अष्टत्रिंशदधिकशततमः सर्गः १३८
तापस उवाच ।
गन्तुमेवं विचार्याहं ततस्तत्संविदैकताम् ।
प्रवृत्तश्चौत्तमाब्जेन सौरभेणेव सौरभम् ॥ १ ॥
मेलने द्विगुणन्न् विश्वं प्राणिजीवस्वजीवयोः ।
ऐक्ये त्वेकं मया दृष्टमित्यादि मुनिनोच्यते ॥
एवं जाग्रदादितुर्यान्तावस्थातत्त्वं विचार्य ततस्तदनन्तरमहं तस्य प्राणिनः
संविदा चिदाभासलक्षणजीवेन सहैकतामेकीभावं गन्तुं प्रवृत्तः यथा चौतं
पुष्पितसहकारसम्बन्धि सौरभं वायुना पद्माकरे नीतं आब्जेन अब्जोद्भवेन
वायुस्थसौरभेणैकतां गन्तुं प्रवर्तते तद्वदित्यर्थः ॥ १ ॥
यावत्तच्चेतनं तस्य तमोजोधातुमत्यजम् ।
प्रवृत्तं बाह्यसंवित्तौ समस्तेन्द्रियसंविदा ॥ २ ॥
अहं तस्य प्राणिनश्चेतनं चिदाभासं प्रवेष्टुं तं प्रागुक्तमोजोधातुं
यावदत्यजं तावन्मध्ये मदीयया समस्तेन्द्रियलक्षणया संविदा बाह्यसंवित्तौ
बहिर्मुखव्यापारे बलात्प्रवृत्तमित्यर्थः ॥ २ ॥
संविदं संविदा गृह्णंस्तान्बाह्येऽन्तरपि क्षणात् ।
अहं प्रसृतवांस्तत्र तैलबिन्दुरिवाम्भसि ॥ ३ ॥
ततोऽहं ताः बाह्ये प्रवृता इन्द्रियसंविदः अन्तःप्रवणया प्रयत्नसंविदा
बलान्निगृह्णन्सन् क्षणादन्तरपि प्रसृतवान् । कथं प्रसृतवांस्तत्र
दृष्टान्तमाह - तैलबिन्दुरिति ॥ ३ ॥
तत्संविदि तथैवाथ यावत्परिणमाम्यहम् ।
भुवनं दृष्टवांस्तावत्सर्वं द्विगुणितं स्थितम् ॥ ४ ॥
एवमुपाधिव्याप्तिद्वारा अहं यावत्तस्य प्राणिनश्चिदाभाससंविदि मेलनेन
परिणमामि तावत्कालमध्ये सर्व भुवनं तद्वासनामद्वासनोभयान्तःप्रतिभासा
द्विगुणितं स्थितं दृष्टवान् ॥ ४ ॥
दिशो द्विगुणतां यातास्तपतस्तपनावुभौ ।
भूमण्डले द्वे सम्पन्ने द्वे वै द्यावै समुत्थिते ॥ ५ ॥
द्विगुणितत्वमेव प्रपञ्चयति - दिशा इत्यादिना ॥ ५ ॥
वदनप्रतिबिम्बे द्वे दर्पणप्रतिबिम्बिते ।
यथा भातस्तथा भाते मिश्रिते ते जगच्चितम् ॥ ६ ॥
ते च मिश्रिते तेन जगत् चितं द्वैगुण्येनोपचितम् ॥ ६ ॥
तैलवद्भाति कोशस्थं यच्चेतनतिलद्वये ।
तस्मिञ्जगद्द्वयन्न् तत्तत्तथा भाति विमिश्रितम् ॥ ७ ॥
यच्चेतनतिलद्वये तैलवद्बुद्धिकोशस्थं भाति
तस्मिन्संवलितोपाधिस्थचिदाभासद्वये द्विगुणीभूतं तत्तज्जगत्तथा विमिश्रितं भाति
॥ ७ ॥
संविद्द्वितयकोशस्ते मिश्रिते अप्यमिश्रिते ।
ते उभे जगती भाते समे क्षीरजले यथा ॥ ८ ॥
वासनानाममिश्रणादमिश्रिते ॥ ८ ॥
निमेषाद्दृष्टमात्रेण सा तत्संविन्मया ततः ।
सकलैवात्मतां नीता परिमित्येव संविदा ॥ ९ ॥
सा तत्प्राणिचिदाभाससंवित् स्वसंविदा परिमित्य परिच्छिद्येव आत्मतामेकात्मतां
नीता उपाधिद्वयैक्यापादनेनेत्यर्थः ॥ ९ ॥
ऋतुरृत्वन्तरेणेव सरितेवाल्पिका सरित् ।
वातेनामोदलेखेव धूमलेखेव वार्मुचा ॥ १० ॥
आत्मतानयने दृष्टान्तानाह - ऋतुरिति ॥ १० ॥
एकत्वेनाशु संवित्तेर्ययौ मे जगदेकताम् ।
दुर्दृष्टेर्द्विवपुश्चन्द्रः सुदृष्टेरेकतामिव ॥ ११ ॥
तत्र वासनानामप्येकीकारेण संवित्तेरात्यन्तिकैकत्वेन प्राग् द्विगुणीभूतं
जगदप्येकतां ययौ ॥ ११ ॥
ततो मे तच्चितिस्थस्य स्वं विवेकमनुज्झतः ।
अल्पीभूतः स्वसङ्कल्पस्तत्सङ्कल्पस्थितिं गतः ॥ १२ ॥
स्वं विवेकं पूर्वापरविमर्शम् । तस्य प्राणिनः सङ्कल्पानुसारिणीं स्थितिं गतः
प्राप्तः ॥ १२ ॥
तच्चित्तवृत्त्यैव ततो बाह्यमालोकयंस्ततः ।
अभुञ्जि तद्दिनाचारं तत्तद्धृदयमत्यजन् ॥ १३ ॥
अहं तत्र तच्चित्तवृत्त्यैव तद्भोग्यं बाह्यं
शब्दादिविषयमालोकयंस्तद्धृदयमत्यजन्नेव तस्य जाग्रद्व्यवहारलक्षणं
दिनाचारं अभुञ्जि अभुनजम् । अन्वभवमिति यावत् । कर्तरि चिण् छान्दसः ॥ १३ ॥
ततो यदृच्छयैवासो शनैर्निद्राकुलोऽभवत् ।
पद्मः सायमिवापीय पयो भुक्त्वान्नमुच्छ्रमः ॥ १४ ॥
ततः असौ प्राणी अन्नं भुक्त्वा पय आपीय उद्भूतश्रमः सन् यदृच्छयैव
निद्राकुलोऽभवत् ॥ १४ ॥
प्रसृतं दिग्निकुञ्जेषु रूपालोकक्रियाकरम् ।
सञ्जहार बहिश्चित्तं सायमर्को रुचिं यथा ॥ १५ ॥
निद्रारम्भे तत्प्राणः किमकरोत्तत्राह - प्रसृतमिति ॥ १५ ॥
सह चित्तेन तास्तस्य समस्तेन्द्रियवृत्तयः ।
हृत्कोशमविशञ्छन्नाः कूर्मस्येवाङ्गसन्धयः ॥ १६ ॥
ततः किमासीत्तदाह - सहेति ॥ १६ ॥
मुद्रिता हृदयाकारास्त आसंश्चक्षुरादयः ।
लोष्टरूपा मृतावेव लिपिकर्मार्पिता इव ॥ १७ ॥
चक्षुरादयो मुद्रिताः सन्तो हृदयपद्माकारा आसन् । मृतौ मरणे आ ईषदिव
लोष्टरूपा लिपिकर्मार्पिता इव च निर्व्यापारा आसन् ॥ १७ ॥
अहं तच्चित्तवृत्त्यैव सहसोन्नम्य तत्स्थितः ।
तच्चित्तानुविधायित्वात्तत्तद्धृदयमाविशम् ॥ १८ ॥
अहमपि तच्चित्तानुविधायित्वात्तच्चित्तवृत्त्यैव सह तदिन्द्रियगोलकानि त्यक्त्वा
तत्तन्नाडीमार्गेण तद्धृदयमाविशम् ॥ १८ ॥
संहृत्य बाह्यानुभवमन्तरेव तदोजसि ।
क्षणमन्वभवं शून्यं सुषुप्तं तल्पकोमले ॥ १९ ॥
तल्पवत्कोमले ओजसि प्रागुक्ततेजोन्तस्थे आनन्दमयकोशे ॥ १९ ॥
क्लमान्नपानबहुलैर्निबिडास्वपि नाडिषु ।
सुषिरास्वेव वा वायुर्न निर्यात्येव याति च ॥ २० ॥
तदानीं यदा समानाख्यो वायुः सुषिरासु सच्छिद्रास्वपि नाडिषु
क्लमेनान्नपानरसविकारैर्बहुलैस्तत्र तत्र निरुध्यमानो बहिर्न निर्यात्येव तथापि
सूक्ष्मतरया गत्या याति सञ्चरति च ॥ २० ॥
यदा तदात्मकात्मैकपरो हृदि सहस्थितम् ।
अप्रधानीकरोत्येतच्चित्तं स्वार्थस्वभावतः ॥ २१ ॥
यदैवं सुषुप्तिर्भवति तदायं प्राणः सेन्द्रियं चित्तं किं करोति तदाह - यदेति ।
यदैवं भवति तदा प्राणस्तदात्मको य एकः अद्वैतः सम्प्रसन्न आत्मा
तन्मात्रपरः सन् हृदि पुरीतति प्रविश्य सहस्थितमेतच्चित्तं ग्रसित्वा अप्रधानीकरोति
स्वाधीनीकरोति । तत्कुतः । स्वार्थस्वभावतः स्वः प्रत्यगात्मा स एवार्थः परमार्थः
पुरुषार्थश्च तत्स्वभावतः । तत्स्वभावमात्रेण परिशेषलक्षणसुखविश्रान्तौ
प्रसक्तात्वादित्यर्थः ॥ २१ ॥
स्वार्थमात्रोऽद्य तस्यान्तः परकृत्यं न कस्यचित् ।
कचति स्वार्थसत्तायामेतदेव वपुर्यतः ॥ २२ ॥
अस्तु स्वार्थप्रसक्तस्तथापि मन-इन्द्रियादिपरकार्यमपि कुतो न करोति तत्राह -
स्वार्थेति । यतो निरतिशयानन्दरूपस्वार्थसत्तारूपायां सुषुप्तौ एतदेव
निरतिशयानन्दवपुः कचति न विक्षेपदुःखलेशोऽपीत्यर्थः ॥ २२ ॥
श्रीराम उवाच ।
मनः प्राणवशादेव मनुते किं महामुने ।
स्वरूपं मनसो नास्ति तस्मात्तत्केवलं च किम् ॥ २३ ॥
प्राणश्चित्तं ग्रसित्वा अप्रधानीकरोतीति यदुक्तं तत्र रामः शङ्कते - मन इति ।
मनश्चित्तमित्येकमेव । हे महामुने मन इदानीमपि प्राणवशादेव
मननादिव्यापारान्करोति । तथा च तद्यदि प्राणेनाप्रधानीकृतं न मनुते तर्हि
इदानीमपि किं मनुते । यस्मात्प्राणात्पृथक्कृतं मनसः स्वरूपं नास्ति
तस्मात्केवलं प्राणविनिर्मुक्तं किम् । न किञ्चिदित्यर्थः । चकारः
पूर्वप्रश्नसमुच्चयार्थः ॥ २३ ॥
श्रीवसिष्ठ उवाच ।
देह एवेह नास्त्येव स्वानुभूतोऽप्ययं निजः ।
मनसः कल्पनात्मेदं वपुः स्वप्ने गिरिर्यथा ॥ २४ ॥
अधिष्ठानसन्मात्रात्पृथक्करणे देहप्राणादिजगद्रूपं किमपि नास्ति ।
तदपृथक्करणे तु तत्सत्तया सर्वमस्त्येव । तत्र प्राणपृथक्कृतं मन एकं
नास्तीत्यल्पमिदं त्वया शङ्कितमित्याशयेन वसिष्ठ उत्तरमाह - देह इत्यादिना ।
यतोमनसः कल्पनात्मेदं वपुः अतो मनःपृथक्कृतं वपुर्नास्तीत्यर्थः ॥ २४ ॥
तच्चित्तमपि नास्त्येव चेत्यार्थाभावयोगतः ।
सर्गादौ कारणाभावाद्दृश्यानुत्पत्तिहेतुतः ॥ २५ ॥
एवं चित्तस्यापि चेत्यार्थनिरूप्यत्वाच्चेत्यार्थाभावे तत्पृथक्कृतं स्वरूपं
नास्तीत्यपि सुवचमित्याह - तदिति । पूर्वपूर्वचेत्यं तन्निरूपकमिति चेत्तत्राप्याह ##-
अतः सर्वमिदं ब्रह्म तच्च सर्वात्मकं यदा ।
तदा विश्वमिदं विष्वगस्त्येव च यथास्थितम् ॥ २६ ॥
ब्रह्मणः सर्वात्मकत्वात्तत्सत्तया सत्त्वोक्तौ तु मन-आदिसर्ववस्तु अस्त्येवेत्याह ##-
अस्ति चित्तादि देहादि तद्ब्रह्मैव च तद्विदाम् ।
यादृक्तत्तद्विदामेतदस्माकं विषये न तत् ॥ २७ ॥
चित्तदेहादि सर्वमस्ति यतस्तत्तद्विदां तद्ब्रह्मैव । अब्रह्मविदां तु एतचित्तदेहादि
यादृक् तदस्माकं तत्त्वविदां विषये न ॥ २७ ॥
यथेदं त्रिजगद्ब्रह्म यथेति विविधात्मकम् ।
अत्रेमं राजपुत्र त्वं वर्ण्यमानं क्रमं शृणु ॥ २८ ॥
हे राजपुत्र राम यथा इदं त्रिजगद्ब्रह्मैव तथा वर्ण्यमानमध्यारोपादिक्रमं
शृण्वित्यर्थः ॥ २८ ॥
अस्ति चिन्मात्रममलमनन्ताकाशरूपि यत् ।
सर्वदा सर्वरूपात्म न जगन्न च दृश्यता ॥ २९ ॥
तत्राधिष्ठानमादौ निर्दिशति - अस्तीति ॥ २९ ॥
सर्ववित्त्वात्तु तेनेदं मनस्त्वं चेतितं स्वतः ।
रूपमत्यजता शुद्धं बुद्धमाधिविवर्जितम् ॥ ३० ॥
तेनेदं मनस्त्वं प्रथमं चेतितमध्यारोपितम् । तेन चाधिष्ठानस्य
नान्यभाभाव इत्याह - रूपमिति ॥ ३० ॥
मनसा कल्पितं तेन यद्वै सरणमात्मनः ।
तदेतत्प्राणपवनं विद्धि वेद्यविदां धर ॥ ३१ ॥
सरणं सञ्चरणम् ॥ ३१ ॥
प्राणतैषा यथा तेन कल्पितेवानुभूयते ।
तथैवेन्द्रियदेहादि दिक्कालकलनादि च ॥ ३२ ॥
इति विश्वमिदं विष्वक् चित्तमात्रमखण्डितम् ।
चित्तं तु चित्परं ब्रह्म तस्माद्ब्रह्मेदमाततम् ॥ ३३ ॥
अनाकारमनाद्यन्तमनाभासमनामयम् ।
शान्तं चिन्मात्रसन्मात्रं ब्रह्मैवेदं जगद्वपुः ॥ ३४ ॥
सर्वशक्ति परं ब्रह्म मनःशक्त्या यथा स्थितम् ।
यत्र तत्र तथा रूपं स्वमेवानुभवत्यलम् ॥ ३५ ॥
यतः सर्वशक्ति अतः प्राथमिक्या मनःशक्त्या यथा स्थितं पूर्वसिद्धमेवेति यत्र
तत्र जागरे स्वप्ने वा स्वमेव तथा स्वरूपं जगद्भूतमनुभवति ॥ ३५ ॥
सङ्कल्पात्म मनो ब्रह्म सङ्कल्पयति यद्यथा ।
तत्तथैवानुभवति सिद्धमाबालमीदृशम् ॥ ३६ ॥
सङ्कल्पात्मकं मन एव कार्यब्रह्म तद्यथा भूरादिलोकानन्यच्च सङ्कल्पयति
तथैवानुभवति । इदं चाबालं बालानभिव्याप्य ईदृशं सिद्धम् ॥ ३६ ॥
प्राणीकृतः स्वयमयं ननु चेतसात्मा देहीकृतस्त्रिभुवनीकृत एव नाद्यः
।
देहीकृतः खवपुरेव गिरीकृतश्च स्वप्नेषु कल्पितपुरीष्वनुभूतमेतत् ॥ ३७ ॥
ननु हे राम खवपुरेव चेतनात्मा आद्यो ना पुरुषः प्रथमं प्राणी प्राणवान्
चेतसैव कृतस्तथा देहीकृतस्तथा त्रिभुवनीकृत एव । एतत्सर्वं कल्पितपुरीषु
स्वस्वदेहेषु सर्वैरपि स्वप्नेष्वनुभूतं तदेव निदर्शनीकार्यमित्यर्थः ॥ ३७ ॥
इत्यार्षे श्रीवा० वा० दे० मो० नि० उ० अवि० वि० चित्तसर्वात्मकताप्रतिपादनं
नामाष्टत्रिंशदधिकशततमः सर्गः ॥ १३८ ॥
इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे निर्वाणप्रकरणे उत्तरार्धे
चित्तसर्वात्मकताप्रतिपादनं नामाष्टत्रिंशदधिकशततमः सर्गः ॥ १३८ ॥