१४५

पञ्चचत्वारिंशदधिकशततमः सर्गः १४५

मुनिरुवाच ।
बहिष्ठैर्बाह्यमेवान्तरन्तस्थैःस्वप्नमिन्द्रियैः ।
जीवो वेत्ति द्वयस्थातितीव्रसंवेगिभिर्द्वयम् ॥ १ ॥

श्लेष्मपित्तानिलापूर्णजीवस्यैजसि कल्पिताः ।
स्वप्नभेदा इहोच्यन्ते तथाक्षैर्बाह्यविभ्रमाः ॥

अयं जीवो बहिष्ठैरिन्द्रियैर्बाह्यमेव स्वप्नं वेत्ति । अन्तस्थैरिन्द्रियैरन्तः स्वप्नं
वेत्ति । बाह्यान्तरद्वयस्थैरुभयत्र व्यापारसिद्ध्यर्थमतितीव्रसंवेगितैरिन्द्रियैस्तु
द्वयमपि वेत्ति ॥ १ ॥

यदेन्द्रियाणि तिष्ठन्ति बाह्यतश्च समाकुलम् ।
तदा म्लानानुभवनः सङ्कल्पार्थोऽनुभूयते ॥ २ ॥

तर्हि बहिष्ठैरिन्द्रियैर्यदा बहिर्व्यवहरति तदा किमान्तरव्यवहारो नास्त्येव नेत्याह

  • यदेति । अस्त्येव किन्तु मनोराज्यकल्पः ससङ्कल्पार्थो म्लानमनुभवनं यस्य
    तथाविधोऽनुभूयते न स्वप्नवत्स्फुटानुभवन इत्यर्थः ॥ २ ॥

यदा त्वन्तर्मुखान्येव सन्त्यक्षाणि तदा जगत् ।
अणुमात्रं स्ववपुषि जीवस्तेनातिवेत्ति तत् ॥ ३ ॥

अणुमात्रं वासनामात्रत्वादतिसूक्ष्ममपि स्वाप्नं जगदतिवेत्ति स्थूलमिव पश्यति स
एव तस्य अम्लानानुभव इत्यर्थः ॥ ३ ॥

जगत्सप्रतिघं नास्ति किञ्चिदेव कदाचन ।
जीवेक्षणानामक्षाणां दृष्टिरप्रतिघा जगत् ॥ ४ ॥

बाह्यमान्तरं वा जगत्सप्रतिघं स्थूलं वस्तुतो नास्ति । जीवस्य ईक्षणानां
दर्शनकरणभूतानामक्षाणामिन्द्रियाणां स्थौल्यकल्पने अप्रतिघानिष्प्रतिघाता
या दृष्टिः सैव स्थूलं जगदित्यर्थः ॥ ४ ॥

जीवनेत्राणीन्द्रियाणि यदा बाह्यमयान्यलम् ।
तदा बाह्यात्मकं वेत्ति चिति जीवो जगद्वपुः ॥ ५ ॥

अत एव बहिरन्तर्वा यत्रैवेन्द्रियप्रसरस्तत्रैव स्थूलवज्जगद्दर्शनमित्याह - जीवेति
॥ ५ ॥

श्रोतं त्वगीक्षणं घ्राणं जिह्वा चेतीहितात्मकः ।
सङ्घातः प्रोच्यते जीवश्चिद्रूपोऽनिलमूर्तिमान् ॥ ६ ॥

श्रोत्रादिग्रहणं वागादीनामप्युपलक्षणम् । अनिलमूर्तिमान् पञ्चप्राणघटितः ।
ईहितमिच्छाप्रधानमन्तःकरणचतुष्टयं तदात्मकः सङ्घात आतिवाहिकदेहः स
एव कूटस्थचिदाभाससंवलनाच्चिद्रूपो जीवः प्रोच्यत इत्यर्थः ॥ ६ ॥

सर्वत्र सर्वदा जीवः सर्वेन्द्रियमयः स्थितः ।
चिच्चिद्व्योमाव्ययस्तेन सर्वं सर्वत्र पश्यति ॥ ७ ॥

तादृशो जीवः स्ववासनामयं जगदन्तः पश्यतु नाम । बहिस्तु
वासनाभावात्कथं तन्मयं जगत्पश्यति तत्राह - सर्वत्रेति । तत्र कूटस्थचिदेव
चिदाभासः समष्टिव्योममयः सन् सर्वत्र सर्वदा सर्वेन्द्रियमयः
स्थितस्तस्मिन्सर्ववासनाधिष्ठाने बाह्यजगदध्यास उपपन्न एवेति भावः ॥ ७ ॥

श्लेष्मात्मना रसेनान्तर्जीव आपूर्यते यदा ।
तेऽक्षाणुकेऽणुरूपात्मा तदा तत्रैव विन्दति ॥ ८ ॥

तत्रान्तः स्वप्नविशेषवैचित्र्यदर्शने ओजसि प्रविष्टस्य जीवस्य
श्लेष्माद्यन्नरसविशेषपूर्णनाडीप्रवेश एव निमित्तमित्येतत्प्रपञ्चयति -
श्लेष्मात्मनेत्यादिना । यदा उपसंहृतकरणविस्तारः सन्नणुरूपः सहस्रधा
विदीर्णकेशभागप्रमाणसूक्ष्मनाड्यन्तःसञ्चारयोग्यस्ते तव जीवो नाड्यन्तर्गतेन
श्लेष्मात्मना अन्नरसेन आपूर्यते तदा तत्तदक्षाणुके तत्रैव
नाड्यन्तर्वक्ष्यमाणप्रकारान्स्वाप्नभ्रमान्विन्दतीत्यर्थः ॥ ८ ॥

क्षीरार्णव इवोड्डीनो नभश्चन्द्रोदयान्वितम् ।
सरांसि फुल्लपद्मानि कह्लारवलितानि च ॥ ९ ॥

स्वयं क्षीरार्णवे उड्डीन इव भूत्वा चन्द्रोदयान्वितं नभो विन्दतीति
सर्वत्रानुषङ्गः ॥ ९ ॥

पुष्पाभ्रप्रतिधानानि परिगीतानि षट्पदैः ।
वसन्तान्तःपुराण्यन्तरुद्यानान्युदितानि खे ॥ १० ॥

पुष्पमयानां दिव्याभ्राणां प्रतिधानानि प्रतिनिधिभूतानि सरांसि
वसन्तराजस्यान्तःपुरभूतान्युद्यानानि खे जीवाकाशे उदितानि ॥ १० ॥

उत्सवान्मङ्गलाकीर्णांल्लीलालोलाङ्गनागणान् ।
भक्ष्यभोज्यान्नपानश्रीपरिपूर्णगृहाजिरान् ॥ ११ ॥

सपुष्पाः फेनहसनास्तरलातरलेक्षणाः ।
विलासेनाम्बुधिं यान्ति सरितो मत्तयौवनाः ॥ १२ ॥

तरलाः शफर्यस्तल्लक्षणतरलेक्षणाः ॥ १२ ॥

हिमवच्छुभ्रशृङ्गाणि सौधानि शिशिराण्यलम् ।
सुधावधौतभित्तीनि कृतानीन्दुतलैरिव ॥ १३ ॥

इन्दुमयैस्तलैः कुट्टिमैः कृतानीव सौधानि ॥ १३ ॥

शिशिरासारहेमन्तप्रावृण्मेघवृतानि च ।
स्थलानि नीलनलिनीलताशाद्वलवन्ति च ॥ १४ ॥

पुष्पप्रकरसञ्छन्ना विश्रान्तहरिणाध्वगाः ।
स्निग्धपत्रतरुच्छायाः पुर्ॐपवनभूमिकाः ॥ १५ ॥

विश्रान्ता हरिणा अध्वगाश्च यत्र ॥ १५ ॥

कदम्बकुन्दमन्दारमकरन्देन्दुकान्तिभिः ।
भासमानासनस्थानसंस्थानाः कुसुमस्थलीः ॥ १६ ॥

भासमानमासनस्थानस्येव संस्थानं यासां ताः ॥ १६ ॥

नलिनीजालिनीर्नीलाः पुष्पकस्थलधारिणीः ।
वनावलीर्विलीनाभ्रनिर्मलाकाशकोमलाः ॥ १७ ॥

विलीनाभ्रो निर्मलः शरदाकाश इव कोमलाः स्निग्धाः ॥ १७ ॥

कदलीकन्दलीकुन्दकदम्बकृतशेखराः ।
गिरिमालाश्चलच्चारुलीलापल्लवपेलवाः ॥ १८ ॥

कदली कन्दली च मृगभेदास्तरुगुल्मभेदाश्च । गिरिमालाः पर्वतपङ्क्तीः ॥ १८ ॥

हेलावलितधम्मिल्लमुक्तमालतिकालताः ।
इव बालाङ्गना नृत्यं तन्वानास्तनुगात्रिकाः ॥ १९ ॥

हेलावलितैर्धम्मिल्लैर्मुक्ताः प्रसृतसंवलितशाखा मालतिकालता इव स्थिता नृत्यं
तन्वाना बालाङ्गनाः विन्दति ॥ १९ ॥

उत्फुल्लश्वेतनलिनीनिभा नरपतेः सभाः ।
चारुचामरभृङ्गारवितानकशतावृताः ॥ २० ॥

वल्लीवलयविन्यासविलासवलिताङ्गिकाः ।
वनमाला विलोलाम्बुप्रणालीकाकलीकलाः ॥ २१ ॥

वनमाला वनपङ्क्तीः । विलोलाम्बूनां प्रणालीषु कुल्यासु पक्षिकाकलीभिः कला
गम्भीराः ॥ २१ ॥

धराभरकरालाङ्गधाराधरधराधराः ।
दिशः सीकरनीहारहारोदरधरा दश ॥ २२ ॥

धराया भरे भरणे वर्षैः पूरणविषये करालाङ्गा ये धाराधरास्तद्युक्ता
धराधराः पर्वता यासु तथाविधा दश दिशः ॥ २२ ॥

पित्तात्मना रसेनान्तर्जीव आपूर्यते यदा ।
ओजोन्तरणुमात्रात्मा तदा तत्रैव विन्दति ॥ २३ ॥

श्लेष्मपूर्णनाडीदृश्यान्स्वप्नविशेषान्प्रपञ्च्य
पित्तरसपूर्णनाडीदृश्यांस्तानाह - पित्तात्मनेत्यादिना ॥ २३ ॥

पवनस्पन्दसंशुष्ककिंशुकद्रुमशोभनाः ।
ज्वालालीरुज्ज्वलाम्भोजदलपल्लवपेलवाः ॥ २४ ॥

ज्वालालीर्विन्दति पश्यतीति यावत् ॥ २४ ॥

सन्तप्तसिकतासेकसनीहारसरिच्छिराः ।
दावानलशिखाश्यामधूमश्यामलदिङ्मुखाः ॥ २५ ॥

ज्वालालीरेव विशिनष्टि - सन्तप्तेति । सन्तप्तसिकतानां सेकैः सनीहाराः सवाष्पाः
सरिल्लक्षणाः शिरा याभ्यः ॥ २५ ॥

कृशानुकर्कशानर्कांश्चक्रधाराशितत्विषः ।
दावदाहविषावेशविपरीतरसाकरान् ॥ २६ ॥

चक्रधारा इव शिता निशितास्त्विषो येषाम् । विपरीता विशेषतो व्याप्ता रसाकारा जलाशया
येभ्यः ॥ २६ ॥

स्वेदमुष्णीकृताब्धिं वा स्विन्नं त्रैलोक्यमण्डलम् ।
क्षरत्क्षाराण्यरण्यानि प्रतर्दगहनान्यपि ॥ २७ ॥

स्वेदं सार्द्रोष्माणम् । स्विन्नं स्वेदनार्द्रम् । प्रतर्दो
वृक्षगुल्मतृणादीनामतिनैबिड्यं तद्युक्तानि गहनान्यरण्यान्यपि ॥ २७ ॥

प्रतरन्मृगतृष्णाम्बुसरत्सारसरूपि च ।
स्थलान्यदृष्टपूर्वाणि भूतपूर्वतरूणि च ॥ २८ ॥

प्रतरत्सु प्रवहत्सु मृगतृष्णाम्बुषु सरत्सारसै रूपि शोभमानम् ॥ २८ ॥

अध्वगं सम्भ्रमवशात्तप्तधूलिविधूसरम् ।
दूरादमृतवद्दृष्टं स्निग्धच्छायाध्वपादपम् ॥ २९ ॥

सम्भ्रमो भयं तद्वशादध्वगमध्वसु धावन्तं स्वं पश्यति ।
अमृतवद्दृष्टं दर्शनात्सम्भावितम् ॥ २९ ॥

ज्वरज्वालितमाकारं भुवनं तप्तमग्निवत् ।
पांसूपहतदेशानि दिङ्मुखानि च खानि च ॥ ३० ॥

ग्रहग्रामार्णवाद्र्यब्धिवनव्योमाग्निका दिशः ।
तुहिनाहारहानन्तासङ्ख्याम्बुदघटोद्भटान् ॥ ३१ ॥

गृहादिव्योमान्तेषु अग्निकाः ज्वलदग्निमत्यो दिशः पश्यति । तुहिनं शीतं आहरति
भक्षयतीति तुहिनाहारोऽग्निस्तं जहति मुञ्चन्ति वर्षन्ति तथाविधा अनन्तसङ्ख्या ये
अम्बुदास्तद्घटोद्भटान्शरद्ग्रीष्मवसन्तानिति परेणान्वयः ॥ ३१ ॥

शरद्ग्रीष्मवसन्तांश्च तापानातपदायिनः ।
तृणपत्रलतौघाभ्रराश्यूष्मपिहितावनीः ॥ ३२ ॥

तृणैः पत्रैर्लतौघैरभ्रराशिभिरूष्मभिश्च पिहिता आच्छादिता
अवनीर्भूप्रदेशान् ॥ ३२ ॥

सौवर्णमम्बरतलं भूतलं दिक्तटानि च ।
तप्तान्यदभ्रसरसीहिमशैलस्थलानि च ॥ ३३ ॥

अदभ्रा बहुलाः सरसीः हिमशैलस्य स्थलानि प्रदेशभेदांश्च तप्तान् पश्यति ॥ ३३ ॥

रसानुरिक्ते वातेन जीव आपूर्यते यदा ।
ओजोन्तरणुमात्रात्मा तदा तत्रैव विन्दते ॥ ३४ ॥

रसैरन्नरसैः श्लेष्मपित्तादिभिरनुसृत्य रिक्ते केवलवायुनैव पूर्णे नाडीप्रदेशे
प्रविष्टोऽणुमात्रात्मा जीवो यदा वातेन आपूर्यते तदा तत्र प्रागुक्ते ओजोन्तरे
वक्ष्यमाणं स्वप्नं विन्दते ॥ ३४ ॥

वातविक्षुब्धसम्वित्त्वादपूर्वं वसुधातलम् ।
अपूर्वा नगरग्रामशैलाब्धिवनमण्डलीः ॥ ३५ ॥

अपूर्वं पूर्वदृष्टविलक्षणम् ॥ ३५ ॥

उड्डीयमानमात्मानं शिलाः शैलस्थलानिव ।
घनघुङ्घुमसारावानचक्रभ्रमणादि च ॥ ३६ ॥

घनानां घुङ्घुमैर्गर्जनैः सारावान्सशब्दान् देशान् । विनैव कुलालचक्रं
घटीनां भ्रमणादि च ॥ ३६ ॥

हयोष्ट्रगरुडाम्भोदहंसयानावरोहणम् ।
यक्षविद्याधरादीनां गत्यागमनसञ्चरम् ॥ ३७ ॥

हंसान्तैर्यानं गमनं तदवरोहणं च । गतयश्च आगमनानि च दूरतः
स्वस्थाने सञ्चरणं च । गत्येति पृथक्पदं वा ॥ ३७ ॥

साद्रिद्यूर्वीनदीशानां वनभूग्रामपूर्दिशाम् ।
कम्पं भयोन्मुखाङ्गानां बुद्बुदानामिवार्णवे ॥ ३८ ॥

अद्रिभिर्दिवा उर्व्या नदीशैलैश्च सहितानां वने भवन्तीति वनभुवो
वृक्षादयस्तेषां ग्रामाणां पुरां देशां च भयोन्मुखाङ्गानां
मनुष्यादीनां च कम्पम् ॥ ३८ ॥

अन्धकूपे निपतितं विपुले सङ्कटेऽथवा ।
अथवा रूढमात्मानं खमाभं पादपं गिरिम् ॥ ३९ ॥

खं मिनोति परिच्छिनत्त्याभा संस्थानशोभा यस्य तथाविधं पादपं गिरिं च ॥
३९ ॥

वातपित्तश्लेष्मयुक्तो जीव आपूर्यते यदा ।
भागैर्वातवशं प्राप्तैरार्तोऽसौ विन्दते तदा ॥ ४० ॥

द्येकैकपूरितनाडीभागदृश्यान्स्वप्नानुक्त्वा तत्त्रितयपूरितनाडीदृश्यांस्तानाह

  • वातेत्यादिना ॥ ४० ॥

पतन्तीं पार्वतीं वृष्टिं सुशिलावृष्टिसङ्कटम् ।
स्फुटाट्टकटकारावभ्रमत्पादपमण्डलम् ॥ ४१ ॥

स्फुटतामट्टानां सौधानां गिरिकटकानां चारावैः सह
भ्रमत्पादपमण्डलम् ॥ ४१ ॥

भ्रमद्भिर्वनविन्यासैः सन्दिग्धाम्भोधरोत्कटम् ।
सिंहवारणवर्षाभ्रनिरन्तरदिगन्तरम् ॥ ४२ ॥

सिंहैर्वारणैर्वर्षाभ्रैश्च निरन्तरं दिङ्मध्यम् ॥ ४२ ॥

तालीतमालहिन्तालमालाज्वलनसङ्कुलम् ।
गुहाघुङ्घुमनिर्ह्रादभाङ्कारघनघर्घरम् ॥ ४३ ॥

तदेव दिगन्तरं विशिनष्टि - तालीति ॥ ४३ ॥

मन्द्रमन्दरमन्थानशब्दसन्दर्भसुन्दरीम् ।
दरीं दलनदुर्वारमिथःसङ्घट्टघट्टिताम् ॥ ४४ ॥

दलने दुर्वारो यो मिथः सङ्घट्टस्तेन घट्टितां दरीं पश्यति ॥ ४४ ॥

शृङ्गसङ्घट्टसदृशाः क्रेङ्कारोत्करकर्कशाः ।
नदीर्मुक्तालतापातसस्नग्दामनभस्तलाः ॥ ४५ ॥

गिरिशृङ्गद्वयमध्ये प्रवाहध्वनिभिः शृङ्गद्वयसङ्घट्टनसदृशाः ।
चक्रवाकादिक्रेङ्कारोत्करैः कर्कशाः । मुक्तालतावदापतनैः स्रग्दामसहितमिव
नभस्तलं याभिस्ता नदीः पश्यति ॥ ४५ ॥

शिलाशकलपूर्णार्णपूर्णाम्बरमहार्णवम् ।
वहद्वनघनोद्घातघट्टितब्रह्ममण्डलम् ॥ ४६ ॥

स्वदृष्टह् प्रलयार्णवादिदर्शनस्वप्नोऽप्येतस्मादेव निमित्तादिति सूचयन्नाह -
शिलाशकलेति । शिलाशकलपूर्णैरर्णोभिर्जलैः पूर्णाम्बरं महार्णवं पश्यति ।
तमेव वर्णयति - वहदित्यादिना । वहतां वनानां घनानां
चोद्घातैर्घट्टितमास्फालितं ब्रह्ममण्डलं सप्तर्षिलोको येन ॥ ४६ ॥

परस्परविनिर्मृष्टदशदर्शनदन्तुरम् ।
चटत्कटकटारावस्फुटत्कटकटङ्कितम् ॥ ४७ ॥

परस्परं तरङ्गसेकैर्विनिर्मृष्टानां धौतानां दशानां दिशां दर्शनेन
दन्तुरन्न् हसन्तमिव स्थितम् । चटन् दिश आवृण्वन् यः कटकटारावस्तेन
स्फुटद्भिरद्रिकटकैष्टङ्कितं सञ्जातटङ्काघातध्वनिमिव स्थितम् ॥ ४७ ॥

खपातपवनाधूतवनवातलतोदयम् ।
रणदात्मदृषच्चूर्णकर्बुराम्बुजधारिणम् ॥ ४८ ॥

खं पततीति खपातो यः पवनस्तेनाधूतं कम्पितं यद्वनं तत्र
वातानुसारिलतोदयो लतालास्यं यस्मिन् । रणद्भिरात्मकृतैर्दृषच्चूर्णैः
कर्बुरवर्णानि यान्यम्बुजातानि शैवालादीनि धारयति तच्छीलम् ॥ ४८ ॥

प्राग्भटोद्भटभेदोत्थैर्मन्द्रैर्मरमरारवैः ।
क्रूराक्रन्दैरिवाभाति विराजितजगत्त्रयम् ॥ ४९ ॥

समुद्राक्रमणात्प्राग्युगान्ते प्रवृत्तैर्भटोद्भटानां शूराणां भेदेषु
परस्परविदारणेष्विवोत्थितैर्मन्द्रैस्तालीवनादिमरमरारवैः क्रूराणां
प्राणिनामाकन्दैरिव विराजितं जगत्त्रयं तदाभातीत्यर्थः ॥ ४९ ॥

इति तैः काष्ठपाषाणमृद्युग्वातभटैर्वृतः ।
परिपीडित एवास्ते यदा जीवो जडीकृतः ॥ ५० ॥

त्रिधातुपूर्णनाडीषु इति वर्णितप्रकारैस्तैः सर्वजनप्रसिद्धैः काष्ठैः
पाषाणैर्मृद्युतैर्वातैर्भटैर्वा वृतः सन् स्वप्ने जडीकृतो जीवः परिपीडित
एवास्ते ॥ ५० ॥

मृदन्तःकीटकणवच्छिलान्तर्गतभेकवत् ।
गर्भस्थापक्वशिशुवत्फलान्तर्गतबीजवत् ॥ ५१ ॥

मृदन्तर्गतकीटादिवत्तादृशपाषाणादिकवच्चानुभवतीति तृतीये
[एतदग्रिमत्रिकस्थत्तृतीये इत्यर्थः ।] सर्वेषां सम्बन्धः ॥ ५१ ॥

बीजोदरस्थाङ्कुरवद्द्रव्यपिण्डोदराणुवत् ।
अश्रान्तस्तम्बकोशस्थदारुपुत्रकदेहवत् ॥ ५२ ॥

सौषिर्यासम्भवात्प्राणपवनस्पन्दवर्जितः ।
प्रोन्नमत्पर्शुपूरेण शिलापूरेण तर्जितः ॥ ५३ ॥

सुषुप्तं तर्हि कदा केन निमित्तेनानुभवति तदाह - सौषिर्येति । यदायं जीवः
पुरीतति नाडीपञ्जरे सर्वपार्श्वास्थ्यग्रघटितहृदयास्थिग्रन्थ्युपलक्षिते प्रविष्टो
भवति तदा अग्रे सञ्चारार्थं सौषिर्यासम्भवाद्यस्मिन्प्रदेशे
प्राणपवनप्रयुक्तेन स्पन्देन वर्जितः सन्प्रोन्नमतां पर्शूनां पार्श्वास्थीनां
पूरेण ग्रन्थिना शिलापूरेण बिले निरुद्ध इव तर्जितो व्यापारासमर्थः कुतो भवति तदा
प्रागुक्तनिबिडतरौजःशब्दिततेजोन्तरेव शैलकोशः शिलाजठरं
तदाभमज्ञानगाढत्वादन्धकूपोदरोपमं सुषुप्तमनुभवतीति द्वयोरन्वयः ॥
५३ ॥

तदा निबिडतेजोन्तरेवानुभवति स्वयम् ।
सुषुप्तं शैलकोशाभमन्धकूपोदरोपमम् ॥ ५४ ॥

यदा परिणतं यत्नं पुनः सौषिर्यमागतम् ।
पुनर्वेत्ति तदा जीवः स्वप्नं प्राणावबोधितः ॥ ५५ ॥

ततः पुनः स्वप्ने कथमायाति तत्राह - यदेति । भुक्तमन्नं यदा पाकेन
परिणतं यदा चान्नरसकृतप्रवेशमार्गनिरोधापगमात्पुनः सौषिर्यमागतं
तदा ततो निर्गमनयत्नं प्राणसञ्चारेण प्राप्य पुनर्जीवः प्राणेनावबोधितः
सन्स्वप्नं वेत्ति ॥ ५५ ॥

यदा तस्मिन्प्रदेशेऽन्तर्भागभागान्पतन्ति ते ।
देहे परिणमन्तोऽन्तस्तदेवात्यद्रिवर्षणम् ॥ ५६ ॥

यदा देहे परिणमन्तस्तेऽन्नरसा यस्मिन्प्रदेशे जीवेन सह नाडीभागेभ्यो
भागान्तराणि पतन्ति तदा ओजोन्तरद्रिवर्षणं वेत्ति ॥ ५६ ॥

बह्वेव वह्निबहुना स्वल्पेनाल्पं प्रपश्यति ।
वातपित्तादियोगेन बहिरन्तश्च सम्भ्रमम् ॥ ५७ ॥

वह्निबहुना बहुतरजाठराग्निव्याप्तेन वातपित्तादियोगेन बहिरन्तश्च बह्वेव
सम्भ्रमं पश्यतीति बहिरपि भ्रान्तिदर्शनं वर्णयितुं पीठिकारचनम् ॥ ५७ ॥

पश्यत्येतद्यथैवान्तरेष जीवो वशीकृतः ।
वातपित्तादिवलितो बहिर्वेत्त्येवमेति वा ॥ ५८ ॥

तदेव वर्णयितुमुपक्रमते - पश्यतीत् । ज्ञानेन्द्रियैर्वेत्ति कर्मेन्द्रियैरेति वा ॥ ५८ ॥

क्षुब्धैरन्तर्बहिश्चैव स्वल्पः स्वल्पं प्रपश्यति ।
समैः सममिदं दृश्यं वातपित्तकफादिना ॥ ५९ ॥

वातपित्तकफादिना क्षुब्धैः स्वल्पैरन्नरसैरन्तर्बहिश्चैव स्वल्पम् दृश्यं
भ्रान्त्या प्रपश्यति समैः समं दृश्यं प्रपश्यति ।
अतिक्षुब्धैस्त्वतिशयितभ्रान्तिदृश्यानि प्रपश्यतीत्यर्थाद्गम्यते ॥ ५९ ॥

बहिः पश्यत्ययं जीवः कुपितैरेभिरावृतः ।
स्पन्दं भूम्यद्रिनभसां ज्वलनं वानलोच्चयैः ॥ ६० ॥

कुपितैरेभिः सन्निपातमदमणिमन्त्रौषधादिनिमित्तेषु ॥ ६० ॥

आकाशगमनं चैव चन्द्रोदयहिमाचलान् ।
गहनं वृक्षशैलानां नभःप्लवनमर्णसाम् ॥ ६१ ॥

बहिर्भ्रान्तिदृश्यानि प्रपञ्चयति - आकाशगमनमित्यादिना ॥ ६१ ॥

मज्जनोन्मज्जनं वाब्धौ सुरतं सुरसद्मसु ।
शैलोपवनशुभ्राभ्रपीठविश्रमणोच्चयम् ॥ ६२ ॥

शुभ्राभ्राणां पीठेषु विश्रमणमुपवेशनं शुभ्राभ्रोच्चयं च ॥ ६२ ॥

बृहत्क्रकचनिष्पेषं नरकानुभवभ्रमम् ।
तालीतमालहिन्तालमालावलनमम्बरे ॥ ६३ ॥

चक्रवृत्तैश्च पतनं झगित्युत्पतनं दिवि ।
शून्येऽपि जनतावृन्दं स्थलेऽप्यब्धिनिमज्जनम् ॥ ६४ ॥

विचित्रं विपरीतं च व्यवहारं महानिशि ।
अह्नीव भास्करालोकं दुर्भेद्यं चाह्नि वा तमः ॥ ६५ ॥

निशि अह्नीव भास्करालोकम् ॥ ६५ ॥

साद्रिभूतलमाकाशे कुड्यबन्धे घने स्थलम् ।
कुड्यबन्धांश्च गगने मित्रभावं च विद्विषि ॥ ६६ ॥

घने कुड्यबन्धे विकुड्यं विशालं स्थलम् ॥ ६६ ॥

स्वजने परताबुद्धिं सुजनत्वं च दुर्जने ।
सुसमस्थलतां श्वभ्रे श्वभ्रत्वं सुसमे स्थले ॥ ६७ ॥

उद्गीतालापमसृणान्सुधाधौतान्सुचित्रितान् ।
उद्रीञ्छ्वेतमयान्वापि नवनीतमयांश्च वा ॥ ६८ ॥

श्वेतस्फटिकरजतादिमयान् ॥ ६८ ॥

कदम्बनीपजम्बीरपत्रस्तबकसद्मसु ।
सुखविश्रमणं स्त्रीभिः नाकं पद्मेष्विवालिनः ॥ ६९ ॥

अन्तर्निमीलिता ह्येताः पश्यन्त्युन्मीलिता बहिः ।
धातूनामिति वैषम्याद्भ्रान्तिमिन्द्रियवृत्तयः ॥ ७० ॥

एता भ्रान्तीरन्तर्निद्रानिमीलिता इन्द्रियवृत्तयः पश्यन्ति । जागरोन्मीलितास्तु
बहिरिन्द्रजालादौ पश्यन्ति ॥ ७० ॥

एवंविधान्यनेकानि पश्यन्त्यनुभवन्ति च ।
बहिरेव यथा स्वप्ने वस्तुन्यसमधातवः ॥ ७१ ॥

असमा वातादिधातवो येषां पुरुषाणां ते ॥ ७१ ॥

बहिश्चान्तश्च दृश्यन्ते विपरीतान्यनेकशः ।
कार्याण्यतिकरालानि जीवैरसमधातुभिः ॥ ७२ ॥

समेषु धातुष्वेषोऽन्तर्जीवोऽनुभवति स्वयम् ।
तेजोन्तर्गत एवेमां व्यवहारस्थितिं समाम् ॥ ७३ ॥

इमां प्रसिद्धां लौकिकशास्त्रीयव्यवहारस्थितिम् ॥ ७३ ॥

यथास्थितां पुरग्रामपत्तनारण्यसन्ततिम् ।
सौम्यवारितरुच्छायादेशाध्वगगमागमम् ॥ ७४ ॥

सुखातपमयेन्द्वर्कताराहोरात्रमण्डितम् ।
एवमेतदसद्भूतं सद्भूतमिव भासते ॥ ७५ ॥

दृश्योपलम्भं चित्तत्त्वे स्पन्दनन्न् पवने यथा ।
असदेव सदाभासमभिन्नं भिन्नवत्स्थितम् ॥ ७६ ॥

शान्तादुदेति सकलं जगदम्बरात्म शान्तं न किञ्चन न नाम सदित्युदेति ।
तद्व्योमनीदृशमनन्तचितेः शरीरे भामात्रमाततमनन्तवपुर्विभाति ॥ ७७ ॥

शान्तान्निप्रपञ्चादेव ब्रह्मणः सकाशात्सकलं जगदुदेति शान्तं च न
किञ्चनान्यद्भवति । यतः सदिति परिदृश्यमानजन्यरूपेण नोदेति नाम न हि
समुत्पद्यते । तत्तस्माद्धेतोर्व्योमन्याकाशकल्पे अनन्तायाश्चितेः शरीरे भामात्रं
प्रतिभासमात्रं जगदित्यनन्तवपुर्विभाति न वस्त्वन्यदित्यर्थः ॥ ७७ ॥

इ० वा० महारामा० वा० दे० मो० नि० उ० अ० वि० श० जाग्रत्स्वप्नसुषुप्तिवर्णनं नाम
पञ्चचत्वारिंशदधिकशततमः सर्गः ॥ १४५ ॥

इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे निर्वाणप्रकरणे उत्तरार्धे
जाग्रत्स्वप्नसुषुप्तिवर्णनं नाम पञ्चचत्वारिंशदधिकशततमः सर्गः ॥ १४५ ॥