१४९

एकोनपञ्चाशदधिकशततमः सर्गः १४९

व्याध उवाच ।

अनन्तरं मुने ब्रूहि तत्तत्त्वं जागतस्य ते ।
किं वृत्तमुरुवृत्तान्तशतनिर्वाणसंसृतेः ॥ १ ॥

इह तत्स्वप्नवृत्तान्ते गृहागतमुनेर्मुखात् ।
बहूनां तुल्यदुःखादिनिमित्तं श्रुतमीर्यते ॥

हे मुने प्राणिदेहे प्रलयादिभिरुरुवृत्तान्तशतैः सह निर्वाणाः संसृतयोयस्य
तथाविधस्य ते गृहे भार्याबन्ध्वादिसहवासानन्तरं तत्रानुभूयमानस्य
जागतस्य वृत्तान्तस्य सम्बन्धि किं वृत्तं तत्तत्त्वं ब्रूहीत्यन्वयः ॥ १ ॥

मुनिरुवाच ।

ततः शृणु तदा साधो तस्मिंस्तद्धृदयौजसि ।
अपूर्व एव वृत्तान्तः को वृत्तो वृत्तसस्पृह ॥ २ ॥

हे वृत्तसस्पृह हे साधो ततः परं तस्य प्राणिनो हृदयौजसि अपूर्व एव यो
वृत्तान्तो वृत्तस्तं शृणु । य इत्यर्थे क इति प्रयोगः प्रश्नानुवादार्थः ॥ २ ॥

तथा मम च तत्रस्थविस्मृतात्मचमत्कृतेः ।
अभ्यवर्तत वै कालो ऋतुसंवत्सरात्मकः ॥ ३ ॥

कलत्ररञ्जितमतेर्मम वर्षाणि षोडश ।
तत्र तानि व्यतीतानि गृहस्थाश्रमतोऽमतेः ॥ ४ ॥

अमतेः आत्ममननशून्यस्य ॥ ४ ॥

कदाचिच्चाजगामाथ गृहमुग्रतपा मम ।
मुनिर्मान्यो महाबोधो बुधोऽतिथितया तथा ॥ ५ ॥

कदाचिद्बुधो मुनिरतिथितया मम गृहमाजगाम । तथेत्युत्तरान्वयि ॥ ५ ॥

सोऽत्र सम्पूजितस्तुष्टः सुप्तवान्मुक्तवांस्ततः ।
इदमङ्ग मया पृष्टो विमृश्य जनताक्रमम् ॥ ६ ॥

आर्थात् क्रमात्पूर्वं भुक्तवांस्ततः सुप्तवान् । जनता जनसमूहस्तस्याः
समानसुखदुःखागमक्रमं विमृश्य विचिन्त्य ॥ ६ ॥

भगवन्भूरिबोधोऽसि जानासि जगतो गतीः ।
यस्माददृष्टक्रोधोऽसि सुखे गृह्णासि नो रतिम् ॥ ७ ॥

सुखे विषयसुखलवे रतिमासक्तिम् ॥ ७ ॥

सुखदुःखान्युपायान्ति कर्मभिः कर्मशालिनाम् ।
शुभाशुभैः शरत्काले सस्यानीव फलार्थिनाम् ॥ ८ ॥

सममेवाशुभं कर्म किमिमाः सकलाः प्रजाः ।
कुर्वन्त्यासां यदा यान्ति दोषाः सर्वादयः समम् ॥ ९ ॥

आसां जनतानां सर्वान्भक्ष्याभक्ष्यान् आदयन्ति भोजयन्तीति सर्वादयो
दुर्भिक्षादिदोषाः सममेव यदा यान्ति तत्र निमित्तभूतमशुभं कर्म किं
सममेव कुर्वन्ति ॥ ९ ॥

दुर्भिक्षावग्रहोत्पातं सर्वादि सममेव किम् ।
जनजालस्य फलति समाना कस्य दुष्क्रिया ॥ १० ॥

यत्सममेव प्रवर्तते तत्किं कस्य दुष्क्रिया समाना । सर्वेषां
युगपत्तदनुकूलदुष्कर्माचरणाप्रसिद्धेरित्यर्थः ॥ १० ॥

इत्याकर्ण्य समालोक्य स्मयमान इवोन्मनाः ।
स उवाच वचो वन्द्यममृतस्यन्दसुन्दरम् ॥ ११ ॥

स्मयमानो विस्मयवानिवोन्मना ईषद्धसन्निति वा ॥ ११ ॥

अन्यमुनिरुवाच ।

साधो साधु विविक्तान्तःकरणे यत्तु कारणम् ।
सद्वासद्वास्य दृश्यस्य कस्माज्जानासि कथ्यताम् ॥ १२ ॥

नास्य संशयः सर्वसंशयबीजमज्ञानमनिरस्य समाधातुं शक्य इत्यभिप्रेत्य
तदर्थमात्मतत्त्वं दृश्यमिथ्यात्वं च व्युत्पादयितुं स मुनिर्मां पप्रच्छ ##-
यत्कारणं सद्वा असद्वा साधु जानासि तत्कस्माज्जानासि कथ्यताम् । त्वया जानासीति
निर्दिष्टात्प्रमातुः पृथक्कृत्य साक्षिणः शुद्धस्य प्रश्नविषयत्वद्योतनार्थं
कस्मादिति हेतुपञ्चम्या निर्देशः ॥ १२ ॥

संस्मरात्मानमखिलं कस्त्वं क्वेह स्थितोऽसि च ।
क्वाहं वा किमिदं दृश्यं किं सारं किञ्चिदेव च ॥ १३ ॥

तत्र विवेकासामर्थ्यात्तूष्णीम्भूतं मां निरीक्ष्य सः प्राक्तनसर्ववृत्तान्तैः सह
तत्साक्षिणमात्मानं स्मरेत्याह - संस्मरेति । किञ्चित्तुच्छमसारमेव च किम् ॥ १३

स्वप्नमात्रमिदं भाति किल कस्मान्न वेत्सि भो ।
अहं स्वप्ननरो यत्ते त्वं स्वप्नपुरुषोपमः [ममेति पाठः ।] ॥ १४ ॥

असारतामेव प्रकटयति - स्वप्नमात्रमिति । यद्यस्माद्धेतोः ॥ १४ ॥

अनाकारमनाख्येयमनाद्यमपकल्पनम् ।
इदं चिन्मात्रकाचस्य काचकच्यं जगत्स्थितम् ॥ १५ ॥

काचकच्यं कान्तिविशेषः ॥ १५ ॥

रूपमीदृशमेवास्य चिन्मात्रस्यास्त्यकृत्रिमम् ।
सर्वगस्य यदेतद्यद्यत्र वेत्यस्ति तत्र तत् ॥ १६ ॥

तत्राकृत्रिमं चिन्मात्ररूपं स्वाध्यस्ते यथावेदनं सत्त्वादि निर्वाहयतीत्याह -
रूपमिति ॥ १६ ॥

सकारणत्वकलनात्सर्वमस्य सकारणम् ।
अकारणत्वकलनादस्य सर्वमकारणम् ॥ १७ ॥

अत एव सर्ववस्तूनां सकारणकत्वादिवादा अपि तत्कल्पनानुसारेण व्यवस्थिता इत्याह

  • सकारणत्वेति ॥ १७ ॥

आसां प्रजानां त्वस्माकं विराडात्मा स आततः ।
वयं हृदि स्थिता यस्य स चास्मच्चिद्वशादितः ॥ १८ ॥

समष्टिव्यष्टिभावकल्पनाप्यस्माकमस्मच्चिदधीनैवेत्याह - आसामिति । यस्य
प्राणिनो हृदि ओजसि वयं स्थिताः सोऽस्माकं विराडात्मा । स च
अस्मच्चित्कल्पनावशादेव विराड्भावमितः । स्वकल्पनया त्वन्यसाधारणो
व्यष्टिरेवेत्यर्थः ॥ १८ ॥

भविष्यत्यपरोऽन्यासां विराडात्मा स एव च ।
कारणं सुखदुःखानां भावाभावात्मकर्मणाम् ॥ १९ ॥

एतत्प्राणिवदपरोऽपि प्राणी अन्यासां प्रजानां विराडात्मा भविष्यतीति सम्भाव्यते ।
तस्मिंस्तु देहे स एव सुखदुःखादीनां भोक्तृतया कारणं नान्योन्यत्रेति
व्यवस्थितमित्यर्थः । भावाः सम्पदः । अभावा विपदः । कर्माणि
सुकृतदुष्कृतानि तेषाम् ॥ १९ ॥

विराड्धातुविकारेण विषमस्पन्दनादिना ।
तदङ्गावयवस्यास्य जनजालस्य वै समम् ॥ २० ॥

जनानां दुर्भिक्षावग्रहादिसाधारणदुःखे तु यो यस्य स्थूलसमष्टिरूपो विराट्
तदीयधातुविकारभेद एव निमित्तमित्याह - विराडिति द्वाभ्याम् ॥ २० ॥

दुर्भिक्षावग्रहातीतमायाति शममेति वा ।
यस्माद्विराजो या सत्ता सा सर्गस्यास्य सर्गता ॥ २१ ॥

दुर्भिक्षं च अवग्रहश्च अतीतमत्ययः प्रलयश्च एतेषां समाहारो
यथायोगमायाति शममेति वा । तत्कुतस्तत्राह - यस्मादिति ॥ २१ ॥

काकतालीयवत्साधो केषुचिद्दुष्टकर्मसु ।
समं पतति दुःखादि पादपेष्वशनिर्यथा ॥ २२ ॥

तेषां प्राणिनां समानकालपरिपक्वदुष्टकर्मापि तत्रास्त्येवेत्याह - काकतालीयेति
॥ २२ ॥

कर्मकल्पनया संवित् स्वकर्मफलभागिनी ।
कर्मकल्पनयोन्मुक्ता न कर्मफलभागिनी ॥ २३ ॥

तादृशं कर्मापि चितैव प्राक्कल्पितं चेत्सा तत्फलभागिनी नान्यथेत्याह -
कर्मेति ॥ २३ ॥

या या यत्र यथोदेति कल्पनाल्पाथवाधिका ।
सा सा तत्र तथैवास्ते सहेतुकमहेतुकम् ॥ २४ ॥

सहेतुककल्पना सहेतुकमेवास्ते । अहेतुककल्पना त्वहेतुकमेवास्ते ॥ २४ ॥

नास्त्येव स्वप्नमये कारणसहकारि कारणादिपुरे ।
तस्मात्तदनादि शिवं चेतनमजरं परं ब्रह्म ॥ २५ ॥

न च स हेतुकत्वकल्पनामात्रेण स्वप्ने सहेतुकता घटादेरस्तीति
निर्हेतुकजगदसिद्धेश्चिन्मात्रमेव ब्रह्म परमार्थतोऽस्तीत्याह - नास्त्येवेति ॥ २५ ॥

एष स्वप्नभ्रमो नाम भाति कश्चिदकारणम् ।
कश्चित्सकारणो भाति शून्यः सदसदात्मकः ॥ २६ ॥

यतः सदसदात्मकः अत एव शून्यो मिथ्याभूतः ॥ २६ ॥

काकतालीयवद्भान्ति स्वप्नाः सकलसंविदः ।
ताभ्यस्तुल्योपलम्भत्वान्नान्यज्जगदिदं ततम् ॥ २७ ॥

स्वप्नोक्तो न्यायो जाग्रज्जगत्यापि तुल्योपलम्भत्वादेव बोध्य इत्याह - काकातालीयेति ।
चितः स्वप्नाद्वा अन्यन्न ॥ २७ ॥

सकारणतया रूढमिह यत्तत्सकारणम् ।
अकारणतया रूढमिह यत्तदकारणम् ॥ २८ ॥

सकारणत्वाकारणत्वप्रसिद्धिरप्यत्र स्वप्नवदेव व्यवस्थितेत्याह -
सकारणतयेति ॥ २८ ॥

कार्यकारणमयक्रमोदितं स्वप्न एष चितिभानमात्रकम् ।
जाग्रदाख्यमहतः स्वभावकं तेन शान्तमखिलं परं विदुः ॥ २९ ॥

स्वप्ने कार्यकारणमयक्रमोदितं यत्स्वभावकं चितिभानमात्रकमेवेति एष निर्णयो
जाग्रदाख्यस्य महतः स्थूलप्रपञ्चस्यापि तुल्य इति शेषह् । तेन हेतुना अखिलं
शान्तं परमेवेति विदुर्ब्रह्मविद इत्यर्थः ॥ २९ ॥

सत्यकारणका भावाः के ते शृणु महामते ।
कारणं किं स्वभावानां किमिहाकाशकारणम् ॥ ३० ॥

ननु सर्वभावानां सत्यं ब्रह्मैव कारणमस्तु । सत्यकारणकत्वाच्च तेऽपि सत्याः
सन्तु । तथा च कथं सर्व ब्रह्मैव कथं वा सत्याद्वैतं तत्राह -
सत्यकारणका इति । हे महामते अस्यां शङ्कायामुत्तरं तेऽहं वदामि । त्वं
शृणु । के ते भावा आयुष्मतः सत्यकारणका अभिमताः । किं स्वभावानां सत्यं
कारणम् । किं सत्यस्वभावानां सत्यं कारणमुत मिथ्यास्वभावानाम् । किं
सजातीयानामुत विजातीयानाम् । आद्ययोर्ब्रह्मणो ब्रह्मैवोत्पद्येत न जगत् । द्वितीययोर्न
ब्रह्मजस्य सत्यतासिद्धिरित्यकारणत्वमेव फलत इति किं त्वया साधितं स्यात् । किं च
सर्वेषु कल्पेषु पृच्छामः । किमिहाकाशस्य कारणम् ।
आद्यकल्पयोराकाशपदवाच्यतावच्छेदकवैलक्षण्यासिद्धिर्द्वितीययोस्तत्सत्यत्वा##-

पृथ्व्यादेर्घनपिण्डत्वसर्गादेः किं च कारणम् ।
किं कारणमविद्यायाः कारणं किं स्वयम्भुवः ॥ ३१ ॥

अयं न्यायः पृथ्व्यादावपि योज्य इत्याह - पृथ्व्यादेरिति ॥ ३१ ॥

सर्गादौ कारणं किं स्याद्वायूनां तेजसां च किम् ।
किमपां वेदनामात्ररूपाणां गगनात्मकम् ॥ ३२ ॥

वेदनातिरेकेण तत्स्वरूपानिरूपणाद्वेदनामात्ररूपाणां
साधकाभावादेवासिद्धेर्गगनात्मकं शून्यम् ॥ ३२ ॥

पिण्डग्रहे देहलाभे मृतानां किं च कारणम् ।
एवमेव प्रवर्तन्ते सर्गाः प्रथमतोऽखिलाः ॥ ३३ ॥

एवमेव प्रवर्तन्ते जगत्यावलयन्ति च ।
चक्रकाणीव नभसि चिरसम्प्रेक्षणादृशा ॥ ३४ ॥

तस्मात्परिशेषादकारणका भ्रान्तिमात्ररूपा इति सिद्धमित्याह - एवमेवेति ।
चिरसम्प्रेक्षणा चिरकालमनुभवस्तत्प्रयुक्तभ्रान्तिदृशा ॥ ३४ ॥

एवमेव प्रवृत्तेन सर्गेण ब्रह्मरूपिणा ।
पश्चात्यस्वस्यैव रूपस्य सञ्ज्ञाः पृथ्व्यादिकाः कृताः ॥ ३५ ॥

ब्रह्मरूपिणा हिरण्यगर्भाकृतिना पृथ्व्यादिरूपस्य स्वस्यैव
पृथ्व्यादिसञ्ज्ञाः कृताः ॥ ३५ ॥

वातस्पन्दवदाभान्ति सर्गाः पूर्वं चिदम्बरे ।
स्वयमेव च कुर्वन्ति देहकारणकल्पनाः ॥ ३६ ॥

अत एव प्रथमं मनोराज्यवदतिसूक्ष्माश्चिराभ्यासेन स्थूलीभूता
देहकर्मादिकारणकल्पनाः कुर्वन्ति ॥ ३६ ॥

यद्यथा कल्प्यते धत्ते तत्तथा नियतिर्वपुः ।
कल्पितायाश्चितेर्यस्मादेवमेतन्निजं वपुः ॥ ३७ ॥

तत्राद्यकल्पने यद्यथा कल्प्यते तत्तथा वपुर्नियतिः सम्पद्यते । इदं च स्वेन
सङ्कल्पितपदार्थेषु स्वानुभवसिद्धमित्याह - कल्पिताया इति ॥ ३७ ॥

यद्यद्भानात्मकं रूपं प्रथमं चेतितं चिता ।
स्वतोऽहमेव चित्येव तदद्यापि तथा स्थितम् ॥ ३८ ॥

चिता सर्गानुकूलहैरण्यगर्भचिता ॥ ३८ ॥

पुनरन्येन यत्नेन तदुत्कृष्टेन सैव चित् ।
शक्ता तदन्यथाकर्तुं यत्नेन महता पुनः ॥ ३९ ॥

आद्यकल्पनाया अन्यथाभावस्तु महतामपि महद्भिर्यत्नैः कदाचिदेव भवतीत्याह

  • पुनरिति । यथा नन्दिनहुषादेः सुरसर्पादिभावमिति भावः ॥ ३९ ॥

कल्प्यते कारणं यत्र तत्र कारणसारता ।
न कल्प्यते विदा यत्र कारणं तदकारणम् ॥ ४० ॥

क्वचिद्दुग्धादौ दध्यादिभावायातञ्चनकालोष्मादिकारणं कल्प्यते ।
वाय्वादेर्घनद्रवादिभावाय तत्कल्पनमप्यशक्यमित्याह - कल्प्यत इति ॥ ४० ॥

वात्यावर्तवदाभातमिदं प्रथममाततम् ।
असदेव यथा भातं तथैवाद्यापि संस्थितम् ॥ ४१ ॥

तत्र चितः अचित्प्रतिभासो न कार्यं किन्तु ज्ञेयं प्राथमिकत्वात्तु इदानीमप्यनुवर्तत
इत्याह - वात्यावर्तवदिति ॥ ४१ ॥

सम्भूय केचन शुभाशुभमात्मकर्म कुर्वन्ति तस्य सदृशं
फलमाप्नुवन्ति ।
सम्प्राप्नुवन्ति च शिलाशनिवच्च केचिद्दुःखं त्वकारणकमेव
सहस्रसङ्ख्याः ॥ ४२ ॥

यत्तु मया पृष्टं सममेवाशुभं कर्म किमिमाः सकलाः प्रजाः । कुर्वन्ति किम् इति
तस्योत्तरं वदन्नुपसंहरति - सम्भूयेति । केचन जीवाः सम्भूयापि
शुभाशुभं कर्म कुर्वन्ति तस्य फलमपि सम्भूयैव प्राप्नुवन्ति । केचित्तु
कर्तृत्वाभिमानरहितत्वादकर्तारोऽपि सहस्रसङ्ख्या अकारणकमेव दुःखं
सम्प्राप्नुवन्ति जीवन्मुक्ताः । यथा गिरिशिखरशिला
दुष्कृतमकुर्वाणाप्यशनिपातमनुभवति तद्वदित्यर्थः ॥ ४२ ॥

इत्यार्षे श्रीवा०वा० दे० मो० नि० उ० अवि० वि० श० कारणविचारो
नामैकोनपञ्चाशदधिकशततमः सर्गः ॥ १४९ ॥

इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे निर्वाणप्रकरणे उत्तरार्धे
कारणविचारो नामैकोनपञ्चाशदधिकशततमः सर्गः ॥ १४९ ॥