१४६

षट्चत्वारिंशदधिकशततमः सर्गः १४६

व्याध उवाच ।

अनन्तरं मुनिश्रेष्ठ तस्मिन्हृदि तदोजसि ।
स्थितस्य तव किं वृत्तं नामतो भ्रान्तिरूपिणि ॥ १ ॥

प्रस्तुतस्वप्नवीक्षान्ते सुषुप्तिः स्वस्य वर्ण्यते ।
पुनः स्वप्नप्रसङ्गेन ब्रह्माद्वैतं च विस्तरात् ॥

प्रासङ्गिकं श्रुत्वा पुनः पूर्वकथाशेषमेव व्याधः पृच्छति -
अनन्तरमिति । भ्रान्तिरूपिणि नामतस्तस्य प्राणिन ओजसि स्थितस्य तवाग्रे किं कीदृशं
स्वप्नदर्शनादिवृत्तं सम्पन्नम् ॥ १ ॥

मुनिरुवाच ।

अनन्तरं तदा तत्र शृणु किंवृत्तमङ्ग मे ।
तेजोधातुनिषण्णस्य तज्जीवावलिताकृतेः ॥ २ ॥

तज्जीवेन आवलिता मिश्रिता आकृतिर्लिङ्गदेहो यस्य मे ॥ २ ॥

तस्मिंस्तदा वर्तमाने घोरे कल्पान्तसम्भ्रमे ।
तृणवत्प्रौढशैलेन्द्रे वहति प्रलयानिले ॥ ३ ॥

गिरिवृष्टिर्झटित्येव कुतोऽपि समुपाययौ ।
उह्यमानवनाभोगशिखरग्रामपत्तना ॥ ४॥

तस्यान्तस्तत्र सम्प्राप्तं तदा परिणतं यदा ।
तदा तदेव सूक्ष्मोऽहमपश्यं शैलवर्षणम् ॥ ५ ॥

यदा मया तस्य प्राण्योजसोन्तस्तज्जीवात्मना परिणतं तदा तत्र सम्प्राप्तं तदेव
शैलवर्षणमहमपश्यम् ॥ ५ ॥

तेनान्नलवशैलोच्चपूरेण प्रतिपिण्डितः ।
सुषुप्तमधतामिश्रमहयन्वभवं घनम् ॥ ६ ॥

तेन तत्प्राणिनाड्यन्तर्गतेनान्नरसान्तर्गतान्नलवलक्षणेन शैलोच्चपूरेण
प्रतिपिण्डितः पिण्डीकृताकृतिर्निश्चेष्टः सम्पन्नः सन्नहमज्ञानलक्षणया
अन्धतया मिश्रं संवलितं सुषुप्तमन्वभवम् ॥ ६ ॥

अथ कञ्चित्तदा कालमनुभूय सुषुप्तताम् ।
तदा पद्माकर इव शनैर्बोधोन्मुखोऽभवम् ॥ ७ ॥

यदा निर्गमनमार्गनिरोधकोऽन्नरसो जीर्णस्तदा उषसि पद्माकर इव
बोधोन्मुखोऽभवम् ॥ ७ ॥

यथा दृष्टिश्चिराद्ध्वान्ते भाति चक्रकरुपिणी ।
सुषुप्तमेव तत्रासीत्तथा स्वप्नत्वमागतम् ॥ ८ ॥

ध्वान्ते निमीलिता दृष्टिर्यथा चिरात्तेजश्चक्राभासरूपिणी भाति तथा
सुषुप्तमेवात्मरूपं स्वप्नत्वमागतमासीदित्यर्थः ॥ ८ ॥

तथा सुषुप्तविश्रान्तेः स्वप्ने निद्रामहं विशम् ।
अपश्यं दृश्यमोजोऽन्तः स्वमूर्मित्वमिवार्णवः [स्वमूर्तित्वं इति
पाठः ।] ॥ ९ ॥

सुषुप्तिविश्रान्तेः सकाशादहं स्वप्ननिद्रामविशम् । अडभावश्छान्दसः । यथा
अर्णवः स्वमूर्मित्वं तरङ्गादिसहस्रविक्षेपसङ्कुलां स्वमूर्ति पश्यति तथाहमपि
तदोजोन्तर्विक्षेपसहस्रमपश्यमित्यर्थः ॥ ९ ॥

संवित्कोशात्मकं दृश्यं तत्तथा मामुपागतम् ।
अस्पन्दस्यानिलस्यान्तरनन्यत्स्पन्दनं यथा ॥ १० ॥

अग्न्यादौ च यथोष्णत्वं जलादौ द्रवता यथा ।
मरीचादौ यथा तैक्ष्ण्यं चिद्व्योम्नश्च जगत्तथा ॥ ११ ॥

चित्स्वभावैकरूपत्वाज्जगद्दृश्यं तदाततम् ।
तत्सुषुप्तात्मनो दृश्यात्प्रसूतं बालपुत्रवत् ॥ १२ ॥

तत्स्वाप्नं जगत् तत्सुषुप्तात्मनो दृश्यान्मातुरुदराद्बालपुत्रवत्प्रसूतम् ॥ १२ ॥

व्याध उवाच ।

तत्सुषुप्तात्मनो दृश्यादिति तद्व्यपदेशतः ।
सुषुप्तदृश्यं किं वक्षि वद मे वदतां वर ॥ १३ ॥

सर्वदृश्यविलये हि सुषुप्तिः प्रसिद्धा तत्र तत्सुषुप्तात्मनो दृश्यादिति सुषुप्तावपि
दृश्यसद्भावमुक्तं श्रुत्वा तदसम्भावयन्व्याधः पृच्छति - तदिति ।
तत्सुटुप्तात्मन इति तच्छब्देन दृश्यपदेन च व्यपदेशात्सुषुप्तदृश्यं
किञ्चिदस्तीत्यभिप्रेत्य त्वं वक्षि तन्मे वदेत्यर्थः ॥ १३ ॥

तत्सुषुप्तात्मनो दृश्यात्त्वत्सुषुप्तात्मनोऽपि च ।
किमन्यज्जायते जन्यमथवान्यसुषुप्तता ॥ १४ ॥

किं च तस्य प्राणिनः सुषुप्तात्मनः त्वत्सुषुप्तात्मनश्चापि सकाशाज्जन्यं
जगद्रूपं दृश्यमन्यत्किं जायते । अन्यताप्रयोजकं जन्म किं अथ
सर्वदृश्यलये अन्यसुषुप्तता वा किम् ॥ १४ ॥

मुनिरुवाच ।

जायते भाति कचति घटादि जगदादि च ।
इति द्वैतोपतप्तानां प्रलापः कल्पनात्मकः ॥ १५ ॥

किं दृश्यतज्जन्मादि परमार्थतः किमिति पृच्छसि उत व्यवहारतः । आद्ये
अवस्तुरूपत्वान्न किञ्चिदित्युत्तरं मुनिराह - जायत इत्यादिना । द्वैतोपतप्तानां
मूर्खाणां कल्पनात्मकः प्रलापो मयानूदितो न तत्त्ववादोऽयमित्यर्थः ॥ १५ ॥

जातशब्दो हि सन्मात्रपर्यायः श्रूयतां कथम् ।
प्रादुर्भावे जनिस्तूक्तः प्रादुर्भावस्य भूर्वपुः ॥ १६ ॥

पण्डितविचारे तु जातादिशब्दानां सन्मात्रमेवार्थो नाय इत्याह - जातशब्द इति ।
कथं सन्मात्रपर्यायस्तच्छ्रूयतामुपपादयामीत्यर्थः । जनिर्धातुः जनी
प्रादुर्भावे इति पाणिन्यादिभिः प्रादुर्भावार्थे उक्तः । तत्र प्रादुरित्यव्ययं
प्रकटतां धात्वर्थस्य द्योतयन्नप्रधानं भूधातुरेव तु तस्य वपुः प्रधानं
शरीरमित्यर्थः ॥ १६ ॥

सत्तार्थ एव भूः प्रोक्तस्तस्मात्सञ्जातमुच्यते ।
सर्गतो जात इत्युक्ते सन्सर्ग इति शब्दितम् ॥ १७ ॥

अस्त्वेवं किं ततस्तत्राह - सत्तार्थ इति । भूर्धातुस्तु भू सत्तायाम् इति
पाणिन्यादिभिः प्रोक्तस्तस्मात्प्रादुरुपसर्गसहिताद्भावशब्दात्सञ्जातः
[उपसर्गसादृश्यादुपसर्गत्वमस्येति ज्ञेयम् ।] प्रकटः सन्नर्थ उच्यते । स
च नित्यसिद्धस्वप्रकाशचिदात्मैवेत्यर्थः । यदि प्रादुःशब्दस्य सर्गत इत्यर्थस्तदापि
न काचित्क्षतिः । यतः सर्गशब्दस्यापि सृजधातोर्भावे घञि घञर्थे सत्तारूपे
भावे सृज्यर्थस्याभेदेनान्वये सन्नेव सर्ग इति शब्दितं नान्यदित्यर्थः ॥ १७ ॥

बुधानामस्मदादीनां न किञ्चिन्नाम जायते ।
न च नश्यति वा किञ्चित्सर्वं शान्तमजं च सत् ॥ १८ ॥

एवं सति पण्डितदृशा नाज्ञजनप्रसिद्धजन्मादि कस्यचित्प्रसिद्ध्यतीत्याह -
बुधानामिति ॥ १८ ॥

सर्वसत्तात्मकं ब्रह्म सर्वसत्तात्मकं जगत् ।
विधयः प्रतिषेधाश्च वद तत्र लगन्ति के ॥ १९ ॥

एवं सर्वसत्तात्मके ब्रह्मणि अस्तिनास्तीति वा वस्तूनां विधिप्रतिषेधयोरप्यनवकाश
इत्याह - सर्वेति ॥ १९ ॥

या नाम शक्तिः काचित्सा तत्रैवास्ति च नास्ति च ।
यस्मात्तदात्म तद्ब्रह्म तथैवात्म तदात्मकम् ॥ २० ॥

तर्ह्यस्तिनास्तीति लोकप्रसिद्धव्यवहारस्य को विषयस्तं दर्शयन् द्वितीये प्राह - या
नामेति । या मायाशक्तिः । यस्मात्तद्ब्रह्म तच्छबलत्वादज्ञानां तदात्म । तदात्मेति
पदं व्याचष्टे - तथैवेति । यथा यथा मायाशक्तिर्विजृम्भते तथैवात्मा
सर्वशक्तिघटितं स्वरूपं यस्य तत्तदात्मकं तदात्मशब्दार्थ इत्यर्थः ॥ २० ॥

जाग्रत्स्वप्नसुषुप्तादिपरमार्थविदां विदाम् ।
न विद्यते किञ्चिदपि यथास्थितमवस्थितम् ॥ २१ ॥

तत्त्वविदां तु सदा तुरीयपदे प्रतिष्ठितानां जाग्रदाद्यवस्था एव न सन्ति दूरे
विधिप्रतिषेधा इत्याह - जाग्रदिति । विदां पण्डितानाम् ॥ २१ ॥

स्वप्नसङ्कल्पपुरयोर्नास्त्यप्यनुभवस्थयोः ।
मनागपि यथा रूपं सर्गादौ जगतस्तथा ॥ २२ ॥

प्रत्यक्षमनुभवस्थानामपलापो दुर्घट इति शङ्कां दृष्टान्ताभ्यां वारयति

  • स्वप्नेति ॥ २२ ॥

द्रष्टास्याः स्वप्नदृष्टेस्तु जीवः सम्भवतीह हि ।
चिदचेत्या तु सर्गादौ भात्यच्छा गगनादपि ॥ २३ ॥

तर्हि स्वप्नमनोरथयोर्द्रष्टा प्राणादिमान् जीव इव सर्गादावपि प्राणादिमदेव ब्रह्म
सिद्ध्येन्न निर्विशेषं तत्राह - द्रष्टेति । जीवोपाधिसर्गोत्तरकालत्वात्तयोः
प्राणादिमान् जीवस्तद्द्रष्टा प्राणाद्युत्पत्तेः प्राक् तु शुद्ध एव तत्सर्गादिद्रष्टा स्थित
इति सम्भावयेत्यर्थः ॥ २३ ॥

नेह द्रष्टास्ति नो भोक्ता सर्वमस्तीह तादृशम् ।
यन्न किञ्चिच्च किञ्चिच्च मौनमेवातिवागपि ॥ २४ ॥

अभ्युपेत्य सर्गं तद्द्रष्टुः शुद्धत्वमुक्तम् । वस्तुतस्तु त्रिपुटी सर्वापीहैव शुद्धे
निवर्तत इत्याह - नेहेति । तादृशं चिदेकरसम् ॥ २४ ॥

सर्गादौ कारणाभावाद्यद्यथा कचितं चितौ ।
तत्तथास्ते चिरं रूपं स्वप्नसङ्कल्पपूर्यथा ॥ २५ ॥

सर्गादावपि चिदेव सर्गात्मना कचिता यावत्प्रलयं तथैवास्त इवेत्याह -
सर्गादाविति ॥ २५ ॥

तथास्माच्चेतनाद्द्वैताद्बिभेति न बिभेति वा ।
अङ्गसंस्थाद्यथा चित्रात्स्वरूपात्पुरुषः स्वयम् ॥ २६ ॥

तथा उक्तप्रकारेण चेतनादात्मभूतादेव द्वैतादज्ञतायामन्यताभ्रान्त्या बिभेति ।
तत्त्वबोधेन बिभेति । वाशब्दो व्यवस्थितविकल्पार्थः । यथा बालः स्वाङ्गे
लिखिताद्व्याघ्रसर्पादिचित्राद्बिभेति प्रौढस्तु न बिभेति तद्वदित्यर्थः ॥ २६ ॥

अनादिमध्यान्तमनन्तमेकमत्यच्छमेवातिविकारि नाना ।
यथास्थितं भास्वरमप्यशान्तमिदं समस्तं परिशान्तमेव ॥ २७ ॥

तत्त्वतोऽनादिमध्यान्तमत्यच्छं ब्रह्मैव भ्रान्त्या अतिविकारि नाना च भूत्वा भाति
यथास्थितम् । अशान्तमपीदं जगत्तत्त्वतः परिशान्तमेव प्रबोधेनेत्यर्थः ॥ २७ ॥

इत्यार्षे श्रीवासिष्ठमहारा० वा० दे० मो० निर्वा० उ० अ० वि० श० सुषुप्तविचारो नाम
षट्चत्वारिंशदधिकशततमः सर्गः ॥ १४६ ॥

इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे निर्वाणप्रकरणे उत्तरार्धे
सुषुप्तविचारो नाम षट्चत्वारिंशदधिकशततमः सर्गः ॥ १४६ ॥