पञ्चत्रिंशदधिकशततमः सर्गः १३५
श्रीवसिष्ठ [भास उवाच इत्युभयत्र पाठः ।] उवाच ।
मत्तेन भूतवृन्देन किञ्चिच्छेषीकृते शवे ।
इदमूचुः पुनर्दिक्षु गिरौ देवाः सवासवाः ॥ १ ॥
भुक्ते मांसेऽत्र भूतौघैः पीते रक्ते च भूः कृता ।
मेदसा मेदिनी रक्तशेषेण मदिरार्णवः ॥
दिक्षु स्थिते लोकालोकगिरौ स्थिता देवा इदं वक्ष्यमाणमूचुः ॥ १ ॥
विद्याधरामरविहारविमानभूमावप्यास्तृतान्यशिशिरीकरणाय भूतैः ।
मेदोमयानि पवनप्रसृतामलाभ्रखण्डाञ्चिताम्बरसमान्युरुजालकानि ॥ २ ॥
विद्याधराणाममराणां च विहारार्थानां विमानानां सञ्चारभूमौ
नभस्यप्यशिशिरीकरणाय भूतैर्देवीगणैर्भेदः प्रचुराणि
पवनप्रसृतैरमलैरभ्रखण्डैरञ्चितेनाम्बरेण समानि उरूणि आन्त्रजालकानि
आस्तृतानि ॥ २ ॥
द्वीपेषु सप्तस्वपि पश्य मेदोजलानि भूतैः प्रविसारितानि ।
भुक्तं च मांसं रुधिरं च पीतं किञ्चिद्गता सम्प्रति दृश्यतां भूः ॥ ३
॥
दृश्यतां दर्शनयोग्यताम् ॥ ३ ॥
मेदःपटैरावलिताखिलाङ्गीकष्टं स्थिता सम्प्रति मोदना भूः ।
मेदोमयैः शारदमेघजालैः सकम्बलानीव वनानि भान्ति ॥ ४ ॥
मोदना सर्वप्राणिप्रमोदप्रदा भूः सम्प्रति मेदःपटैरावलिताखिलाङ्गी सती स्थिता
कष्टम् । वनानि च मेदोमयैः शारदमेघजालैः सकम्बलानि
धूसरकम्बलसंवीतानीव भान्ति ॥ ४ ॥
पश्यैतानि तदस्थीनि सम्पन्नानि महाद्रयः ।
हिमाद्रिशिखराणीव स्थितान्यावार्य दिक्तटम् ॥ ५ ॥
तस्य शवस्यास्थीनि ॥ ५ ॥
श्रीवसिष्ठ [भास उवाच इत्युभयत्र पाठः ।] उवाच ।
देवेषु कथयत्स्वेवं कृत्वेमां मेदिनीं धराम् ।
मेदोजालैः स भूतौघो मत्तो व्योम्नि ननर्त ह ॥ ६ ॥
स भूतौघो देवीगणस्तृप्तः सन् इमां पीतशिष्टमेदोजालैर्मेदिनीं मेदोलिप्तां
कृत्वा मतः सन् व्योम्नि ननर्त । हेति प्रसिद्धौ ॥ ६ ॥
नृत्यत्सु भूतवृन्देषु शिष्टं रक्तं सुरैर्भुवः ।
एकप्रवाहेणैकस्मिन्निक्षिप्तं मकरालये ॥ ७ ॥
एकप्रवाहेण सङ्कल्पकृतेन सप्तानां मध्ये एकस्मिन्मकरालये समुद्रे निक्षिप्तम् ॥
७ ॥
सुरार्णवं तमेवैनं सङ्कल्पं विदधुः सुराः ।
ततःप्रभृति सोऽद्यापि सम्पन्नो मदिरार्णवः ॥ ८ ॥
तमेवैनं समुद्रं सङ्कल्पं विधाय सुरार्णवं विदधुः ॥ ८ ॥
भूतानि नृत्तमाकाशे तानि कृत्वा पिबन्ति ताम् ।
मदिरां पुनराकाशे नृत्यन्त्यानन्दमन्दिरे ॥ ९ ॥
तां तत्रत्यां मदिरां पिबन्ति ॥ ९ ॥
पिबन्त्यद्यापि तानीव मदिरां मदिरार्णवात् ।
खे नृत्यन्ति च भूतानि सह योगेश्वरीगणैः ॥ १० ॥
तानि भूतानिव अद्यापि इदानीन्तनान्यपि भूतानि तस्मान्मदिरार्णवान्मदिरां पिबन्ति
खे नृत्यन्ति च ॥ १० ॥
तेषां तान्यथ भूतानां मेदोजालानि भूतले ।
विस्तृतान्यवशुष्काणि स्थितातो मेदिनी मही ॥ ११ ॥
तेषां भूतानां तानि पीतशिष्टानि मेदोजालानि भूतले शुष्काणि अतोहेतोर्मही
मेदिनीनाम्ना स्थिता ॥ ११ ॥
इति क्रमाच्छान्तिमुपागते शिवे पुनः प्रवृत्ते दिनयामिनीक्रमे ।
प्रजाः ससर्जाथ नवाः प्रजापतिः पुनः स सर्गोऽभवदत्र पूर्ववत् ॥ १२ ॥
एवमादित्योऽपि देवैः पूर्ववत्स्वपदमारोपितः पर्वतादयश्च पूर्ववत्कॢप्ता इति
सूचयन्नाह - इतीति । इति उक्तात्क्रमाच्छवे शान्तिं क्षयमुपागते सति सूर्यस्य
स्वस्थानारोपणान्मेर्वादीनां चोद्धरणाद्दिनयामिनीक्रमे पुनः प्रवृत्ते सति अथ
प्रजापतिर्नवाः प्रजाः ससर्ज । अत्र भूतले सः सर्गः पूर्ववदभवत् ॥ १२ ॥
इत्यार्षे श्रीवासि० वाल्मीकीये दे० मो० निर्वा० उ० अ० विप० शवो० शवोपशमो नाम
पञ्चत्रिंशदधिकशततमः सर्गः ॥ १३५ ॥
इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे निर्वाणप्रकरणे उत्तरार्धे
शवोपशमो नाम पञ्चत्रिंशदधिकशततमः सर्गः ॥ १३५ ॥