१४२

द्विचत्वारिंशदधिकशतमः सर्गः १४२

मुनिरुवाच ।

वर्तमाने तदा तस्मिन्कष्टे सम्भ्रान्तसम्भ्रमे ।
उह्यमानोऽहमत्यन्तं खेदमभ्यागतोऽभवम् ॥ १ ॥

इह स्वप्नादिजगतस्तत्त्वं ब्रह्मेति कीर्त्यते ।
तत्त्वदृष्ट्या जगद्बीजकर्माभावश्च साध्यते ॥

खेदं श्रमप्रयुक्तं दैन्यम् ॥ १ ॥

अचिन्तयं तत्स्वप्नोऽयं परस्य हृदये मम ।
तदतः परिनिर्वामि दुःखं पश्यामि किं मुधा ॥ २ ॥

तत्ततः खेदादचिन्तयम् । मुधा दुःस्वप्नदुःखं किं पश्यामि । अतः
परित्यज्यैतद्दर्शनं जागरणेन निर्वामि निर्वृतिं लभेयेत्यर्थः ॥ २ ॥

व्याध उवाच ।

किंस्वित्स्यात्स्वप्न इत्येव किल सन्देहशान्तये ।
प्रविष्टो हृदयं तस्य किं तं निर्णीतवानसि ॥ ३ ॥

स्वप्नस्य तत्त्वं किं स्यादिति निर्णयाय परस्वप्नं द्रष्टुं परकाये प्रविष्टस्त्वं
किं निर्णीय तद्दर्शनान्निवृत्तोऽभूरिति व्याधः पृच्छति - किंस्विदिति । तं
स्वप्नन्न् तत्त्वतः किं निर्णीतवानसि ॥ ३ ॥

किमेतद्भवतां दृष्टं हृदये क्व महार्णवः ।
जठरे कल्पवातः किं हृदि कल्पानलः कथम् ॥ ४ ॥

परहृदये दृष्टा महार्णवादयः किम् ॥ ४ ॥

द्यौः क्षमा वायुराकाशं पर्वताः सरितो दिशः ।
कथं हृदि जगन्नाम कथयेति यथास्थितम् ॥ ५ ॥

हृदि जगन्नाम कथं सम्भवतीत्येतस्य यथास्थितं तत्त्वं स्वनिर्णीतं
कथयेत्यर्थः ॥ ५ ॥

मुनिरुवाच ।

अकारणत्वात्सर्गादावेवानुत्पादतः स्फुटात् ।
अज्ञातौ सर्गशब्दार्थावेव न स्तो मनागपि ॥ ६ ॥

एवं स्वपरस्वप्नादिदर्शनेनान्वयव्यतिरेकाभ्यां परीक्षितस्य शब्दार्थरूपस्य
जगतो बाधदृशा त्रैकालिकासत्त्वमेव तत्त्वम् । परिशिष्टाधिष्टानब्रह्मदृशा तु
तदेव तत्त्वमित्याशयेन मुनिरुत्तरमाह - अकारणत्वादित्यादिना ।
अकारणत्वादसम्भवत्कारणकत्वात् । तथा हि । कूटस्थं वा कारणं विकारि वा । न
तावत्कूटस्थम् । अकुर्वतः कारकत्वायोगेन कार्यसङ्गानर्हत्वेन
उदासीनव्यावृत्तरूपानिरूपणेन स्वभावान्तरानुपजनेन च कारणत्वासम्भवात् ।
विकारिणश्चानिर्णीतनानांशघटितस्य क्ॐऽशः कारणं स्यात् । मृत्पिण्डे हि
घटादिविकारिणि किमपयन्पिण्डाकारः कारणमुतोपयन् घटाकार उतोभयानुगतो
मृदाद्याकारः । नाद्यः । स्वत्राणेऽप्यसमर्थस्य कार्यकालास्थायिनः
कार्यार्थव्यापारानाधारस्य च तस्य कारणत्वसम्भावनाऽयोगात् । न द्वितीयः ।
कार्यस्यान्यस्यानिरूपणात् । न तृतीयः । तस्याकुर्वद्रूपत्वे कौटस्थ्यात्कुर्वद्रूपत्वे
घटानन्त्यप्रसङ्गात्समर्थस्य क्षेपायोगेन
युगपत्सर्वकार्यप्रसङ्गात्पिण्डघटकपालचूर्णादियौगपद्यापत्तेः ।
सहकार्यन्तरसम्बन्धव्यवस्थया व्यवस्थेति चेन्न । तत्सम्बन्धस्य मृत्कार्यत्वे
तदानीमेवापाद्यमानत्वादन्यकार्यत्वे तत्रापि सर्वतत्कार्ययौगपद्यापादने
सम्बन्धस्यापि तदा आपादनात्तृतीयसहकार्ययुक्तौ
तत्राप्येतद्दोषानिर्मोक्षाद्विनिगमनाविरहेण युगपत्सर्वोत्पादस्य
परस्परप्रतिबन्धेन कस्याप्यनुत्पादस्य वा प्रसङ्गात् । तस्मात्
सर्गादेरकारणपक्षस्यैव परिशेषात्सर्गशब्दार्थौ मनागपि न स्त एवेति तत्त्वं
निर्णीतमित्यर्थः ॥ ६ ॥

तच्चैतौ सर्वशब्दार्थौ त्वज्ञातौ परमात्मनि ।
यतस्तत्पदमज्ञानज्ञानात्मकमनामयम् ॥ ७ ॥

कथं तर्हि लोके सर्गशब्दार्थौ प्रसिद्धौ तत्राह - तच्चैताविति । एतौ
सर्गशब्दार्थौ परमात्मनि तत्त्वतो ज्ञातावेव प्रसिद्धौ । तदज्ञातं
परमात्मरूपं ह्येतौ । नन्वज्ञातौ चेदप्रसिद्धावेवेति स्यान्न तु प्रसिद्धाविति तत्राह

  • यत इति । भवेदेतदेवं यद्यज्ञानमात्रं जगत्स्यात् । यतस्तु
    तदज्ञातमात्मपदं शबलत्वादज्ञानज्ञानात्मकम् ।
    तत्राज्ञानांशमादायाज्ञातौ ज्ञानांशमादाय प्रसिद्धौ च सुवचावित्यर्थः ॥ ७

अतः सुभग सिद्धान्ते त्वत्पक्षे बोधमागते ।
मौर्ख्यशान्तावनाद्यन्ते पदे परमपावने ॥ ८ ॥

यदि प्रसिद्धौ तर्हि सर्गशब्दार्थावेव न स्त इति कथं वक्षि तत्राह - अत इति । हे
सुभग त्वत्पक्षे त्वदभिप्रेते स्वप्नादिजगत्तत्त्वे बोधमागते सति
मौर्ख्यस्याज्ञानस्य शान्तौ सत्यां परमसिद्धान्तेपरमपावने पदे स्थित्वा । इदं
सर्गशब्दार्थावेव न स्त इति वाक्यं वच्मि । मूढानां संवित्तौ यदिदं
शब्दार्थसत्त्वं तदहमत्यन्तासम्भवान्न वेद्मीत्युत्तरत्रान्वयः ॥ ८ ॥

वच्मीदं मूढसंवित्तौ यदिदं तन्न वेद्म्यहम् ।
वस्त्ववस्तुजमाभातं बोधमात्रमिदं ततम् ॥ ९ ॥

क्व शरीरं क्व हृदयं क्व स्वप्नः क्व जलादि च ।
क्व बोधो बोधविच्छित्तिः क्व जन्ममरणादि च ॥ १० ॥

सिद्धान्ते तु शरीरादिप्रसिद्धिरेव नास्तीत्याह - क्वेति ॥ १० ॥

स्वच्छं चिन्मात्रमस्तीह तन्नाम यदपेक्षया ।
स्थूलमेव खमप्यद्रिरणूनां निकटे यथा ॥ ११ ॥

किं तर्ह्यस्ति तदाह - स्वच्छमिति ॥ ११ ॥

स्वभावात्स चिदाकाशः किञ्चिच्चेतति चिन्तया [चिन्तय इति पाठः ।] ।
खमेव वपुराकाशं यत्तद्वेत्ति जगत्तया ॥ १२ ॥

ईश्वरस्य तत्त्वविदां च जगद्दर्शनं कीदृशं तत्राह - स्वभावादिति ॥ १२ ॥

यथा स्वप्ने पुरतया चिदेवाभाति केवला ।
न तु किञ्चित्पुराद्येवं जगच्चिन्मात्रमेव खे ॥ १३ ॥

इदं शान्तमनाभातमनन्यन्नैतदात्मनि ।
चिति दृशौ तमसि खे चक्रकादीव भाति ते ॥ १४ ॥

व्याधदृशा तर्हि कथं भाति तदाह - चितीति । चिति चिद्रूपायां दृशौ चक्षुषि
तमसि अज्ञानलक्षणतिमिररोगे सति खे चक्रकादि यथा भासते तद्वत्ते भातीत्यर्थः ॥
१४ ॥

अस्माकं तु न चाभानं न चासन्न च सन्न खम् ।
अनाकारमनाद्यन्तमेकं चिद्व्योम केवलम् ॥ १५ ॥

स्वदृशा त्वाह - अस्माकमिति । असत् प्रातिभासिकं सत् व्यावहारिकं खं शून्यं
केवलं चिद्व्योम भातीत्यनुवर्तते ॥ १५ ॥

भात्यकारणकं स्वप्ने शुद्धो द्रष्टैव केवलः ।
तेनात्र कारणाभावो न द्रष्टास्ति न दर्शनम् ॥ १६ ॥

येन हेतुना अकारणकवद्भाति तत्केवलस्त्रिपुटीशून्यः शुद्धो द्रष्टैवेति स्वप्ने
निर्णीतं तेन कारणेन अत्र जाग्रत्यपि कारणाभावः प्रागुपपादित इति द्रष्ट्रादित्रिपुटी
नास्त्येवेत्यर्थः ॥ १६ ॥

शुद्धं किमपि तद्भाति स्वानुभूतमपि स्फुटम् ।
यदवाच्यमनाद्यन्तमेकं द्वैतैक्यवर्जितम् ॥ १७ ॥

स्वेनानुभूतमपि कुमारीसुखवदवाच्यं वक्तुमशक्यम् ॥ १७ ॥

एकः कालो यथा कल्पः प्रकाशश्चोभयात्मकः ।
बीजं वा फलपुष्पान्तं ब्रह्म सर्वात्मकं तथा ॥ १८ ॥

द्वैतैक्यवर्जितस्य द्वैतैक्यात्मना स्थितिः क्व दृष्टा तत्राह - एक इति । कल्पः
प्रलयः प्रकाशः सर्गश्चेत्युभयात्मकोयथा । यथा वा
बीजमङ्कुरकाण्डवृक्षशाखापल्लवफलपुष्पान्तं स्वयमेवावतिष्ठते तथा
ब्रह्म सर्वात्मकमित्यर्थः ॥ १८ ॥

यदन्यस्य महत्कुड्यं तदन्यस्यामलं नभः ।
दृष्टमेतत्स्थिरस्वप्नसङ्कल्पभ्रमभूमिषु ॥ १९ ॥

तर्हि ब्रह्म द्वैतैक्यवदेव न तु तद्वर्जितं तत्राह - यदिति । यदि परमार्थतो
द्वैतैक्यवत्स्यात्तर्हि सर्वान्प्रति तथास्यान्न तु तथा सर्वैर्दृश्यत इत् भावः ॥ १९ ॥

स्वच्छं तदा तदात्मैकं भाति चिन्मात्रखं यथा ।
स्वप्ने जागृतिवत्तद्वज्जाग्रत्स्वप्नेऽप् नान्यथा ॥ २० ॥

यथा आत्मा चिन्मात्रखमेव सन् स्वप्ने जाग्रदिव भाति तथा जाग्रन्मये स्वप्नेऽपि भाति
न त्वणुमात्रमपि स्वप्नाज्जाग्रत्यन्यथा भातीति तदेवेदानीमपि
तस्याद्वयत्वमेवेत्यर्थः ॥ २० ॥

अदृश्ये पवने यद्वददृश्यं सौरभं स्थितम् ।
चिन्मात्रेऽप्रतिघे तद्वज्जगदप्रतिघं स्थितम् ॥ २१ ॥

ननु प्रलयसुषुप्त्योरस्य जगन्न स्थितमिति कथं सदैकस्वभावोऽयमित्याशङ्क्य
नादर्शनमात्रेण जगत्तदा न स्थितमिति निर्णेतुं शक्यमित्याशयेनाह -
अदृश्ये इति । चक्षुरदृश्येऽपि पवने तादृशं सौरभं स्थितमिति यथा
घ्राणजानुभवेन निर्णीयते तथा सुषुप्तप्रलयानुभविपुरुषादृश्यमपि
जगत्पुरुषान्तरदृशा स्थितमेवेत्यर्थः ॥ २१ ॥

समस्तमननत्यागे योऽसि सोऽसि निरामयः ।
बहिरन्तरनन्तात्मा सुस्थितोऽपि निरन्तरम् ॥ २२ ॥

मनोमननत्यागेन दर्शने तु कदापि क्वापि जगन्नासीदस्ति भविष्यतीति निरन्तरमेवात्मा
अद्वयः सुस्थिर इत्याह - समस्तेति ॥ २२ ॥

व्याध उवाच ।

भगवन्प्राक्तनं कर्म केषामिह हि विद्यते ।
केषां न विद्यते तद्वद्विनापि भवतः कथम् ॥ २३ ॥

तर्हि प्राक्तनकर्मानुसारेणैव मनो मनुते नान्यथेति कर्मैव संसृतिबन्धबीजं
पर्यवसन्नं तद्येषां निःशेषं नष्टं तेषां समस्तमननत्यागः सिध्यतीति
मन्यमानो व्याधस्तत्केषामस्ति केषां नास्तीति पृच्छति - भगवन्निति । येषां
नास्ति तेषां तत्कर्म विनापि मननतत्त्यागे कथं भवतः ॥ २३ ॥

मुनिरुवाच ।

सर्गादिषु स्वयं भान्ति ब्रह्माद्या ये स्वयम्भुवः ।
विज्ञप्तिमात्रदेहास्ते न तेषां जन्मकर्मणी ॥ २४ ॥

येषामधिकारप्रापकोपासनाफलान्तर्भावेणैव सह सिद्धं चतुष्टयमिति
न्यायेनौत्पत्तिकं तत्त्वज्ञानं तेषां कर्म नास्तीति मुनिरुत्तरमाह - सर्गादिष्विति ।
आदिपदात्सनककपिलादयः । जन्मग्रहणं दग्धपटन्यायेन
देहस्थितिप्रदर्शनार्थम् ॥ २४ ॥

तेषामस्ति न संसारो न द्वैतं न च कल्पनाः ।
विशुद्धज्ञानदेहास्ते सर्वात्मानः सदा स्थिताः ॥ २५ ॥

आत्मत्वादेव सर्वात्मानः ॥ २५ ॥

सर्गादौ प्राक्तनं कर्म विद्यते नेह कस्यचित् ।
सर्गादौ सर्गरूपेण ब्रह्मैवेत्थं विजृम्भते ॥ २६ ॥

कर्मशून्यास्ते कथं कर्मवतामात्मान इत्याशङ्क्य तद्दृशा कर्म कस्यापि
नास्तीत्याह - सर्गादाविति ॥ २६ ॥

यथा ब्रह्मादयो भान्ति सर्गादौ ब्रह्मरूपिणः ।
भान्ति जीवास्तथान्येऽपि शतशोऽथ सहस्रशः ॥ २७ ॥

किन्तु ये ब्रह्मणोऽन्यत्वं बुध्यन्ते सात्त्विकोद्भवाः ।
अबोधा ये त्वचिदाख्यं बुद्ध्वा द्वैतमिदं स्वयम् ॥ २८ ॥

केषां दृशा तर्हि कर्म विद्यते तानाह - किन्त्विति । ये तु अबोधा अज्ञानावृताः
सन्तः स्वस्य ब्रह्मत्वं न बुध्यन्ते किन्तु नाहं ब्रह्मेति ब्रह्मणोऽन्यत्वं
बुध्यन्ते
असात्त्विकात्केवलसत्त्वपरिणामविलक्षणरजस्तमोमिश्रसत्त्वपरिणामादुद्भवो येषां
तथाविधा जीवास्ते अचिदाख्यमिदं द्वैतं सत्यमिति बुद्ध्वा तद्वासनावासिता एव
पाङ्मृतास्तेषां कर्मभिः सहितं जन्म उत्तरकालं दृश्यत इति परेणान्वयः ॥
२८ ॥

तेषामुत्तरकालं तत्कर्मभिर्जन्म दृश्यते ।
स्वयमेव तथा भूतैस्तैरवस्तुत्वमाश्रितम् ॥ २९ ॥

यतस्तैः स्वयमेव तथा अचिद्देहाद्यात्मभूतैः परमाथवस्तु विस्मृत्य
आवस्तुत्वमाश्रितमित्यर्थः ॥ २९ ॥

यैस्तु न ब्रह्मणोऽन्यत्वं बुद्धं बोधमहात्मनि ।
निरवद्यास्त एतेऽत्र ब्रह्मविष्णुहरादयः ॥ ३० ॥

यैस्तु कदापि न बुद्धं ते निरवद्याः कर्मबन्धलक्षणावद्यरहिताः ॥ ३० ॥

सर्वात्म संविदोऽच्छत्वं ब्रह्मात्मन्येव संस्थितम् ।
तत्क्वचिज्जीववद्भानं स्वयमात्मनि पश्यति ॥ ३१ ॥

अच्छत्वं स्वाभाविकमिति शेषः । यतो ब्रह्म आत्मनि स्वस्वभावे एव संस्थितम् ।
क्वचिन्मलिनोपाधौ ॥ ३१ ॥

यत्र वेत्ति तु जीवत्वं तत्राविद्येति तिष्ठति ।
तत्र संसृतिनाम्नात्मा धत्ते रूपं तथास्थितम् ॥ ३२ ॥

अविद्यापि जीवोपाध्यवच्छेदेनैवास्ते न शुद्ध इत्याह - यत्रेति ॥ ३२ ॥

स्वयमेव हि कालेन बुद्ध्वा स्वं रूपमात्मनः ।
स्वयमेव स्वरूपस्थं ब्रह्मैव भवति स्वयम् ॥ ३३ ॥

स्वयमेवेति । ब्रह्म वा इदमग्र आसीत्तदात्मानमेवाऽवेदनं ब्रह्मास्मीति
तस्मात्तत्सर्वमभवत् ब्रह्म वेद ब्रह्मैव भवति इत्यादिश्रुतेरिति भावः ॥ ३३ ॥

यथा द्रवत्वादम्ब्वन्तरेति चावर्ततामिव ।
ब्रह्म चित्त्वात्तथैतीव सर्गतामस्य सर्गकम् ॥ ३४ ॥

अज्ञातब्रह्मणः सर्गताभ्रान्तिः स्वभाव एवेत्याह - यथेति । अस्य सर्गकं
स्वभाव इति शेषः ॥ ३४ ॥

ब्रह्मभानमयं सर्गो न स्वप्नो न च जागरः ।
कस्य कान्यत्र कर्माणि कीदृशानि कियन्ति वा ॥ ३५ ॥

का अस्य सर्गतेति शेषः ॥ ३५ ॥

वस्तुतः कर्म नास्त्येव नाविद्यास्ति न सर्गधीः ।
स्वसंवेदनतः सर्वमसदेव प्रवर्तते ॥ ३६ ॥

प्रवर्तते प्रथते ॥ ३६ ॥

ब्रह्मैव सर्गो भूतात्मा कर्म जन्मेति कल्पनाः ।
स्वयं कुर्वदिदं भाति विभुत्वात्कल्पितार्थभाक् ॥ ३७ ॥

विभुत्वात्सर्वशक्तिमत्त्वात्सत्यसङ्कल्पत्वात् ॥ ३७ ॥

न सम्भवति जीवस्य सर्गादौ कर्म कस्यचित् ।
पश्चात्स्वकर्म निर्माय बुङ्क्ते कल्पनया स चित् ॥ ३८ ॥

पश्चात् अविद्यान्तःस्थितिकल्पनोत्तरम् । निर्माय देहादिना निष्पाद्य ॥ ३८ ॥

जलावर्तस्य को देहः कानि कर्माणि चोच्यताम् ।
यथाम्बुमात्रमावर्तो ब्रह्ममात्रं तथा जगत् ॥ ३९ ॥

ब्रह्मभावदर्शने तु न कर्मसम्भावनापीत्याह - जलेति ॥ ३९ ॥

यथा स्वप्नेषु दृष्टानां न प्राक्कर्म नृणां भवेत् ।
आदिसर्गेषु जीवानां तथा चिन्मात्ररूपिणाम् ॥ ४० ॥

आदिसर्गेषु शुद्धसात्त्विकदेहेषु ॥ ४० ॥

सर्गे सर्गतया रूढे भवेत्प्राक्कर्मकल्पना ।
पश्चाज्जीवा भ्रमन्तीमे कर्मपाशवशीकृताः ॥ ४१ ॥

कुतो न तत्राह - सर्गे इति । तेषां सर्गतया रूढ्यभावादेवेति भावतः ॥ ४१ ॥

सर्ग एव न सर्गोऽयं ब्रह्मेत्थं किल तिष्ठति ।
यत्र तत्र क्व कर्माणि कानि वा कस्य तानि वा ॥ ४२ ॥

अपरिज्ञाममात्रं यत्स्वयं वै परमात्मनः ।
तदेतत्कर्म बन्धाय तत्तज्ज्ञस्योपशाम्यति ॥ ४३ ॥

तथा च न कर्मप्रयुक्तो बन्धः किन्त्वज्ञानप्रयुक्त एवेति तदेव कर्मबीजमिति कामं
व्यपदिश्यतां नान्यदित्याह - अपरिज्ञानमात्रमिति ॥ ४३ ॥

यावद्यावत्परिज्ञानं पण्डितस्य प्रवर्तते ।
तावत्तावत्तदैवास्य कर्म शाम्यति बन्धनम् ॥ ४४ ॥

अत एव कर्माप्यविद्यात्वादेव यथा यथा ज्ञानप्रकर्षस्तथा तथा अपक्षीयत इत्याह

  • यावदिति ॥ ४४ ॥

यन्नाम किल नास्त्येव तच्छान्तौ का कदर्थना ।
परमार्थादृते बन्धः किञ्चिन्नाम न विद्यते ॥ ४५ ॥

ननु ज्ञानमात्रात्कथं वस्तुनाश इत्याशङ्क्य वस्तुत्वमेव कर्मणो नास्तीत्याह ##-

तावन्माया भवभयकरी पण्डितत्वं न यावत्तत्पाण्डित्यं पतसि न पुनर्येन
संसारचक्रे ।
यत्नं कुर्यादविरतमतः पण्डितत्वेऽमलात्मज्ञानोदारे भयमितरथा नैव
वः शान्तिमेति ॥ ४६ ॥

अत एव पाण्डित्यार्थमेव यत्नः कार्यस्तद्विना भयाशान्तेरित्युपसंहरति -
तावदिति । यावत्पण्डितत्वं नास्ति ताव्त्कालमेव माया भवभयकरी । मेघत्रिभयेषु
कृञः इति खशो विषयोऽयं न । ग्रहणवता प्रातिपदिकेन तदन्तविधिप्रतिषेधात् ।
तदेव पाण्डित्यं येन पुनः संसारचक्रे न पतसि । न तु
शुष्कतर्कादिपाण्डित्यमत्रोपयुज्यत इत्यर्थः । अतः कारणादविरतममलज्ञानोदारे
पण्डितत्वे श्रवणादियत्नं कुर्यात् । इतरथा उपायान्तरेण वो भयं शान्तिं नैति । स
एनमविदितो न भुनक्ति उदरमन्तरं कुरुते अथ तस्य भयं भवति इत्यादिश्रुतेरिति
भावः ॥ ४६ ॥

इत्यार्षे श्रीवासिष्ठमहा० वा० दे० मो० नि० उ० अ० वि० शवो० कर्मनिर्णयो नाम
द्विचत्वारिंशदधिकशततमः सर्गः ॥ १४२ ॥

इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे निर्वाणप्रकरणे उत्तरार्धे
कर्मनिर्णयो नाम द्विचत्वारिंशदधिकशततमः सर्गः ॥ १४२ ॥