१४८

अष्टचत्वारिंशदधिकशततमः सर्गः १४८

व्याध उवाच ।

एवं चेत्तन्मुनिश्रेष्ठ सत्यतासत्यता कथम् ।
स्थितः स्वप्नदृशा चैष सुमहान्संशयो मम ॥ १ ॥

स्वप्नासत्यत्वसत्यत्वहेतुरत्र निरूप्यते ।
जाग्रत्स्वप्नसुषुप्त्यैक्यं चित्सार्वात्म्यैक्यशुद्धियुक् ॥

यदि वासनानुसारि चिद्वेदनमेव स्वप्नो जाग्रच्च स्वप्नविशेष एवेत्येवं
चेत्सिद्धान्तस्तर्हि कश्चित्स्वप्न उषसि दृष्टगजारोहणादिर्लाभादिफलसूचकत्वात्सत्यः
। अन्यस्तु अरण्यगमनभ्रमणादिः फलादर्शनादसत्य इति स्वप्नदृशौ
सत्यतासत्यते कथमुपपद्येते । एवं हैरण्यगर्भमानोरहितः
सर्गोऽर्थक्रियासमर्थत्वात्सत्यः अस्मदीयस्त्वसत्य इति जाग्रज्जगत्यपि एष संशयः
सुमहान्मम स्थितः । अधिष्ठानचित्सत्यतयाध्यस्ते सत्यता स्वतस्त्वसत्यता
चोभयत्रापि तुल्यैव चेद्वैषम्ये कोहेतुरिति भावः ॥ १ ॥

मुनिरुवाच ।

देशकालक्रियाद्रव्यैर्या संविन्निश्चितोदिता ।
काकतालीयवद्भाति सा सत्यस्वप्ननामिका ॥ २ ॥

या स्वप्नसंवित् स्वप्नेश्वरीसान्निध्यादिदेशे प्रत्यूषादिकाले
देवताराधनतपोव्रतादिक्रियाभिर्हविष्यकुशास्तरणादिद्रव्यैश्च
शास्त्रादिप्रमाणैरवश्यमीदृशस्वप्नस्येदृशं फलं भवत्येवेति निश्चिता
उदेति सा संवित् काकतालीयफलकशकुनादिवदवश्यमुत्तरकाले
फललाभात्सत्यस्वप्ननामिका भवति ॥ २ ॥

मणिमन्त्रौषधिद्रव्यैः क्वचिदव्यभिचारिणी ।
क्वचित्सव्यभिचारा चित्सत्यस्वप्नाभिधा स्मृता ॥ ३ ॥

मणिमन्त्रादिनिमित्तैर्जायमाना तु तद्योग्ये पुरुषे अव्यभिचारिणी अयोग्ये तु
सव्यभिचारापि शास्त्रमर्यादानतिलङ्घनादुभयत्रापि सत्यस्वप्नाभिधैव
स्मृतेत्यर्थः ॥ ३ ॥

सत्यस्वप्नस्थितिर्लोकेष्वीदृग्रूपा यदा स्थिता ।
तदैषा काकतालीयन्यायादन्या न लभ्यते ॥ ४ ॥

तत्रोभयत्रापि काकतालियन्याय एव शरणं न दृष्टं नियामकं
किञ्चिन्नरूपयितुं शक्यमित्याशयेनाह - सत्येति ॥ ४ ॥

यं यं निश्चयमादत्ते संवित्स्वदृढनिश्चया ।
तथा तथा भवत्येषा फलयुक्तस्वभावतः ॥ ५ ॥

हिरण्यगर्भादिसंवित्तु
प्राक्तनोपासनापरिपाकजत्वात्सत्यसङ्कल्परूपदृढनिश्चया सती यं यं
निश्चयमादत्ते तथा तथा भवत्येवेत्याह - यं यमिति ।
प्राक्तनोपासनफलप्रयुक्तस्वभावतः ॥ ५ ॥

तमेव निश्चयं त्वस्या अन्यः प्रतिनिहन्ति चेत् ।
तत्रासौ निश्चयः प्रौढः स कथं लक्ष्यभाग्भवेत् ॥ ६ ॥

सापि अन्यदीयतद्विरुद्धसत्यसङ्कल्पेन कुतो न प्रतिहन्यते तत्राह - तमेवेति ।
तस्यास्तं सर्गादिनिश्चयमन्यः प्रतिनिहन्ति चेत्तत्र प्राक्तनोपासनाकाले प्रौढो
जगत्स्नष्टाहमिति निश्चयः प्रयाणकाल उद्भूतः तद्धैतल्लोकजिदेव
इत्यादिश्रुतिसिद्धस्वलक्ष्यफलभाक् कथं भवेत् । अतस्तदविरोधेनैवान्येषां
सिद्धानां सङ्कल्प उदेति न तद्विरुद्ध इति भावः ॥ ६ ॥

न बहिर्नान्तरे सन्ति पदार्थाः केचन क्वचित् ।
संविदेका जगद्रूपैर्यथेच्छति तथा स्थिता ॥ ७ ॥

तथा च संवित्स्वातन्त्र्यमप्रतिहतमेवेत्याह - नेति ॥ ७ ॥

स्वप्नोऽयं सत्य इत्यन्तर्निश्चयेन तथोदिता ।
तथैवाशु भवत्येषा संशयात्संशयं व्रजेत् ॥ ८ ॥

शास्त्रादिप्रमाणकृतनिश्चयेन । शास्त्रादिप्रमाणसंशयात्तु फलसंशयं
प्राप्नुयात् ॥ ८ ॥

अन्यतोऽपि फलं प्राप्तं अस्वप्नसत्यत्वकल्पनात् ।
स्वप्नेन सूचितमिदं फलमित्येव वेत्त्ययम् ॥ ९ ॥

काकतालीयवदिति यदुक्तं तदुपपादयति - अन्यत इति ॥ ९ ॥

सर्व एव निजया जगत्त्रये संविदातिशयिता दृढा अपि ।
कालतो व्यभिचरन्ति देशतो यत्नतश्च चिरतोऽचिरेण वा ॥ १० ॥

एवं जाग्रत्प्रसिद्धघटादिसंविदोऽपि काकतालीया एव तद्विषयेष्वपि
देशकालभेदेनान्यथाभावदर्शनादित्याह - सर्व एवेति । निजया
तत्तत्पुरुषसंविदा अतिशयिताश्चिरपरिशीलिता अर्थक्रियादिना
दृढीकृतघटादिस्वभावा अपि सर्व एव भावा देशतः कालतश्च
मुद्गरप्रहारादियत्नतश्चान्यथाभावमापद्यमानाः पूर्वनिश्चितं स्वभावं
व्यभिचरन्ति ॥ १० ॥

सर्गादावेव चिद्व्योम भानमप्रतिघं जगत् ।
वस्तुसत्तां चिदेवातो यथेष्टं तनुते तनुः ॥ ११ ॥

चित्तु स्वस्वभावं न व्यभिचरतीत्यव्यभिचार्यप्रतिघस्वभावा सैव सत्या
असत्यसप्रतिघजगद्वेषं धत्त इति राद्धान्त इत्याह - सर्गादाविति ॥ ११ ॥

चिन्मात्रं वर्जयित्वैकं ब्रह्मान्यत्सर्वदाखिलम् ।
विद्धि सत्यमसत्यं च नियतानियतं स्थितम् ॥ १२ ॥

अत एव चिन्मात्रं सत्यैकनियतमन्यत्त्वनियतसत्त्वमित्याह - चिन्मात्रमिति ॥ १२ ॥

यस्माद्ब्रह्मैव सर्वात्म सदेकमेव नेतरत् ।
तस्मात्किं नाम तत्सत्यं किमसत्यं च वा भवेत् ॥ १३ ॥

यस्मात्सद्ब्रह्मैकमेव सर्वात्मकं तस्मात्तदतिरिक्तं सत्यमसत्यं वा किं भावयेत्
। न किञ्चिदित्यर्थः ॥ १३ ॥

अतः स्वप्नः क्वचित्सत्यः क्वचिच्चासत्य एव वा ।
अबुद्धानां प्रबुद्धानां नासद्रूपो न सन्मयः ॥ १४ ॥

एवं विचारे स्वप्नोऽपि क्वचित्कदाचित्सत्यः क्वचित्त्कदाचिदसत्योऽपि संविदात्मना
सत्यस्तदन्यरूपेणासत्यश्चेत्याह - अत इति ॥ १४ ॥

संविद्भ्रान्तिरियं भाति जगन्नाम्नी स्वरूपिणी ।
स्वयं च भ्रान्तिरस्मीति वादिनी कात्र निश्चिता ॥ १५ ॥

स्वरूपिणी आकारवती । निश्चिता यथार्था ॥ १५ ॥

चितिरेव चिरायेदं चित्तं चिमचिमायते ।
यदात्मन्येव सलिलं द्रववत्तदिदं जगत् ॥ १६ ॥

चित्तं भूत्वेति शेषः । यच्चिमचिमायते साभासं स्पन्दते तदेवेदं जगत् ॥ १६ ॥

यथा स्वप्नं समालोक्य सुषुप्तमनुभूयते ।
तथा जाग्रत्समालोक्य निद्रा समनुभूयते ॥ १७ ॥

जाग्रत्स्वप्नसुषुप्तयो घनेषद्द्रुतघृतवदभिन्ना एवेत्युपपादयितुं भूमिकां
रचयति - यथेति । निद्रा स्वप्नः ॥ १७ ॥

अतस्त्वं जाग्रदेवेदं स्वप्नं विद्धि महामते ।
स्वप्नं च विद्धि जाग्रत्त्वमेकमेतदजं द्वयम् ॥ १८ ॥

अस्त्वेवं किं ततस्तत्राह - अत इति । यथा घनं
घृतमेवेषद्विलीनमीषद्विलीनमेव पुनर्धनतामापद्यत इति घृताभेदः
प्रत्यभिज्ञानात्तद्वदित्यर्थः ॥ १८ ॥

व्योमैवाचेत्यचिन्मात्रभानमेकमिदं ततम् ।
जाग्रत्स्वप्नसुषुप्त्याख्याः पर्यायरचना इह ॥ १९ ॥

एवं चाविद्यावृतचिन्मात्ररूपा सुषुप्तिरेवैका घृतवत्सर्वदा द्रष्टव्या । तस्या एव
सर्वे नामरूपभेदाः पर्यायरचना इतिफलितमित्याह - व्योमैवेति ॥ १९ ॥

नेह नामास्ति नियतिर्न चानियतिरस्ति च ।
नियत्यनियती ब्रूहि कीदृशे स्वप्नसंविदि ॥ २० ॥

स्वप्नादेः फलनियत्यनियती अपि न ततः पृथक् स्त इत्याह - नेहेति । मिथ्यात्वादपि ते
पृथङ् न स्त इत्याह - नियत्यनियती इति ॥ २० ॥

यावद्भानं किल स्वप्ने तावत्सैव नियन्त्रणा ।
स एव संविद्भानस्य कुर्यान्नियमनं मुनिः ॥ २१ ॥

अज्ञानावृता चिदनियन्त्रिता जाग्रत्स्वप्नौ । श्रमादिनिमित्तनियन्त्रिता सुषुप्तिः ।
प्रयत्ननियन्त्रिता तु समाधिः । अज्ञाननाशे सैव मुक्तिः । एवं सति जाग्रन्निरोधेन
मनोव्यापारमात्ररूपे स्वप्ने यावत्कालं भानं तावत्सैव चितो
बाह्यप्रवृत्तिनियन्त्रणाशोकान्तरम् । यावच्च संविद्भानस्य नियन्त्रणा
तावत्सुषुप्तौ स आत्मैव सर्वशोकान्तरम् । एवं ज्ञात्वा
मुनिर्विशोकसमाधिसुखविश्रान्त्यर्थी नियमनमेव कुर्यादित्यर्थः ॥ २१ ॥

स्वच्छन्दं वातलेखायाः स्फुरन्त्याः संविदस्तथा ।
अकारणकमेवाङ्ग नियतिः केव कीदृशी ॥ २२ ॥

ननु न संविन्नियन्तुं शक्या तस्य वातलेखाया इव
स्वप्नाद्याकारस्फुरणनियतेरित्याशङ्क्याह - स्वच्छन्दमिति । न
तावद्विषयाकारस्फुरणं संविदः स्वभावः । सुषुप्तावदर्शनात् । न च स्वप्ने
तथा स्फुरणे कारणान्तरं निरूपयितुं शक्यम् यन्निबन्धना नियतिः स्यादिति का
नियतिः कीदृशी वेत्यर्थः ॥ २२ ॥

अथाकारादि यन्नाम कल्प्यते कारणं विदः ।
तदकारणकं सर्गः स्यादनन्यन्न वै चितेः ॥ २३ ॥

ननु बाह्यघटपटाद्याकार एव स्वसम्बन्धे संविदः स्वाकारतायां कारणं
कल्प्यते तत्राह - अथेति । भवेदेवं यदि सर्गे किञ्चिदन्यत्कारणं निरूपयितुं
शक्येत । यदा तु प्रागुक्तयुक्तेः सर्गः अकारणकस्तदा चितेरनन्यदाकारादि चितेः
कारणं न स्यादेवेत्यर्थः ॥ २३ ॥

एतावत्येव नियतिरत्र यन्नाम यद्यथा ।
यावत्प्रस्फुरितं भानं तत्तथा न तदन्यथा ॥ २४ ॥

तर्हि किं सर्वापि नियतिर्भग्ना नेत्याह - एतावत्येवेति । या चितिर्यदा यथा स्फुरति
तद्वस्तु तदा तथा पारमार्थिकं व्यावहारिकं प्रातिभासिकं वेति
नियतिर्यावद्व्यवहारमस्त्येवेत्यर्थः ॥ २४ ॥

कदाचित्सत्यता स्वप्ने कदाचिच्चाप्यसत्यता ।
अभावान्नियतेरेव काकतालीयमेव तत् ॥ २५ ॥

स्वप्नसत्यतानियतिस्तु यथाशास्त्रत्वेन सर्वत्रेति काकतालीयवदित्युक्तमेवेत्याह -
कदाचिदिति ॥ २५ ॥

यत्स्वेनैवात्मना भाति मणिमन्त्रौषधात्मना ।
यन्नाम नियतं तत्तु जाग्रत्यपि हि दृश्यते ॥ २६ ॥

मणिमन्त्रौषधात्मना प्रयुक्तसत्यतानियतिस्तु जाग्रत्प्रत्ययेऽपि समेत्याह - यदिति ॥
२६ ॥

जाग्रत्स्वप्नश्च चिद्भानमात्रमेवान्यतात्र का ।
जाग्रति स्वप्ननगरे वेदनात्सदृशात्मकम् ॥ २७ ॥

अत एव जाग्रत्स्वप्नयोश्चिन्मात्रत्वादभेद उक्त इत्याह - जाग्रदिति ।
तयोर्वेद्यस्वरूपन्न् वेदनस्वरूपं वानुभवतस्तुल्यमेवेत्याह - जाग्रतीति ॥ २७ ॥

जाग्रन्न सम्भवत्येव यज्जाग्रदिति शब्दितम् ।
स्वप्न एव जगद्रूपं निर्निद्रस्यैव चात्मनः ॥ २८ ॥

अत एव निर्निद्र आत्मनि द्वयोरपि व्यभिचारादसत्त्वमेवेत्याह - जाग्रदिति द्वाभ्याम् ॥
२८ ॥

स्वप्नो वा नाम नास्त्येव यः स्वप्न इव शब्दितः ।
सुप्तासुप्तैकरूपस्य ब्रह्मणो बोधरूपता ॥ २९ ॥

जाग्रत्स्वप्नादयो वैते न केचन कदाचन ।
दृश्यं पश्यति सत्ताशु मृतिभ्रान्तेरनन्तरम् ॥ ३० ॥

एवं सति निर्निद्रस्य सुषुप्तिरपि नास्त्येवेत्याशयेनाह - जाग्रदिति ।
एवमात्यन्तिकदृश्यादर्शनरूपा आत्मोच्छेदादिरूपा वा मृतिरपि नास्त्येवेत्याह ##-

यथानवरतं कालमनन्तं सीकरोर्मयः ।
त एवान्यवदभ्राशावदनन्याः स्फुरन्त्यलम् ॥ ३१ ॥

अभ्रवत् दिग्भ्रमे आशा दिशस्तद्वच्च अनन्यास्त एव अन्यवत्स्फुरन्ति । अनन्या इति
बहुव्रीहिः ॥ ३१ ॥

तथानन्ये परे सर्गाः स्फुरन्त्यस्फुरिता अपि ।
शिलाकोशान्तलेखावज्जाग्रत्स्वापादि तत्र किम् ॥ ३२ ॥

जाग्रत्स्वप्नसुषुप्ततुर्यकवपुः साकारतावर्जितं सर्वाकारमपि व्यतीतकलनं
सर्गं शरीरं दधत् ।
व्याप्तं चिद्वपुषा तथापि सुषिरं शून्येन दृश्यात्मना चिन्मात्रं खमिदं
मनागपि नभोमात्रान्न भिन्नं पुनः ॥ ३३ ॥

इदमात्मस्वरूपं जाग्रत्स्वप्नसुषुप्तवपुस्तद्विरुद्धतुर्यकवपुश्च तथा
साकारतावर्जितं सर्वाकारमपि व्यतीतकालकलनं सर्गात्मककालपरिच्छिन्नशरीरं
दधदपि शून्येनैवानेन चिद्वपुषा शून्येनैव दृश्यात्मना खात्मकमेव
सुषिरं शून्यं व्याप्तं तथापि पुनरिदं चिन्मात्रं खमाकाशात्मकं
नभोमात्राद्रूपान्मनागपि भिन्नं नेत्यर्थः ॥ ३३ ॥

साकाशानिलवह्निवारिधरणीलोकान्तराम्भोधरं सर्गादावपि
कारणाननुभवाच्चित्तात्मकं केवलम् ।
नाम्ना वर्जितमेव बोधवपुषा संयुक्तमेवान्ततः शुद्धं वेदनमात्रमेव
सकलं दृश्यं न वस्त्वन्तरम् ॥ ३४ ॥

किं च सकलमाकाशादिभूतभौतिकसहितं दृश्यं जगत्सर्गादावपि
कारणस्यान्यस्य प्रमाणैरननुभवात्केवलं हैरण्यगर्भचित्तात्मकम् । तथा च
चित्तात्मकस्य मनोराज्यगतस्य नामरूपाभावान्नाम्ना वर्जितमेव । बोधवपुषा
मनःसाक्षिणा संयुक्तमेव । अन्ततो मनोविलये शुद्धं वेदनमात्रमेव न
वस्त्वन्तरमित्यर्थः ॥ ३४ ॥

इत्यार्षे श्रीवा० वाल्मी० दे० मो० निर्वा० उ० अवि० वि० श० स्वप्ननिर्णयो
नामाष्टचत्वारिंशदधिकशततमः सर्गः ॥ १४८ ॥

इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे निर्वाणप्रकरणे उत्तरार्धे
स्वप्ननिर्णयो नामाष्टचत्वारिंशदधिकशततमः सर्गः ॥ १४८ ॥