१४७

सप्तचत्वारिंशदधिकशततमः सर्गः १४७

मुनिरुवाच ।

अनन्तरं महाबाहो सुषुप्तान्निर्गतस्य मे ।
स्वप्ने जगद्दृश्यमिदं सागरादिव निर्गतम् ॥ १ ॥

सुषुप्तादत्र दृष्टान्तैः स्वप्ननिर्गमनक्रमः ।
तत्र पूर्वकुटुम्बादिवीक्षातत्त्वं च वर्ण्यते ॥

सागरात्तरङ्गमणिमुक्तादिकमिव निर्गतम् । अत्र सर्वत्र सम्भवे उपमा असम्भवे
उत्प्रेक्षा बोध्याः ॥ १ ॥

आकाशाङ्गादिवोत्कीर्णमुत्कीर्णमवनेरिव ।
उत्कीर्णमिव वा चित्तादुत्कीर्णमिव वा दृशः ॥ २ ॥

उत्कीर्णं टङ्कच्छेदादिना शिलाप्रतिमावत्प्रकटितम् ॥ २ ॥

प्रफुल्लमिव वृक्षेभ्यः सर्गः पूर्वमिवोत्थितः ।
तरङ्गजालं रोधोऽब्धेरिव वा कचनं दृशाम् ॥ ३ ॥

पूर्वमुत्थितः पूर्वसिद्ध एव न तदानीमुत्पन्न इति भात इत्यर्थः । रोधः कूलं
तत्सन्निहितादब्धेस्तरङ्गजालमिव । दृशां नेत्राणां
केशोण्ड्रकद्विचन्द्रादिभावेन कचनमिव वा ॥ ३ ॥

नभस्तलादिवायां ककुब्भ्य इव चागतम् ।
पर्वतेभ्य इवोत्कीर्णं भूमेरिव समुत्थितम् ॥ ४ ॥

बूउमेः समुत्थितं कुड्यवल्मीकादीव ॥ ४ ॥

हृदयादिव निष्क्रान्तं सम्प्रविष्टमिवाम्बुदैः ।
प्रसूतमिव वृक्षेभ्यो जातं वा सस्यवद्बुवः ॥ ५ ॥

अम्बुदैर्नभसि सम्प्रविष्टमिव सस्यवद्विरूपपरिणामेन ॥ ५ ॥

अङ्गेभ्य इव निर्यातं समुत्कीर्णमिवेन्द्रियैः ।
पटादिव प्रकटितं मन्दिरादिव निर्गतम् ॥ ६ ॥

टङ्कस्थानीयैरिन्द्रियैर्दिक्षु समुत्कीर्णं उल्लेखनेन निष्पादितमिव प्रसारितमिव वा ।
पटात्प्रकटितं चित्रमिव ॥ ६ ॥

कुतोऽप्यागत्य पतितमुड्डीय गगनादिव ।
उपायनं परे लोके गृहीतमिव वा भवः ॥ ७ ॥

राज्ञां प्रजाभिराहृतमुपायनमिव । इह लोके सञ्चितं पुण्यं परे लोके
फलभावेनोपस्थितमिव । भुवः खननाद्युपायैर्गृहीतं निधानमिव वा ॥ ७ ॥

प्रसूनं ब्रह्मवृक्षस्य तरङ्गमिव वाम्बुधेः ।
अनुत्कीर्णप्रकटनाच्चित्स्तम्भे चारुपुत्रिका ॥ ८ ॥

ब्रह्मलक्षणस्य वृक्षस्य प्रसूनमिव कालेनोपनीतम् । उत्किरणं विनैव प्रकटनन्न्
यस्यास्तथाविधा शालभञ्जिका ॥ ८ ॥

आकाशमृन्मयानन्तकुड्यमाकाशपत्तनम् ।
मनो मत्तो गजमयो मिथ्या जीवस्य जीवितम् ॥ ९ ॥

आकाशलक्षणमृद्विकारभूतमनन्तमसङ्ख्यातं कुड्यम् । मनसो
मतङ्गजमयो विलासः । जीवितं सर्वस्वम् ॥ ९ ॥

अभित्तिकमरङ्गं च विचित्रं चित्रमम्बरे ।
शम्बरेशस्य सर्वस्वमविद्याख्यस्य कस्यचित् ॥ १० ॥

शम्बरं माया तत्र ईशस्य समर्थस्य अविद्याख्यस्य कस्यचिदैन्द्रजालिकस्य
मायासर्वस्वम् ॥ १० ॥

महारम्भं स्थिरमपि देशकालविवर्जितम् ।
नानाढ्यमपि चाद्वैतं नानात्मापि न किञ्चन ॥ ११ ॥

देशकालसौक्ष्म्येऽपि विस्तारचिरत्वदर्शनाद्देशकालविवर्जितम् ॥ ११ ॥

गन्धर्वपुरदृष्टान्तस्याप्यवस्तुतया समम् ।
जागरायां हि किल तद्भ्रान्तमप्युपलभ्यते ॥ १२ ॥

यद्भ्रान्तमपि जागरायामुपलभ्यते रज्जुसर्पमृगतृष्णोदकादि तेनापि
सममित्यनुषज्यते ॥ १२ ॥

चिद्भामात्रमनारब्धमप्यारब्धमिव स्थितम् ।
देशकालक्रियाद्रव्यसर्गसंहारसंयुतम् ॥ १३ ॥

सुरासुरनराधारगर्भगर्भमनोहरम् ।
पृथक्कोष्ठस्थबीजौघसम्पूर्णमिव दाडिमम् ॥ १४ ॥

सुरासुराद्युपलक्षितत्रैलोक्याधारैर्गर्भैस्तद्गर्भैश्च कदलीस्तम्भवन्मनोहरम् ।
तत्राप्यवान्तरगर्भेष्वनन्तब्रह्माण्डकल्पनसत्त्वात्पृथक्कोष्टस्थबीजौघैः
सम्पूर्णं दाडिमफलमिव स्थितम् ॥ १४ ॥

नदीशैलवनादिस्थव्योमताराभ्रसङ्कुलम् ।
गीताब्धिरणपाठाढ्यपवनारावघर्घरम् ॥ १५ ॥

तदेव प्रपञ्चयति - नदीति । कलधौतशिलान्यायेनेति भावः ॥ १५ ॥

ततो विलोकितं तत्र तन्मया दृश्यमण्डलम् ।
यावत्तमेव पश्यामि ग्रामं प्राक्तनमास्पदम् ॥ १६ ॥

तं पूर्वप्रवेशस्वप्नदृष्टं ग्रामं तत्र प्राक्तनमास्पदं गृहं च
पश्यामि अपश्यम् । यावत्पुरानिपातयोर्लट् ॥ १६ ॥

तानेव सकलान्बन्धूंस्तथासंस्थानसंस्थितान् ।
तान्पुत्रांस्तां महेलां च तदेव च तदा गृहम् ॥ १७ ॥

तथासंस्थानं प्रागनुभूतवयोवस्थासन्निवेशस्तेन संस्थिताम् । महेलां
भार्याम् ॥ १७ ॥

तां दृष्ट्वा प्राक्तनीं ग्राम्यामाहरद्वासनां बलात् ।
तटस्थं मुह्यमानाङ्गमिव वीचिर्महार्णवे ॥ १८ ॥

महार्णवे वीचिः प्राक्तनं तटस्थं मुह्यमानं व्याकुलं स्वाङ्गमिव स्थितां
प्राक्तनीं ग्राम्यां गृहक्षेत्रपुत्रबन्ध्वाद्यभिमानवासनां बलादाहरत्
आनयदिति बन्धुपुत्रमहेलागृहविशेषणम् । तत्र नपुंसकमनपुंसकेन - इति
नपुंसकशेषे एकवद्भावः ॥ १८ ॥

अथाहमभवं तत्र तदालिङ्गननिर्वृतः ।
गृहीतवासनो नूनं विस्मृतप्राक्तनस्मृतिः ॥ १९ ॥

तेषां बन्धुपुत्रमेहलानामालिङ्गनेन निर्वृतः सुखितः ॥ १९ ॥

बिम्बं तत्तदुपादत्ते यद्यदग्रेऽवतिष्ठति ।
यथादर्शश्चिदादर्शस्तथैवायं स्वभावतः ॥ २० ॥

प्रसङ्गादविमृष्टविमृष्टचितोः स्वभावान्प्रपञ्चयति - बिम्बमित्यादिना ।
यथा प्रसिद्ध आदर्शो यद्यदग्रेऽवतिष्ठते तत्तत्प्रतिबिम्बं स्वयमप्युपादत्ते तथा
चिदादर्शो वासनोपस्थापितं यद्यत्पूर्वमवतिष्ठते तत्तदाकाराभासमुत्तरत्र
गृह्णातीत्यर्थः ॥ २० ॥

यस्तु चिन्मात्रगगनं सर्वमित्येव बोधवान् ।
द्वैतेन बोध्यते नेह सोऽङ्गः तिष्ठति केवलः ॥ २१ ॥

विमृष्टचितस्तु नायं स्वभाव इत्याह - यस्त्विति । सः वासनामयेन द्वैतेन
प्रतिबिम्बग्रहणादिना नैव बोध्यते । यस्यां जाग्रति भूतानि सा निशा पश्यतो मुनेः ।
इति भगवदुक्तन्यायादिति भावः । बाध्यते इति वा पाठः ॥ २१ ॥

न नश्यति स्मृतिर्यस्य विमला बोधशालिनी ।
अयं द्वैतपिशाचस्तं मनागपि न बाधते ॥ २२ ॥

तदेवाह - नेति ॥ २२ ॥

येषामभ्यासयोगेन साधुसच्छास्त्रसङ्गमैः ।
उदेति बोधधीर्भूयो या विस्मरति नोदयम् ॥ २३ ॥

या बोधधीरुदिता चेत्पुनः स्वोदयं न विस्मरत्येव । सदैव ब्रह्मानुसन्धानात्मना
आस्ते इत्यर्थः ॥ २३ ॥

अप्रौढा मे तदा सासीद्बोधधीर्या तया हता ।
अद्य शक्नोति मे बुद्धिं हन्तुं क इव दुर्ग्रहः ॥ २४ ॥

तर्हि तत्त्ववित्त्वं कथं तदा व्यामूढस्तत्राह - अप्रौढेति । या अप्रौढा
धीस्तया बन्ध्वादिवासनया हता तर्हीदानीमपि ते बोधधीरप्रौढैव नेत्याह -
अद्येति । दुर्ग्रहो दुर्वासनाप्रचयः ॥ २४ ॥

तवापि व्याध विद्धीदं बुद्धिः सत्सङ्गवर्जिता ।
द्वैतबोधेन कष्टेन कृच्छ्राच्छान्तिमुपैष्यति ॥ २५ ॥

हे व्याध तव बुद्धिरपि सत्सङ्गवर्जितेति हेतोर्नेदानीमेव शान्तिमेति किन्तु
वक्ष्यमाणतपःकायवृद्धिमरणजन्मान्तरराज्यादिना कष्टेन द्वैतबोधेन
कृच्छ्रात्साधनाभ्यासपरिश्रमाज्ज्ञानमासाद्य शान्तिमुपैष्यति ॥ २५ ॥

व्याध उवाच ।

एवमेतन्मुने सत्यं पावनैस्त्वद्विबोधनैः ।
ईदृशैरपि मे बुद्धिर्न विश्राम्यति सत्पदे ॥ २६ ॥

मुन्युक्तमनुमोदमानो व्याध उवाच - एवमेतदिति ॥ २६ ॥

स्यादीदृशमथो न स्यादिति सन्देहजालिका ।
नैतस्मिन्स्वानुभूतेऽपि वस्तुन्यद्यापि शाम्यति ॥ २७ ॥

अहो बत दुरन्तेयमभ्याससुदृढीकृता ।
अविद्या विद्यमानैव या शान्तैव न शाम्यति ॥ २८ ॥

अविद्यमानैवेति सदा शान्तैव न शाम्यति ॥ २८ ॥

सत्सङ्गतैः पदपदार्थविबुद्धबुद्धेः
सच्छास्त्रसत्क्रमविचारमनोहराङ्गैः ।
अभ्यासतः प्रशममेति जगद्भ्रमोऽयं नान्येन केनचिदपीति विनिश्चितिर्मे ॥ २९ ॥

सत्सङ्गवर्जितेति यदुक्तं तदप्यनुमोदमान आह - सत्सङ्गतैरिति । सच्छास्त्रं
सन् क्रमो गुरुसम्प्रदायो विचारश्चेत्यादिना मनोहराङ्गैः सत्सङ्गमैः प्रसूता या
पदपदार्थवेकबुद्धिस्तदभ्यासतश्चोत्पन्नात्तत्त्वबोधाद्भूमिकाक्रमेणायं
जगद्भ्रमः प्रशममेति । अन्येन केनचिदपि न प्रशममेतीति मे विनिश्चितिर्निश्चय
इत्यर्थः ॥ २९ ॥

इत्यार्षे श्रीवा० वाल्मी० दे० मो० नि० उ० अ० वि० शवोपाख्याने स्वप्नोपलम्भनं नाम
सप्तचत्वारिंशदधिकशततमः सर्गः ॥ १४७ ॥

इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे निर्वाणप्रकरणे उत्तरार्धे
स्वप्नोपलम्भनं नाम सप्तचत्वारिंशदधिक"अततमः सर्गः ॥ १४७ ॥

प्द्फ़् ३३६, प्। १४२२