त्रिचत्वारिंशदधिकशततमः सर्गः १४३
मुनिरुवाच ।
सर्वेषामेव धर्माणां कर्मणां शर्मणामपि ।
पण्डितः पुण्डरीकाणां मार्तण्ड इव मण्डनम् ॥ १ ॥
पाण्डित्यस्य प्रशंसात्र तच्च चिन्मात्रदर्शनम् ।
चिदेव जगदित्येतद्भूयो युक्त्या समर्थ्यते ॥
सर्वेषामेव धर्माणां निर्णये धर्माविरुद्धलौकिककर्मणां निर्णये
तदुभयफलैहिकामुष्मिकशर्मणां तारतम्यनिर्णये च सन्देहग्रन्थिभेदनेन
श्रोतॄणां बुद्धिविकासनः पण्डित एव सभामण्डनम् । यथा पुण्डरीकाणां
विकासे मार्तण्डो नभोमण्डनन्न् तद्वदित्यर्थः ॥ १ ॥
आत्मज्ञानविदो यान्ति यां गतिं गतिकोविदाः ।
पण्डितास्तत्र शक्रश्रीर्जरत्तृणलवायते ॥ २ ॥
आमुष्मिकसुखमपि सर्वं पण्डितप्राप्यात्मसुखवारिधौ सीकरादपि लघुतरमित्याह
- आत्मज्ञानेति ॥ २ ॥
पाताले भूतले स्वर्गे सुखमैश्वर्यमेव वा ।
न तत्पश्यामि यन्नाम पाण्डित्यादतिरिच्यते ॥ ३ ॥
पाण्डित्यात्पाण्डित्यफलादानन्दात् । एतस्यैवानन्दस्यान्यानि भूतानि मात्रामुपजीवन्ति
इति श्रुतेरिति भावः ॥ ३ ॥
पण्डितस्य यथाभूता वस्तुदृष्टिः प्रसीदति ।
दृगिवेन्दौ निरम्भोदे सकलामलमण्डले ॥ ४ ॥
पण्डितस्य सच्छास्त्रविचारजन्यज्ञानवतः परमार्थवस्तुरूपा दृष्टिः
स्वात्मन्येव प्रसीदति आह्लादते । सकलामलमण्डले शरत्पूर्णेन्दौ दृक् चक्षुरिव ॥ ४ ॥
इदं दृश्यमविद्यात्म ब्रह्म सम्पद्यते क्षणात् ।
बुधस्य बोधात्स्रग्दाम सर्पत्वमिव शाम्यति ॥ ५ ॥
बुधस्य पण्डितस्य स्रग्दामनि कल्पितं सर्पत्वमिव देहसर्गादिदृश्यजातं
बोधाच्छाम्यति ॥ ५ ॥
यत्स्थितं ब्रह्मणि ब्रह्म कृतास्तेनैव सत्यता ।
स्वभावैकात्मिकाः सञ्ज्ञा देहसर्गक्षयादिकाः ॥ ६ ॥
तर्हि देहसर्गादि शान्तिर्ब्रह्मस्वभावादन्या उत्पद्यते नेत्याह - यदिति । ब्रह्म
स्वतत्त्वज्ञानेन ब्रह्मणि स्वस्वभावे यत्स्थितं तस्यैव तेनैव स्वभावैकात्मिका
देहसर्गक्षयादिकाः सञ्ज्ञाः कृता इति सत्यता परमार्थ इत्यर्थः ॥ ६ ॥
सर्गो विद्यत एवायं न यत्र किल किञ्चन ।
तस्य धर्माणि कर्माणि न चैवाक्षरमालिका ॥ ७ ॥
कुत एवमिति चेत्परिशिष्टब्रह्मणो दृश्यक्षयाख्यधर्मकर्मशून्यत्वादित्याह ##-
पृथ्व्यादि सम्भवति चेत्तत्सकारणमस्तु तत् ।
तदेव यत्र नास्त्येव तत्र किं तस्य कारणम् ॥ ८ ॥
त्रैकालिकासत्त्वादेव दृश्यस्य सकारणकत्वं निरस्तमित्याह - पृथ्व्यादीति ॥ ८ ॥
ब्रह्मणः प्रतिभातं यत्तदिदं जगदुच्यते ।
तेनैव कुत एतानि पृथ्व्यादीनि क्व कारणम् ॥ ९ ॥
प्रतिभानं प्रतिभासः । न हि प्रातिभासिके घटे दण्डचक्रादिकारणापेक्षास्तीति
भावः ॥ ९ ॥
स्वप्नद्रष्टुर्दृश्यनृणामस्ति काल्पनिकं यथा ।
न वास्तवं पूर्वकामं जाग्रत्स्वप्ने तथा नृणाम् ॥ १० ॥
पूर्व कामयते इति पूर्वकामं पित्रादिकारणं काल्पनिकमस्ति न वास्तवं यथा तथा
जाग्रद्रूपे स्वप्नेऽपीत्यर्थः ॥ १० ॥
यथा प्राक्कर्म पुंस्त्वे च स्वप्ने पुंसां न विद्यते ।
इह जाग्रत्स्वप्ननृणां भातानामपि नो तथा ॥ ११ ॥
पित्रादिवत्कर्माप्यवास्तवमेवेत्याह - यथेति । पुंस्त्वे पुरुषादिभावे ॥ ११ ॥
जीवः सर्वेषु सर्गेषु स्वप्नार्थान्निखिलान्मिथः ।
प्राक्कर्मसत्वं मिथ्यात्म यथावासनमेषु च ॥ १२ ॥
मिथः पश्यतीति शेषः । एषु च सर्गेषु यथावासनं मिथ्याभूतसर्वव्यवहारे
प्राक्कर्मसत्त्वमपि यथावासनं मिथ्यात्मैवेत्यर्थः ॥ १२ ॥
सर्गादावथ देहान्ते भान्ति स्वप्नार्थवन्मिथः ।
यथासंवेदनं जीवाः सन्तोऽसन्तश्च तेन ते ॥ १३ ॥
जीवाः सर्गो भूतभुवनादिसर्गस्तत्प्रभृतिके देहसिद्ध्यन्ते संसारे स्वप्नार्थवदेव
यथासंवेदनं स्वस्वसंवेदनान्यनतिक्रम्य भान्ति तेन स्वप्नार्था इव
संवेदनांशे सन्तो विद्यमाना इतरांशे असन्तश्चेत्यर्थः ॥ १३ ॥
यथासंवेदनं सर्वे भान्ति भावयतस्ततः ।
ते सन्त्यात्मन्यपि स्वप्ने जाग्रतीवार्थदा मिथः ॥ १४ ॥
यतो यथाभावनं भान्ति अतः स्वप्नेऽपि सन्ति । मिथः परस्परमर्थदा
अर्थक्रियासमर्थाः ॥ १४ ॥
सङ्कल्पसंविदग्रस्थवस्तुनिष्ठतयाऽस्फुटम् ।
फलं चाप्नोति ते स्वप्ने लोकनिष्ठतयाऽस्फुटः ॥ १५ ॥
ते तव स्वप्ने यथा विनापि बाह्यार्थ भोजनादिसङ्कल्पसंविदेव
पाकादिसंवित्क्रमेणाग्रस्थग्रासादिवस्तुनिष्ठा यस्यास्तथाविधात्वेन
तृप्त्यादिफलं प्राप्नोति तथा जाग्रत्सङ्कल्पसंविदपि । अस्फुटः स्वप्नः स्फुटा
जाग्रदित्येतावानेव विशेष इत्यर्थः ॥ १५ ॥
शुद्धा संवित्स्वभावस्था यत्स्वयं भाति भास्वरा ।
तस्या भानस्य तस्यास्य जाग्रत्स्वप्नाभिधाः कृताः ॥ १६ ॥
स्फुटमस्फुटं वा यदेव भूत्वा स्वयं भाति तस्यास्तस्यास्य भानस्य जाग्रत्स्वप्नौ
इत्यभिधा लोके कृताः ॥ १६ ॥
सर्गादावथ देहान्ते भातं यद्वेदनं यथा ।
तत्तथाऽऽमोक्षमेवास्ते तदिदं सर्ग उच्यते ॥ १७ ॥
आमोक्षं मोक्षपर्यन्तं तत्तथैवास्ते प्रवाहरूपेणेत्यर्थः ॥ १७ ॥
जाग्रत्स्वप्नार्थसार्थस्य संविदश्च न भिन्नता ।
अस्त्यप्रतिघरूपायाः प्रकाशालोकयोरिव ॥ १८ ॥
जाग्रत्स्वप्नयोर्ये अर्थाः प्रसिद्धास्तेषामप्रतितरूपायास्तत्संविदश्चातो न
भिन्नतेत्यर्थः ॥ १८ ॥
अग्न्यौष्ण्ययोरिव तथा वातस्पन्दनयोरिव ।
द्रवाम्भसोरिवाऽऽवीचि वा शैत्यानिलयोरिव ॥ १९ ॥
आवीचि वीचीनभिव्याप्य स्थितयोर्द्रवाम्भसोरिव वा ॥ १९ ॥
सर्वमप्रतिघं शान्तं जगज्जातमसन्मयम् ।
इत्थं सन्मयमेवास्ति नास्त्यर्थेन च संयुतम् ॥ २० ॥
अप्रतिघममूर्तचिद्रूपत्वात्प्रतिघातासहम् । इत्थमधिष्ठानचित्स्वभावत्वप्रकारेण
तु सन्मयमेवास्ति । इत्थमधिष्ठानचित्स्वभावत्वप्रकारेण तु सन्मयमेवास्ति ।
नेतिनेतीतिश्रुत्या निषिध्यमानत्वान्नास्त्यर्थेन नञा तदर्थेन वा प्रतियोगिभावेन
संयुतं च ॥ २० ॥
ब्रह्म प्रोद्भूय मृत्वा च दृश्यानुभवरूपि च ।
चिन्मात्रमज्रं शान्तमेकमेवामलं स्थितम् ॥ २१ ॥
ब्रह्म जगदात्मना प्रोद्भूय प्रलयात्मना मृत्वा च
दृश्यानुभवरूपित्वात्तदननुभवरूपं च सार्वात्म्यव्यवहारे । परमार्थे तु
एकमेवाचलं स्थितम् ॥ २१ ॥
कार्यकारणतार्थानां या यथा हृदि कल्पिता ।
ब्रह्मणा पुरुषेणेव नगर्यन्तस्तथैव सा ॥ २२ ॥
नगर्यन्तर्मृत्कुड्यादीनामर्थानां पुरुषेणेव गगनपवनादीनां कार्यकारणता
ब्रह्मणा या कथा कल्पिता सा तथैवास्ते । न नियतिभङ्गायेदं शास्त्रं किन्तु
तत्सत्यताभेदादिभङ्गायेत्यर्थः ॥ २२ ॥
ब्रह्मणो हृदि सर्गोऽयं हृदि ते स्वप्नपूर्यथा ।
कार्यकारणता तत्र तथास्तेऽभिहिता यथा ॥ २३ ॥
तत्सत्यताभङ्गे स्वाप्नवस्तुनियतिवच्चिन्मात्रमेव पर्यवस्यतीत्याह - ब्रह्मण इति ।
अभिहिता स्वाप्नी यथा तथा ॥ २३ ॥
संविद्घनोदरे सर्गे कार्यकारणता स्थिता ।
तथा यथोहिता तेन त्वया वा कल्पनापुरम् ॥ २४ ॥
यथा ऊहिता सर्गादौ सङ्कल्पिता ॥ २४ ॥
चिता सङ्कल्परूपिण्या सर्गे सङ्कल्पपत्तने ।
त्वयैव स्थापिता संस्था कार्यकारणरूपिणी ॥ २५ ॥
त्वयापि स्वकीयसङ्कल्पपत्तने स्वेच्छानुसारिकार्यकारणरूपिणी व्यवस्था सुस्थापेति
सिद्धवत्कृत्याह - चितेति ॥ २५ ॥
आकाश एव कचनं यच्चित्ते स्वात्मरूपिणी ।
नियतं सन्निवेशत्वात्तदन्तः सर्ग उच्यते ॥ २६ ॥
सङ्कल्पनगरतदन्तर्गतव्यवस्थयोश्च चिदाकाशमात्रकचनत्वं
स्वानुभवसिद्धम् । अयं दृश्यमानसर्गोऽपि
हिरण्यगर्भसङ्कल्पजत्वात्सङ्कल्पसर्गान्तर्गत एवोच्यते श्रुतिपुराणादौ न
तद्बहिर्भूत इत्यर्थः ॥ २६ ॥
या संविद्रव्यवस्थास्ते हृदि सङ्कल्पपत्तने ।
सैषा स्वभावसंसिद्धिः कार्यकारणतार्थजा ॥ २७ ॥
ते हृदि सङ्कल्पपत्तने या संविद्रवेश्चिदादित्यस्य स्वप्रकाशतालक्षणा अवस्था
सदैव आस्ते सैषैव कार्यकारणतार्थजा स्वभावसंसिद्धेति न
ततोऽणुमात्रमप्यन्येत्यर्थः ॥ २७ ॥
प्रथमं यद्यथा भाति चित्त्वमस्ति तथेह तत् ।
तस्यैव नियतिः कालो देशादीत्यभिधा कृता ॥ २८ ॥
तदेवोपपादयति - प्रथममिति । स भूरिति व्याहरत्स भुवमसृजत
इत्यादिश्रुतेर्हिरण्यगर्भहार्दचिति सर्गारम्भे यत्पृथिव्यादिपथा
गन्ध्काठिन्यादिप्रकारेण चित्त्वं भाति स्फुरति तदिदानीमपि तथैवास्ति । तस्यैव तथा
स्थितस्य पृथिव्या गन्धकाठिन्यनियतिरपां द्रवत्वनियतिस्तेजस
उष्णप्रकाशनियतिर्वायोः स्पन्दसौक्ष्म्यनियतिरित्यादिरूपेण अतीतानागतादिकालरूपेण
प्राचीप्रतीच्यादिदेशादिरूपेण च स्थितस्य तथा तथा अभिधा कृतेत्यर्थः ॥ २८ ॥
या नामाशु यथा भाति चेतनाकाशशून्यता ।
तया तथा वस्तुतया कार्यकारणताश्रिता ॥ २९ ॥
एवं गोघटादिषु सर्वत्र बोध्यमित्याह - या नामेति । यथा गौः पयसः
कारणं घटस्तद्धारणस्य ॥ २९ ॥
चिच्चमत्कारमात्रेऽस्मिन्सर्गाभे भावरूपिणि ।
पूर्वं भावाः प्रवर्तन्ते पश्चात्सर्गाभिधा विदः ॥ ३० ॥
यद्धि मनसा ध्यायति तद्वाचा वदति इति श्रुतेर्मनसि प्रथमं रूपकल्पना
पश्चान्नामकल्पनेत्याह - चिच्चमत्कारेति । भावो भावना सङ्कल्पस्तद्रूपिणि ॥ ३०
॥
शून्यतास्त्रिजगद्रूपास्तथा चिद्व्योमनि स्थिताः ।
अनन्याः पवने सौम्ये स्पन्दसता यथा निजाः ॥ ३१ ॥
यत्र या कल्पना सा शून्यापि तन्मात्ररूपेति दृष्टान्तेन दर्शयति - शून्यता इति ।
यथा पवनस्य स्पन्दसत्ता तद्व्यतिरिक्तस्वरूपशून्या तदनन्या तथा चिद्व्योमनि
त्रिजगद्रूपाः शून्यता अपीत्यर्थः ॥ ३१ ॥
व्योम्नि सौषिर्यनैबिड्यं यथा नीलमिति स्थितम् ।
चिति चेतननैबिड्यं तथा सर्ग उपस्थितम् ॥ ३२ ॥
तथा च चिद्घनतैव भ्रान्तदृशां जगदात्मना स्फुरतीत्याह - व्योम्नीति ।
सौषिर्यनैबिड्यमिति । धूमधूल्यादिव्याप्ते नभसि नैल्यादर्शनादिति भावः ॥ ३२ ॥
आभात एव भातेऽस्मिन्कृच्छ्रात्सर्गे विसर्गता ।
बुध्यते रज्जुभुजगे रज्जुरूपं यथा पुनः ॥ ३३ ॥
कदा पुनर्ब्रह्मणि विसर्गता बुध्यते तदाह - आभात इति सर्गे आभाते
त्रिविधपरिच्छेदशून्यचिन्मात्रस्वभावतो भाते सतीत्यर्थः ।
कृच्छ्रात्साधनाभ्यासक्लेशात् ॥ ३३ ॥
मृतः स स्वप्नवत्सर्वः सम्पश्यति पृथग्जगत् ।
तच्चान्यदिदमन्यच्च नित्याप्रतिघमम्बरम् ॥ ३४ ॥
ऐहलौकिक इव पारलौकिकः सर्गोऽप्येतादृगेवेत्याह - मृत इति । तच्च
तदन्यत्तदुत्तरपारलौकिकं च इदं च एतदन्यदैहिकं च सर्वमप्रतिघममूर्तं
चिदम्बरमेव ॥ ३४ ॥
व्याध उवाच ।
परतः सुखदुःखार्थ देहः सम्पद्यते कथम् ।
किमस्य हेतुः के वास्य हेतवः सहकारिणः ॥ ३५ ॥
एतद्देहपातात्परतः अन्यो देहः कथं सम्पदय्ते । हेतुरुपादानम् । हेतवो निमित्तानि ॥
३५ ॥
कुर्वन्ति धर्माधर्माश्चेत्तेन प्रतिघरूपिणा ।
तदस्याप्रतिघं रूपं कुर्वन्तीत्यसमञ्जसम् ॥ ३६ ॥
ये धर्माधर्मा एव स्वभोगार्थ सर्वं कुर्वन्तीति मन्यन्ते तेषां कर्मनिर्मितस्य
ज्ञानेन निवृत्त्यदर्शनादनिर्मोक्षप्रसङ्ग इत्याह - कुर्वन्तीति । प्रतिघरूपिणा
तेन देहादिभावेन स्थितस्यास्याप्रतिघं नित्यं तन्मोक्षाख्यं रूपं कर्माणि
कुर्वन्तीत्यसमञ्जसम् । कृतकस्यानित्यत्वावर्जनादिति भावः ॥ ३६ ॥
मुनिरुवाच ।
धर्माधर्मौ वासना च कर्मात्मा जीव इत्यपि ।
पर्यायशब्दभारोऽत्र कल्प्यते न तु वास्तवः ॥ ३७ ॥
विहितनिषिद्धाचरणे संस्काररूपेण स्थिते धर्माधर्मावित्युच्येते
तादृशसंस्कारपुञ्जात्मकमेव मनस्तदेव चिदाभासव्याप्तं जीवः स च
प्राणादिचेष्टाप्रधानत्वात्कर्मात्मा स एव स्ववासनानुसारिदेहादि
सङ्कल्पयंस्तदात्मा सम्पद्यत इवेति चित एवैते सर्वे प्रतिभासविशेषास्तत्र कामं
यथेच्छं कल्पयन्तु फलतो न भेद इत्याशयेन द्वितीयप्रश्नस्य प्रथमं
मुनिरुत्तरमाह - धर्माधर्मावित्यादिना । शब्दभारः शब्दराशिः ।
वास्तवोऽर्थभेदस्तु न त्वस्तीत्यर्थः ॥ ३७ ॥
चित्त्वात्कल्पितचित्त्वेन स्वयं चिन्नभसात्मनि ।
कृतानि नामान्येतानि कश्चिदस्तीति चेतसा ॥ ३८ ॥
कश्चिद्दृश्यदेहादिप्रपञ्चोऽयप्स्तीति चेतसा कल्पितेन चित्त्वेन चिदाभासरूपेण
चिन्नभः स्वरूपे आत्मनि स्वयं खेनैव एतानि धर्माधर्मादीनि
तत्फलसुखदुःखादीनि च नामानि कृतानि । सर्वाणि रूपाणि विचित्य धीरो नामानि
कृत्वाऽभिवदन्यदास्ते इत्यादिश्रुतेरिति भावः ॥ ३८ ॥
संविदात्मा स्वयं चित्त्वाद्देहं वेत्ति खमेव खे ।
मृत्वा सन्तं सन्तमिव सङ्कल्पस्वप्नयोरिव ॥ ३९ ॥
प्रथमप्रश्नं समाधत्ते - संविदात्मेति ॥ ३९ ॥
स्वयं स्वप्न इवाभाति मृतस्य परलोकधीः ।
तमेव पश्यति चिरं न तत्राप्यस्ति सत्यता ॥ ४० ॥
मरणोत्तरकालं देहादिकल्पनमपि स्वप्नवदेवेत्याह - स्वयमिति ॥ ४० ॥
मृतं निर्माति चेदन्यः कथं वास्य स्मृतिर्भवेत् ।
कथं वा स्यात्स एवासौ चेतनत्वं तमेव खम् ॥ ४१ ॥
पित्रादिरीश्वरो वा मृतं पुनर्निर्मातीति भ्रमं वारयति - मृतमिति ।
अन्यश्चेन्निर्माति तदा स एवासौ कथं स्यात् । तत्सृष्ट्वा तदेवानुप्राविशत् इति
निर्मातुरेव प्रवेशश्रवणात् । तस्य च स्वात्मत्वात् । इष्टापत्तावस्य
स्तन्यपानादिप्रवृत्त्यनुकूला स्मृतिः कथं वा भवेत् । तमेव
पूर्वसिद्धमात्मानमाश्रित्य जातस्य चेतनत्वं यन्निरूढं तदपि खं शून्यमेव
स्यादित्यर्थः ॥ ४१ ॥
मृतौ न जायते तस्माच्चेतसैव स केवलम् ।
इहायमित्थमित्येव वेत्ति खे वासनात्मकम् ॥ ४२ ॥
प्रथमप्रश्नोत्तरमुक्तमनुवदन्नुपसंहरति - मृताविति । न जायते जन्म न
लभते किन्तु चेतसैव केवलमिहायमित्थं जातोऽस्मीति मृषैव खे
जन्मादिविक्रियाशून्ये आत्मनि कल्पनया वेत्ति ॥ ४२ ॥
स्वमेव भावमभ्यस्तमास्ते सोऽनुभवंश्चिरम् ।
स्फुटप्रत्ययवांस्त्वत्र सत्यमित्येव वेत्त्यलम् ॥ ४३ ॥
तस्यैव भावस्याभासात्स्फुटप्रत्ययतया जन्मादिव्यवहारो लोकवेदयोर्न वस्तुत
इत्याह - स्वमेवेति ॥ ४३ ॥
खात्मा खमेव तत्रैव स्वप्नाभं दृश्यमाहरन् ।
पुनः स्वमरणं वेत्ति पुनर्जन्म पुनर्जगत् ॥ ४४ ॥
आहरन्नध्यस्यन् ॥ ४४ ॥
अलीकजालमेवं खे पश्यन्प्रत्येकमास्थितः ।
पश्यत्याचारयत्यत्ति किञ्चित्कश्चिन्न कस्यचित् ॥ ४५ ॥
प्र्त्येकं व्यष्टिभावमास्थितः सन् पश्यति स्वसन्निधिमात्रेण
स्वाध्यस्तकार्यकारणानि विषयेष्वाचारयति प्रवर्तयति । जाग्रत्स्वप्नयोः
सुषुप्तिप्रलयमोक्षेष्वत्ति च । परमार्थतस्तु न किञ्चित्कस्यचिददनीयन्न् नापि
कश्चिदत्तीत्यर्थः ॥ ४५ ॥
इत्येवं जगतां सन्ति कोटीनां कोटिकोटयः ।
परिज्ञातास्तु ता ब्रह्म केवलं दृश्यमन्यथा ॥ ४६ ॥
अन्यथा अपरिज्ञातास्तु केवलं दृश्यमेव स एनमविदितो न भुनक्तीति श्रुतेरिति
भावः ॥ ४६ ॥
ताभिर्न कस्यचित्किञ्चिदावृतं न च सन्ति ताः ।
तासां च वेत्ति प्रत्येकमिदमेव जगत्त्विति ॥ ४७ ॥
ताभिर्जगत्कोटिकोटिभिः । कि त्वयमात्मा तासां मध्ये प्रत्येकमेकैको जीव एकं
जगदिदमेव जगन्नान्यदिति वेत्ति ॥ ४७ ॥
भूतानि तासां प्रत्येकं तथैवान्योन्यमास्थिते ।
सत्यान्येवासत्यदृष्ट्या सत्यदृष्ट्या त्वजं पदम् ॥ ४८ ॥
तासां जगत्कोटीनां पृथिव्यादिपञ्चभूतानि चतुर्विधभूतग्रामाश्च
प्रत्येकमास्थिते तत्तज्जीवाभिमते जगति तथैव न विसदृशानीत्यर्थः । तानि चाऽसत्यया
व्यवहारदृष्ट्या सत्यानि । सत्यया परमार्थदृष्ट्या त्वजं
ब्रह्मपदमेवेत्यर्थः ॥ ४८ ॥
सद्यद्विदितवेद्यस्य तदज्ञस्यासदक्षयम् ।
असद्यत्सम्प्रबुद्धस्य तत्सदज्ञस्य सुस्फुटम् ॥ ४९ ॥
अत एव ज्ञाज्ञयोः सत्यासत्ये परस्परविपरीते इत्याह - सद्यदिति ॥ ४९ ॥
चितेर्यद्यद्यथा भानं तत्तत्सत्यं यथा यतः ।
सद्रूपाणि समग्राणि भूतानीमान्यतो मिथः ॥ ५० ॥
अथवा परमार्थसत्यचिति भानरूपत्वात्सर्व सत्यमेवेत्यवैपरीत्यमेवेत्याह -
चितेरिति ॥ ५० ॥
नित्यमन्योन्यसत्यानि तानि तान्येव वाप्यतः ।
किल संविद्विनिर्णेयं रूपमप्रतिघं यतः ॥ ५१ ॥
अथवा यं प्रति यदा यज्जगद्भाति तं प्रति तदा तत्सत्यमिति व्यवस्थितं
सत्यत्वमित्याह - नित्यमिति । यतो जगद्रूपं सत्यमसत्यमिति वा सत्यसंविदैव
विनिर्णेयन्न् सा चेद्भगवती संवित्सत्यमेवेति निर्णयति कस्तद्वैपरीत्यं तदन्यः
साधयेदिति भावः । अप्रतिघं केनापि प्रतिहन्तुमशक्यम् ॥ ५१ ॥
संविन्मात्रविनिर्णेयं कान्यता नान्यता कथा ।
यथास।वेदनं भाते वस्त्वौघे क्व द्वितैकते ॥ ५२ ॥
अन्यतानान्यते अतथात्वतथात्वे तयोः कथ का । अयं न्यायो
वस्तुभेदाभेदद्वित्वैकत्वादौ योज्य इत्याह - यथासंवेदनमिति ॥ ५२ ॥
तदेवेदमिदं ज्ञप्तेस्तदेवेदं भवत्यलम् ।
तदेवैतत्तदेवेति भवेज्ज्ञप्तेरसत्यतः ॥ ५३ ॥
अस्त्वेवं किं ततो भवति तत्राह - तदेवेति । इदं ज्ञेयं तत् ज्ञानमेवेति
ज्ञानज्ञेयाभेदज्ञप्तेर्वशादिदं दृश्यजातं तज्ज्ञानमेव भवति । तावतैव
सर्वदृश्यग्रासाच्चिदद्वैतं सिद्धमिति भावः । ननु ज्ञानापलापेनेत्थं
ज्ञेयमात्रपरिशेष एव किं न स्यात्तत्राह - तदेवैतदिति । तज्ज्ञानमेतज्ज्ञेयमेव
। तथा च तद्दृश्यमेव परिशिष्टमित्येतत्तु ज्ञप्तेरसत्यत्वाद्भवेत्सम्भाव्येत ।
तथा सति निर्ज्ञप्तिका ज्ञेयसिद्धिरेव न स्यादिति भावः ॥ ५३ ॥
तच्चेदर्थस्ततो ज्ञप्तेर्नायं तस्याः पृथक् स्थितः ।
स्थिते ज्ञप्त्यात्मनि त्वर्थे त्वज्ञप्त्यायं ततो व्रजेत् ॥ ५४ ॥
अतः परिशेषाज्ज्ञानमेवार्थश्चेदयन्न् प्रपञ्चस्तस्या ज्ञप्तेः पृथक् न स्थितः ।
एवं सर्वस्मिन्नर्थे ज्ञप्त्यात्मनि स्थिते सति अयं द्रष्टा अज्ञप्त्या तदज्ञानेनैव ततो
ज्ञप्तिस्वभावाद्व्रजेत्प्रच्यवेत न वस्तुत इत्यर्थः ॥ ५४ ॥
ज्ञानं यदेव तज्ज्ञेयं ज्ञेयस्यासम्भवात्पृथक् ।
यथा ज्ञानमतो ज्ञेयं तनोत्यात्मानमात्मना ॥ ५५ ॥
तथा चाज्ञानज्ञानमेव ज्ञेयजगदात्मतामात्मनैव तनोतीति फलितमित्याह -
ज्ञानमिति ॥ ५५ ॥
पश्यन्तोऽपि मिलन्तोऽपि पृथक्सर्गा न किञ्चन ।
सत एवासतो ज्ञस्य मूर्खज्ञातांस्तु वेद्मि नो ॥ ५६ ॥
तथा च पृथगसतो ज्ञप्त्यात्मना सत एव सर्गान्पश्यतो ज्ञस्य तत्त्वविदः पश्यन्तो
गृह्णन्तश्चक्षुरादिसर्गास्तैर्मिलन्तो रूपादिसर्गा अपि ज्ञप्तिव्यतिरिक्ता न किञ्चनेति
तत्त्वम् । मूर्खज्ञातांस्तु सर्गानहं नो वेद्मि ॥ ५६ ॥
एकं प्रबोधतः सर्वे चिन्मात्रं तावदात्मखम् ।
तदेवानेकसंवित्त्या सहस्रं चिज्जडात्मनाम् ॥ ५७ ॥
चिज्जडात्मनामज्ञजीवानाम् ॥ ५७ ॥
एकं तथा च चिन्मात्रं स्वप्ने लक्षात्म तिष्ठति ।
पुनर्लक्षात्म तत्स्वप्नादेकमास्ते सुषुप्तके ॥ ५८ ॥
एकस्यैव चिदात्मनः स्वप्ने लक्षकोट्यात्मत्वं सुषुप्तावेकात्मत्वं च
प्रसिद्धमित्याह - एकमिति ॥ ५८ ॥
चिद्व्योम्नि स्वप्नसंवित्तिर्या सैव जगदुच्यते ।
सुषुप्तं प्रलयः प्रोक्तस्तस्मान्न्यायोऽयमेव सन् ॥ ५९ ॥
स्वप्नसुषुप्त्योरुक्तो न्यायः सर्गप्रलययोरपि समानस्तयोस्तदभेदादित्याह -
चिद्व्योम्नीति ॥ ५९ ॥
एकैव संविन्नानत्वं नृलक्षत्वं च गच्छति ।
शून्यत्वं च तथार्थत्वं स्वप्नसङ्कल्पयोरिव ॥ ६० ॥
भोग्यात्मना नानात्वं भोक्त्रात्मना नृलक्षत्वं च ॥ ६० ॥
इदमप्रतिघं सर्वें किल वेदनमात्रकम् ।
शुद्धं तद्वद्यथा यत्र भाति तत्र तथा भवेत् ॥ ६१ ॥
एकैव संवित्सर्गादौ भवत्यग्न्यम्बुखादिकम् ।
पृथ्व्यादि तावत्सर्गार्थं स्वप्नसङ्कल्पयोरिव ॥ ६२ ॥
सर्गार्थं सर्गसिद्ध्यर्थ पृथ्व्यादि तावद्भवति । वत्करणमविकारिताद्योतनार्थम्
॥ ६२ ॥
संविदाकाशरूपैव भाति पृथ्व्यादिनामिका ।
यत्तदेव खमेवेदं जगदित्येव भासते ॥ ६३ ॥
तदेव स्पष्टमाह - संविदिति ॥ ६३ ॥
संवित्सप्रतिघं भाति भाति चाप्रतिघं तथा ।
न वस्तुतस्तु प्रतिघा संवित्सान्ते निवर्तते ॥ ६४ ॥
सप्रतिघं नश्वरं मूर्तमिव अप्रतिघं नित्यममूर्तमिव च । वस्तुतस्तु प्रतिघा
नाश एव नास्ति । यतः सा प्रतिघाप्यन्ते निवर्तते निवृत्ता च संविदेव परिशिष्यते ॥ ६४
॥
यासि पूर्वां पश्चिमां च दिशं वेत्सि चिरं विदन् ।
प्रतिघं नाम ते नास्ति न च सप्रतिघा क्वचित् ॥ ६५ ॥
अप्रतिघत्वमेव संविदः समर्थयति - यासीति । त्वं मनसा पूर्वा पश्चिमां च
दिशं चिरं यासि तत्र तत्र च दृष्टश्रुतानुमितादीनर्थान्विदन्स्वं वेत्सि । तत्र
संविद्रूपस्य ते प्रतिघं नाम नास्त्येवाऽतः क्वचिदपि संवित्सप्रतिघानेति
सिद्धमित्यर्थः ॥ ६५ ॥
दृष्टं सङ्कल्पितं चार्थं सहाभ्यस्यति यश्चिरम् ।
सोऽवश्यं तदवाप्नोति न चेच्छान्तो निवर्तते ॥ ६६ ॥
ननु जीवचित्सङ्कल्पानां बहूनां मोघता दृश्यते सैव तस्याः प्रतिघात इति
सप्रतिघत्वमिति चेत्तत्राह - दृष्टमिति । दृष्टं प्रमाणसिद्धं
सङ्कल्पितमर्थ यः पुरुषः सह नैरन्तर्येण चिरमभ्यसति सोऽवश्यं तदवाप्नोति ।
तथा च सङ्कल्पस्यादार्ढ्यादेव मोघता । न ह्यदृढः कार्याक्षम इत्येतावता
चितः सप्रतिघत्वम् । सर्वत्र तत्प्रसङ्गादिति भावः ॥ ६६ ॥
यासि पूर्वां पश्चिमां च दिशं वेति चिरं विदन् ।
य आस्ते यात्यसौ तत्तामन्यस्त्यक्त्वा तु नेतराम् ॥ ६७ ॥
अथवा अदृढः सङ्कल्पः अदृढमेव मानोरथिकं दिगन्तरगमनं
तत्रत्यपदार्थदर्शनादि करोति । दृढस्तु दृढमिति न तस्यापि
मोघत्वमित्याशयेनाह - यासीति । त्वं मनसा पूर्वां पश्चिमां च दिशं यासि ।
तत्र तांस्तान्पदार्थांश्चिरं विदन् यः सङ्कल्पयिता आस्ते स तत्तां
स्वसङ्कल्पितदिगन्तगमनतत्रत्यपदार्थाद्यात्मतां स्वसङ्कल्पानुसारेण याति । यतः
अन्यः पुरुषस्तु सङ्कल्पं त्यक्त्वा इतरां दिशं मनसापि न याति । अनेनैव विशेषेण
तत्र चिदप्रतिघेत्यर्थः ॥ ६७ ॥
दृष्टः सङ्कल्पितश्चार्थः स्यामित्यचलसंविदः ।
द्वयं भवेद्द्वयं नश्यत्यन्यस्याचलसंविदः ॥ ६८ ॥
ऐन्दवादेः सङ्कल्पितार्थोऽहं स्यामिति सङ्कल्पादचलसंविदो द्वयं प्रथमं
प्रातिभासिकः सङ्कल्पदार्ढ्ये व्यावहारिकश्चेति द्वयं भवेदित्ययमर्थो दृष्टः ।
अन्यस्यासङ्कल्पयितुं पुरुषान्तरस्य स्वात्मनि विषयान्तरे वा अचलसंविदोऽपि
तद्द्वयमपि नश्यति न दृश्यत इत्यर्थः ॥ ६८ ॥
दक्षिणादुत्तरां वाशां यामीत्यचलसंविदः ।
द्वयं भवेद्द्वयं नश्यत्यन्यस्याचलसंविदः ॥ ६९ ॥
एवं दक्षिणाद्देशादुत्तरामन्यां वा आशां यामीत्यचलसंविदो मानसं शारीरं
चेति द्वयं भवेत् । पूर्वपश्चिमगमनद्वयं च नश्यति ॥ ६९ ॥
खे पुरं स्यां भुवि मृगः स्यामित्यचलसंविदः ।
द्वयं भवेद्द्वयं नश्यत्यन्यदन्यत्तु तज्जगत् ॥ ७० ॥
एकं प्रबोधतः सर्वं चिन्मात्रं तावदात्मखम् ।
तदेवानेकसंवित्त्या सहस्रं चिज्जडात्मनाम् ॥ ७१ ॥
तत्त्वप्रबोधतः सर्वमेकमेव चिन्मात्रं तदेवाप्रबोधतोऽनेकसंवित्त्या सहस्रं
चिज्जडात्मनां जीवानां भवतीत्यर्थः ॥ ७१ ॥
शरीरमस्त्वप्रतिघमथ सप्रतिघं च वा ।
स्वप्नात्मकोऽयं संसारो जीवस्येह परत्र च ॥ ७२ ॥
ननु चिदेव चेच्छरीराद्याकारेणास्ते तर्हि तस्य सप्रतिघत्वाच्चितोऽपि सप्रतिघता प्रसक्ता
तत्राह - शरीरमिति । चिद्रूपेण शरीरमप्रतिघमेवास्तु अथवा अन्यरूपेण
सप्रतिघं वास्तु नैतावता कश्चिद्दोषो
मिथ्यार्थगतगुणदोषैरधिष्ठानादूषणादिति भावः ॥ ७२ ॥
एतन्म्लेच्छादिदेशेषु मृतानां दर्शनात्पुनः ।
स्मृतिपूर्वं च कथनात्प्रत्यक्षमनुभूयते ॥ ७३ ॥
शरीरनाशे तेन सह जीवो न नष्ट इत्येतत्कथं ज्ञायत इति
चेत्प्रत्यक्षाच्छब्दाच्चेत्याह - एतदिति । म्लेच्छादिदेशेषु मृतानां
पिशाचदेहेनेहागतानां भूतविद्याज्ञैः प्रत्यक्षं
दर्शनात्पूर्वतनस्वीयगृहव्यापारादीनां तैः स्मृतिपूर्वकं कथनाच्च
जीवचित्सत्त्वं प्रत्यक्षमनुभूयते ॥ ७३ ॥
ये मृता भस्मसाज्जाता म्लेच्छदेशेषु ते पुनः ।
आगत्य कथयित्वार्थं गच्छन्त्यप्रतिघात्मकाः ॥ ७४ ॥
एष चेज्जीवतो धर्मस्तद्देशान्तरगे जने ।
मृत इत्येव बुद्धेऽर्थे कस्मान्नैव प्रवर्तते ॥ ७५ ॥
जीवतो भूतवैद्यादेरेवैष पिशाचदर्शनसम्भाषणादिभ्रमो धर्मो न
मृतस्यागमनं सम्भाषणं वेति चार्वाककल्पनां प्रत्याचष्टे - एष इति ।
वस्तुतोऽमृते मृत इति भ्रान्त्या बुद्धेऽर्थेऽपि एवं दर्शनसम्भाषणादिव्यवहारः
कस्मान्न प्रवर्तते ॥ ७५ ॥
जीवधर्मः सोऽपि संश्चेन्मृतधर्मोऽपि किं न सन् ।
यादृगनुभवस्त्वस्मिन्समे न्यायद्वये स्थिते ॥ ७६ ॥
किं च जीवधर्मः सोऽपि भ्रमः संश्चेन्मृतस्य सम्भाषणादिः किं न सन् ।
अर्थसिद्धावनुभवशरणानामस्मिन्जीवति यादृगनुभवः स मृतेऽपि समः । एवं
न्यायद्वये समे सति को विशेष इत्यर्थः ॥ ७६ ॥
स्वप्नवज्जगदाभानमित्येवं सत्यखण्डितम् ।
आर्यानुभवशास्त्राणामनेनास्त्येकवाक्यता ॥ ७७ ॥
एवमनुभवस्यार्थसाधकत्वे जाग्रत्स्वप्नानुभवयोरपि यावद्बाधं
तुल्यमर्थसाधकत्वं प्रबोधेनानुभवमात्रपरिशेषश्चेति स्वप्नवदेव
जगदाभानमिति यत्प्रतिज्ञातमेतदखण्डितं दृढीभूतम् । अनेन च
विद्वदनुभवानाम् । तस्य त्रय आवसथास्त्रयः स्वप्नाः वाचारम्भणं विकारो
नामधेयम् नेह नानास्ति किञ्चन इत्यादिशास्त्राणां चानेनैकवाक्यता
परस्परसंवादेनैकार्थनिष्ठता अस्ति । उपपन्नेति यावत् ॥ ७७ ॥
दृष्टिजालं जनौघानां पश्यतामिन्दुमन्दिरे ।
यादृगप्रतिघं तादृग्जगत्सदसदात्मकम् ॥ ७८ ॥
इन्दुमन्दिरे चन्द्रबिम्बे पश्यतां जनौघानां दृष्टिजालं यादृगप्रतिघं
परस्परप्रतिघातशून्यं सदसदात्मकं कस्यचित्सत्कस्य चिदसदित्येवमात्मकं
जगदपि तादृगप्रतिघमित्यर्थः ॥ ७८ ॥
सन्मात्रमात्रानुविधमच्छानुभवमात्रकम् ।
चिन्मात्रं भानमात्रात्म सर्वार्थात्मार्थवर्जितम् ॥ ७९ ॥
ग्राह्यं सर्वं सत्त्वेन गृह्यमाणं सन्मात्रस्यैव मात्राः
अंशभेदाननुविधत्ते । ग्राहकं च अच्छानुभवमात्रकम् । न च
सन्मात्रमाभासमानं सिध्यतीति तत्सदेव । तदेव चार्थवर्जितमपि सर्वार्थात्मकं
स्फुरतीति सर्वमप्रतिघं शान्तं चेत्यर्थः ॥ ७९ ॥
सर्वमप्रतिघं शान्तं जगदेकं चिदम्बरे ।
अनिङ्गनमनाभासमात्मन्येवात्मनास्यताम् ॥ ८० ॥
उक्तमर्थमनुभावयितुमुपायमुपदिशति - अनिङ्गनमिति ॥ ८० ॥
अचला सम्विदेवास्ते स्थिरं कृत्वा यथा यथा ।
तथा तथा भवत्याशु किमसत्किं च वापि सत् ॥ ८१ ॥
यथा यथा मनः स्थिरं कृत्वा आस्ते तथा तथा आशु भवतीति परेणान्वयः
[परेणेत्यधिकं वा पूर्वत्रैकमर्धं पतितमिति वा मन्तव्यम् ।] ॥ ८१ ॥
शरीराण्यथ कर्माणि दुःखानि च सुखानि च ।
यथा स्थितान्युपायान्तु यान्तु वा कस्य किं ग्रहः ॥ ८२ ॥
कस्य किंविषयो ग्रह उपादानम् ॥ ८२ ॥
इत्थमस्तु सदथान्यथास्तु वा मैव भूद्भवतु कोऽत्र सम्भ्रमः ।
मुञ्च फल्गुनि फले फलावहन्न् बुद्धवानसि कृतं परिभ्रमैः ॥ ८३ ॥
फलावहमवश्यफलदं यत्नं मुञ्च ॥ ८३ ॥
इत्यार्षे श्रीवासिष्ठमहारामायणे वा० दे० मो० नि० उ० अ० वि० निर्वाणबोधोपदेशो
नाम त्रिचत्वारिंशदधिकशततमः सर्गः ॥ १४३ ॥
इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे निर्वाणप्रकरणे उत्तरार्धे
निर्वाणबोधोपदेशो नाम त्रिचत्वारिंशदधिकशततमः सर्गः ॥ १४३ ॥