१३९

एकोनचत्वारिंशदधिकशततमः सर्गः १३९

श्रीवसिष्ठ उवाच ।

चित्तमेव जगत्कर्तृ सङ्कल्पयति यद्यथा ।
असत्सत्सदसच्चैव तत्तथा तस्य तिष्ठति ॥ १ ॥

प्राणादपि हि चित्तस्य प्राधान्यमिह वर्ण्यते ।
मुनेः सुषुप्तात्स्वप्नाप्तौ प्रलयेक्षा च विस्तरात् ॥

चित्तस्य सदैव प्राणाधीनत्वमभ्युपेत्याध्यारोपक्रमे प्राथम्यमात्रेण
जाग्रत्स्वप्नयोरुभयप्राधान्यं सुषुप्तौ तु प्राणस्यैवेत्याशयेन रामप्रश्नः
समाहितः इदानीं प्राणादिसर्वजगन्निर्माणे चित्तस्यैव स्वातन्त्र्यात्प्राधान्यं
सुषुप्त्यारम्भकाले तु श्रान्तत्वाद्व्यापारितुमसमर्थमिति स्वविश्रान्त्यर्थमेव चित्तं
प्राणप्राधान्यमङ्गीकरोतीत्याशयेन तत्समाधानमुपक्रमते -
चित्तमेवेत्यादिना । असत् अलीकम् । सत् व्यावहारिकम् । सदसत् प्रातिभासिकम् । तस्य
चित्तात्मनः ॥ १ ॥

तेन सङ्कल्पितः प्राणः प्राणो मे गतिरित्यपि ।
न भवामि विनानेन तेन तत्तत्परायणम् ॥ २ ॥

गतिर्मदीयसर्वव्यवहारनिर्वाहकः । तेन प्राणेन विना न भवामि न तिष्ठामि इत्यापि
कल्पितं तेन हेतुना तच्चित्तं तत्परायणं प्राणाधीनमुच्यते ॥ २ ॥

अहं कतिपयं कालं ननु प्राणविनाकृतः ।
न भवामि पुनर्नूनं भवाम्येवेति कल्पितम् ॥ ३ ॥

स्वप्नमनोराज्यादिप्रसिद्धदेहे प्राणाभावेऽपि मनोव्यापारदर्शनाद्विना तेन न
भवामीति सङ्कल्पस्य व्यभिचारमाशङ्क्याह - अहमिति ॥ ३ ॥

यत्र तेनाङ्ग तत्रैतत्प्राणेनाशु क्षणाद्वपुः ।
उदितं पश्यति मनो मायापुरमिवाततम् ॥ ४ ॥

यत्र यत्र तेन मन्सा प्राणेन सह वपुः कल्पितं तत्रैतत् क्षणादुदितं पश्यति ॥ ४ ॥

न भवाम्येव भूयोऽहं प्राणदेहविनाकृतः ।
दृढनिश्चयभागित्थं चितो भवति नो पुनः ॥ ५ ॥

प्राणदेहकल्पनानन्तरमहं भूयः कदापि प्राणदेहाभ्यां विनाकृतो न
भवाम्येवेत्यत्यन्तदृढनिश्चयवान् जीवो भवति । चितश्चिन्मात्रस्वभावस्य तु
दृढनिश्चयवान्नो भवति ॥ ५ ॥

दोलायितं तु सन्देहाद्दुःखमास्ते कुनिश्चयम् ।
विकल्पेनैवमस्यैतज्ज्ञानान्नाल्पेन यास्यति ॥ ६ ॥

अत एवाल्पविचारजात्सदेहप्रायाज्ञानान्न निस्तारः । विपरीतदृढनिश्चयस्य
यथार्थदृढनिश्चयं विना अनिवृत्तेरित्याह - दोलायितमिति । एवं
दृढतरमेतद्भ्रान्तिज्ञानं तत्त्वज्ञानादल्पेन विकल्पेन न यास्यति ॥ ६ ॥

यस्यायमहमित्यस्ति तस्य तन्नोपशाम्यति ।
वर्जयित्वात्मविज्ञानन्न् केनचिन्नाम हेतुना ॥ ७ ॥

नान्यत्र प्रथते ज्ञानन्न् मोक्षोपायविचारणात् ।
ऋते तस्मात्प्रयतेनन् मोक्षोपायो विचार्यताम् ॥ ८ ॥

दृढतरतत्त्वज्ञाने त्वयं ग्रन्थ एवोपाय इत्याह - नान्यत्रेति ॥ ८ ॥

किलाहमिदमित्येव नाविद्या विद्यते क्वचित् ।
मोक्षोपायादृते नैतत्कुतश्चिदयतेऽन्यतः ॥ ९ ॥

अहमिदमिति द्विधैवाविद्या विद्यते । अन्येति शेषः । अयते अपगच्छति ॥ ९ ॥

एवं यन्मनसाभ्यस्तमुपलब्धं तथैव तत् ।
तेन मे जीवितं प्राणा इति प्राणे मनः स्थितम् ॥ १० ॥

मे मम प्राणा एव जीवितं परमप्रेमविषयं रूपमित्येवं यन्मनसा
दृढमभ्यस्तमित्येतस्माद्धेतोः प्राणे प्राणाधीनतया मनः स्थितम् ॥ १० ॥

देहे सौम्ये स्थिते प्राणे मनो मननवद्भवेत् ।
क्षुब्धे प्राणगतं क्षोभं पश्यन्नान्यत्प्रपश्यति ॥ ११ ॥

एवं देहाधीनता मनसोऽस्तीत्याह - देहे इति । देहे क्षुब्धे तु तत् क्षोभं प्राणगतं
प्रपश्यन्मनः अन्यदात्मतत्त्वविवेकं वा न प्रपश्यति ॥ ११ ॥

यदा स्वकर्मणि स्पन्दे व्यग्रः प्राणो भृशं भवेत् ।
तदा तदीहितव्यग्रः प्राणो नात्मोद्यमी भवेत् ॥ १२ ॥

अत एव प्राणो निरोधाभ्यासं विना नात्मज्ञानोन्मुखीभवतीत्याह - यदेति । तस्य
मनस ईहितेषु व्यग्रः ॥ १२ ॥

एते हि प्राणमनसी त्वन्योन्यं रथसारथी ।
के नाम नानुवर्तन्ते रथसारथिनौ मिथः ॥ १३ ॥

तत्कुतस्तत्राह - एते इति ॥ १३ ॥

इत्यादिसर्गे स्वात्मैव चेतितः परमात्मना ।
तेनैषाद्यापि नियतिर्नाबुधानां निवर्तते ॥ १४ ॥

तदपि कुतस्तत्राह - इतीति । इति एवं परस्परानुवृत्तिस्वभावे प्राणमनोरूपेण
परमात्मना आदिसर्गे आत्मा चेतितः सङ्कल्पितः ॥ १४ ॥

देशकालक्रियाद्रव्यैर्मनःप्राणशरीरिणाम् ।
प्रयान्त्यधिगता देहेष्वरूढानां परे पदे ॥ १५ ॥

परे पदे अरूढानामव्युत्पन्नानां मनःप्राणशरीरिणां देहेषु
देशकालक्रियाद्रव्यैरधिगता व्यवहाराः प्रयान्ति प्रवर्तन्ते ॥ १५ ॥

स्वं प्राणमनसी साम्यात्कुर्वती कर्म तिष्ठतः ।
वैषम्याद्विषमं चैकं शान्ते शान्ता सुषुप्तता ॥ १६ ॥

तत्र प्राणमनसी यावत्कालं साम्यात्स्वं कर्म कुर्वती तिष्ठतस्तावत्समो व्यवहारो
जाग्रदाख्यः प्रवर्तए । यदा प्राण इन्द्रियप्रवर्तनादुपरतो वैषम्यं भजते तदा
विषमं स्वप्नाख्यमेकं केवलमानसं व्यवहरणं प्रवर्तते । शान्ते च मनसि
सर्वविक्षेपशान्त्युपलक्षिता सुषुप्तता प्रवर्तत इत्यर्थः ॥ १६ ॥

यदाहारादिरुद्धासु नाडीषु क्वापि पिण्डितः ।
शान्तमास्ते जडः प्राणस्तदोदेति सुषुप्तता ॥ १७ ॥

कदा पुनर्मनः शान्तं भवति तदाह - यदेति ।
आहारैरन्नरसैरादिपदात्पित्तादिभिश्च नाडीषु रुद्धासु सतीषु पिण्डितः प्राणो यदा
जडो मन्दसञ्चारो भूत्वा क्वाप्यास्ते तदा मनःशान्त्या सुषुप्ततोदेति ॥ १७ ॥

नाडीष्वन्नावपूर्णासु तथा क्षीणासु वा क्लमात् ।
निःस्पन्दस्तिष्ठति प्राणस्तदोदेति सुषुप्तता ॥ १८ ॥

क्षुधितादीनामपि श्रमात्सुषुप्तौ निमित्तमाह - क्षीणासु वेति ॥ १८ ॥

नाडीनां मृदुरूपत्वात्पूर्णत्वाद्वा व्रणोदरे ।
क्वापि प्राणे स्थिते लीने निःस्पन्दास्ते सुषुप्तता ॥ १९ ॥

मर्दनादिना नाडीमार्दवमपि सुषुप्तिनिमित्तमित्याह - नाद्डीनामिति । एवं
शरक्षतव्रणरुधिरादिपुर्णतापि तन्निमित्तमित्याह - पूर्णत्वादिति ॥ १९ ॥

तापस उवाच ।

अथ यस्य प्रविष्टोऽहं हृदये सोऽभवन्निशि ।
सुषुप्तघननिद्रालुराहारपरितृप्तिमान् ॥ २० ॥

एवं रामप्रश्नोत्तरप्रासङ्गिकं समाप्य वसिष्ठः प्रस्तुततापसोक्तिमेवावलम्बते

  • अथेत्यादिना । स प्राणी आहारपरितृप्तिमान्सन् सुषुप्तघननिद्रालुरभवदिति
    प्रागुक्तानुवादः ॥ २० ॥

तेन सार्धमहं तत्र तच्चित्तेनैकतां गतः ।
सुषुप्तनिद्रां सुघनां गुणीभूतोऽनुभूतवान् ॥ २१ ॥

गुणीभूतस्त्यक्तस्वातन्त्र्यः ॥ २१ ॥

ततोऽन्धस्यस्य जीर्णेऽन्तर्नाडीमार्गे स्फुटे स्थिते ।
प्राकृते स्पन्दिते प्राणे सुषुप्तं तनुतां ययौ ॥ २२ ॥

ततः अस्य प्राणिन उदरस्थे अन्धसि अन्ने जीर्णे जाते सति प्राकृते नैसर्गिके नाडीमार्गे
प्राणे स्पन्दिते स्पन्दमाने सति । गत्यर्थाकर्मक - इति कर्तरि क्तः । तनुतामल्पताम् ॥
२२ ॥

सुषुप्ते तनुतां याते हृदयादिव निर्गतम् ।
अपश्यमहमत्रैव भुवनं भास्करादिमत् ॥ २३ ॥

ततस्तदीयस्वप्नप्रपञ्चोमया दृष्ट इत्याह - सुषुप्ते इति ॥ २३ ॥

तच्च क्षुब्धार्णवोत्थेन पूर्यमाणं महाम्भसा ।
विमुक्तेनेव कल्पाभ्रैरभ्रङ्कषतरङ्गिणा ॥ २४ ॥

तच्च भुवनं प्रलयकालक्षुब्धार्णवेभ्य उदितेन महाम्भसा
पूर्यमाणमपश्यम् । तदम्भ एव विशिनष्टि - विमुक्तेनेवेति ।
कल्पाभ्रैर्मुसलप्रमाणधारावृष्ट्या विमुक्तेन अधस्त्यक्तेन । इवशब्दो
मिथ्यात्वद्योती सर्वत्रानुवर्तनीयः ॥ २४ ॥

प्रोह्यत्पर्वतपूरेण महावर्तविराविणा ।
वहद्वनालीतृण्याढ्यैर्व्याप्तेनोन्मूलितागया ॥ २५ ॥

वहन्ती या वनाली तल्लक्षणा या तृण्या तृणसमूहस्तदाढ्यैः पर्वतैर्व्याप्तेन ।
तृणाद्यैर्व्याप्तेन इति पाठे स्पष्टम् । उन्मूलिता अगा वृक्षाः पर्वताश्च यया
तथाविधया वात्यया वह्निज्वालया पूर्वमेवावदग्धायास्त्रिलोक्याः
खण्डखण्डकैः पूर्णेनेत्युत्तरत्रान्वयः ॥ २५ ॥

पूर्वमेवावदग्धायास्त्रिलोक्याः खण्डखण्डकैः ।
पूर्णेन परितः प्रौढैः खपुराद्रिमहीमयैः ॥ २६ ॥

खे प्रसिद्धानि देवासुरादिपुराणि तदादिमयैः ॥ २६ ॥

अहं तत्रैव पश्यामि यावत्कस्मिंश्चिदास्पदे ।
कस्याञ्चित्पुरि कस्मिंश्चिद्गृहे वध्वा पुरे स्थितः ॥ २७ ॥

तदा च अहं कस्मिंश्चिदास्पदे देशे तत्र कस्याञ्चित्पुरि तत्रापि कस्मिंश्चिद्गृहे
वध्वा भार्यया सह स्थितोऽस्मीति स्वं पश्यामीत्यर्थः ॥ २७ ॥

सदारः सहभृत्योऽहं सपुत्रः सहबान्धवः ।
सहभाण्डोपस्करणः सगृहोऽपहृतोऽम्भसा ॥ २८ ॥

ईदृशश्चाहं तेन प्रलयाम्भसापहृतः प्रवाहितः ॥ २८ ॥

उह्यमानं क्षयाम्भोभिस्तद्गृहं तच्च पत्तनम् ।
लङ्घ्यमानं द्रुमाकारैः पूर्यमाणं च वारिभिः ॥ २९ ॥

तदवस्थं तद्गृहं तन्नगरं च वर्णयति - उह्यमानमिति । क्षयाम्भोभिः
प्रलयजलैः । द्रुमाकारैस्तरङ्गैः ॥ २९ ॥

बृहत्कलकलारावं जेतुमब्धिमिवोद्यतम् ।
अतिक्षुभितवास्तव्यमनपेक्षितपुत्रकम् ॥ ३० ॥

वास्तुनि वेश्मभूमौ भवा वास्तव्या जनाः ॥ ३० ॥

आवर्ततरलाढ्याभिर्वृत्तिभिर्व्यूढमाकुलम् ।
साक्रन्दोरस्ताडनोत्कजनजम्बालभीषणम् ॥ ३१ ॥

वृत्तिभिर्जलप्रवृत्तिभिर्व्यूढं प्रवाहितम् । जम्बालैः पङ्कैश्च भीषणम् ॥ ३१ ॥

स्फुटत्कुड्यत्रुटत्काष्ठरटच्छङ्कुकृतोद्रटम् ।
प्रपतच्छादनच्छत्रगवाक्षस्थाङ्गनामुखम् ॥ ३२ ॥

त्रुटद्भिः शङ्कुभिः कृत उत्कृष्टो रटो ध्वनिर्यत्र ॥ ३२ ॥

इति यावत्क्षणं पश्यन्नहं तद्भावमागतः ।
परिरोदिमि दीनात्मा तावत्तत्सकलं गृहम् ॥ ३३ ॥

चतुर्धा भित्तिभेदेन वृद्धबालाङ्गनान्वितम् ।
जगाम शतधा वीच्यां शिलायामिव निर्झरः ॥ ३४ ॥

भित्तीनां भेदेन विदारणेन ॥ ३४ ॥

उह्यमानोऽहमभवं ततः प्रलयवारिणि ।
त्यक्तसर्वकलत्रादिचित्तः प्राणपरायणः ॥ ३५ ॥

क्षिप्तस्तरङ्गजालेन योजनाद्योजनव्रजे ।
उह्यमानद्रुमशिखाज्वालान्तरितजर्जरः ॥ ३६ ॥

उह्यमाना ये द्रुमास्तत्रत्यप्रलयवह्निशिखा ज्वाला तदन्तः इतैर्गमनैर्जर्जरः ।
अन्तरितैरन्तरायैरिति वा ॥ ३६ ॥

काष्ठकुड्यतटीपीठकटुसङ्घट्टघट्टितः ।
आवर्तनृत्यपातालतले गत्वोत्थितश्चिरात् ॥ ३७ ॥

काष्ठादीनां कटुभिर्दुःसहैः सङ्घट्टैर्घट्टित आस्फालितः । आवर्तनृत्येषु
भ्रमणेषु पातालतले गत्वा चिरादुत्थितः ॥ ३७ ॥

चलाचलागमापायवलद्गुलुगुलारवे ।
जले बहुलकल्लोले मग्नोन्मग्नः पुनः पुनः ॥ ३८ ॥

सङ्घट्टभग्नशैलेन्द्रपङ्किले सलिले क्षणम् ।
पल्वले वारण इव मग्नः सत्पयसोद्धृतः ॥ ३९ ॥

मग्नोऽभूवम् । तत्र दैवादागतेन सत्पयसा पुनरुद्धृतः ॥ ३९ ॥

यावदाश्वसिमि क्षिप्रं डिण्डीरे चाद्रिखण्डके ।
तावदेत्य हतो वेगाद्वैरिणेवातिवारिणा ॥ ४० ॥

डिण्डीरे फेनपुञ्जे अद्रिखण्डके च यावदाश्वसिमि विश्रान्ति लभे तावदतिवारिणा
महातरङ्गेण हतः ॥ ४० ॥

नानावलनकल्लोलजलजालजुषा तदा ।
न तदस्ति न यद्दृष्टं दुःखं दुःखात्मना मया ॥ ४१ ॥

किं बहुना तदा सर्व दुःखं मयानुभूतमित्याह - नानेति ॥ ४१ ॥

एतस्मिन्नन्तरे तत्र तदा तत्तामसेक्षण [तापसस्य व्याधं प्रति
सम्बोधनम् ।] ।
यावज्जीवचिराभ्यासाद्विषादित्वात्सचेतसः ॥ ४२ ॥

एतस्मिन्नन्तरे मया तत्प्राक्तनन्न् स्वं समाधिमयं रूपं संस्मृतमिति परेण
सम्बन्धः । तामरसेक्षण इति पाठे मुनिवाक्यमनुवदतो वसिष्ठस्य
रामसम्बोधनम् ॥ ४२ ॥

प्राक्तनं संस्मृतं रूपं स्वं समाधिमयं मया ।
आ अहो नु जगत्यन्यरूपेऽहं तापसः स्थितः ॥ ४३ ॥

स्मृतिमेव विडम्बयन्नाह - आ अहो इत्यादिना । स्मृतावनाङ्त्वात् निपात
एकाजनाङ् इति प्रगृह्यता ॥ ४३ ॥

अहं कस्यचिदन्यस्य स्वप्नदृष्टिदिदृक्षया ।
प्रविष्टोऽहमयं स्वप्ने पश्यामीमं भ्रमं त्विति ॥ ४४ ॥

अयमहमिति प्रत्यभिज्ञायाम् ॥ ४४ ॥

वर्तमानदृढाभ्यासमिथ्याज्ञानमयात्मनि ।
कल्लोलैरुह्यमानोऽपि ततोऽहं सुखितः स्थितः ॥ ४५ ॥

वर्तमानो यः स्वप्रपञ्चदृढाभ्यासस्तत्प्रयुक्तमिथ्याज्ञानमये आत्मनि देहे
कल्लोलैरुह्यमानोऽप्यहं ततस्तत्स्मरणानन्तरम् ॥ ४५ ॥

इदं वारितयापश्यं प्रलयाब्धिविवर्तनाः ।
उह्यमानाद्रिनगरग्रामोर्वीखण्डपादपाः ॥ ४६ ॥

वक्ष्यमाणविशेषणाः प्रलयाब्धिविवर्तना इदं प्रसिद्धं यन्मरुमरीचिवारि तत्तया
। मिथ्यात्वेनेति यावत् ॥ ४६ ॥

उह्यमानामराहीन्द्रनारीनरनभश्चराः ।
उह्यमानमहारम्भलोकपालपुरालयाः ॥ ४७ ॥

अथाहमद्रिमिश्राम्बुकल्लोलाद्रिविघट्टनाः ।
मुहुः पश्यञ्जगन्नाशमनन्तरमचिन्तयम् ॥ ४८ ॥

चित्रमेष त्रिनेत्रोऽपि जीर्णं तृणमिवार्णवे ।
उह्यते हा हतविधेर्नाऽकार्यं नाम विद्यते ॥ ४९ ॥

किमचिन्तयं तदाह - चित्रमिति । अत्र मायामहार्णवे त्रीण्यवस्थात्रयलक्षणानि
नेत्राणि यस्य तथाविध ईश्वरोऽपि जीवो भूत्वा जीर्णतृणमिवोह्यते । चित्रमाश्चर्यम् ।
हतस्य विधेर्दैवस्य ॥ ४९ ॥

चतुर्धा भित्तिभेदेन प्रकटाशयतामहम् ।
पद्मानीव गृहाण्यप्सु दर्शयन्ति रवेः प्रभाः ॥ ५० ॥

यथा प्रातरप्सुरवेः प्रभाः विकसन्ति पद्मानि दर्शयन्ति तथा गृहाण्यपि चतुर्धा
भित्तिविदारणेन प्रकटाशयताशोभं [मूलस्थस्य महं इति महशब्दस्यायं
फलितार्थः ।] यथा स्यात्तथा दर्शयन्ति ॥ ५० ॥

चित्रं तरङ्गवलनासु समुल्लसन्ति गन्धर्वकिन्नरनरामरनागनार्यः ।
भूरिभ्रमैर्भ्रमरहारमिव ह्रदिन्यः पद्मिन्य एव
सकलामलजङ्गमाख्याः ॥ ५१ ॥

एताश्च भूरिभिर्भ्रमैरावर्तैर्विभ्रमैश्चोपलक्षिताः
परागधवलभ्रमरपङ्क्तिलक्षणं हारं वहन्त्यः पद्मिन्यः
मुखकरपादादिपद्मवत्यो ह्रदिन्यो नद्य एव प्रसिद्धा ह्रदिन्यो न सकला अमला नापि
जङ्गमाख्याः । एतास्तु तद्विपरीताः । अत एव तरङ्गवलनासु चित्रं
समुल्लसन्तीवेत्यन्वयः ॥ ५१ ॥

विद्याधरीभुजलतावलितेन्दुकान्तकक्ष्याविभागमणिजालगवाक्षलक्ष्म्यः ।
देवासुरोरगमहागृहभित्तिभागाः सौवर्णनौगणवदम्बुभरे भ्रमन्ति ॥
५२ ॥

विद्याधरीणां भुजलतावलितेषु इन्दुकान्तेषु कक्ष्याविभागा इव भासमाना
मणिजालगवाक्षलक्ष्म्यो येषु तथाविधा देवासुरोरगमहागृहाणां भित्तिभागाः
प्रलयाम्बुभरे सौवर्णनौकागणवद्भ्रमन्ति ॥ ५२ ॥

मत्तेभकुम्भपरिणाहिनि कुङ्कुमाङ्के शच्याः पयोधरभरे
रतिखेदखिन्नः ।
लग्नः सुखादिव करोति तरङ्गदोलाः संशीर्यमाणमणिगेहगतोऽत्र शक्रः ॥
५३ ॥

संशीर्यमाणमणिगेहगतः शक्रः अत्रास्मिन्प्रलयाम्बुभरे लग्नः सन्
कुङ्कुमाङ्के मत्तेभकुम्भवत्परिणाहिनि विशाले शच्याः पौलोम्याः पयोधरभरे
रतिप्रयुक्तेन खेदेन खिन्नः श्रान्तः संस्तदपनयनाय जलक्रीडासुखात् । ल्यब्लोपे
पञ्चमी । जलक्रीडासुखमुद्दिश्येव तरङ्गदोलाः करोति ॥ ५३ ॥

हा वान्ति वारिवलनावलितान्तरिक्षमृक्षावधूतकुसुमप्रकरान्किरन्तः ।
वाताः पतद्विबुधमन्दिररत्नसानावुद्यानकोटरगता इव साक्षतेन ॥ ५४ ॥

वारीणां वलनैर्वेष्टनैरावलितमन्तरिक्षं यस्मिन्कर्मणि तथा । तथा ऋक्षाणि
नक्षत्राणि तल्लक्षणानवधूतान्कुसुमप्रकरान्किरन्तो विक्षिपन्तो वाताः । पतन्ति
विबुधमन्दिराणि विमानानि यत्र तथाविधे रत्नसानौ मेरावुद्यानस्य कोटरे गताः
प्रविष्टा मङ्गलार्थ साक्षतेन कुसुमवर्षेण किरन्तो जना इव वान्ति । हा इति खेदे ॥ ५४ ॥

यन्त्रोत्थहेमदृषदा सदृशाम्बुरूपं क्षुब्धाद्रिभीमजलवीचिशिखेरितं
खे ।
व्यावर्तते दिवि दलावृतकर्णिकास्थध्यानैकनिष्ठपरमेष्ठिसरोजमेतत् ॥ ५५ ॥

खे आकाशे क्षुब्धानामद्रिवद्भीमानां भयानकानां जलवीचीनां
शिखाभिरीरितमुत्क्षिप्तमेतत् । यन्त्रोत्क्षिप्तेन हेमदृषदा सदृशमम्बुनो रूपं
दिवि ब्रह्मलोके दलैः पत्रैरावृतं कर्णिकास्थस्य ध्यानैकनिष्ठस्य परमेष्ठिन
आसनभूतं सरोजं प्राप्य व्यावर्तते परावर्तते नान्तराले इत्यर्थः ॥ ५५ ॥

मेघा इवातिघनघुङ्घुमघोषभीमा वीचीचयाः कनकपत्तनविद्युतोऽमी ।
व्योम्नि भ्रमन्ति गजवाजिमृगेन्द्रनागवृक्षाद्रिकाननमहीतलतुल्यदेहाः ॥
५६ ॥

गजवाज्यादितुल्यदेहाः । अतिघनघुङ्घुमघोषैर्भीमाः
कनकमयदेवासुरपत्तनान्येव विद्युतो येषु तथाविधा अमी वीचीचया मेघा इव व्योम्नि
भ्रमन्ति ॥ ५६ ॥

उह्यमानोदभूवीच्यामतसीकुसुमश्रियाम् ।
यमोऽप्ययं यमेनेव वारिपूरेण नीयते ॥ ५७ ॥

अतसीकुसुमसदृशश्रियां उह्यमानोदे प्रलयार्णवे
भवतीत्युह्यमानोदभूस्तथाविधायां वीच्यां वारिपूरेणायं यमोऽपि यमान्तरेण
नीयत इव लक्ष्यत इत्यर्थः ॥ ५७ ॥

एते ब्रुडन्ति सलिलेऽखिललोकपाला नागा नगैश्च नगरैः सह लक्षसङ्ख्याः ।
लक्ष्म्याकरोदरगुहागतवारिपूरव्यावर्तनागुडगुडैरभिलक्ष्यपूराः ॥ ५८ ॥

अखिला लोकपाला नागाश्च स्वाश्रयैर्मेर्वादिनगैर्नगरैश्च सह ब्रुडन्ति मज्जन्ति ।
तत्र निधानादिलक्ष्म्याकरेषु पर्वतोदरगुहासु गतस्य प्रविष्टस्य वारिपूरस्य
व्यावर्तनार्थ निर्गच्छतो वायोर्गुडगुडशब्दैरभिलक्ष्यः पूरः पूरणं येषां
तथाविधाः सन्तः ॥ ५८ ॥

दुर्वारवारिवलनापरिपूरितेषु पातालभूतलनभस्तलदिक्तटेषु ।
मत्स्या इवेन्द्रयमयक्षसुरासुरौघाः सग्रामपत्तनविमाननगा भ्रमन्ति ॥ ५९

स्पष्टम् ॥ ५९ ॥

उह्यमानस्य कृष्णस्य तनुरेवाम्बुरूपिणी ।
मातृजङ्घेव वत्सस्य कष्टं बन्धनतां गता ॥ ६० ॥

दोहनकाले वत्सानामाभीरैर्मातृजङ्घायां बन्धनादिति भावः ॥ ६० ॥

अन्योन्यमावलयतामहो बुडबुडारवः ।
श्रूयते देवदैत्यानां स्वस्त्रीहलहलाकुलः ॥ ६१ ॥

स्वार्थ इव स्त्र्यर्थ इव वा हलहलाध्वनिभिराकुलः ॥ ६१ ॥

कोलाहलाकुलपुरोत्तमवेगपातविक्षुब्धवारिपटलीवलिताम्बरासु ।
दिक्षु भ्रमज्जलदजालघनास्विवैष संलक्ष्यते जलामयः स्फुटकुड्यबन्धः
॥ ६२ ॥

कोलाहलैराकुलानां देवदानवपुरोत्तमानां वेगेन
पातैर्विक्षुब्धाभिर्वारिपटलीभिर्वलितान्तरासु दिक्षु भ्रमद्भिर्जलदजालैर्घनास्विव
जलमयः स्फुटकुड्यबन्धः संलक्ष्यते ॥ ६२ ॥

हा कष्टमेष तरसा पयसापनीत आवर्तवृत्तिपरिवर्तनया स्वधस्तात् ।
एते कुबेरयमनारदवासवाद्याः प्राणान्पयोभ्रपटलैर्विधुरास्त्यजन्ति ॥ ६३ ॥

एष सर्वजनप्रसिद्धः सूर्य आवर्तवृत्तिपरिवर्तनया सुष्ठु अधस्तादपनीतः ।
विधुरा जीवनासमर्थाः ॥ ६३ ॥

प्राज्ञाः प्रशान्तजडदेहमिहोह्यमानं मानोज्झिताः शवतयैव च तद्वहन्ति

ब्रह्मेन्द्रविष्णुपुरखण्डकसङ्कटाम्बुसङ्घट्टनेन कटुकुट्टनदृक्षु
तेन ॥ ६४ ॥

तेन तादृशेन ब्रह्मेन्द्रादिपुराणां खण्डकैः सङ्कटस्याम्बुनः
सङ्ग्घट्टनेन कठुकुट्टनं पश्यन्तीति कटुकुट्टनदृशस्तेषु मध्ये ये
प्राज्ञास्तत्त्वविदस्ते प्रशान्तं मृतं अत एव जडं स्वदेहमिह जले उह्यमानं
मानस्तदहम्भावस्तदुज्झिताः सन्तः शवतयैव वहन्ति । अतो न ते
छेदभेदाभिघातादिदुःखैर्लिप्यन्त इति भावः ॥ ६४ ॥

स्त्रीणां गणोऽर्धपरिपिष्ट इहैति कष्टं कस्त्रातुमेनमपरः कुजडं
समर्थः ।
न ह्यन्तकस्य दशनैरभिचर्व्यमाणा त्रातुं परस्परमियं जनता समर्था ॥
६५ ॥

कुजडं कौ पृथ्व्यां जडमतिमूर्खत्वेन प्रसिद्धमेनं स्त्रीगणं त्रातुं कः
समर्थः । जनता जनसमूहः ॥ ६५ ॥

पर्वतप्रतिघसर्पसर्पणाः संसरन्ति विपुला जलोच्चयाः ।
तेषु नाव इव देवपत्तनान्युन्नमय्य वपुराशु यान्त्यधः ॥ ६६ ॥

पर्वतान् प्रतिघ्नन्ति विदारयन्तीति पर्वतप्रतिघाः सर्पवत्सर्पणं गमनं येषां
तथाविधा विपुला जलोच्चयाः कल्लोलाः संसरन्ति । तेषु कल्लोलेषु देवपत्तनानि प्रथमं
स्ववपुर्नाव इव उन्नमय्य तदनन्तरमाशु अधो यान्ति । मज्जन्तीति यावत् ॥ ६६ ॥

द्व्व्पाद्रीन्द्रसुरासुरोरगनरैर्नागाप्सरश्चारणैर्व्याप्तं वारिविलोलितैः
सरसिजैरालूनमूलैरिव ।
एकाम्भोधिसरः स्थितं त्रिभुवनं कालेन निर्मूलितं कष्टं ते क्व गता
महर्द्धिविभवा देवा जगन्नायकाः ॥ ६७ ॥

त्रिभुवनं कालेन निर्मूलितं सद्वारिविलोडितैर्द्वीपैरद्रीन्द्रैः
सुरैरसुरैरुरगैर्नरैर्नागैर्गजैरप्सरोभिश्चारणैश्च आलूनमूलैः सरसिजैरिव
व्याप्तमेकाम्भोधिलक्षणं सरो भूत्वा स्थितम् । कष्टमिति खेदे । महान्तः
ऋद्धिविभवा येषां ते जगन्नायका इन्द्रादिदेवाः क्व गताः ॥ ६७ ॥

इत्यार्षे श्रीवा० वा० दे० मो० निर्वा० उ० अवि० वि० श० जगन्नाशवर्णनं
नामैकोनचत्वारिंशदधिकशततमः सर्गः ॥ १३९ ॥

इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे निर्वाणप्रकरणे उत्तरार्धे
जगन्नाशवर्णनं नामैकोनचत्वारिंशदुत्तरशततमः सर्गः ॥ १३९ ॥