१४१

एकचत्वारिंशदधिकशततमः सर्गः १४१

मुनिरुवाच ।

तत्र दन्दह्यमानोऽपि नाभवं दुःखभागहम् ।
स्वप्ने स्वप्नोऽयमित्येष जानन्नग्नावपि च्युतः ॥ १ ॥

वह्निज्वालाकुले लोके वायोश्चण्डस्य निर्गमः ।
विक्षिप्ताङ्गारवर्षाढ्यज्वालामेघोऽत्र वर्ण्यते ॥

दन्दह्यमानः सर्वतो दहनव्याप्तोऽपि ॥ १ ॥

ज्वालाजालनवोड्डीतिमण्डलैरखिलैर्नभः ।
अलातचक्रवच्चारु केवलं भ्रान्तवानहम् ॥ २ ॥

ज्वालाजालानां नवैः उड्डितीनामुड्डयनानां मण्डलैरहमखिलं नभः
अलातचक्रवद्भ्रान्तवान् ॥ २ ॥

तं दवाग्निमहं यावत्तत्त्ववित्त्यादखिन्नधीः ।
विचारयाम्यखिन्नात्मा मारुतस्तावदाययौ ॥ ३ ॥

भ्रमणैराखिन्नात्मा ईषच्छ्रान्तमनाः ॥ ३ ॥

सीत्कारमतिगम्भीरं दधन्मेघरवोपमम् ।
जगत्पदार्थैरावृत्तैरुह्यमानैः परावृतः ॥ ४ ॥

तमेव मारुतं वर्णयति - सीत्कारेत्यादिना । सीत्कारमग्निफूत्कारोपमं
ध्वनिविशेषम् । उह्यमानैः शिलोल्मुकरजोभस्मादिभिर्जगत्पदार्थैः परावृतो
व्याप्तः ॥ ४ ॥

बृहद्भिर्घुङ्घुमावेगैर्वने द्विगुणिताम्बुदः ।
सूर्यैरावृत्तिभिर्व्यूढैर्विमिश्रालातचक्रकः ॥ ५ ॥

व्यूढैः प्रवाहितैरावृत्तिभिः परिवर्तमानैः सूर्यैर्द्वादशादित्यैः सह
विमिश्राणि अलातचक्राणि येन ॥ ५ ॥

ज्वालासन्ध्याभ्रनिवहैर्बृहदग्निनदीशतः ।
शैलद्विगुणभूखण्डदानवामरपत्तनः ॥ ६ ॥

ज्वालालक्षणैः सन्ध्याभ्रनिवहैः प्रवर्तितानि बृहन्त्यग्निनदीशतानि येन ।
शैलेभ्योऽपि द्विगुणानि भूखण्डा लोष्टानि दानवामराणां पत्तनानि च यस्मिन् ॥ ६ ॥

भूतैर्द्विगुणपात्रौघो भ्रान्तैरम्बरकुक्षिषु ।
दग्धादग्धाभिरप्यर्धदग्धाभिरितरेतरम् ॥ ७ ॥

अम्बरकुक्षिषु भ्रान्तैर्भूतैर्द्विगुणिताः प्रागुक्तनदीशतपात्रौघा येन ॥ ७ ॥

पतन्तीभिः सुरस्त्रीभिर्द्विगुणाग्निशिखालवः ।
पतदङ्गारधारौघकणसीकरदन्तुरः ॥ ८ ॥

द्विगुणा अग्निशिखा एव ज्वाला सन्ध्याभ्रजललवा यस्मिन् ।
पतदङ्गारलक्षणैस्तदीयैर्जलधारौघैरग्निकणलक्षणसीकरैश्च दन्तुर
उन्नतदन्त इव स्थितः ॥ ८ ॥

अलातविद्युतो धुन्वन्पूताङ्गारोग्रमण्डलीः ।
धूमान्धकारैः स्थगयन्म्लानमूर्ध्वदिशोमुखम् ॥ ९ ॥

पूतानां निरस्तभस्मनामङ्गाराणामुग्रा मण्डल्यो यासु तथाविधास्तदीया
अलातविद्युतो धुन्वन् कम्पयन् । स्थगयन्नाच्छादयन् ॥ ९ ॥

भूमेर्व्योम्नो दिङ्मुखेभ्यः समन्ताज्ज्वालासन्ध्यावारिदा निर्गतास्ते ।
यैस्तैर्ज्वालाशैलसम्पिण्डमात्रं सव्योमौकाः संस्थिता सप्तलोकी ॥ १० ॥

भूमेः सकाशात्तथा व्योम्नो दिङ्मुखेभ्यश्च ते वर्णितप्रकारा ज्वालालक्षणाः
सन्ध्यावारिदा निर्गताः । यैर्वारिदैर्व्योमौकोमिर्देवादिभिः सहिता सव्योमौकाः
सप्तानां लोकानां समाहारः सप्तलोकी ज्वालाशैलसम्पिण्डमात्रं भूत्वा संस्थिता
॥ १० ॥

क्वापि प्रोत्फालकीर्णानलकणकपिलप्रोल्लसन्मूर्धजालिः क्वापि
प्रोड्डीनकुड्यःकटुरटनपटुर्भस्मसम्पिण्डपाण्डुः ।
क्वापि ज्वालापटालीं परिदधदभितः सम्पतन्तीं गृहीतां रौद्रः कर्तुं
प्रवृत्तो हर इव स तदा मारुतो नृत्यलीलाः ॥ ११ ॥

स प्राग्वर्णितश्चण्डमारुतस्तदा हरः कालाग्निरुद्रवन्नृत्यलीलाःकर्तुं प्रवृत्तः
। कीदृशः सन् । क्वापि ऊर्ध्वदेशे प्रोत्फालैरुच्छलनैः कीर्णानलकणा एव कपिलाः
प्रोल्लसन्त्यो मूर्धजानामालयो यस्य । क्वाप्यधोभागे पादाघातेनेव प्रोड्डीनानि
कुड्यानि येन । कटु दुःसहं यद्रटनं तत्र पटुः । भस्मभिः
सम्पिण्डितान्यवगुण्ठितान्यङ्गानि यस्य । क्वापि मध्यभागे अभितः सम्पतन्तीं
ज्वालापटालीमुपसङ्गृहीतां परिदधत् वसान इत्येवंविधः सन्नित्यर्थः ।
विशेषणान्युभयत्र योज्यानि ॥ ११ ॥

इत्यार्षे श्रीवासि० वाल्मी० दे० मो० नि० उ० अ० वि० श० कल्पान्तवर्णनं
नामैकचत्वारिंशदधिकशततमः सर्गः ॥ १४१ ॥

इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे निर्वाणप्रकरणे उत्तरार्धे
कल्पान्तवर्णनं नामैकचत्वारिंशदधिकशततमः सर्गः ॥ १४१ ॥