१३४

चतुस्त्रिंशाधिकशततमः सर्गः १३४

विपश्चिदुवाच ।

एतस्मिन्नन्तरे व्योम्नः स पतन्पुरुषो मया ।
स्थगिताखिलभूपीठ शवरूपो विलोकितः ॥ १ ॥

देव्यास्तदाविर्भूतायाः शरीरमिह वर्ण्यते ।
तत्पीतरक्तकुणपखादनं च गणैरथ ॥

एतस्मिन्नन्तरे देवारब्धदेवीस्तुतिकाले स प्राग्वर्णितः पतन्पुरुषो मया
स्थगितमाच्छादितमखिलं भूपीठं येन तथाविधः शवरूपो निर्जीवो विलोकितः
परिज्ञातः ॥ १ ॥

स यावदुदराभिख्यो देहभागोऽस्य येन भूः ।
सप्तद्वीपापि पिहिताऽमातुः शैलोपमो महान् ॥ २ ॥

येन शवभागेन सप्तद्वीपापि भूः पिहिता सोऽस्य सम्पूर्णभूमौ यावत् साकल्येन
अगातुर्मानमप्राप्नुवतः शवस्य शैलोपमो महानुदराभिख्यः कुक्षिसञ्ज्ञको
भागः स एव मया दृष्ट इत्यर्थः ॥ २ ॥

वह्निनोक्तमनन्तं तत्तद्भुजोरुशिरश्च मे ।
लोकालोकात्परं पारं प्राप्तं ह्यविषये नृणाम् ॥ ३ ॥

तर्हि तद्भुजोरुशिरस्त्वया दूरस्थं कथं ज्ञातं तत्राह - वह्निनेति । तत्तर्हि क्व
पतितं तत्राह - लोकालोकादिति ॥ ३ ॥

व्योमवासिचये देवीमथ स्तुवति सादरम् ।
व्योम्नः प्रकटतामागाच्छुष्का नु भवति स्वयम् ॥ ४ ॥

सा स्वयं शुष्का नीरक्तैव भवति । नु इति वितर्के ॥ ४ ॥

प्रेतवृन्दैरनुगता मातृमण्डललालिता ।
कुम्भाण्डयक्षवेतालजालतारकिताम्बरा ॥ ५ ॥

कीदृशी सा तदाह - प्रेतवृन्दैरित्यादिना । तारकितं सञ्जाततारकमिव
कृतमम्बरं यया ॥ ५ ॥

शिरालदीर्घदोर्दण्डवनीकृतनभस्तला ।
किरन्ती कीर्णदिग्दाहैर्दृष्टिपातैर्दिवाकरान् ॥ ६ ॥

शिरालैः शिरावद्भिर्दीर्घैर्दोर्दण्डैर्वनमिव सम्पद्यमानं कृतं नभस्तलं
यया । दृष्टिपातैर्दिवाकरान्किरन्ती विक्षिपन्ती ॥ ६ ॥

स्फुरन्नानायुधाकारकचज्झणझणध्वनि ।
शतखण्डं खगानीकं कुर्वाणा व्योमकोटरे ॥ ७ ॥

स्फुरतां नानायुधानामाकारैः कचज्झणझणध्वनि यथा स्यात्तथा व्योमकोटरे
खगानीकं पक्षिसमूहं शतखण्डं कुर्वाणा ॥ ७ ॥

देहज्वालेक्षणोष्माढ्यैः शरीरावयवैस्त्विषः ।
दीर्घवेणुवनाकाराः किरन्ती कोटियोजनाः ॥ ८ ॥

देहज्वालाभिरीक्षणोष्मभिर्नेत्राग्न्यौष्ण्यैश्चाढ्यैः सम्पन्नैः
शरीरावयवैर्दीर्घवेणुवनाकाराः कोटियोजनपरिमितास्त्विषः किरन्ती विक्षिपन्ती ॥ ८ ॥

दन्तकान्तीन्दुविद्योतदुग्धस्नपितदिङ्मुखा ।
कृशातिदीर्घविस्तीर्णशरीरापूरिताम्बरा ॥ ९ ॥

निरालम्बास्पदा सान्ध्या विततेवाभ्रमालिका ।
प्रेतासनसमारूढा सुरूढा परमे पदे ॥ १० ॥

निर्गते आलम्बास्पदे यस्याः । अभ्रमालिकापक्षे निरालम्बमम्बरमास्पदं यस्याः ।
परमे पदे ब्रह्मणि सुष्ठु रूढा प्रादुर्भूता ॥ १० ॥

स्फुरन्ती प्रज्वलद्रूपा सन्ध्या जलधरारुणा ।
दधाना गगनाम्भोधौ वाडवज्वलनश्रियम् ॥ ११ ॥

वाडवज्वलनो वडवानलस्तच्छ्रियं दधाना ॥ ११ ॥

शवैः शवाङ्गैर्मुसलैः प्रासतोमरमुद्गरैः ।
वृसिकोलूखलहलैः किरन्ती चञ्चला स्रजः ॥ १२ ॥

बृसिकाः आसनानि ॥ १२ ॥

प्रजां कटकटाटोपैर्वहन्ती गगनाङ्गणे ।
दृषदां घर्घरारावैः प्रावृड्गिरिरिवाचले ॥ १३ ॥

कटकटेति दन्तध्वन्यनुकरणं तदाटोपैस्तदाडम्बरैः प्रजां जनशरीरमालां
गगनाङ्गणे वहन्ती । यथा प्रावृङ्गिरिर्दृषदां मालां
घर्घरारावैर्निर्झरैरचले स्वदेहे वहति तद्वत् ॥ १३ ॥

देवा ऊचुरयं देवि उपहारीकृतोऽम्बिके ।
सार्धं स्वपरिवारेण शीघ्रमाह्रियतामिति ॥ १४ ॥

देवास्तां देवीमूचुः । किमूचुः । हे अम्बिके अयं शवस्ते उपहारीकृतोऽस्मीभिः
स्वपरिवारेण सार्ध शीघ्रमाह्रियतां भुज्यतामित्यूचुः ॥ १४ ॥

वदत्येवं सुरानीके तं शवं प्राणवायुना ।
देवी प्रववृते रक्तसारमाक्रष्टुमञ्जसा ॥ १५ ॥

देवी स्वयं सर्वप्राणशक्तित्वात्प्राणानां रक्ताधारत्वात्प्राणवायुनैव
तद्रक्तसारमाक्रष्टुं प्रववृते ॥ १५ ॥

प्राणेनाकृष्यमाणं तद्रक्तं भगवतीमुखे ।
अविशत्सान्ध्यमेघौघ इव मेरोर्गुहान्तरम् ॥ १६ ॥

तावद्रक्तं तया पीतं प्राणाकृष्टं नभःस्थया ।
यावच्छुष्का सती तृप्ता पीना सा चण्डिका स्थिता ॥ १७ ॥

प्राक् शुष्का सती तृप्ता भूत्वा पश्चात्पीना पुष्टा भूत्वा स्थिता ॥ १७ ॥

ततो बभूव सा रक्तपरिपीनशरीरिणी ।
रक्ता वर्षाभ्रमालेव तडित्तरललोचना ॥ १८ ॥

यथा वर्षाकाले तडित्तरललोचना रक्तवर्णा अभ्रमाला स्थिता तद्वत् ॥ १८ ॥

लम्बोदरा भगवती विषमाहिविभूषणा ।
रक्तासवमदक्षीबा समस्तायुधधारिणी ॥ १९ ॥

व्योम्नि नर्तनमारेभे स्वशरीरार्धपूरिते ।
पर्यन्तगिरिमालाग्रस्थितामरनिरीक्षिता ॥ २० ॥

स्वशरीरेणार्धपूरिते व्योम्नि नर्तनमारेभे उपचक्रमे ।
पर्यन्तगिरिर्लोकालोकपर्वतस्तदीयशिखरमालाग्रेषु स्थितैरमरैर्निरीक्षिता ॥ २० ॥

ततः पिशाचकुम्भाण्डरूपिकादिमहागणाः ।
शवमावारयाञ्चक्रुर्महाचलमिवाम्बुदाः ॥ २१ ॥

शवशैलो गृहीतोऽसौ कुम्भाण्डैः कटिभागतः ।
उदराद्रूपिकावृन्दैर्यक्षैः कुञ्जरविक्षतैः ॥ २२ ॥

उदरात् उदरमारभ्य । यक्षैस्तु स्वीयकुञ्जरदन्तविक्षतैः परिशिष्टैः
पार्श्वपृष्ठभागैर्गृहीतैः ॥ २२ ॥

भुजोरुकन्धराद्यास्ते तस्यान्येऽवयवा यतः ।
ब्रह्माण्डस्य परं पारं प्राप्ताः परमविस्तृताः ॥ २३ ॥

ननु भुजोरुकन्धरादिभागे कुतो न गृहीतस्तत्राह - भुजोर्विति । यतस्ते
ब्रह्माण्डखर्परस्य परं पारं जलाद्यावरणदेशं प्राप्तास्ततो
हेतोस्तैर्भूतसङ्घातैर्दूरे दिगन्तरे स्थितास्तेन प्राप्ताः किन्तु तत्रैव कालेन
स्वयमेव कलिता इति द्वयोरन्वयः ॥ २३ ॥

ततस्तैर्भूतसङ्घातैः स्थिता दूरे दिगन्तरे ।
न प्राप्ता वै हि तत्रैव कालेन कलिताः स्वयम् ॥ २४ ॥

नृत्यन्त्यां चण्डिकायां खे भूतवृन्दे शवाकुले ।
देवेष्वद्रिषु तिष्ठत्सु बभूव भुवनं तदा ॥ २५ ॥

पिण्डाहार्यामदुर्गन्धिगुण्ठीकृतककुब्गणम् ।
रक्तगर्भाभ्रनिर्व्यूहैः खादिरज्वलनोज्ज्वलम् ॥ २६ ॥

कीदृशं बभूव तदाह - पिण्डेत्यादिना । पिण्डश
आहार्यैर्भक्ष्यमाणैर्नीयमानैश्च आमदुर्गन्धिभिर्मासवसादिभिर्गुण्ठीकृता
अवगुण्ठिता व्याप्ताः ककुब्गणा यत्र तथाविधम् ॥ २६ ॥

मांसचर्वणसंरम्भप्रोद्यच्छवशवस्वनम् ।
लतास्थिखण्डनोड्डीनबृहत्कटकटारवम् ॥ २७ ॥

शवशवेति चर्वणध्वन्यनुकरणम् । बीभत्सो रसः । लतानामिव शिराणामस्थीनां च
खण्डनादुड्डीन आकाशे प्रसृतो बृहत्कटकटारवो यत्र ॥ २७ ॥

भूतसङ्घट्टविश्लेषवशाद्भीषणनिःस्वनम् ।
हिमवद्विन्ध्यशैलाद्रिप्रमाणास्थ्यचलावृतम् ॥ २८ ॥

देवीमुखानलज्वालापक्वमांसाक्तभूतलम् ।
रक्तसीकरनीहारसिन्दूरितककुब्गणम् ॥ २९ ॥

सर्वतः प्रेक्षकैर्देवैः सप्राकारदिगन्तरम् ।
रुधिरैकार्णवीभूतसप्तद्वीपवसुन्धरम् ॥ ३० ॥

सप्राकारं वरणवेष्टितमिव दिगन्तरं यत्र ॥ ३० ॥

अत्यन्तान्तर्हिताशेषसमस्ताचलमण्डलम् ।
रक्तप्रभाभ्रसम्भारवस्त्रावृतदिगङ्गनम् ॥ ३१ ॥

अत्यन्तमन्तर्हितं भूतप्रवेशादस्थ्याद्याच्छादनाच्च तिरोधानं प्राप्तमशेषं
समस्तं शिखरसहितमचलमण्डलं यत्र । रक्तप्रभारञ्जितैरभ्रसम्भारैः
रक्तवस्त्रावृता इव दिगङ्गना यत्र ॥ ३१ ॥

वृत्तालोलभुजभ्रान्तहेतिच्छन्ननभस्तलम् ।
दूरस्मृतिपथप्राप्तपुरपत्तनमण्डलम् ॥ ३२ ॥

हेतिभिर्देवीतद्गणायुधैश्छन्नं नभस्तलं यत्र ॥ ३२ ॥

अत्यन्तासम्भवद्रूपसर्वस्थावरजङ्गमम् ।
सम्पन्नानन्तकुम्भाण्डरूपिकाद्येकसङ्गमम् ॥ ३३ ॥

सम्पन्नः अनन्तानां कुम्भाण्डरूपिकादीनामेवैकः सङ्गमः समाजो यत्र ॥ ३३ ॥

नृत्तलोककराकारखगावलनजालकैः ।
मानसूत्रैरिव विधेरन्यद्रचयतो जगत् ॥ ३४ ॥

नृत्ते प्रसक्ता ये लोका भूतगणास्तेषां ये अभिनयकराकारास्तल्लक्षणानां
खगानामावलनाय बन्धनाय प्रसारितैर्जालकैरिव नभसि अन्यज्जगद्रचयतो
विधेर्मानसूत्रैरिव च स्थितैर्भूमेरारभ्य आ अर्कगतं
सूर्यमार्गपर्यन्तमूर्ध्वमधश्च दशदिग्लक्षणैः कुञ्जैस्तिर्यक् च
पिशाचैरातानवितानाभ्यां नीतैरान्त्रलक्षणैस्तन्तुभिर्जगद्ब्रह्माण्डोदरं
मिमानमिव तदा भुवनं त्रैलोक्यं बभूवेति द्वयोरन्वयेनोपक्रमेण सम्बन्धः
॥ ३४ ॥

भूमेरार्कगतं नीतैः पिशाचैरान्त्रतन्तुभिः ।
मिमानमिव दिक्कुञ्जैस्तिर्यगूर्ध्वमधो जगत् ॥ ३५ ॥

जगदालोक्य तत्तादृगुदक्तोपप्लवाप्लुतम् ।
भूतपूर्वमहीपीठस्थितिरक्तार्णवीकृतम् ॥ ३६ ॥

पूर्व भूते भूतपूर्वे महीपीठे स्थितिर्येषां तथाविधै रक्तैरर्णवीकृतम् । अत एव
उदक्तेन उद्गतेनोपप्लवेनाप्लुतमास्कन्दितं जगदालोक्य द्वीपसप्तकपर्यन्ते तस्य
शवस्याङ्गकैः कुत्सितैरङ्गैरनाक्रान्ते लोकालोकाद्रेर्मूर्धनि स्थिताः सुराः
खिन्नतरा आसन्निति द्वयोरन्वयः ॥ ३६ ॥

द्वीपसप्तकपर्यन्ते लोकालोकाद्रिमूर्धनि ।
तदङ्गकैरनाक्रान्ते स्थिताः खिन्नतराः सुराः ॥ ३७ ॥

श्रीराम उवाच ।

ब्रह्माण्डादपि निर्गत्य यस्य तेऽवयवा गताः ।
लोकालोकाचलस्तेन ब्रह्मन्न स्थगितः कथम् ॥ ३८ ॥

यस्य शवस्य ते अतीदिर्घा हस्तपादाद्यवयवा ब्रह्माण्डादपि बहिर्निर्गत्य गतास्तेन
तादृशेन महाशवेन लोकालोकाचलः कथं न स्थगितो नाच्छादित इति रामेण
सर्वज्ञो वसिष्ठ एव पृष्टो न भासः । तस्य लोकालोकपर्यन्तं दृष्ट्यप्रसरेण
तदनभिज्ञत्वनिश्चयादिति भावः ॥ ३८ ॥

श्रीवसिष्ठ उवाच ।

द्वीपसप्तकमध्येऽस्मिन्राम तस्योदरं स्थितम् ।
शिरःखुरभुजाद्यङ्गं ब्रह्माण्डात्परतः स्थितम् ॥ ३९ ॥

अत एव वसिष्ठ एव तदुत्तरमाह - द्वीपेत्यादिन । हे राम तस्य उदरं
उदरोपलक्षितं मध्यशरीरं द्वीपसप्तकमध्ये स्थितम् । शिरःखुरोपलक्षितौ पादौ
भुजाद्यङ्गं च ब्रह्माण्डात्परतः स्थितमिति भासोक्तं सत्यमेव ॥ ३९ ॥

पार्श्वाभ्यामूरुमध्याच्च कटिपार्श्वद्वयात्तथा ।
शिर्ॐसद्वयमध्याभ्यां लोकालोकः स लक्ष्यते ॥ ४० ॥

तथापि शवस्य पार्श्वाभ्यां ऊर्वोर्मध्यात्कटिपार्श्वद्वयात् तथा
शिर्ॐसद्वयमध्याभ्यां च शृङ्गाणामनाच्छादनात्स लोकालोकपर्वत
ऊर्ध्वं लक्ष्यते दृश्यत एवेत्यर्थः ॥ ४० ॥

तत्रोपविष्टास्ते देवा लक्ष्यन्ते शृङ्गमूर्धसु ।
सुशुद्धकान्तयस्तापादजला जलदा इव ॥ ४१ ॥

एवं प्रश्नोत्तरमुक्त्वा कथाशेषमपि भासेनापरिज्ञातं वसिष्ठ एवाह -
तत्रेत्यादिना । तापादन्तःसन्तापाच्छरदर्कातपाच्च ॥ ४१ ॥

प्रसारिताङ्गकमधो वक्त्रं तत्पतितं शवम् ।
संअभक्षयति भूतौघे प्रनृत्यन्तीषु मातृषु ॥ ४२ ॥

अधोवक्त्रं तच्छवं भूतौघे सम्भक्षयति सति ॥ ४२ ॥

वहत्स्वसृक्प्रवाहेषु मेदोगन्धे विजृम्भिते ।
दुःखिताश्चिन्तयामासुः प्रत्येकममरा इदम् ॥ ४३ ॥

इदं वक्ष्यमाणं चिन्तयामासः ॥ ४३ ॥

हा कष्टं क्व गता पृथ्वी क्व गता जलराशयः ।
क्व गता जनसङ्घाताः क्व गता धरणीधराः ॥ ४४ ॥

तदेवाह - हा कष्टमित्यादिना ॥ ४४ ॥

तादृक्चन्दनमन्दारकदम्बवनमण्डितः ।
मण्डपः पुष्पराशीनां कष्टं क्व मलयो गतः ॥ ४५ ॥

पुष्पराशीनां मण्डप इव स्थितो मलयः ॥ ४५ ॥

उच्चावदाता विपुला हिमवद्भूमयोऽपि ताः ।
नीताः शौक्ल्यरुषेवाशु रुधिरेणात्मपङ्कताम् ॥ ४६ ॥

रुधिरेण कर्त्रा हिमकृते शौक्ल्ये विषये रुषा क्रोधेनेव तदभिभवाय
आत्मपङ्कतां स्वीयकर्दमभावम् ॥ ४६ ॥

क्रौञ्चद्वीपतले क्रौञ्चे योऽभूत्कल्पद्रुमो महान् ।
ब्रह्मलोकलसच्छाखः सोऽपि चूर्णत्वमागतः ॥ ४७ ॥

क्रौञ्चनाम्नो द्वीपस्य तले क्रौञ्चे गिरौ यः कल्पद्रुमोऽभूत् ॥ ४७ ॥

हा क्षीरार्णव पारिजातकमलाचन्द्रामृतानां पते हा दध्यर्णव
नावनीतशिखरिप्रोद्भूतवेलावन ।
हा मध्वर्णव नालिकेरगिरिके योगेश्वरीसेवित क्वेदानीं समुपैष्यथ क्व वनिता
दिग्दर्पणत्वं गताः ॥ ४८ ॥

पारिजातानां कमलायाश्चन्द्रस्यामृतस्य चोत्पादकत्वात्पते स्वामिन् हे क्षीरार्णव ।
नावनीता नवनीतभरिता ये शिखरिणस्तेषु प्रोद्भूतं वेलावनं यस्य तथाविध हे
दध्यर्णव वेलास्थे नालिकेरप्रधाने अनुकम्प्ये गिरौ गिरिके योगेश्वर्या सेवित हे
मध्वर्णव हा भवतां प्रत्येकं शोच्यता इत्यर्थः । इदानीं क्व समुपैष्यथ
स्फटिकादिरत्नशिलाभिर्वनितानां देवस्त्रीणां दिशां च दर्पणत्वं क्व वा गताः ॥
४८ ॥

हा कल्पद्रुमकाञ्चनामललतानिःसन्धिबन्धाचल
क्रौञ्चद्वीपविरिञ्चहंसनलिनीनीरन्ध्रदिग्जालक ।
यातः क्वेह कदम्बकाननदरीविश्रान्तविद्याधरी
क्रीडाकोविदनागरामरगृह त्वं पुष्करद्वीपक ॥ ४९ ॥

कल्पद्रुमेण काञ्चनीभिरमलाभिर्लताभिश्च निःसन्धिर्निरुपाधिर्बन्धः सम्बन्धो
यस्य तथाविधः क्रौञ्चाचलो यस्मिंस्तथाविध हे क्रौञ्चद्वीप त्वम् । तथा
विरिञ्चिहंसैर्नलिनीभिश्च नीरन्ध्रं निबिडितं दिग्जालं यस्य तथाविध । तथा
कदम्बकाननदरीषु विश्रान्तानां विद्याधरीणां रतिक्रीडासु कोविदानां
नागराणाममराणां च गृहभूत हे पुष्करद्वीपक त्वं चेति युवां इह क्व यातः
क्व गतौ ॥ ४९ ॥

स्वादूदोदग्रतापावलकुसुममहीपावनानां वनानां
गोमेधद्वीपकल्पद्रुमकनकलतासुन्दरीणां दरीणाम् ।
शाकद्वीपाचलानाममरतरुवनैर्दंशितानां सितानां स्मृत्यैवोदेति पुण्यं
सुरपदसुखदं मानवानां नवानां ॥ ५० ॥

स्वादूदस्य समुद्रस्य तदीयानां उदग्रतापं आवलयन्ति निरुन्धन्ति तथाविधानां
कुसुमच्छन्नमहीपावनानां वनानाम् । तथा गोमेधद्वीपस्य
तदीयकल्पद्रुमाणां तत्रत्यकनकलतानां ताभिः सुन्दरीणां दरीणां । तथा
अमरतरूणां कल्पवृक्षाणां वनैर्दशितानां कञ्चुकितानां तत्पुष्पैः सितानां
क्रौञ्चद्वीपसहितानां तदचलानां चेति नवानां पदार्थानां स्मृत्यैव
मानवानां सुरपदं स्वर्गस्तत्सुखदं पुण्यमुदेति ॥ ५० ॥

मन्दानिलावलितपल्लवबालवल्लीसन्तानभासितसमस्तदिगन्तराणि ।
ध्वस्तानि तानि सकलानि वनानि कष्टमाश्वासमेष्यति कथं जनता न जाने ॥ ५१ ॥

मन्दानिलैरावलितपल्लवा या बालवल्ल्यस्तद्युक्तैः सन्तानैः
कल्पवृक्षभेदैर्भासितानि समस्तदिगन्तराणि येषां तानि तादृशानि सकलानि
वनानि ध्वस्तानि भग्नानि । कष्टमिति खेदे । अतः परमस्मदादिजनता आश्वासं
विश्रामं चित्तसमाधानं च कथमेष्यति न जाने इति तत्र कस्यचिदुक्तिः ॥ ५१ ॥

कदा नु तानीक्षुरसाब्धितीरे वनानि खण्डाचलभूमिकासु ।
द्रक्ष्येम भूयो गुडमोदकानि तथा कुमाराण्यपि शर्करायाः ॥ ५२ ॥

इक्षुरसाब्धेस्तीरे खण्डः शिलीभूतशर्करा तन्मयैरचलैर्भूषितासु महीषु तानि
प्रसिद्धमाधुर्याणि गुडमोदकानि कदा नु द्रक्ष्येम पश्येम द्रक्ष्याम इति वा ।
छान्दसो विकरणव्यत्ययः । तथा शर्करायाः कुमाराणि क्रीडार्थाः पुत्रिका अपि कदा
द्रक्ष्यामः ॥ ५२ ॥

कदम्बकल्पद्रुमशीतलेषु तालीतमालीसवनाचलस्य ।
कदा नु तच्चन्दनसुन्दरीणां पश्येम नृत्तं कनकालयेषु ॥ ५३ ॥

तालीतमालीभिः सवनस्य तदचलस्य कदम्बैः कल्पद्रुमैश्च शीतलेषु
कनकालयेषूपविष्टाः सन्तस्तत्प्राग्बहुशोऽनुभूतं चन्दनलिप्तानां
सुन्दरीणामप्सरसां नृत्तं चन्दनलतालक्षणानां सुन्दरीणां नृत्तं वा कदा
नु पश्येम । आशंसायां लिङ् ॥ ५३ ॥

गतानि कष्टं स्मरणीयरूपतां जम्बूद्रुमस्याग्रफलानि तान्यपि ।
येषां नदीं द्वीपसमुद्रमेखला वहत्यसौ जम्बुमती रसाम्बुभिः ॥ ५४ ॥

जम्बूद्रुमस्य तानि गजप्रमाणत्वेनामृतरसत्वेन जाम्बूनदस्वर्णहेतुत्वेन च
प्रसिद्धान्यग्रफलानि स्मरणीयरूपतां गतानि । कष्टमिति खेदे । येषां फलानां
रसाम्बुभिः प्रभवां नदीं द्वीपाः समुद्राश्च मेखला यस्यास्तथाविधा असौ
जम्बुमती जम्बूद्वीपरूपा मही वहति ॥ ५४ ॥

शिलीन्ध्रनीरन्ध्रमहीध्रन्ध्रक्षीबामरस्त्रीकृतगीतनृत्यम् ।
संस्मृत्य संस्मृत्य सुरोदतीरं प्रागब्जमुर्वीव हृदावदीर्ये ॥ ५५ ॥

तथा शिलीन्ध्रैर्नीरन्ध्राणां निरवकाशीकृतानां महीध्राणां रन्ध्रेषु गुहासु
क्षीबाभिर्मधुमत्ताभिरमरस्त्रीभिः कृतं गीतसहितं नृत्यं
यस्मिंस्तथाविधं सुरोदस्य समुद्रस्य तीरं पुनः पुनः संस्मृत्य प्राक्
प्रातःकाले अब्जं पद्ममिव सम्प्रति उर्वीव च अहं हृदा अवदीर्ये । विदारणं
प्राप्नोमीत्यर्थः ॥ ५५ ॥

पश्यासृगम्भसि नवार्णवमूर्ध्नि भासा सौवर्णपर्वतशताग्रशिखाः
कचन्ति ।
सन्ध्यारुणा उदयनास्तमयावनीनां स्तोकोदितेन्दुकलिका इव दिङ्मुखेषु ॥ ५६ ॥

हे मित्र असृग्रक्तमम्भो यस्य तथाविधे नवस्य अभिनवस्यार्णवस्य मूर्ध्नि
उपरिभागे सौवर्णानां मेर्वादीनां पर्वतशतानामग्रशिखाः शृङ्गाणि
उत्तरादिदिङ्मुखेषु उदयास्तमयावनीनां सूर्योदयास्तमयसन्निहितभूमीनां
सन्ध्याभ्यामरुणाः स्तोकोदिता इन्दुकलिका इव भासा कचन्ति दीप्यन्ते त्वं पश्य ॥ ५६ ॥

तादृक्सागरवारिराशिवलया द्वीपान्तरालङ्कृता
प्रोच्चाद्रीन्द्रनिविष्टवारिदघटानीलोत्पलानां स्थली ।
स्रोतोजङ्गलकाननोग्रनगरग्रामाग्रहाराम्बरा नो जाने तरुपल्लवाङ्कुरवती
कष्टं क्व याता मही ॥ ५७ ॥

तादृशा वर्णितप्रकाराः सागररूपा ये वारिराशयो जलसमूहास्ते वलया इव यस्याः
। द्वीपान्तरैर्द्वीपभेदैरलङ्कृता । प्रोच्चेष्वद्रीन्द्रेषु अर्थात्स्तनप्रायेषु
निविष्टानामम्बुदघटालक्षणानां नीलोत्पलमालानां स्थली आधारभूता
तद्भूषितेति यावत् । स्रोतांसि नद्यो जङ्गलानि काननानि भटैरुग्राणि नगराणि ग्रामा
अग्रहारा ब्राह्मणग्रामाश्चाम्बराणि यस्याः । तरुपल्लवाङ्कुरादिभूषणवती मही
सम्प्रति क्व याता नो जाने । कष्टमिति खेदे ॥ ५७ ॥

इत्यार्षे श्रीवा० वाल्मी० दे० मो० नि० उ० अवि० वि० शवोपाख्याने देवपरिदेवनवर्णनं
नाम चतुस्त्रिंशदधिकशततमः सर्गः ॥ १३४ ॥

इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे निर्वाणप्रकरणे उत्तरार्धे
देवपरिदेवनवर्णनं नाम चतुस्त्रिंशदधिकशततमः सर्गः ॥ १३४ ॥