्पूर्णैर्धूमाभ्रलक्षणैरसितकम्बलैरानीलान्याकाशदलानि
दिश आवरणेन पान्ति तथाविधैः सञ्छादिताम्बरः ॥ ४३ ॥

दरीगृहविनिष्क्रान्तसिंहनिर्ह्रादतर्जितैः ।
स्फुटैश्चटचटास्फोटैर्जडीकृतदिगन्तरः ॥ ४४ ॥

जडीकृतदिगन्तरो बधिरीकृतदिगन्तरालजः ॥ ४४ ॥

तालीतमालमालानां गतानामग्निवृक्षताम् ।
पातैरुत्पातवह्न्यभ्रकवत्करकरैर्घनः ॥ ४५ ॥

सर्वतोऽग्निव्याप्त्या अग्निवृक्षतां गतानां तालीतमालमालानां पातैः
स्फुटतामुत्पातवह्निवदुत्पाताभ्रवच्च कवतां ध्वनतां करकरैः कलकलैर्वनो
निबिडितः ॥ ४५ ॥

दूरदेशगतैर्दृष्टस्थिरसौदामनीधिया ।
द्रवत्कनकनिष्पन्दकुट्टिमं व्योम दर्शयन् ॥ ४६ ॥

व्योमद्रवत्कनकनिष्यन्दलिप्तं कुट्टिममिव कृत्वा प्रदर्शयन् ॥ ४६ ॥

कणैस्तारागणं कान्तैर्व्योम्नि द्विगुणतां नयन् ।
वक्षःस्थबालवनितानयनानन्दनन्दनः ॥ ४७ ॥

कणैर्विस्फुलिङ्गैस्तारागणं द्विगुणतां नयंस्तैरेव कणैर्व्योम्नि वक्षस्थाया
ज्वालालक्षणाया बालवनिताया नयनानन्दनैः कटाक्षैर्नन्दन आनन्दयन् ॥ ४७ ॥

ज्वालाधमधमाशब्दप्रध्मातगगनोदरः ।
दरीगृहविनिष्क्रान्तभ्रान्तोन्निद्रवनेचरः ॥ ४८ ॥

अर्धदग्धद्रवत्सिंहमृगव्याधविहङ्गमः ।
क्वथत्सरःसरित्स्रोतोरन्धितोग्रवनेचरः ॥ ४९ ॥

रन्धिताः पाचिता उग्रा वनेचरा व्याधव्याघ्नादयो जलचराश्च येन ॥ ४९ ॥

वलज्ज्वालाज्वलद्बालचमरीचारुचञ्चुरः ।
दह्यमानवनप्राणिमेदोगन्धावृताम्बुदः ॥ ५० ॥

एन कल्पाग्निकल्पेन वल्गता वनवह्निना ।
सयुष्मदाश्रमो दग्धः सर्पेणेव प्रसर्पता ॥ ५१ ॥

तेन वर्णितप्रकारेण वनवह्निना सयुष्मदाश्रमो युष्मदाश्रमसहितः स ते
देहस्तस्य प्राणिनो देहश्च दग्धः ॥ ५१ ॥

व्याध उवाच ।

तत्र तस्याग्निदाहस्य हेतुः कः प्राकृतो मुने ।
तद्वनं ते बटुवराः सर्वं नष्टं कथं सह ॥ ५२ ॥

को हेतुः प्राकृतः प्रसक्तः । ते बटुवरास्त्वत्प्रविष्टब्रह्मचार्यादिदेहाः । सह
युगपत् सर्वं कथं नष्टम् ॥ ५२ ॥

मुनिरुवाच ।

सङ्कल्पकमनस्पन्दः सङ्कल्पादिक्षयोदये ।
यथा हेतुर्निरास्पन्दोऽचिराद्धि त्रिजगत्तथा ॥ ५३ ॥

सङ्कल्पादिक्षयोदये यथा सङ्कल्पकपुरुषमनःस्पन्दो हेतुस्तथा
त्रिजगत्सङ्कल्पकस्य विधातुरचिरात्प्रवृत्तो मनःस्पन्द एव त्रिजगदिति तत्क्षयोदयेऽपि
तथा तन्मनःस्पन्द एष हेतुरित्यर्थः ॥ ५३ ॥

हृदये च वनान्ते च क्षोभाक्षोभेषु कारणम् ।
यथा स्पन्दोऽचिरात्स्पन्दस्तथा त्रिजगतामिह ॥ ५४ ॥

यथा हृदये भयादिना क्षोभाक्षोमेषु अचिरात्स्पन्दो हेतुस्तथा त्रिजगतां वनान्ते च
क्षोभाक्षोभेषु स एव हेतुरित्यर्थः ॥ ५४ ॥

धातुः सङ्कल्पनगरं जगत्तत्स्पन्दनं त्विह ।
प्रजोदयक्षयक्षोभवर्षावर्षादिकारणम् ॥ ५५ ॥

ब्रह्मादिमानसोऽप्यस्य सोऽप्यन्यत्र चिदम्बरे ।
इत्यपर्यवसानेयं शान्तैका चिन्नभोगतिः ॥ ५६ ॥

अस्य जगतो ब्रह्मादिमानसो मनःसमष्टिहेतुः सोऽप्यन्यत्रान्यमानसे चिदम्बरे
कल्पितः सोऽप्यन्यत्र सोऽप्यन्यत्रेत्येषा मायाशबलस्य चिन्नभसो गतिः
कल्पनापरम्परा अपर्यवसाना । अनवस्थितैवेत्यर्थः ॥ ५६ ॥

चितिनभसि चिन्नभःश्रीः कचतीति निरामया विदुषाम् ।
मूर्खाणां तु यथैषा यादृग्वा तन्मयीह न सत् ॥ ५७ ॥

निष्कृष्टदर्शने तु चितिनभसि चिन्नभःश्रीरेव कचतीति निरामया विदुषां दृष्टिः ।
मूर्खाणां त्वापातदर्शनरूपा एषा दृष्टिर्यादृग्वा भासते तन्मय्येव इह
परमार्थे तु न सत् । अलीकैव सेत्यर्थः ॥ ५७ ॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मी० दे० मो० नि० उ० अ० वि० श० परमोपदेशो
नाम पञ्चाशदधिकशततमः सर्गः ॥ १५० ॥

इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे निर्वाणप्रकरणे उत्तरार्धे
परमोपदेशो नाम पञ्चाशदधिकशततमः सर्गः ॥ १५० ॥