१४४

चतुश्चत्वारिंशदधिकशततमः सर्गः १४४

मुनिरुवाच ।

सर्वथाभावभावेषु स्वप्नसंवेदनात्मसु ।
नित्याप्रतिघरूपेषु किं बद्धं किं विमुच्यते ॥ १ ॥

चिदेव जगदाभाति जगदेव च चिद्यथा ।
युक्तयोऽत्र तथा ब्रह्म सर्वशक्ति समर्थ्यते ॥

दृश्यस्य चिन्मात्रत्वे बन्धमोक्षचिन्ताप्यपगतैवेत्याह - सर्वथेति ॥ १ ॥

खे दृष्टिभासां स्फुरणं यादृशं तादृशं जगत् ।
विपर्यस्यत्यविरतमबोधाल्लक्ष्यते स्थिरम् ॥ २ ॥

दृष्टिभासां दृक्किरणानान्न् खे यादृशं
सम्पतद्घटकरकमुक्ताकेश्ॐड्रकाद्यात्मना स्फुरं तादृशं जगदविरतं
परिणामेन विपर्यस्यति अधिष्ठानविवेकाबोधात्तत्स्थैर्येण स्थिरं लक्ष्यते ॥ २ ॥

यद्यथा पुरसंस्थानं चिरैरेति तदन्यताम् ।
जगदप्येवमनिशं वार्यावर्तविवर्तवत् ॥ ३ ॥

विपर्यासमेवानुभावयति - यदिति । यत् प्रसिद्धं पुरसंस्थानं यथा
चिरैरन्यतां संस्थानान्तरताम् ॥ ३ ॥

भूम्यम्ब्वम्बरशैलादि भवत्यसदिदं क्षणात् ।
तस्मिन्नेव क्षणोदन्तैर्युगकल्पाभिधाः कृताः ॥ ४ ॥

यस्मिन्नेव काले भवति तस्मिन्नेव क्षणलवत्रुट्याद्यवयवोदन्तैर्युगकल्पाद्यभिधा
विद्वद्भिः कृताः ॥ ४ ॥

जगत्स्वप्न इवाशेषमसदप्यनुभूयते ।
यन्नास्ति चेत्तन्निःशेषं चिदेवेत्थं कचत्यलम् ॥ ५ ॥

यज्जगन्नास्तीत्यपलप्यते चेदशेषं चिदेव कचति ॥ ५ ॥

यथेदं नो जगत्तद्वच्छतानां खे शतानि हि ।
नृणां पश्यन्तु तेषां तु नान्योन्यमनुभूतयः ॥ ६ ॥

नः अस्माकं प्रसिद्धमिदं जगद्यद्यथास्ति तद्वत्खे जगतां शतानां
शतान्ययुतानि अन्येषां नृणां सन्तीति पश्यन्तु सम्भावयन्तु । तेषां
प्रत्यक्षमन्योन्यमनुभूतयस्तु न । अयोग्यत्वादित्यर्थः ॥ ६ ॥

सरोब्धिकूपभेकानां दृष्टाः प्रत्येकमास्पदे ।
न तेऽन्योन्यं विदन्त्यन्यां दृश्यादिनियतिं क्वचित् ॥ ७ ॥

सर-आदिशब्दैस्तद्गता जन्तवो गृह्यन्ते । अन्यां स्वस्वास्पदातिरिक्ताम् ॥ ७ ॥

यथा जनशतस्वप्ननगराण्येकमन्दिरे ।
तथा जगन्ति खे भान्ति खानि नो सन्त्यसन्ति नो ॥ ८ ॥

एकेनानुभूयमानत्वादसन्ति नो । अन्यैरननुभूयमानत्वात्सन्ति नो ॥ ८ ॥

कचन्ति नृशतस्वाप्नपुराण्येकगृहे यथा ।
न च नाम कचन्त्येवं सन्त्यसन्ति जगन्ति खे ॥ ९ ॥

तदेव स्फुटमाह - कचन्तीति ॥ ९ ॥

चिच्चमत्कारमात्रं स्वं स्वात्माङ्गं दृश्यमद्वयम् ।
सरूपमेव नीरूपं सकारणमकारणम् ॥ १० ॥

स्वात्मनः अङ्गमवयवभूतमिव । एकस्य सरूपमेवापरस्य नीरूपम् ।
एकस्याप्येकदा सरूपमेवान्यदा नीरूपम् । तत्त्वदृशा तु सर्वदैव नीरूपमित्यर्थः ।
एवं सकारणमप्यकारणम् ॥ १० ॥

दधत्याश्चित्स्वभावायाः संस्काराद्यभिधाः कृताः ।
प्रतिमायाः प्रभाविन्या न संस्कारादयः पृथक् ॥ ११ ॥

तत्रैते जीवानां जगत्संस्काराः किं देहे सन्ति उत चिति । यदि चिति तर्हि सर्वेषां
दृश्याः स्युः । यदि देहे तर्हि देहापगमे उच्छिद्येरन्नित्याशङ्क्याह - दधत्या
इति । न केवलचितो नापि देहप्रतिमायाः किन्तु तत्तद्दृश्याकारपरिणामं
दधत्याश्चिदाभासव्याप्त्या चित्स्वभावाया बुद्धेरेव संस्काराद्यभिधाः कृताः ।
प्रभाविन्या बुद्धिप्रभावेणैव प्रभाववत्याः ॥ ११ ॥

अपूर्वत्वात्स्मृतिः स्वप्नः सङ्कल्पार्थानुभूतिषु ।
स्वमृत्यनुभवाद्यास्तु दृष्टार्थसदृशीषु च ॥ १२ ॥

यदि जगत्संस्कारधारिण्या बुद्धेरेव परिणामो जगत्तर्हि सङ्कल्पार्थानुभूतिषु
स्मृतित्वमेव स्यात्तत्राह - अपूर्वत्वादिति । पूर्वदृष्टार्थसदृशीष्वपि
सङ्कल्पार्थानुभूतिषु स्मृतिरेव अपूर्वत्वात्पूर्वानुभूततत्तांशप्रमोषात्स्वप्नो
भवति । तत्र स्वमृत्यनुभवाद्यास्तुइह जन्मन्यननुभूता अपि जन्मान्तरे अनुभूता
एवेति तत्संस्कारवत्येवाध्यस्यन्ते इति विशेष इत्यर्थः ॥ १२ ॥

इदं सर्गात्म सर्गादौ प्रतिमेव विजृम्भते ।
चिद्भामात्रात्मिका स्वच्छा नान्यन्नामोपपद्यते ॥ १३ ॥

इदं जाग्रत्सर्गात्म जगदपि स्वप्रप्रतिमेव सर्गादौ विजृम्भते ॥ १३ ॥

ब्रह्मैव भाति जगदित्युक्तमुक्त्यानया भवेत् ।
न च भातं नवं तच्च ब्रह्मैवेदमतः स्थितम् ॥ १४ ॥

सर्वथाभावभावेषु इत्याद्युक्तिभङ्गीभेदानां पर्यवसितं तात्पर्यं
पिण्डीकृत्याह - ब्रह्मैवेति । तच्च नवं भातं न प्राग्भातमिति न
किन्त्वनादिभारूपं तदैक्यापन्नं चेदं जगदनादि ब्रह्मैवेति तात्पर्यं स्थितं
पर्यवसन्नमित्यर्थः ॥ १४ ॥

कारणं कार्यमित्युक्तः स पूर्वः स विशिष्यते ।
संस्कार इति तेनैष संस्कारः कृतिरुच्यते ॥ १५ ॥

स परमात्मैव कारणं कार्यमिति चोक्तं । यतः स एव पूर्वः पूर्वं च कारणं
सामान्यरूपम् । स एव विशिष्यते विशेषरूपं च कार्यम् । कार्यसंस्काराधारो हि
बीजं कारणं सम्यक् करोति कार्यमिति व्युत्पत्तेस्तेनैष आत्मैव संस्कार इत्युक्तः । तत्र
कृतिः कार्यानुकूलो यत्नः कृधात्वर्थः । सम्यक् कारणं संस्कार इति व्युत्पत्त्या
कृतिलक्षणः संस्कारोऽप्येष आत्मैवोच्यते ॥ १५ ॥

तत्स्वप्नादावपूर्वोऽर्थो दृष्टान्त इति भाति यः ।
स संस्कारादिनामोक्तो न बाह्योऽर्थोस्ति चेतसि ॥ १६ ॥

तत्तत्र स्वप्नादौ अपूर्वो जाग्रदर्थविलक्षणो योऽर्थो जाग्रदर्थदृष्टान्त इति भाति स
एव सूक्ष्मार्थत्वात्संस्कारो वासना रागो द्वेष इच्छेत्यादिनाम्ना उक्तो न
कश्चिद्बाह्योऽर्थोऽन्यश्चेतसि संस्कारनामा निविष्टोऽस्तीत्यर्थः ॥ १६ ॥

वस्तु दृष्टं न दृष्टं च सच्चास्ते चेतनेव खे ।
स्वभावाद्भाति खात्मापि दृष्टवच्चातिजृम्भते ॥ १७ ॥

तच्च संस्काराख्यं वस्तु स्वप्ने दृष्टं जागरे अदृष्टम् । न चादर्शनमात्रेण
नास्तीति मन्तव्यम् । यतश्चित्ताकाशे चेतनेव सदैवास्ते । तच्च खात्मापि
साक्षिस्वभावात्स्वप्ने भाति जाग्रद्दृष्टपदार्थवच्चातितरां जृम्भते विस्तीर्यते ॥
१७ ॥

वेदान्तार्थात्मकं पूर्वसर्गाभावं प्रवर्तते ।
ततो वेद्यव्यवस्था ज्ञैः क्रियते स्वार्थसिद्धये ॥ १८ ॥

तदेव साधनसम्पत्तिसहितश्रवणावधारिताद्वितीयप्रत्यग्ब्रह्मलक्षण##-
प्रवर्तते एतादृशं तत्स्वभावं निश्चित्य ज्ञैः पण्डितैः स्वार्थस्य
परमपुरुषार्थस्य शिष्येष्वपि सिद्धये प्रागज्ञात आत्मैव जगत्संसारः ।
सम्यग्विचार्य ज्ञातस्तु अद्वयन्न् ब्रह्मैव मोक्षश्चेति व्यवस्था शास्त्रेषु क्रियत
इत्यर्थः ॥ १८ ॥

स्वप्ने तु जाग्रत्संस्कारो यस्तज्जाग्रत्कृतं नवम् ।
अजाग्रज्जाग्रदाभासं कृतमित्येव तद्विदः ॥ १९ ॥

इदानीमन्यकृतं स्वप्नदर्शनप्रकारमनूद्य दूषयति - स्वप्ने त्वित्यादिना ।
स्वप्ने यो जाग्रत्संस्कारस्तज्जाग्रत्कृतं नवमपूर्व रूपं तच्च अजाग्रदेव
जाग्रदाभासं जाग्रदनुभवेन कृतमिति तद्विदः केचिन्मन्यन्त इत्यर्थः ॥ १९ ॥

ततो वायाविवास्पन्दाश्चित्ते भावाः स्थिताः स्वतः ।
ते स्वतः सम्प्रवर्तन्ते कात्र संस्कारकर्तृता ॥ २० ॥

तन्न । यतो वायावास्पन्दा इव स्वप्नाद्यात्मताभावाः स्वत एव स्थिताः । ते च स्वत एव
स्वप्नाकारेण प्रवर्तन्ते तत्र जाग्रतः संस्कारकर्तृता केत्यर्थः ॥ २० ॥

एकं तथा च चिन्मात्रं स्वप्ने लक्षात्म तिष्ठति ।
पुनर्लक्षाद्यतः स्वप्न एकमास्ते सुषुप्तकम् ॥ २१ ॥

चिद्व्योम्नि स्वप्नसंवित्तिर्या सैव जगदुच्यते ।
सुषुप्तं प्रलयः प्रोक्तस्तस्मान्न्यायोऽयमेव सन् ॥ २२ ॥

एकमेव चिदाकाशं साकारत्वमनेककम् ।
स्वरूपमजहद्धत्ते यत्स्वप्न इव तज्जगत् ॥ २३ ॥

चित्ते सर्वे भावाः स्थिता इति कुतो ज्ञायते तत्राह - एकमिति ॥ २१ ॥ २२ ॥ २३ ॥

एवं चित्परमाण्वन्तर्जगद्भावमिदं स्थितम् ।
तदनन्यात्म चाभोगि स्वप्नादर्शतलेष्विव ॥ २४ ॥

एवमुक्तयोपपत्त्या तच्च चितः अनन्यात्म यथा स्वप्नेषु यथा वा आदर्शतलेषु
दृष्टं मुखवनपर्वतादि अनन्यात्म तद्वदित्यर्थः ॥ २४ ॥

चिद्व्योम संविन्मात्रं यत्परमाणुवदाततम् ।
अनादिमध्यपर्यन्तं तदेव जगदुच्यते ॥ २५ ॥

परमाणुवत्परमसूक्ष्ममाततं विस्तीर्ण च कालतोऽप्यनादिमध्यपर्यन्तम् ॥ २५ ॥

तस्माद्यत्र चिदाकाशमनन्तं सततं स्थितम् ।
तत्रास्तीति जगद्भानन्न् तदङ्गानन्यरूपि यत् ॥ २६ ॥

तस्याङ्गमिव अनन्यरूपि । अङ्गेति सम्बोधनं वा ॥ २६ ॥

चिन्मात्र एव भुवनं त्वमहं चिन्मयं जगत् ।
इति न्यायाज्जगद्याति परमाणूदरेऽप्यजम् ॥ २७ ॥

न्यायाद्गुरुशास्त्रोक्तयुक्तिकलापात्परिज्ञानात् जगत्पराणूदरेऽपि याति । स्थूलतां
परित्यज्य परमसूक्ष्मचिन्मात्रतामापद्यत इति यावत् ॥ २७ ॥

तस्मादहं पराण्वात्मा समस्तजगदाकृतिः ।
सर्वत्रैव च तिष्ठामि परमाणूदरेऽपि च ॥ २८ ॥

कीदृशं तद्गुरुशास्त्रोक्तन्यायैः परिज्ञानं तत्स्वानुभवाभिलापेन दर्शयति ##-

चिन्मात्रपरमाणुः सञ्जगदात्माप्ययं नभः ।
यत्र तिष्ठाम्यहं तत्र पश्यामि भुवनत्रयम् ॥ २९ ॥

अहं चित्परमाण्वात्मा तेन चित्परमाणुना ।
एकतामागतो वारि वारिणेव तदीक्षणात् ॥ ३० ॥

चित्परमाण्वात्मा शोधितत्वम्पदार्थरूपोऽहं तेन चित्परमाणुना
शोधिततत्पदार्थेन ब्रह्मणा सह तदीक्षणादेकतामागतः । तथा च श्रुतिः -
यथा जलं जले क्षिप्तं क्षीरे क्षीरं घृते घृतम् । अविशेषो भवेत्तद्वज्जीवात्मा
परमात्मनि ॥ इति ॥ ३० ॥

तदोजः सम्प्रविश्याहं स्थितस्तदनुभूतिवत् ।
अन्तस्थत्रिजगद्रूपो यथाब्जे बीजमङ्कुरे ॥ ३१ ॥

एवं प्रश्नोत्तरप्रसङ्गेनात्मज्ञानरहस्यमुक्त्वा प्रस्तुतकथामवलम्ब्याप्याह

  • तदोज इत्यादिना । तदनुभूतिस्तत्प्राण्योजोन्तर्गतवासनामयजगदनुभवस्तद्वदिति
    प्राक्तनकथाशेषानुसन्धानोक्तिः । यथा आब्जे अङ्कुरे सूक्ष्मरूपेण स्थितं भावि
    बीजमन्तस्थभाविवैचित्र्यसहस्रगर्भं तद्वदित्यर्थः ॥ ३१ ॥

तत्र मे त्रिजगद्रूपमन्तः कचितमात्मनि ।
तथा तन्न तु तद्बाह्ये विद्यते केनचित्क्वचित् ॥ ३२ ॥

तत्र मे अन्तरेवात्मनि तदीयं मदीयमन्यदीयं च सर्वं वासनामयं
त्रिजगद्रूपमात्मनि प्रत्यक्चैतन्ये कचितम् । तज्जगद्रूपं किञ्चिदपि बाह्ये न विद्यते ।
तद्बहिर्देशस्यैवात्यन्ताप्रसिद्धेरिति भावः ॥ ३२ ॥

यत्र यत्र यदा भाति स्वप्ने जाग्रदितीह वा ।
सबाह्याभ्यन्तरं दृश्यं निजं चिद्भानमेव तत् ॥ ३३ ॥

भाति स्वप्ने यदा जन्तोर्जगदानन्दमाततम् ।
चिदणोरेव तद्भानमात्मनस्तत्पदात्मना ॥ ३४ ॥

तत्पदात्मना स्वप्नस्थानात्मना ॥ ३४ ॥

व्याध उवाच ।

अकारणं चेद्दृश्यं तत्कथमेतत्प्रसिध्यति ।
सकारणं चेद्दृश्यं तत्स्वप्ने सर्गादिधीः कुतः ॥ ३५ ॥

कथं प्रसिध्यति । अकारणकस्य शशशृङ्गादेः स्वरूपसिद्ध्यदर्शनात् । यदि
सकारणं तर्हि स्वप्ने घटादिसर्गकारणदण्डचक्रादीनामभावात्सर्गादिधीः कुतः
कारणादिति सन्दिहानस्य प्रश्नः ॥ ३५ ॥

मुनिरुवाच ।

अकारणक एवायं सर्ग आदौ प्रवर्तते ।
समस्तकारणाभावाद्यतः सर्गात्मचिन्नभः ॥ ३६ ॥

अकारणकपक्षमेव ब्रह्माद्वैतपर्यवसानेन समर्थयन्मुनिरुत्तरमाह -
अकारणक एवेति ॥ ३६ ॥

अकारणानां भावानामत्यन्तासम्भवादिह ।
क्वचित्सप्रतिघः सर्गो न सम्भवति कश्चन ॥ ३७ ॥

अकारणकः सप्रतिघः स्थूलसर्गो न सम्भवति । प्रातिभासिके तु मिथ्याभूते न
सकारणकत्वनियम इति भावः ॥ ३७ ॥

ब्रह्मेदमित्थमाभाति भास्वरं चित्स्वभावतः ।
सर्गादिशब्दपर्यायमाद्यन्तपरिवर्जितम् ॥ ३८ ॥

इत्यकारणके सर्गे कचति ब्रह्मरूपिणि ।
परस्यावयवाभासे नित्यात्मावयवात्मना ॥ ३९ ॥

इति उक्तरीत्या सर्गे अकारणके अत्यन्तमसम्भाविते सति ब्रह्मरूपिणि परस्य अवयवाभासे
मायाप्रतिबिम्बचैतन्ये नित्यस्यात्मन औपाधिकावयवात्मना अनानात्वेऽपि नानात्वे
अत्यन्तमयुक्ते ब्रह्मण्यब्रह्मरूपिणि अनाकारेऽपि साकारे अप्रतिघन्न् प्रति कचति
प्रतिभाते सति निराकारं तद्ब्रह्मैव चिद्रूपत्वात्स्फुरद्वपुः साकारमिव भातात्म
भूत्वा देवर्षिमुनिभारूपं स्थावरं जङ्गमं क्रमात्सर्वां नियतिं
विधिप्रतिषेधादींश्च करोतीति फलितमिति चतुर्णामन्वयः ॥ ३९ ॥

अनानात्वेऽपि नानात्वे ब्रह्मण्यब्रह्मरूपिणि ।
अनाकारेऽपि साकारे कचत्यप्रतिघन्न् प्रति ॥ ४० ॥

तद्ब्रह्मैव निराकारं चिद्रूपत्वात्स्फुरद्वपुः ।
साकारमिव भातात्म भूत्वा स्थावरजङ्गमम् ॥ ४१ ॥

देवर्षिमुनिभारूपं करोति नियतिं क्रमात् ।
विधींश्च प्रतिषेधांश्च देशकालक्रियादिकान् ॥ ४२ ॥

भावाभावग्रहोत्सर्गस्थूलसूक्ष्मचराचराः ।
अर्था व्यभिचरन्त्येते नियतिर्नाखिलास्ततः ॥ ४३ ॥

ब्रह्मकृतत्वादेव भावाभावाद्यर्थव्यभिचारेऽपि न तन्नियतेर्व्यभिचार इत्याह ##-

ततः प्रभृति भावानां सकारणकतां विना ।
सैकतादिव तैलानां न सम्भवति सम्भवः ॥ ४४ ॥

ततो नियतिकल्पनातः प्रभृति नियतिविशेषरूपां कार्यकारणतां विना भावानां
सम्भवो नास्ति ॥ ४४ ॥

नियतिर्नायकश्चैव ब्रह्मतश्चाङ्गमात्मना ।
स्वाङ्गेन संयमयति करेणेव निजं करम् ॥ ४५ ॥

तस्य ब्रह्मणो नियतिस्तत्कल्पको नायको भोक्ता जीवश्चेति करद्वयसदृशभङ्गं
ब्रह्मत आत्मना स्वेनैव प्रवृत्तम् । तद्ब्रह्म तेनैकेन स्वाङ्गेनापरं
करेणापरं करमिव संयमयति नियच्छति ॥ ४५ ॥

अबुद्धिपूर्वं चानिच्छमेवमेव प्रवर्तते ।
काकतालीयवत्स्पन्दादावर्ता इव वारिणि ॥ ४६ ॥

अत एव जीवस्यैवमेव जाग्रत्स्वप्नलक्षणः सर्गः अबुद्धिपूर्वमनिच्छं च
काकतालीयवत्प्रवर्तते ॥ ४६ ॥

सन्निवेशो हि नियतिस्तां विना प्रतिघोदयम् ।
ब्रह्म स्थातुं न शक्नोति तच्च सर्वात्मताक्षयम् ॥ ४७ ॥

कारणप्रयुक्तः कार्ये सन्निवेशविशेषनियम एव नियतिस्तां सन्निवेशनियतिं विना
क्षणमप्यज्ञातं ब्रह्म स्थातुं न शक्नोति । यथा
मृच्चूर्णपिण्डघटकपालाद्यन्यतमसन्निवेशं विना न तिष्ठति तद्वदिति भावः ।
तच्च सन्निवेशधारणं ज्ञानेन सर्वात्मनैवात्यन्तिकः क्षयो यस्य
तथाविधमामोक्षमनुवर्तत इत्यर्थः ॥ ४७ ॥

एवं सकारणं सर्वं सर्वदा दृश्यमण्डलम् ।
यस्य सर्गे यतः कालात्ततः प्रभृति तं प्रति ॥ ४८ ॥

एवं नियतिकल्पनातः सर्वं सकारणं यं प्रति यतः कालात्प्रभृति नियतिर्यस्य
सर्गे प्रवृत्ता तं प्रत्येव न पुरुषान्तरं कालान्तरभाविपदार्थं च प्रतीत्यर्थं ॥
४८ ॥

भात्यकारणकं ब्रह्म सर्गात्माप्यबुधं प्रति ।
तं प्रत्येव च भात्येष कार्यकारणदृग्भ्रमः ॥ ४९ ॥

अकारणकं ब्रह्म अबुधमज्ञं प्रति सर्गात्मपि भाति ॥ ४९ ॥

काकतालीयवत्सर्गे स्थिते त्वावृत्तिवृत्तिवत् ।
इदमित्थमिदं नेत्थमितीयं नियतिः स्थिता ॥ ५० ॥

विवेकिदृशा काकतालीयवत्सर्गे स्थिते सति पूर्वापरीभावनियममात्रदर्शनादिदं
घटादि इत्थं दण्डचक्रमृदादिसामग्रीतो जातं इदं पटादि तुरीवेमादित
इत्थंविधं जातमिति पर्यालोचनेन नित्यवेदस्य पदवाक्यव्याकरणनियतिरिव
स्थितेत्यर्थः ॥ ५० ॥

सकारणत्वं भावानामवश्यम्भाविनि क्रमे ।
जाग्रत्स्वप्नदृशो नेह सम्भवन्त्यपकारणाः ॥ ५१ ॥

जन्यभावानामवश्यम्भाविनि पौर्वापर्यक्रमे सकारणकत्वमेवेति यो मन्यते तस्य
जाग्रत्स्वप्नदृशः अकारणा न सम्भवन्ति । न हि स्वप्नसुषुप्त्यन्यतरानन्तरं
जाग्रत्प्रपञ्चोत्पत्तौ कारणानि सन्ति । एवं जाग्रत्सुषुप्त्यन्यतरानन्तरं
स्वप्नप्रपञ्चोत्पत्तावपि कारणानि निरूपयितुं न शक्यन्ते इति सोऽपि न सम्भवति । न च
जाग्रद्न्तरितः स्वप्नप्रपञ्चस्तथैवास्ते येन सृष्टिं नापेक्षेत । एवं
स्वप्नसुषुप्त्यन्तरितो जाग्रत्प्रपञ्चोऽपीत्यर्थः ॥ ५१ ॥

यथा स्वप्नेऽखिलामम्बुसङ्क्षोभात्प्रलयभ्रमाः ।
दृश्यते कारणं तत्र श्रूयतामनुभूयताम् ॥ ५२ ॥

यथा मयैव प्राण्योजसि स्वप्ने दृष्टाः अखिलां
भुवमभिव्याप्याम्बुसङ्क्षोभात्प्रलयभ्रमास्तत्र किं कारणं त्वया दृश्यते
किं वा तत्र श्रुतितोऽपि श्रूयतां प्रमाणान्तरेण वानुभूयताम् । सम्भावनायां
लोट् । न किञ्चित्सम्भावितमित्यर्थः ॥ ५२ ॥

सर्ववस्तुषु कचन्ति सर्वदा युक्तयः स्फटिकशुक्तयो यथा ।
भावनानुभव एव स स्वयं शक्तिमाञ्जयति जीवितात्मकः ॥ ५३ ॥

उक्तप्रकारा ब्रह्मप्रपञ्चैक्यप्रतिपादिका युक्तयोऽनुयुक्तेष्वपि सर्ववस्तुषु
बुद्धिमतां स्वत एव कचन्ति स्फुरन्ति । यथा स्फटिकमणयः शुक्तयो वा सति
प्रकाशे स्वचाकचक्येन स्वत एव कचन्ति तद्वत् । तत्तस्मात्सर्वत्र निर्णये
शास्त्रानुसारियुक्तिभावनानुभव एव स प्रसिद्धः स्वयं
सर्वतत्त्वनिर्णयशक्तिमान्सर्वप्रमाणजीवितात्मको जयति । सर्वोत्कर्षेण वर्तत इत्यर्थः
॥ ५३ ॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वा० दे० मो० नि० उ० अवि० श० पदार्थविचारो नाम
चतिउश्चत्वारिंशदधिकशततमः सर्गः ॥ १४४ ॥

इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे निर्वाणप्रकरणे उत्तरार्धे
पदार्थविचारो नाम चतुश्चत्वारिंशदधिकशततमः सर्गः ॥ १४४ ॥