चत्वारिंशदधिकशततमः सर्गः १४०
व्याध उवाच ।
भगवंस्त्वादृशस्तां तामवस्थां च कथं गतः ।
कथं ध्यानप्रयोगेण तदा नोपशमं गतः ॥ १ ॥
प्रलयाब्धेरपगमो ग्रामे द्विजतया स्थितिः ।
मुनेः प्राणितनोर्बाह्यनिर्गमाद्यत्र वर्ण्यते ॥
पयर्थे चकारः । त्वादृशो ज्ञानयोगसिद्धोऽपि तां तां प्राग्वर्णितबहुप्रकारां
प्रलयजलप्लवनादिनानाभ्रान्त्यवस्थां कथं गतः ।
ध्यानलक्षणयोगाङ्गप्रयोगेणातीतानागतसर्वदर्शनोपायेन तदा
सर्वभ्रान्त्युपशमं कथं न गतो न प्राप्तः ॥ १ ॥
मुनिरुवाच ।
कल्पान्तेषु विनश्यन्ति नाशैर्नानाविधात्मभिः ।
जगन्ति भ्रान्तिरूपाणि नभस्याभासरूपिभिः ॥ २ ॥
कदाचित्क्रमशो नाशः कल्पान्ते सम्प्रवर्तते ।
अशङ्कितं कदाचिद्द्रागेकधादिविकारतः ॥ ३ ॥
क्रमिके प्रलये योगेन भूतभाव्यर्थपर्यालोचनावकाशः स्यात् । आकस्मिके तु न
तदवकाशो मया लब्ध इत्युत्तरमभिप्रेत्य प्रलयद्वैविध्यं दर्शयति -
कदाचिदिति । सप्तानां समुद्राणां युगपदेकधाभावादिलक्षणाद्विकारतः ॥ ३ ॥
तदा द्रागित्येव यदा विकृतं वारि तत्तथा ।
तेन यावत्सरन्त्याद्यं तावन्नीता जलैः सुराः ॥ ४ ॥
आद्यं हिरण्यगर्भं प्रति निवेदयितुं सुरा यावत्सरन्ति जिगमिषन्ति तावज्जलैर्नीताः ।
तथा च सुराणामपि यत्र प्रमादस्तत्र मम का कथेत्यर्थः ॥ ४ ॥
अन्यच्च विपिनाधीश कालः सर्वङ्कषो ह्यम् ।
यत्र काले ततस्तस्मिंस्त्ववश्यम्भावि तत्तथा ॥ ५ ॥
कालप्राबल्याद्वा तदा मम ध्यानधारणा न स्फूर्तेत्याह - अन्यच्चेति ।
विपिनाधीश हे व्याध सर्व कषति नाशयतीति सर्वकषः । यत्र काले यदवश्यम्भावि
तत्तथा भवतीत्यर्थः ॥ ५ ॥
बलं बुद्धिश्च तेजश्च क्षयकाल उपस्थिते ।
विपर्यस्यति सर्वत्र सर्वथा महतामपि ॥ ६ ॥
तदेव प्रपञ्चयति - बलमिति ॥ ६ ॥
अन्यच्च विपिनाधीश मयैतत्तव वर्णितम् ।
स्वप्नदृष्टं किल स्वप्ने किं न सम्भवतीह कम् ॥ ७ ॥
किञ्चेदं स्वप्ने परचित्तानुवर्तिना मया दृष्टम् तत्र च विवेकाप्रसरो महतामपि
प्रसिद्ध इति परिहारान्तरमाह - अन्यच्चेति । इह सर्वजने किमप्रसिद्धमिदमित्यर्थः
॥ ७ ॥
व्याध उवाच ।
असदेतद्यदि विभो स्वप्नसम्भ्रममात्रकम् ।
कथितेन तदैतेन कोऽर्थः कल्याणकोविद ॥ ८ ॥
स्वप्नसम्भ्रमो मात्रा उपमानं यस्य तत्स्वप्नसम्भ्रममात्रकम् । तत्तर्हि एतेन
मां प्रति कथितेन किं प्रयोजनम् । हे कल्याणकोविदेति निरर्थकवाक्यवक्तृता त्वयि न
सम्भाव्येति द्योतनाय सम्बोधनम् ॥ ८ ॥
मुनिरुवाच ।
त्वद्बोधनात्मकं कार्यं महदस्त्यत्र बुद्धिमन् ।
एतद्भ्रमात्मकं वेत्ति भवान्सत्यं तु मे शृणु ॥ ९ ॥
कल्याणकोविदत्वं प्रकटयन्मुनिरुत्तरमाह - त्वद्बोधनात्मकमिति ।
मोक्षपर्यवसायित्वान्महत् । यतो भवान्
वर्णितप्रपञ्चसाम्यावगमादेतत्परिदृश्यमानमपि भ्रमात्मक वेत्ति ।
दृश्यमात्रस्य भ्रमात्मकत्वे सत्यं तु दृग्रूपो भवानेव परिशिष्यते । अत
एममन्वयव्यतिरेकाभ्यामन्यशोधनोपायं कथाशेषं मे मत्तः
शृण्वित्यर्थः ॥ ९ ॥
अनन्तरमहं तस्मिन्मत्तैकार्णवरंहसि ।
जन्तोरोजः स्थितः स्वप्ने भ्रान्तं भ्रान्तो व्यलोकयं ॥ १० ॥
यावत्ससकलं वारि क्वापि निर्गन्तुमुद्यतम् ।
विक्षुब्धवज्रवित्रस्तसपक्षाद्रीन्द्रवृन्दवत् ॥ ११ ॥
कियत्कालं भ्रान्तिं त्वं व्यलोकयस्तत्राह - यावदिति । सकलैरावर्तकल्लोलादिभिः
सह वर्तमानं ससकलम् ॥ ११ ॥
लब्धवानुह्यमानोऽहं कञ्चिद्दैववशात्तटम् ।
अवसं तमवष्टभ्य शिखरप्रान्तसन्निभम् ॥ १२ ॥
तं तटमवष्टभ्य आश्रित्य अवसम् ॥ १२ ॥
अथ क्षणेन सलिलं तदशेषेण निर्ययौ ।
वीच्यग्रस्फुटिताकारैर्देवैस्तारकिताम्बरम् ॥ १३ ॥
तत्सलिलं वर्णयति - वीच्यग्रेत्यादिना ।
वीच्यग्रस्फुटितजलकणाकारैर्ग्रहनक्षत्रादिदेवैस्तारकितं सञ्जाततारकमम्बरं
येन ॥ १३ ॥
तारागणैश्च पातालगतैर्मणिमयोदरम् ।
आवर्तेषु परावृत्तैः स्फारमद्रिजरत्तृणैः ॥ १४ ॥
कैश्चित्तारागणैः पातालगतैर्मणिमयोदरमिव ॥ १४ ॥
हेमद्वीपोपमैर्व्याप्तं गीर्वाणपुरमन्दिरैः ।
भ्रमत्सुराङ्गनालीननलिनीजालमालितम् ॥ १५ ॥
सुराङ्गनालक्षणैर्लीनैर्नलिनीजालैर्मालितम् ॥ १५ ॥
मध्योह्यमानकल्पाभ्रनीलशैवालजालकम् ।
विद्युद्गोरोचनाम्भोदनीलनीरजनिर्भरम् ॥ १६ ॥
कल्पाभ्रवन्नीलं शैवालजालकं यत्र विद्युत एव गोरोचनातुल्याः परागा यत्र
तथाविधैरम्भोदलक्षणैर्नीलनीरजैर्निर्भरमतिशयितम् ॥ १६ ॥
स्फुरत्सीकरनीहारमेघाद्रिकृतदिक्तटम् ।
उल्लोलद्वीचिसन्दिग्धवहत्कल्पद्रुमव्रजम् ॥ १७ ॥
स्फुरत्सीकरैर्नीहारैर्मेघैरद्रिभिश्च कृतं दिक्षु तटं यस्य ॥ १७ ॥
अथैकार्णवखातोऽसावभवच्छुष्ककोटरः ।
क्वचिद्गलितसह्याद्रि क्वचित्संशीकमन्दरः ॥ १८ ॥
एकार्णवखातमपि वर्णयति - शुष्केत्यादिना । संशीकः शीर्णत्वादयं
मन्दरोऽन्यो वेति संशययोग्यो मन्दरो यत्र ॥ १८ ॥
क्वचित्कङ्कनिमग्नेन्दुयमवासवतक्षकः ।
क्वचित्पङ्कनिमग्नाधःशाखकल्पद्रुमोत्करः ॥ १९ ॥
क्वचित्कमलवत्कीर्णलोकपालशिरःकरः ।
क्वचित्पङ्कजविश्रान्तरुधिरह्रदपाटलः ॥ २० ॥
पङ्कजैरिव विश्रान्तै रुधिरह्रदैः पाटलः ॥ २० ॥
क्वचिदाकण्ठनिर्मग्नक्वणद्विद्याधरीगणः ।
क्वचित्स्वप्नमृतेभाभयाम्योग्रमहिषावृतः ॥ २१ ॥
स्वप्न इव मृतैरिभाभैर्याम्यैर्यमवाहनैरुग्रमहिषैरावृतः ॥ २१ ॥
क्वचित्सन्नमहाकायगरुडामरपर्वतः ।
क्वचिन्मत्तमहासेतुर्यमदण्डेन भूजुषा ॥ २२ ॥
सन्नो महाकायगरुडलक्षणोऽमरपर्वतो यत्र । भूजुषा भूमौ पतितेन यमदण्डेन
मत्त इव जलनिरोधाक्षमो महासेतुर्यत्र ॥ २२ ॥
क्वचित्प्रमृतवैरिञ्चहंससस्मितपङ्कभूः ।
क्वचित्पङ्कविनिर्मग्नदेहार्धामरवारणः ॥ २३ ॥
एतस्मिन्नन्तरे तत्र सानुं प्राप्याश्रमे श्रमात् ।
विश्रान्तोस्मि यदा तेन भृशं निद्राजगाम माम् ॥ २४ ॥
सानुं तटगिरेः प्रस्थदेशम् । कस्यचिन्मुनेराश्रमे यदा विश्रान्तोऽस्मि तदा मां
भृशं निद्रा आजगाम ॥ २४ ॥
ततः सुषुप्तनिद्रान्तस्तया वासनयान्वितः ।
तं तादृगेव कल्पान्तमपश्यं स्वौजसि स्थितः ॥ २५ ॥
सुषुप्तोत्तरकालप्रवृत्तनिद्रान्तस्तादृक्प्राण्योजोन्तर्दृष्टसदृशमेव स्वौजसि
स्थितोऽहमपश्यम् ॥ २५ ॥
दृष्ट्वा तद्द्विगुणं दुःखं चिरेणात्राहमाकुलः ।
प्रबुद्धो दृष्टवान्सानुं तमेवास्य हृदि स्थितम् ॥ २६ ॥
अस्य प्राणिनो हृदि स्थितं सानुमहं दृष्टवान् ॥ २६ ॥
अथ तत्र द्वितीयेऽह्नि भास्करोदयसुन्दरम् ।
सलोकाकाशभूशैलं भुवनं दृष्टवानहम् ॥ २७ ॥
द्यौः क्षमा वायुराकाशं पर्वताः सरितो दिशः ।
इति मे चेतसो जातं पत्रादि विटपादिव ॥ २८ ॥
चेतसो मनसः सकाशादेव विटपाच्छाखातः पत्रादीव जातमुत्पन्नम् ॥ २८ ॥
ततस्तस्मिंस्तथा दृष्टे भूतले तैः पदार्थकैः ।
व्यवहारं प्रवृत्तोऽहं किञ्चिद्विस्मृतधीरितः ॥ २९ ॥
प्रवृत्तः कर्तुमिति शेषः । इतः पूर्वानुभूतविषये किञ्चिद्विस्मृतधीः
विस्मृतधिया ईरित इति वा ॥ २९ ॥
जातस्य मेऽद्य वर्षाणि षोडशैष पिता मम ।
इयं मातास्पदं चेदमिति मे प्रतिमोदभूत् ॥ ३० ॥
तत्र चापूर्वा काचित्सिद्धवत्कारेण व्यवहारप्रतिभा स्वस्योदभूदित्याह - जातस्येति
। आस्पदं गृहम् ॥ ३० ॥
अपश्यं ग्रामकं कञ्चित्कञ्चिच्च ब्राह्मणाश्रमम् ।
किञ्चिद्गेहं तथा कश्चिद्बन्धुः कस्मिंश्चिदाश्रमे ॥ ३१ ॥
तत्र कश्चिद्बन्धुरभूदिति शेषः ॥ ३१ ॥
अथ मे तिष्ठतः सार्धं बन्धुभिर्ग्राममन्दिरे ।
अहोरात्रेषु गच्छत्सु जाग्रदादींस्तदेव सत् ॥ ३२ ॥
जाग्रदादीनवस्थाभेदाननुभवत इति शेषः । तदेव ग्रामादि । सत् यथार्थमिवाभवत्
॥ ३२ ॥
ततः कालवशात्तत्र प्राक्तनी बोधधीर्मम ।
विस्मृता तादृशाभ्यासादहो तस्येव मत्स्यता ॥ ३३ ॥
तस्य प्राग्दामव्यालकटाख्याने उक्तस्य निर्वासनस्यापि कटस्य
मत्स्यसहवासाभ्यासात्पूर्वबोधविस्मरणेन मत्स्यतेव ग्रामवास्तव्यता मम
सम्पन्नेत्यर्थः ॥ ३३ ॥
इत्यहं ग्रामवास्तव्यः सम्पन्नो ब्राह्मणस्तदा ।
देहमात्रकबद्धास्थो दूरीकृतविवेकभूः ॥ ३४ ॥
तामेव प्रपञ्चयति - इतीत्यादिना ॥ ३४ ॥
शरीरमात्रात्मवपुर्दारमात्रानुरञ्जितः ।
वासनामात्रसारात्मा धनमात्रैकतत्परः ॥ ३५ ॥
वासनामात्रसारः आत्मा स्वभावो देहो वा यस्य ॥ ३५ ॥
जीर्णगोमात्रकधनः संरोपितलतावृतिः ।
सञ्चिताग्न्यवनिप्राणिरुपार्जितकमण्डलुः ॥ ३६ ॥
गृहाङ्गणे संरोपिता निष्पावादिलतावृतिर्येन । सञ्चिताः अग्निश्च अवनिः
क्षेत्रादिभूश्च पश्वादिप्राणिनश्च येन । नलोपश्छान्दसः ॥ ३६ ॥
चलवृक्षकबद्धास्थो लोकाचाररतः सदा ।
गृहपार्श्वगतानीलशाद्वलस्थलिकास्थितिः ॥ ३७ ॥
चलेष्वल्पकालजीविषु तुलस्यादिवृक्षकेषु बद्धास्थः । लोकानामाचारेषु
जनपदग्रामधर्मेषु रतः । गृहपार्श्वगतासु आनीलशाद्वलासु स्थलिकासु
स्थितिर्यस्य ॥ ३७ ॥
शाकशाकायतारामरचनानीतवासरः ।
सरिद्ध्रदनदीतीर्थसरसि स्नानतत्परः ॥ ३८ ॥
शाकानां शाकैरायतानामारामाणां च रचना परिष्कारस्तया नीता वासरा येन ।
सरोन्तानां द्वन्द्वैकवद्भावः ॥ ३८ ॥
गोमयान्नजलाम्ब्वग्निकाष्ठेष्टा कष्टसञ्चयी ।
इदं कार्यमिदं नेति पाशाभ्यां विवशीकृतः ॥ ३९ ॥
इष्टा इष्टकाः । गोमयादीनां कष्टेन सञ्चयनशीलः ॥ ३९ ॥
इति मे जीवतस्तत्र संवत्सरशतं गतम् ।
एकदाभ्यागतो दूरात्तापसोऽतिथिरात्मवान् ॥ ४० ॥
आत्मवानात्मज्ञः ॥ ४० ॥
पूजितोऽसौ विशश्राम मद्गृहे स्नानपूर्वकम् ।
भुक्तवाञ्छयने स्थित्वा रात्रौ वर्णितवान्कथाम् ॥ ४१ ॥
नानादिग्देशशैलोर्वीव्यवहारमनोहरे ।
कथाप्रसङ्गे कस्मिंश्चिन्नानाविधरसाश्रये ॥ ४२ ॥
कस्मिंश्चित्कथाप्रसङ्गे तेनाहं इति बोधित इति व्यवहितेन सम्बन्धः ॥ ४२ ॥
सर्वं चिन्मात्रमेवेदमनन्तमविकारि च ।
जगत्तयेव कचति यथास्थितमपि स्थितम् ॥ ४३ ॥
इत्यहं बोधितस्तेन बोधैकघनतां गतः ।
स्मृतवांस्तमशेषेण वृत्तान्तं धारणावशात् ॥ ४४ ॥
तं प्राक्तनप्राणिशरीरप्रवेशादिस्ववृत्तान्तम् ॥ ४४ ॥
स्मृतवानात्मवृत्तान्तं यस्याहमुदरे स्थितः ।
तं विराड्रूपमाशङ्क्य तस्मान्निर्गन्तुमुद्यतः ॥ ४५ ॥
तं प्राणिनं सर्वजगज्जठरत्वाद्विराड्रूपमाशङ्क्य तस्मात्त दुदरात् ॥ ४५ ॥
तदास्यं निर्गमद्वारमथ जानामि नो यदा ।
विस्तीर्णे भुवने यस्मिन्भूम्यब्ध्यद्रिसरिद्वृते ॥ ४६ ॥
यस्मिन् प्राण्युदरे विस्तीर्णे भुवने भ्रमन्नहं यदा निर्गमद्वारं तदास्यं न
जानामि तदा तं देशमत्यजन्नेव तस्य प्राणं पवनं बहिर्निर्गन्तुं प्रविष्ट इति
परेण सहान्वयः ॥ ४६ ॥
तदा तमत्यजन्नेव देशं बन्धुजनावृतम् ।
तस्य प्राणं प्रविष्टोऽहं निर्गन्तुं पवनं बहिः ॥ ४७ ॥
इहस्थस्य विराजोऽस्य बाह्यमाभ्यन्तरं तथा ।
अन्यजं सर्वमीक्षेऽहमिति निर्णीय तादृशम् ॥ ४८ ॥
इहस्थस्य विराजोऽस्य प्राणिनो बाह्यमन्यजं विराडन्तरोत्पन्नमाभ्यन्तरं चेति
सर्वमीक्षे इति बुद्ध्या तादृशं तदनुकूलां तत्प्राणाहम्भावधारणां बद्ध्वा
तं प्रदेशमत्यजमिति परेणान्वयः ॥ ४८ ॥
धारणां संविदा बद्ध्वा प्रदेशं स्वं तमत्यजम् ।
तत्प्राणैः सह निर्यात आमोदः कुसुमादिव ॥ ४९ ॥
पवनस्कन्धमासाद्य प्राप्य तन्मुखकोटरम् ।
बहिर्वातरथेनाहं निर्गतो दृष्टवान्पुरः ॥ ५० ॥
वातलक्षणेन रथेन बहिर्निर्गतः सन् पुरो वक्ष्यमाणं दृष्टवान् ॥ ५० ॥
यावत्तथैव मद्देहो बद्धपद्मासनः स्थितः ।
क्वापि मुन्याश्रमः शिष्यैः पालितो गिरिकन्दरे ॥ ५१ ॥
बाह्ये क्वापि गिरिकन्दरे मुन्याश्रमोऽस्ति तत्र मद्देहो यावत्सकलस्तथा
प्रागनुभूतवदेव बद्धपद्मासनः स्थितः ॥ ५१ ॥
पुरो मे तिष्ठतां तेषां मत्संरक्षणकर्मणाम् ।
मुहूर्तमात्रं च गतः कालश्चान्ते निवासिनाम् ॥ ५२ ॥
हृदयं सम्प्रविष्टोऽसौ यस्याहं स पुमानपि ।
पृष्ठेनोत्सवलब्धेन शेते तृप्तोऽन्धसा सुखम् ॥ ५३ ॥
स प्राणी अन्तेवासी पुमान् ग्रामे क्वचिदुत्सवे लब्धेन अन्धसा मृष्टान्नेन तृप्तः
सन् उत्तानः पृष्टेन सुखं शेते ॥ ५३ ॥
तदाश्चर्यं मया दृष्ट्वा नोक्तं किं च न कस्यचित् ।
पुनस्तस्यैव हृदयं प्रविष्टः कौतुकादहम् ॥ ५४ ॥
प्राप्तोऽस्म्योजःप्रदेशं तं तस्य तस्मिन्हृदन्तरे ।
अवेक्षितुं स्वबन्धूंस्तान्व्याप्तो वासनया तया ॥ ५५ ॥
तं प्रागनुभूतमोजःप्रदेशमानन्दमयादिकोशत्रयप्रदेशं यावत्प्राप्तोऽस्मि
तावत्तत्र युगस्यान्तः सम्प्रवृत्त इति परेणान्वयः ॥ ५५ ॥
यावत्तत्र युगस्यान्तः सम्प्रवृत्तोऽतिदारुणः ।
भुवनं तद्विपर्यासमागतं सह संस्थया ॥ ५६ ॥
संस्थया धर्माधर्मव्यवस्थया सह विपर्यासमागतं प्राप्तम् ॥ ५६ ॥
अन्य एवाचलास्तत्र वसुधान्या च संस्थिता ।
अन्य एव ककुब्भेदस्तथान्या भुवनस्थितिः ॥ ५७ ॥
भुवनविपर्यासमेव प्रपञ्चयति - अन्य इति ॥ ५७ ॥
ते बन्धवः स च ग्रामः स भूभागः स दिक्तटः ।
न जाने क्व गतं सर्वं व्यूह्य नीतमिवानिलैः ॥ ५८ ॥
व्यूह्य सङ्काल्य ॥ ५८ ॥
तदा पश्यामि भुवनं यावदन्यदवस्थितम् ।
अपूर्वसन्निवेशं तज्जगदन्यदिवोदितम् ॥ ५९ ॥
यावत्कृतम् ॥ ५९ ॥
तपन्ति द्वादशादित्याः प्रज्वलन्ति दिशो दश ।
शीताश्यानाम्बुवच्छैलाः प्रवृत्ता गलितुं बलात् ॥ ६० ॥
शीतेन आश्यानं घनीभूतं यदम्बु तद्वत् गलितुं प्रवृत्ताः ॥ ६० ॥
अद्रावद्रौ दिशिदिशि ज्वलन्ति वनपङ्क्तयः ।
दग्धाः स्मृतिपदं याताः समस्ता रत्नभूतयः ॥ ६१ ॥
सर्व एवाब्धयः शुष्का महावाताः पुरःस्थिताः ।
अङ्गारराशितां यातं भूमण्डलमशेषतः ॥ ६२ ॥
पुरोदिशि स्थिता उत्थिताः ॥ ६२ ॥
पातालतो भूतलतोऽथ दिग्भ्यो ज्वाला विनिर्गन्तुमनुप्रवृत्ताः ।
सन्ध्याभ्रवच्चाशु बभूव विश्वं ज्वालामयं मण्डलमेकमेव ॥ ६३ ॥
प्रथमं पातालस्ततो भूतलतोऽथानन्तरं दिग्भ्यो ज्वाला विनिर्गन्तुं प्रवृत्ताः ।
विश्वमाशु एकमेव ज्वालामयं मण्डलं सत् सन्ध्याभ्रवदारक्तं बभूव ॥ ६३ ॥
ज्वालामये सद्मनि हेमपद्मकोशे भ्रमद्भृङ्ग इव प्रविष्टः ।
ततोऽहमाराच्छलभक्रमेण न चाप्तवान्दाहविकारदुःखम् ॥ ६४ ॥
तस्मिन् ज्वालामये सद्मनि हेमपद्मकोशे भ्रमद्भृङ्ग इव प्रविष्टोऽहं
शलभक्रमेण प्रसक्तमपि दाहविकारदुःखं नैवाप्तवान् ।
आतिवाहिकदेहमात्रनिश्चयादिति भावः ॥ ६४ ॥
ज्वालामये साधु महाम्बुवाहे भ्रमाम्यहं विद्युदिवानिलात्मा ।
ज्वालापरिस्पन्दविलोलवर्ष्मा स्थलाब्जखण्डभ्रमरोपमश्रीः ॥ ६५ ॥
अनिलधारणया अनिलात्मा वायुप्रायोऽहं तस्मिन् ज्वालामये महाम्बुवाहे विद्युदिव
साधु भ्रमामि । ज्वालापरिस्पन्देषु विलोलं वर्ष्म यस्य तथाविधः सन्
स्थलाब्जखण्डेषु भ्रमन्तो ये भ्रमरास्तदुपमश्रीः संवृत्त इत्यर्थः ॥ ६५ ॥
इत्यार्षे श्रीवासिष्ठमहारामायणे वा० दे० मो० नि० उ० अ० वि० हृदयकल्पनावर्णनं
नाम चत्वारिंशदधिकशततमः सर्गः ॥ १४० ॥
इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे निर्वाणप्रकरणे उत्तरार्धे
हृदयकल्पनावर्णनं नाम चत्वारिंशदधिकशततमः सर्गः ॥ १४० ॥