१३६

षट्त्रिंशदधिकशततमः सर्गः १३६

भास उवाच ।

अथाहं तं महादेवं पावकं पृष्टवानिदम् ।
शुकपक्षतिकोणस्थः श्रूयतामवनीश्वर ॥ १ ॥

अग्निर्भासेन पृष्टोऽत्र शववृत्तान्तमादितः ।
असुरो मशकश्चैणो व्याधश्चेत्याद्यवर्णयत् ॥

अग्निवाहनस्य शुकस्य पक्षतिः पक्षमूलं तत्कोणस्थः । हे अवनीश्वर दशरथ ॥ १ ॥

भगवन्सर्वयज्ञेश स्वाहाधिप हुताशन ।
किमिदं नाम सम्पन्नं कथ्यतां किमिदं शवम् ॥ २ ॥

यदिदमिदानीं शवं नाम सम्पन्नं तत्पूर्व किं किन्निमित्तं च तथा सम्पन्नमिति
द्वौ प्रश्नौ ॥ २ ॥

वह्निरुवाच ।

श्रूयतामखिलं राजन्यथावद्वर्णयामि ते ।
त्रैलोक्यभासुरानन्तशववृत्तान्तमक्षतम् ॥ ३ ॥

तत्राद्यप्रश्नस्योत्तरं वह्निः श्रावयति - श्रूयतामित्यादिना ॥ ३ ॥

अस्त्यनन्तमनाकारं परमं व्योम चिन्मयम् ।
यत्रेमान्यपसङ्ख्यानि जगन्ति परमाणवः ॥ ४ ॥

तत्रादौ वक्ष्यमाणसंवेदनभावाद्यध्यासानां परममूलं ब्रह्मैवेति
दर्शयति - अस्तीति । अपसङ्ख्यान्यपगतसङ्ख्यानि ॥ ४ ॥

शुद्धचिन्मात्रनभसि तस्मिन्सर्वगते क्वचित् ।
सर्वात्मन्युदभूत्संवित्संवेदनमयी स्वयम् ॥ ५ ॥

संवेदनं विषयाकारं ज्ञानं तन्मयी ॥ ५ ॥

सा तेजःपरमाणुत्वमपश्यद्वेदनावशात् ।
भावितार्थात्मकतया स्वप्ने त्वमिव पान्थताम् ॥ ६ ॥

सा च स्वविषयतया तेजः परमाणुभावं स्वस्य वेदनास्वभाववशादेवापश्यत् ।
यथा त्वं पान्थं भावयन्सुप्तः स्वस्यैव पान्थतां पश्यसि तद्वत् ॥ ६ ॥

परमाणुरसंवित्त्वादपश्यदणुतां स्वयम् ।
भास्वतीं पद्मजरजस्तुल्यां सङ्कल्पनात्मिकाम् ॥ ७ ॥

असंवित्त्वादज्ञानावृत्तचित्त्वात्परमाणुः पद्मोत्पन्नरजस्तुल्यां भास्वतीं
स्फुटं भासमानाम् ॥ ७ ॥

सोच्छूनतां भावयन्ती पुनरप्यभवत्स्वयम् ।
चक्षुरादीनीन्द्रियाणि वपुष्यन्वभवत्स्वतः ॥ ८ ॥

सा च भास्वत्यणुता वृद्ध्या खोच्छूनतां भावयन्ती सती
अन्यच्चक्षुरादीनीन्द्रियाणि अन्वभवदनुभूतवती । ततस्तानि वपुषि
संलग्नानीत्यन्वभवत् ॥ ८ ॥

अपश्यदग्रे च जगच्चक्षुरादि स्वभावतः ।
आधाराधेयवद्भूतमयन्न् स्वप्नपुरं यथा ॥ ९ ॥

चक्षुरादि च अग्रे शब्दस्पर्शादिगुणाधाराधेयवद्भूतमयन्न् जगदपश्यत् ॥ ९ ॥

असुरो नाम तत्रासीत्प्राणी मानी बभूव ह ।
असत्यप्रतिभासात्म पितृमातृपितामहः ॥ १० ॥

द्वितीयप्रश्नविषयन्न् निमित्तपरम्परां वर्णयितुमुपक्रमते - असुर इति । तत्र
वेदनादिविषयान्ताध्यारोपरूपकार्यकरणसङ्घातानां मध्ये असुरो नाम
जातिविशेषवान् कश्चित्प्राणी आसीत् । स च असुरस्वभावादेव मानी अभिमानवान् बभूव
ह किल । तस्य पितृमातृपितामहाः किं नासन् । आसन्नेव किन्तु ते
विदूरथपित्रादिवदसत्यप्रतिभासात्मानो यस्य तथाविध इत्यर्थः ॥ १० ॥

दर्पोत्सिक्तया तत्र कस्यचित्स महामुनेः ।
यदा मृदितवानासीदाश्रमं शर्मभाजनम् ॥ ११ ॥

असुरत्वादेव दर्पेणोत्सिक्ततया आर्द्रीकृतचणकवदुच्छूनतया ॥ ११ ॥

मुनिः शापमदात्तस्य महाकारतयाश्रमः ।
त्वया यन्नाशितो मृत्वा भव त्वं मशकोऽधमः ॥ १२ ॥

महाकारतया अतिस्थूलशरीरतया । अधमः अतिक्षुद्रः ॥ १२ ॥

स तच्छापहुताशोऽथ तस्मिन्नेव तदा क्षणे ।
असुरं भस्मसाच्चक्रे जलमौर्व इवानलः ॥ १३ ॥

निराकारं निराधारमाकाशबलयोपमम् ।
चित्तं किञ्चिदिवाचेत्यमासीच्चेतनमासुरम् ॥ १४ ॥

तदा तदासुरं चेतनं किमासीत्तत्राह - निराकारमिति । अचेत्यं चित्तं
सुषुप्तमूर्च्छितमिवासीत् ॥ १४ ॥

तदेकत्वं ययौ साम्याद्भूताकाशेन चेतनम् ।
तदास्पदेन तत्राथ वायुना चैकतां ययौ ॥ १५ ॥

तदव्याकृतरूपं चेतनं भूताकाशेनैकत्वं ययौ । तद्भूताकाशं च
स्वास्पदेन वायुनैकतां ययौ ॥ १५ ॥

आसीच्चेतनवातात्माऽभविष्यत्प्राणिनामकः [चेतनवान् इत्यपि पाठः ।] ।
रजसा पयसा व्याप्तस्तेजसा नभसाणुना ॥ १६ ॥

चेतनवातः प्राणस्तदात्मा स एव देहलाभे प्राणिनामकोऽभविष्यत् । रजः पार्थिवो
भागस्तदादिभूतचतुष्टयव्याप्तः । अणुना अपञ्चीकृतेन ॥ १६ ॥

स पञ्चतन्मात्रमयश्चिन्मात्रलवकोऽणुकः ।
स्पन्दमाप स्वभावेन व्योम्नि वातलवो यथा ॥ १७ ॥

तत्र क्रियाशक्त्याविर्भावमाह - स इति ॥ १७ ॥

अथ तस्यानिलान्तस्थं चेतनं तद्व्यबुध्यत ।
कालानिलजलैर्भूमौ बिजमङ्कुरकृद्यथा ॥ १८ ॥

स्पन्देन लिङ्गदेहे ज्ञानशक्त्याविर्भावमाह - अथेति । वर्षादिकालः प्राच्योऽनिलो
वर्षादिजलं चेत्येतैरङ्कुरकृद्बीजं यथा उच्छूनभावेन व्यबुध्यत तद्वत् ॥ १८ ॥

शुद्धशापविदन्तस्था मशकत्वविदास्य चित् ।
वेधिता मशकाङ्गानि विदित्वा मशकोऽभवत् ॥ १९ ॥

शुद्धस्य मुनेः शापं वेत्तीति शुद्धशापवित् प्राणान्तं स्थिता
स्वमशकत्वविदारूपा अस्यासुरस्य चित् तत्संस्कारवेधिता सती मशकाङ्गानि
पक्षपादादीनि विदित्वा स्वयमेव मशकोऽभवत् ॥ १९ ॥

स्वेदजस्याल्पदेहस्य निःश्वासनिपतत्तनोः ।
द्वे तस्य मशकस्येह दिने भवति जीवितम् ॥ २० ॥

किंयोनिः क्रियत्कालं तस्य जीवनं तदाह - स्वेदजस्येति । निःश्वासमात्रेणापि
निपतत्युड्डीयते तनुर्यस्य । द्वे दिने जीवितं परमायुरभवदित्यनुषङ्गः ॥ २० ॥

श्रीराम उवाच ।

प्राणिनामिह सर्वेषां योन्यन्तरज एव किम् ।
समुद्भवः सम्भवति किमुतान्योऽपि वा प्रभो ॥ २१ ॥

स्वप्नवदेव जाग्रदित्यसकृद्भगवतोक्तम् । स्वप्नदेहस्य च न योनित उद्भवो
दृश्यते जाग्रद्देहस्य तु दृश्यते तद्दृष्टान्तेन जाग्रद्देहवदेव सर्वत्र योनित
एवोद्भवोऽस्तु उतान्यथापीति सन्दिहानो रामः प्रसङ्गाद्वसिष्ठं पृच्छति -
प्राणिनामिति । विवर्तोपादानांशे ब्रह्ममयः । परिणाम्युपादानांशे योनिजः ॥ २१ ॥

श्रीवसिष्ठ उवाच ।

ब्रह्मादीनां तृणान्तानां द्विधा भवति सम्भवः ।
एको ब्रह्ममयोऽन्यस्तु भ्रान्तिजस्ताविमौ शृणु ॥ २२ ॥

पूर्वरूढजगद्भ्रान्तिभूततन्मात्ररञ्जनात् ।
भूतानां सम्भवः प्रोक्तो भ्रान्तिजो दृश्यसङ्गतः ॥ २३ ॥

तत्र द्वितीयं लक्षयति - पूर्वेति । पूर्व तद्योन्यनुभवरूढया
तद्देहतादात्म्यदृढभ्रान्त्या तत्तद्भूततन्मात्राणां रञ्जनात्तदाकारेण
भूतानां प्राणिनां यः सम्भवः स भ्रान्तिजः । एतेभ्यो भूतेभ्यः समुत्थाय
तान्येवानुविनश्यति । यद्यद्भवन्ति तदाभवन्ति इत्यादिश्रुतेरिति भावः ॥ २३ ॥

अभातायां जगद्भ्रान्तौ भूतभावः स्वयं भवन् ।
यः स ब्रह्ममयः प्रोक्तः सम्भवो न स योनिजः ॥ २४ ॥

नित्यमुक्तब्रह्मणः कदाप्यभातायामेव जगद्भ्रान्तौ स्वयमेव विवर्ततया
सर्गादौ जीवभावेन भवन् यश्चतुर्विधभूतभावः स ब्रह्ममय इत्यर्थः ॥ २४ ॥

एवं स्थिते स मशको जगद्भ्रान्तिवशोत्थितः ।
न तु ब्रह्मोत्थितस्तस्य राम चेष्टाक्रमं शृणु ॥ २५ ॥

स च आजानसिद्धैः कपिलसनकादिभिरेवानुभूयते नाज्ञैर्मशकादिभिरिति भ्रान्तिज
एव प्रकृतो मशकसम्भव इत्याशयेनाह - एवमिति । भासोपक्रान्तकथाशेषं
वसिष्ठः स्वयमेवोत्साहाच्छ्रावयति - तस्येति । २५ ॥

क्षमेक्षुशष्पकक्षादिपुञ्जगुञ्जेषु गुञ्जता ।
स्वायुषोऽर्धं दिनं तेन सर्वं भुक्तं विवल्गता ॥ २६ ॥

क्षमायां भूमौ इक्षुगुल्मेषु शष्पेषु बालतृणेषु काशमुञ्जादिकक्षादिपुञ्जेषु
च गुञ्जन्ति अव्यक्तध्वनिं कुर्वन्ति ये मशकास्तेषु स्वयमपि गुञ्जता तथा ध्वनता
विवल्गता क्रीडता तेन मशकेन दिनद्वयात्मकस्य स्वायुषोऽर्धमेकं दिनं सर्व
भुक्तम् ॥ २६ ॥

शाद्वलोदरदोलायां दोलनं बाललीलया ।
चिरमारब्धमेतेन सार्धं मशिकया स्वयम् ॥ २७ ॥

ततो द्वितीयदिनचेष्टामाह - शाद्वलेति । मशिकया भार्यया सार्धम् ॥ २७ ॥

दोलाश्रमार्तस्तत्रासौ यावद्विश्राम्यति क्वचित् ।
तावद्धरिणपादाग्रगिरिपातेन चूर्णितः ॥ २८ ॥

हरिणपादाग्रमेव मशकदृष्ट्या गिरिस्तत्पातेन ॥ २८ ॥

हरिणाननसन्दर्शत्यक्तप्राणतया तया ।
पूर्वक्रमगृहीताक्षः स जातो हरिणस्ततः ॥ २९ ॥

आननग्रहणेन सम्पूर्णो हरिणाकारो लक्ष्यते । तस्य यः सन्दर्शः
सम्यङ्मरणकाले भावनं तेन त्यक्तः प्राणो येन तत्तया । पूर्वं
मशकदेहग्रहणे उक्तो यः क्रमस्तेनैव क्रमेण गृहीतान्यक्षाणि
बाह्यान्तःकरणानि येन ॥ २९ ॥

विहरन्हरिणोऽरण्ये व्याधेन धनुषा हतः ।
व्याधाननगदृष्टित्वात्सञ्जातो व्याध एव सः ॥ ३० ॥

व्याधो वनेषु विहरन्संयातो मुनिकाननम् ।
तत्र विश्रान्तवान्सङ्गान्मुनिना प्रतिबोधितः ॥ ३१ ॥

सङ्गात् सत्सङ्गलाभभाग्यात् ॥ ३१ ॥

भ्रान्तः किमिदमादीर्घदुःखाय धनुषा मृगान् ।
हंसि पासि न कस्मात्त्वं तन्त्रं जगति भङ्गुरे ॥ ३२ ॥

किं प्रतिबोधितस्तदाह - भ्रान्त इत्यादिना । तन्त्रं
महाफलामहिंसाभयदानादिशास्त्रमर्यादां कस्मान्न पासि ॥ ३२ ॥

आयुर्वायुविघट्टिताभ्रपटलीलम्बाम्बुवद्भङ्गुरं भोगा
मेघवितानमध्यविलसत्सौदामनीचञ्चलाः ।
लोला यौवनलालना जलरयः कायः क्षणापायवान्पुत्र त्रासमुपेत्य
संसृतिवशान्निर्वाणमन्विष्यतां ॥ ३३ ॥

व्याधकुलाचारप्राप्ता जीविका मृगवधस्तत्त्यागे कथं जीविनं कथं वा
भोगसिद्धिस्तत्राह - आयुरिति । न जीवनं भोगा वा पुरुषार्थः । हिंसादिना
तत्सम्पादने अनन्तकालभोग्यस्य पारलौकिकानर्थस्यावश्यम्भावात् । आयुषो न
ह्यभङ्गुरत्वमस्ति येन तदप्रसक्तिः । यत आयुर्वायुविघट्टितास्वभ्रपटलीषु लोलं
यदम्बु तद्वद्भङ्गुरम् । तत्र भोगास्तु मेघवितानस्य मध्ये विलसन्ती या सौदामनी
विद्युत्तद्वच्चञ्चलाः । तद्योग्या यौवनलालना यौवनविलासास्तु जलस्य रयो वेग इव
लोलाः । कायो भोगायतनं च क्षणे अपायवान् सम्भावितापायः । हे पुत्र अतो हेतोः
पारलौकिकभाव्यनर्थपरम्परालक्षणसंसृतिवशात् त्रासमुपेत्य
अभयदानाहिंसाद्युपायैरात्यन्तिकानर्थनिवृत्त्युपलक्षितनित्यनिरतिशयानन्द##-

इत्यार्षे श्रीवासिष्ठमहारामायणे वा० दे० मो० निर्वा० उ० अ० वि० श०
मशकव्याधबोधनं नाम षट्त्रिंशदधिकशततमः सर्गः ॥ १३६ ॥

इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे निर्वाणप्रकरणे उत्तरार्धे
मशकव्याधबोधनं नाम षट्त्रिंशदधिकशततमः सर्गः ॥ १३६ ॥