सप्तत्रिंशदधिकशततमः सर्गः १३७
व्याध उवाच ।
एवं चेत्तन्मुने ब्रूहि कीदृग्दुःखपरिक्षये ।
न कर्कशो न च मृदुर्व्यवहारक्रमो भवेत् ॥ १ ॥
व्याधेन पृष्टोऽत्र मुनिर्धारणाभ्यासतः स्वयम् ।
परकायप्रवेशेन तत्स्वप्नं दृष्टमब्रवीत् ॥
एवं हिंसादिव्यवहारो दुःखहेतुश्चेत्तत्तर्हि दुःखपरिक्षये हेतुभूतो
व्यवहारक्रमः कीदृग्भवेत्तद्ब्रूहि ॥ १ ॥
मुनिरुवाच ।
इदानीमेव सन्त्यज्य धनुषा सह सायकान् ।
मौनमाचारमाश्रित्य शान्तदुःखमिहोष्यताम् ॥ २ ॥
मुनीनामाचारक्रम एव दुःखक्षयहेतुस्तत्सहवासेन शिक्षणीय इत्याशयेनोत्तरं
मुनिराह - इदानीमेवेति । मौनं मुनिषु प्रसिद्धं
यमनियमविचाराद्याचारमाश्रित्य ॥ २ ॥
श्रीवसिष्ठ उवाच ।
इति सम्बोधितस्तेन परित्यज्य धनुःशरान् ।
आसीन्मुनिसमाचारस्तत्रैवायाचिताशनः ॥ ३ ॥
तत्र तस्मिन्नाश्रम एव ॥ ३ ॥
विवेश मनसा मौनी ततः शास्त्रविवेकिताम् ।
दिनैरेव यथा पुष्पमामोदेन नराशयम् ॥ ४ ॥
ततः सत्सङ्गाच्छास्त्रप्रसिद्धां सारासारविवेकशीलतां विवेश । यथा पुष्पं
मुकुलपरिपाकविकासादिक्रमोद्भवेनामोदेन नराणामाशयं हृदयं
ह्लादयद्विशति तद्वत् ॥ ४ ॥
अपृच्छन्मुनिशार्दूलं कदाचित्तमरिन्दम ।
भगवन्दृश्यते स्वप्नः कथमन्तर्बहिः स्थितः ॥ ५ ॥
एवं सञ्जातविवेकः स व्याधः कदाचित्तं मुनिशार्दूलमपृच्छत् । हे अरिन्दमेति
दशरथसम्बोधनम् । किमपृच्छत्तदाह - भगवन्निति । हे भगवन्
प्राणिनामन्तःस्थितः स्वप्नो जाग्रदिव बहिः कथं दृश्यते । बहिः स्थितश्च
प्रपञ्चः स्वप्नः सन् कथमन्तर्दृश्यते । प्राण्यन्तर्गतः स्वप्नः कथं
केनोपायेन दृश्यते । एवमन्तर्बहिश्च स्थितः प्रपञ्चः स्वप्नः कथं दृश्यते ।
स्वप्न एव चेत्प्रपञ्चस्तर्हि अन्तर्बहिरिति द्विधा स्थितः कथं दृश्यते ।
इत्यनेकसन्देहसम्पिण्डिताः पञ्च तन्त्रेण प्रश्नाः ॥ ५ ॥
मुनिरुवाच ।
ममापि साधो प्रथममेष एव विवेकिनः ।
पुरा चित्ते वितर्कोऽभूत्कुतोऽप्यभ्रमिवाम्बरे ॥ ६ ॥
बहुतरवितर्कगर्भितं प्रश्नं श्रुत्वा मुनिः स्वस्याप्येतादृशो वितर्कः
कोमलविवेकदशायामभूत्स च मया धारणाभ्यासेन स्वयमेव परकायप्रवेशेन
तदीयस्वप्नादि पुनःपुनरवलोक्यान्वयव्यतिरेकाभ्यां चिरं परीक्षणेन
तत्त्वमवगम्य समाहित इति कथां विस्तरेण तृतीयप्रश्नोत्तरमुखेन वक्तुं
मुनिरुपक्रमते - ममापीत्यादिना ॥ ६ ॥
तत एतद्दिदृक्षार्थमहमभ्यस्तधारणः ।
बद्धपद्मासनस्तस्यां संविद्येवाभवं स्थिरः ॥ ७ ॥
अभ्यस्ता परकायप्रवेशानुकूला बहिःकुम्भकधारणा येन । तस्यां
सर्वजनानामात्मत्वेन प्रसिद्धायां संविद्येव स्थिरोऽभवम् ॥ ७ ॥
तत्रस्थो दूरविक्षिप्तं तयैवाहृतवानहम् ।
चेतः स्वहृदयं सायं रुचेव रविरातपम् ॥ ८ ॥
तत्र तस्यां संविदि स्थितोऽहं दूरविक्षिप्तं चेतस्तयैव संविदा प्रत्याहृतवान् ।
यथा सायं रविः स्वरुचा मण्डलकान्त्यैवातपं प्रत्याहरति तद्वत् ॥ ८ ॥
वेदनेरणया प्राणस्ततश्चित्तान्वितो मया ।
शरीराद्रेचितो बाह्ये सौरभं कुसुमादिव ॥ ९ ॥
वेदनं प्राणान्तर्गता चित्तदीरणया जीवस्य प्राणेन सह बहिर्निर्गमनानुकूलेन
योगशास्त्रप्रसिद्धप्रयत्नेन चित्तं जीवोपाधिस्तदन्वितः प्राणः शरीराद्बाह्ये देशे
रेचितो रेचकेन निःसारितः ॥ ९ ॥
व्योमस्थचित्तवलितः स प्राणपवनो मया ।
अग्रस्थस्य मुखाग्रस्थे जन्तोः प्राणे नियोजितः ॥ १० ॥
ततः परकायप्रवेशोपायं स्वकृतमाह - व्योमस्थेति । बाह्यव्योमस्थेन चित्तेन
जीवोपाधिना संवलितः स प्राणपवनो मया अग्रे पुरोभागे स्थितस्य
कस्यचिज्जन्तोश्छात्रस्य प्राणे नियोजितो मेलितः ॥ १० ॥
यः प्राणवलितः प्राणस्तेन नीतो हृदन्तरम् ।
स्वेहया स्वं स्वकः सर्पः करभेणेव हिंसितः ॥ ११ ॥
मदीयप्राणवलितो यस्तस्य जन्तोः प्राणस्तेन तदीयं हृदन्तरमहं नीतं । यथा
करभेण भल्लूकेन बिले मुखं निवेश्य बलान्मुखवायुना आकर्षणलक्षणया
स्वेहया स्वचेष्टया स्वकः स्वाहारभूतः सर्पः स्वमुखं प्रवेश्य हिंसितः सन्
स्वहृदयन्न् नीतस्तद्वत् ॥ ११ ॥
ततोऽहं हृदयं तस्य प्रविष्टः प्राणवाजिना ।
सङ्कटस्थः स्वया बुद्ध्या तावेवानुसरोन्तरम् ॥ १२ ॥
तदीयप्राणलक्षणेन वाजिना अश्वेन तौ परस्परसंवलितौ
प्राणावेवानुसरतीत्यनुसरोऽहमन्तरं तद्देहमध्यं प्रविश्य स्वया बुद्ध्या
वक्ष्यमाणसङ्कटस्थः अभवमिति शेषः ॥ १२ ॥
चरद्रसाभिर्बह्वीभिर्नाडीभिरभितो वृतम् ।
कुल्याभिः स्थूलतन्वीभिर्बाह्यदेऽसमिवाखिलम् ॥ १३ ॥
पर्शुकापञ्जरप्लीहयकृद्रक्तादिडिम्बकैः ।
सङ्कटं जीवसदनं भाण्डोपस्करणैरिव ॥ १४ ॥
सङ्कटतां प्रपञ्चयति - पर्शुकेत्यादिना । पर्शुकाः पार्श्वास्थीनि तल्लक्षणे
पञ्जरे प्लीहयकृती मांसविशेषौ । डिम्बकैः पिण्डकैः । जीवस्य सदनं
गृहभूतं तच्छरीरम् ॥ १४ ॥
सर्वैः शलशलायद्भिरुष्णैरवयवैर्वृतम् ।
निदाघतापसन्तप्तैरूर्मिजालैरिवार्णवम् ॥ १५ ॥
शलशलेति जाठरानलक्वथनध्वन्यनुकरणम् ॥ १५ ॥
नवं नवं बहिःशैत्यं नासाग्राच्चेतनात्मकम् ।
जीवनायानिशं चेतो वातोन्नीतमनारतम् ॥ १६ ॥
पुनः कीदृशं तज्जीवसदनम् । अजीवनाय चेतसा प्राणादिवातैश्चानारतमुन्नीतम् ।
तत्र बहिष्ठस्य सोमात्मकस्यापानस्य नासाग्रादन्तःप्रवेशे नवं
नवमन्तःप्रविशद्बहिःशैत्यं यस्य । अत एव चेतनात्मकम् ॥ १६ ॥
रक्तकुट्टरसश्लेष्मवसानिःस्रावपिच्छिलम् ।
घनान्धकारमुष्णम् च सङ्कटं नरकोपमम् ॥ १७ ॥
रक्तं कुट्टन्ति नाडीमार्गेभ्यो विच्छिन्दन्ति तथाविधा येऽन्नरसाः श्लेष्मादयश्च
तेषां निःस्रावैः पिच्छिलम् ॥ १७ ॥
उदयावयवाश्लेषस्पष्टास्पष्टमरुद्रतैः ।
स्थित्यन्तानां तु वैषम्यादागामिगदसूचकम् ॥ १८ ॥
रक्तरसश्लेष्मपित्तानां द्वासप्ततिसहस्रनाडीभेदेषु क्वचिदुदयैः क्वचिदवयवेषु
आश्लेषैश्च क्वचित्सञ्चारसौकर्यात्स्पष्टानां क्वचिन्मार्गनिरोधादस्पष्टानां च
प्राणादिमरुतां रतैः क्रीडितैः सप्तधातुस्थितानामन्तानां तन्नाशानां च
वैषम्यादागामिनां गदानां रोगाणां स्वप्नादिषु सूचकम् ॥ १८ ॥
दरत्सरभसच्छिद्रावातवातेन शब्दितम् ।
पद्मनालप्रणालान्तर्ज्वलदर्णववाडवम् ॥ १९ ॥
दरन्ति सरभसानि यान्यपानादिच्छिद्राणि तेष्वावातेन निर्गतेन वातेन शब्दितं
सञ्जातशब्दं हृदयपद्मनालस्य प्रणालं छिद्रं तदन्तर्ज्वलन् अर्णववाडव
इव जाठराग्निर्यस्मिन् । तथा चोक्तं महोपनिषदि - पद्मकोशप्रतीकाशं
हृदयं चाप्यधोमुखम् इत्युपक्रम्य तस्यान्ते सुषिरं सूक्ष्मं तस्मिन् सर्व
प्रतिष्ठितम् । तस्य मध्ये वह्निशिखा अणीयोर्ध्वा व्यवस्थिता इति ॥ १९ ॥
मिलत्पदार्थनीरन्ध्रं सितमच्छं सवायुभिः ।
क्वचित्सौम्यन्न् क्वचित्क्षुब्धन्न् चोरैरिव पुरं निशि ॥ २० ॥
मिलद्भिर्वासनामयैः पदार्थैर्नीरन्ध्रं निबिडितम् । सवायुभिरिन्द्रियैः सितं
बद्धम् । साक्ष्यात्मस्वभावेन तु अच्छम् । चित्तवृत्तिभेदैः प्रदेशभेदैश्च
क्वचित्सौम्यं क्वचित्क्षुब्धम् ॥ २० ॥
रसनदपरैर्नाडीमार्गविद्याधराध्वगैः ।
सञ्चरद्भिर्वृतं वातैराकारार्धार्धगीतिभिः । २१ ॥
कोष्ठगतानामन्नरसानां नादे ध्वनने तत्परैरत एव नाडीमार्गेषु
गायद्विद्याधराध्वगप्रायैः सञ्चरद्भिर्वातैर्वृतम् ।
द्विमात्राअकारस्तदर्धमेकमात्रस्तदर्धोर्धमात्रश्च गीतिषु येषाम् । गीतिमात्रस्य
वातसाध्यत्वादित् भावः ॥ २१ ॥
तदहं हृदयं जन्तोराविशं विषमान्तरम् ।
नरोऽवयवसम्बाधं नरवृन्दमिवाधिकः ॥ २२ ॥
यथा अधिकः श्रेष्ठो नरो नरावयवैः सम्बाधं निरवकाशं नरवृन्दं
विशति तद्वत् ॥ २२ ॥
अनन्तरमहं प्राप्तस्तेजोधातुं हृदन्तरे ।
दूरस्थमिव यत्नेन रात्राविन्दुमिवार्करुक् ॥ २३ ॥
तेजोधातुं जठराग्निलक्षणस्य तेजसः सारं तेजोरूपोऽहं यत्नेन प्राप्तः । यतः
समीपस्थमपि बहुतरनाडीमार्गप्राप्यत्वाद्दूरस्थमिव । यथेन्दुं रात्रौ अर्करुक्
प्राप्नोति तद्वत् । तथा च श्रुतिः - एतद्धि ब्रह्म दीप्यते यदादित्यो दृश्यते ।
अथैतन्म्रियते यन्न दृश्यते । तस्य चन्द्रमसमेव तेजो गच्छति इति ॥ २३ ॥
यस्मात्त्रिभुवनादर्शो दीपस्त्रैलोक्यवस्तुषु ।
सत्ता सर्वपदार्थानां जीवस्तत्रावतिष्ठते ॥ २४ ॥
तस्य तेजःसारत्वं कुतस्तत्राह - यस्मादिति ।
यस्माद्धेतोस्त्रिभुवनस्याप्यन्तर्भानादादर्शभूतस्त्रैलोक्यवस्तुषु
दीपवत्प्रकाशको जीवस्तद्वेषः परमात्मा तत्र तस्मिंस्तेजस्यवतिष्ठते । तथा च
श्रुतिः तस्य मध्ये वह्निशिखा अणीयोर्ध्वा व्यवस्थिता । तस्याः शिखाया मध्ये
परमात्मा व्यवस्थितः । स ब्रह्म स शिवः सोऽजः सोऽक्षरः परमः स्वराट् इति ॥ २४ ॥
काये सर्वगतो जीवः स्वामोदः कुसुमे यथा ।
तथाप्योजसि किञ्जल्कैर्मुखे शैत्यं विवस्वता ॥ २५ ॥
ननु स एष इह प्रविष्ट आनखाग्रेभ्य इत्यादिश्रुतिषु सर्वदेहगतो जीवः श्रूयते
तत्कथं तेजोधातावेव सोऽवतिष्ठते तत्राह - काये इति । यद्यपि सर्वगत आत्मा जीवः
सन्काये आनखाग्रं प्रविष्टस्तथापि ओजसि तेजोधातौ विशेषतोऽवतिष्ठते । यथा
विवस्वता विकासिते कुसुमे सर्वगतोऽपि स्वामोदः शैत्यं च किञ्जल्कैरुपलक्षिते तन्मुखे
विशेषतोऽवतिष्ठते तद्वदित्यर्थः ॥ २५ ॥
तज्जीवाधारमोजस्तु प्रविष्टोऽहमलक्षितम् ।
रक्षितं परितः प्राणैर्वातैः प्रच्छादनं यथा ॥ २६ ॥
परितः प्राणैः करणाभिमानिभिर्देवैः परितश्चतुर्ष्वपि द्वार्षु रक्षितम् । यथा
घटादिप्रच्छादनं दीपज्योतिः सूक्ष्मघटच्छिद्रप्रविष्टैर्वातै रक्ष्यते तद्वत् ।
आत्यन्तिकच्छिद्रपिधाने दीपनाशदर्शनादिति भावः ॥ २६ ॥
ततोऽञ्जः सम्प्रविष्टोऽहमामोद इव मारुतम् ।
उष्णांशुरिव शीतांशुं मृत्पात्रमिव वा पयः ॥ २७ ॥
ततोऽहं अञ्जः साक्षात्तज्जीवोपाधिभूतं
मनोमयविज्ञानमयकोशसंवलितमानन्दमयकोशं सम्प्रविष्टः ।
तद्दृष्टान्तानाह - आमोद इवेत्यादिना ॥ २७ ॥
द्वितीयेन्द्वंशुसङ्काशे शुक्लाभ्रलवपेलवे ।
नवनीतगुडप्रख्ये क्षीरबुद्बुदसुन्दरे ॥ २८ ॥
तत्र स्वत एव स्नेहानन्दयोर्दर्शनान्नवनीतगुडप्रख्ये [गुडो गोलः ।] ॥ २८ ॥
तत्र पश्याम्यहं तिष्ठन्प्रवेशव्यग्रयोज्झितः ।
स्वौजसीव वसन्स्वप्न इव विश्वमखण्डितम् ॥ २९ ॥
पूर्वस्थानेष्विव प्रवेशप्रयुक्तया व्यग्रया श्रान्त्या उज्झितः सन् स्वस्य हृदि स्थिते
ओजसीव स्वस्थो वसन् स्वीयस्वप्न इव तदीयस्वप्नरूपमखण्डितं विश्वं पश्यामि ॥ २९
॥
सार्कं सपर्वतं साब्धि ससुरासुरमानवम् ।
सपत्तनवनाभोगं सलोकान्तरदिङ्मुखम् ॥ ३० ॥
तद्विश्वमेव विशिनष्टि - सार्कमित्यादिना ॥ ३० ॥
सद्वीपसागराम्भोधि सकालकरणक्रमम् ।
सकल्पक्षणसर्वर्तु सहस्थावरजङ्गमम् ॥ ३१ ॥
तत्स्वप्नदर्शनं तत्र स्थिरमेव समं स्थितम् ।
वसाम्यत्येव निद्रान्ते निद्राऽन्ते नागता यतः ॥ ३२ ॥
स्थिरमनादिप्रवाहस्थितमेव प्रसिद्धजगत्समं स्थितम् । अहं निद्रान्ते जागरे
अतिशयेन वसाम्येव । यतो निद्रा अन्ते जाग्रदवसाने नागतैव ॥ ३२ ॥
अनिद्र एव किं स्वप्नं पश्यामीति मया ततः ।
परिचिन्तयता ज्ञातमिदं व्याध विबोधिना ॥ ३३ ॥
तथापि स्वप्नं किं पश्यामि इति परिचिन्तयता हे व्याध ततस्तदनन्तरं विबोधिना
प्रबोधवता मया इदं वक्ष्यमाणं ज्ञातम् ॥ ३३ ॥
ननु नामास्य चिद्घातोः स्वरूपमिदमैश्वरम् ।
स्वं यद्व्यपदिशत्येष जगन्नाम्नाम्बरात्मकम् ॥ ३४ ॥
किं ज्ञातं तदाह - नन्विति । नामेति विवेकिप्रसिद्धौ । अस्य चिद्धातोः प्रत्यगात्मन
इदमैश्वरं रूपम् । कीदृशम् । एष ईश्वरः अम्बरात्मकं स्वं घट इति वा पट इति
वा जगदिति वा अजीव इति वा यद्यादृशनामरूपं व्यपदिशति स्वयं तत्तज्जगन्नाम्ना
भवति ॥ ३४ ॥
चिद्धातुर्यत्र यत्रास्ते तत्र तत्र निजं वपुः ।
पश्यत्येष जगद्रूपं व्योमतामेव चात्यजत् ॥ ३५ ॥
किं तात्त्विकं रूपं विहाय नेत्याह - व्योमतामिति । अत्यजदेव ॥ ३५ ॥
अहो त्वद्येदमाज्ञातं यदित्थं दृश्यते जगत् ।
तत्कथ्यते स्वप्न इति स्वचित्कचनमात्रकम् ॥ ३६ ॥
इदमेव स्वप्न इति जनैः कथ्यत इति अद्य आ ज्ञातं अहो । आ इति स्मरणे अङित् ॥ ३६ ॥
चिद्धातोर्यत्खकचनं तत्किञ्चित्स्वप्न उच्यते ।
किञ्चिच्च जाग्रदित्युक्तं जाग्रत्स्वप्नौ तु न द्विधा ॥ ३७ ॥
जाग्रदपि तत्त्वतो विमृष्टमिदमेव पर्यवस्यतीत्याह - चिद्धातोरिति ॥ ३७ ॥
स्वप्नः स्वप्नो जागरायामेष स्वप्ने तु जागरा ।
स्वप्नस्तु जागरैवेति जागरैव स्थिता द्विधा ॥ ३८ ॥
अनयोः परस्परदृशा स्वप्नत्वमेव स्वस्वदृशा तु जागरत्वमेवेत्याह -
स्वप्न इति । स्वप्ने तु जागरा एषः स्वप्न एव । स्वप्नस्तु स्वदृष्ट्या जागरैवेति यदा
स्वदृष्ट्या दृश्यते तदा जागरैव द्विधा स्थितेति पर्यवसन्नमित्यर्थः ॥ ३८ ॥
चेतनं नाम पुरुषः स मृतेषु शतेष्वपि ।
शरीरेषु महाबुद्धे कथं कस्य कदा मृतः ॥ ३९ ॥
ननु मरणं तर्हि स्वप्नजागराभ्यामतिरिक्तं किं स्यात्तत्राह - चेतनमिति ।
नास्त्येव मरणं नाम किञ्चित् । यतः पुरुषश्चेतनम् । भावे ल्युट् । चिन्मात्रमेव । स
चानेकशतेषु शरीरेषु मृतेष्वपि कदा मृतः कस्य मृतः कथं मृतस्त्रेधापि
तदप्रसिद्धेरित्यर्थः ॥ ३९ ॥
तच्चेतनं खमेवास्ति स्थितं तद्देहवत्कचत् ।
अनन्तमविभागात्म प्रतिघाप्रतिघात्मकम् ॥ ४० ॥
अभ्युपेत्य शरीरं तन्मरणं चेदमुक्तम् । वस्तुतस्तु तदुभयमपि नास्तीत्याह -
तदिति । प्रतिहन्यत इति प्रतिघा मूर्ताकारस्तद्विलक्षणस्त्वप्रतिघा तदात्मकं च
भ्रान्त्येवेत्यर्थः ॥ ४० ॥
स्वभावस्याप्रतिघस्य नित्यानन्तोदितात्मनः ।
परमाणोश्चिदाख्यस्य मज्जा जगदिति स्मृतः ॥ ४१ ॥
तत्र अप्रतिघात्मता स्वभावस्तादृगात्मनश्चिदाख्यस्य परमाणोर्मज्जा सार एव
भ्रान्त्या देहवज्जगदित्यपि स्मृतः ॥ ४१ ॥
चिद्व्योम्न उदरे भान्ति समस्तानुभवाणवः ।
तथा यथावयविनो विचित्रावयवाणवः ॥ ४२ ॥
मज्जात्वमेवोपपादयति - चिद्व्योम्न इति । जगद्भ्रान्त्यनुभवलक्षणा अणवः ॥ ४२ ॥
निवृत्तो बाह्यतो जीवो जीवाधारे हृदि स्थितः ।
रूपं स्वं स्वप्नसर्गोऽयमिति वेत्ति चिदाकचान् ॥ ४३ ॥
प्रथमतृतीयप्रश्नौ समाहितौ द्वितीयं प्रश्नं समाधत्ते - निवृत्त इति ।
बाह्यतो जागरतो जाग्रद्भोगप्रदकर्मोपरमे निवृत्तः सन् स्वं रूपमेव
बाह्यसंस्कारानुरोधेन बाह्यः स्वप्नस्वर्गोऽयमिति चिदाकचान् चिद्विवर्तानेव वेत्ति ॥ ४३
॥
बाह्योन्मुखं बहिर्जाग्रच्छब्दितं कचितं स्वकम् ।
रूपं पश्यति जीवोऽयमन्तस्थं स्वप्न इत्यपि ॥ ४४ ॥
यदा चित्तं बाह्योन्मुखं तदा स्वकं रूपं जाग्रच्छब्दितं कचितम् । यदा
अन्तस्थं चित्तं तदा अयं जीवः स्वकं रूपं स्वप्न इत्यपि पश्यति ॥ ४४ ॥
द्यौः क्षमा वायुराकाशं पर्वताः सरितो दिशः ।
प्रसृतो जीव इत्यन्तर्बहिश्चैकात्मकः स्थितः ॥ ४५ ॥
चतुर्थपञ्चमप्रश्नयोरुत्तरमाह - द्यौरिति । एकात्मक एव जीवो बहिरन्तश्च
द्यौः क्षमेत्याद्यात्मकः प्रसृतः ॥ ४५ ॥
अर्कोऽर्कबिम्बसंस्थोऽपि यथेहापि स्थितस्त्विषा ।
तथा जीवो जगद्रूपो बहिरन्तश्च संस्थितः ॥ ४६ ॥
अन्तःस्वप्नो बहिर्जाग्रदहमेवेति वेत्ति चेत् ।
चिदात्मको यथाभूतं मुच्यते तदवासनः ॥ ४७ ॥
अत एव सर्वात्मताया एव तात्त्विकत्वात्तथा परिज्ञानादेव मुच्यत इत्याह - अन्तरिति ।
यथाभूतं यथार्थम् । भूमिकाभेदपरिपाकक्रमेणावासनः सन् मुच्यते ॥ ४७ ॥
अच्छेद्योऽयमदाह्योऽयमपि जीवोऽन्यथा वदन् ।
द्वैतसङ्कल्पयक्षेण मुह्यत्येव शिशुर्यथा ॥ ४८ ॥
अन्तर्मुखोऽन्तरात्मानं बहिः पश्यबहिर्मुखः ।
आस्ते जीवो जगद्रूपं यत्स्वन्ते स्वप्नजाग्रती ॥ ४९ ॥
अन्तरात्मानं स्वमन्तर्जगद्रूपं पश्यन् स्वप्न एवं बहिर्जगद्रूपं पश्यन्
जाग्रच्च स्वयमेवास्ते ते एवास्य स्वप्नजाग्रती ॥ ४९ ॥
इति चिन्तयतः किं स्यात्सुषुप्तमिति मे मतिः ।
जाता तेन सुषुप्तांशमन्वेष्टुमहमुद्यतः ॥ ५० ॥
प्रसङ्गात्सुषुप्तितुरीयतत्त्वमपृष्टमप्याह - इतीति । इति जाग्रत्स्वप्ने
तत्त्वतश्चिन्तयतो मे सुषुप्तं किं स्यादिति चिन्तालक्षणा मतिर्जाता ॥ ५० ॥
यावत्किं दृश्यदृष्ट्यान्तस्तूष्णीं तिष्ठाम्यहं चिरम् ।
निश्चित्त इति संवित्तिः शमा नान्यत्सुषुप्तकम् ॥ ५१ ॥
दृश्यदृष्ट्या मम किं अहं चिरं तूष्णीं निश्चित्तस्तिष्ठामि । इति
अन्तर्यावत्संवित्तिः शमाशमरूपा तावत्सुषुप्तकं तदन्यत्रेत्यर्थः ॥ ५१ ॥
नखकेशादि देहेऽस्मिन्विदिताविदितं यथा ।
न जडं च जडं चैव सुषुप्तं चेतनात्मनि ॥ ५२ ॥
चित्तव्याप्त्यभावे चिदनभिव्यक्तौ घटादिवज्जडत्वमाशङ्क्य विशेषतोऽहन्तया
अविदितत्वेऽपि नखकेशादिवत्सामान्यतो विदितत्वाद्विदिताविदितात्मकम् । तत्सुषुप्तं न
जडं जडं चैव चेतनात्मनि तत्साक्षिणि स्फुरतीत्याह - नखेति ॥ ५२ ॥
संवित्त्या किं श्रमार्तोऽस्मि शान्तमासेवि मानसम् ।
इत्येकपरिणामत्वान्नान्यदस्ति सुषुप्तकम् ॥ ५३ ॥
जाग्रत्स्वप्नभ्रमणेन श्रमार्तोस्मि । मम विशेषसंवित्त्या किं कञ्चित्कालं
शान्तमासे इति सङ्कल्पेऽवगाढनिद्राकारैकपरिणामत्वमेव सुषुप्तकं
नान्यदस्तीत्यर्थः ॥ ५३ ॥
एतन्निद्राघनं जाग्रत्यपि सम्भवति स्वतः ।
न किञ्चिच्चिन्तयाभ्यासे शान्त इत्येकरूपकम् ॥ ५४ ॥
जाग्रत्यपि पुरुषे एतत्सुषुप्तकं चिन्तापरित्यागदशायां सम्भवतीत्याह - एतदिति ॥
५४ ॥
एषावस्था यदा याति घनता मुच्यते तदा ।
निद्राशब्देन तन्वी तु स्वप्नशब्देन कथ्यते ॥ ५५ ॥
नितरां दृढा निद्रेति व्युत्पत्त्या सुषुप्तिरेव निद्राशब्देनोच्यते । तन्वी
ईषद्विक्षेपाकारेण शिथिला तु स्वप्नशब्देनेत्यर्थः ॥ ५५ ॥
सुषुप्तमिति निश्चित्य तुरीयान्वेषणामहम् ।
प्रवृत्तः कर्तुमुद्युक्तो युक्तः परमया धिया ॥ ५६ ॥
यावद्रूपं तुरीयस्य किञ्चनापि न लभ्यते ।
सम्यग्बोधादृते शुद्धात्प्रकाशस्तमसो यथा ॥ ५७ ॥
तुरीयस्य यावत्पूर्ण रूपं तु सम्यग्बोधादृते न लभ्यते ॥ ५७ ॥
यथास्थितमिदं विश्वं सम्यग्बोधाद्विलीयते ।
यथास्थितं च भवति न च किञ्चिद्विलीयते ॥ ५८ ॥
अतः सम्यग्बोध एव तुरीयम् । तत्र हि विलीनस्य विश्वस्य आत्यन्तिकमविलीनत्वं यथा
स्थितं भवतीत्याह - यथास्थितमिति ॥ ५८ ॥
अतः स्वप्नो जागरा च सुषुप्तं च तुरीयके ।
सयथास्थितमस्तीदं नूनं नास्ति च किञ्चन ॥ ५९ ॥
अत एवावस्थात्रयं तत्रान्तर्भूतमित्याह - अत इति । यथास्थितेन जगता सहितं
सयथास्थितम् ॥ ५९ ॥
कारणाज्जगदुत्पन्नं न ब्रह्मेत्थमवस्थितम् ।
जगत्तया शान्तमजं बोध इत्येव तुर्यता ॥ ६० ॥
जगत्कारणान्नोत्पन्नं किन्तु ब्रह्मैवेत्थं जगत्तयावस्थितमिति बोध एव सदा
तुर्यतेत्यर्थः ॥ ६० ॥
असम्भवात्सम्भवकारणानां न जायते किञ्चन नाम सर्गः ।
चिच्चेतनेनैव हि सर्गसंवित् स्वयं गृहीता द्रवताम्बुनेव ॥ ६१ ॥
तदेव पुनर्वर्णयन्नुपसंहरति - असम्भवादिति । सम्भवो जन्म
तत्कारणानामद्वये ब्रह्मण्यसम्भवात्सर्गः किञ्चन द्वितीयं न जायते किन्तु चितो
जगदाकारचेतनेनैव सर्गसंवित्स्वयमेव गृहीता । यथा अम्बुना द्रवता गृहीता
तद्वदित्यर्थः ॥ ६१ ॥
इत्यार्षे श्रीवा० वा० दे० मो० निर्वा० उ० अवि० वि० जाग्रत्स्वप्नसुषुप्ततुरीयवर्णनं नाम
सप्तत्रिंशदधिकशततमः सर्गः ॥ १३७ ॥
इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे निर्वाणप्रकरणे उत्तरार्धे
जाग्रत्स्वप्नसुषुप्ततुरीयवर्णनं नाम सप्तत्रिंशाधिकशततमः सर्गः ॥ १३७ ॥