त्रयस्त्रिंशाधिकशततमः सर्गः १३३
विपश्चिदुवाच ।
कस्मिंश्चिदन्यत्र जगत्यपूर्वे दृष्टं मयेदं शृणु किं विचित्रम् ।
महाघवृत्तान्तदशासमानमविद्ययान्धेन वलात्कृतं यत् ॥ १ ॥
अत्याश्चर्य क्वचिद्दृष्टं भासेनात्रोपवर्ण्यते ।
सप्तद्वीपप्रमाणस्य शवस्य पतनं दिवः ॥
अविद्याख्यानेऽस्मिन्नत्याश्चर्यवर्णनप्रसङ्गेन शवोपाख्यानं भासमुखेन
वर्णयितुं प्रस्तौति - कस्मिंश्चिदिति । हेमुने अस्माज्जगतोऽन्यत्र कस्मिंश्चिदपूर्वे
जगति मया इदं वक्ष्यमाणं विचित्रमत्याश्च्र्यं दृष्टं तच्छृणु ।
यन्महाघानां ब्रह्महत्यादीनां
फलभूतरौरवादिनरकवृत्तान्तदशासमानमतिबीइभत्समप्यविद्यया अन्धेन
मया वह्निवरप्रार्थनाबलात् कृतं सम्पादितम् । अनुभूतमिति यावत् ॥ १ ॥
अस्ति क्वचित्खे भवतामगम्ये जगज्ज्वलद्दीप्तिविचित्रसर्गः ।
एतादृगप्यम्बरतस्तदन्यत् स्वाप्नं पुरं जाग्रति चेतसीव ॥ २ ॥
भवतामगम्ये गन्तुमशक्ये क्व्चिद्व्योम्नि जगत् तत्र च ज्वलन्त्या चन्द्रसूर्यादिदीप्त्या
विचित्रः सर्गोऽस्ति । तच्च सन्निवेशत एतादृगेतद्ब्रह्माण्डसदृशमप्यम्बरत
एतद्दृष्ट्या शून्यत्वतोहेतोरस्मादन्यदेव । तत्र दृष्टान्तः - यथा स्वाप्नं
स्वप्नदृष्टं पुरं जाग्रद्दृष्टपुरसदृशमपि जाग्रद्दृष्ट्या
शून्यत्वादन्यदेव चेतसि भातं तद्वदित्यर्थः ॥ २ ॥
तस्मिन्मया विहरता हृदयस्थमर्थमन्वेष्टुमक्षि निहितं ककुभां
मुखेषु ।
पश्यामि यावदचलप्रतिमा धरायां छायालिजालमलिना परिबम्भ्रमीति ॥ ३ ॥
तस्मिन् जगति निवसता मया हृदयस्थं स्वाभिलषितमर्थ दिगन्तेष्वन्वेष्टुं
ककुभां मुखेषुअक्षि निहितम् । प्रेरितमिति यावत् । तेषु यावत्कौतुकं पश्यामि
तावद्धरायां अलिजालमलिना अचलप्रतिमा महती छाया बम्भ्रमीति भृशं
भ्रमति ॥ ३ ॥
आश्चर्यमात्रमुचितं किमिदं निमेषादित्यक्षि वै जगति यावदहं त्यजामि ।
खात्तावदद्रिमतुलं पुरुषाकृतिं द्रागावर्तवृत्तिभिरपश्यमहं
पतन्तम् ॥ ४ ॥
ततः अतिमहत्त्वादाश्चर्यमात्रमिदं छायाकारं किमुचितमिति विमृशन् याव्दक्षि
जगति ऊर्ध्वभागे त्यजामि प्रेरयामि तावदद्रीणां मानं परिमाणं अद्रिमा सा तुला
यस्य तथाविधं खादावर्तवृत्तिभिः पतन्तं पुरुषाकृतिमहं द्रागपश्यम् ॥ ४
॥
कः स्यादयं गिरिगुरुः पुरुषो विराड्वा पर्यस्तपर्वतवदाशु पतच्छरीरः ।
आकाशपूरकवपुः परमाम्बरोऽपि यो नैव भाति पिहिताखिलवासरश्रीः ॥ ५ ॥
गिरिरिव गुरुः आकाशपूरकवपुः पतच्छरीरोऽयं पुरुषः को ब्रह्मा वा स्याद्विराट्
ब्रह्माण्डशरीरो वा स्यादिति वितर्के । येन परमाम्बरोऽपि यः प्रसिद्धः सूर्यः
पिहिताखिलवासरश्रीः सन् नैव भाति ॥ ५ ॥
एवंविधां हृदि मनाक्कलयामि यावत्तावत्पपात सहसा नभसो विवस्वान् ।
कल्पान्तवातपरिवृत्तपितामहाण्डपृष्ठावपातघनघोषजुषा जवेन ॥ ६ ॥
अहमेवंविधां चिन्तां यावन्मनाक्कलयामि तावत् सहसा नभसो विवस्वान् सूर्यः
कल्पान्तवातैः परिवृत्तस्य परावर्तितस्य पितामहाण्डपृष्ठस्य
ब्रह्माण्डोर्ध्वकपालस्य अवपात इव घनघोषवता जवेन वेगेन पपात ॥ ६ ॥
तस्मिन्पतति भीमात्मन्यपारावारदेहिनि ।
सप्तद्वीपां वसुमतीं परिपूरयति क्षणात् ॥ ७ ॥
तदा त्वं किमकार्षीस्तत्राह - तस्मिन्निति द्वाभ्याम् । भीमात्मनि भयानकस्वरूपे
पुरुषाकारे वस्तुनि पतति सति अहं स्वात्मनः शरीरस्य
तदुपमर्दादवश्यभाविनाशमाशङ्क्याथ पार्श्वस्थमग्निमविशमिति
द्वयोरन्वयः ॥ ७ ॥
स्वात्मनो नाशमाशङ्क्य सद्वीपभुवनैः सह ।
अवश्यभाविपार्श्वस्थमहमग्निमथाविशम् ॥ ८ ॥
स जातवेदा भगवान्जन्मान्तरशतार्चितः ।
मा भैषीरिति देहेन मामुवाचेन्दुशीतलः ॥ ९ ॥
स भगवान् जन्मान्तरशतार्चितो जातवेदा इन्दुशीतलः सन् मां मा भैषीरित्याह ॥ ९ ॥
जय देव त्वमस्माकं प्रतिजन्म परायणम् ।
अकाल एव कल्पान्तो जातोऽतः पाहि मां प्रभो ॥ १० ॥
तदानीं स्वकृतामग्निप्रार्थनामाह - जयेति । जातः प्रसक्तः ॥ १० ॥
इत्युक्तेनाग्निना प्रोक्तं मा भैषीरिति तत्पुनः ।
उत्तिष्ठागच्छ गच्छावो मल्लोकमिति चानघ ॥ ११ ॥
हे अनघ मल्लोकमग्निलोकं गच्छावस्त्वमागच्छ इति च प्रोक्तम् ॥ ११ ॥
इत्युक्त्वा शुकपृष्ठेऽसावारोप्य भगवांस्ततः ।
देहैकदेशे तत्पाति भूतं दग्ध्वा नभः प्लुतः ॥ १२ ॥
स्ववाहनशुकपृष्ठे मामारोप्य तत् प्रागुक्तं पातोऽस्यास्तीति पाति भूतं शवं
देहैकदेशे दग्ध्वा छिद्रीकृत्य नभः प्लुतः ॥ १२ ॥
अनन्तरं नभः प्राप्य दृष्टः कष्टाकृतिर्मया ।
स तादृग्भूतसम्पातमहोत्पातो भयप्रदः ॥ १३ ॥
तस्मिन्जवेन पतिते वसुधा चचाल साम्भोधिशैलवनपत्तनजङ्गलौघा ।
चक्रे भृगुद्वयमयानजलस्रवन्ती भीमाकृतीन्व्यधुरदेहविभेदगर्तान् ॥
१४ ॥
तस्मिन्महाशवे जवेन पतिते सति अम्भोध्यादिसहिता वसुधा चचाल । अयानजलाः
निरुद्धोदकप्रवाहाः स्रवन्त्यो नद्यो यस्यां तथाविधा सती गिरिनदीनां कूलद्वये
मार्गान्तरेण जलस्रवणात् भृगुद्वयं जलप्रपातद्वयं चक्रे । पतन्ति जलानि
भीमाकृतीन् भयङ्कराकारान् अदेहविभेदान्
मनुष्यादिदेहकृतभूविदारणजन्यवापीकूपादिविलक्षणान्गर्तान्व्यधुश्चक्रुः ।
विधुरदेहविभेदकर्तान् इति पाठ वसुधाविधुरेण विसंष्ठुलेन स्वदेहविभेदेन
कर्तान् वप्रादिकर्तनानि चक्रे इत्यर्थः ॥ १४ ॥
उर्वी ररास ककुबुत्तरतो ररास विररास च दक्षिणा दिक् ।
द्यौराररास विररास सशैलभूतं सर्वं जगत्प्रलयसम्भ्रमभीतमुच्चैअः
॥ १५ ॥
पुनः किमासीत्तदाह - उर्वीति । उर्वी भूः उत्तरतः ककुप् उत्तरा दिक् तथा पूर्वा
दक्षिणा चकारात्पश्चिमा च ककुप् द्यौः शैलैर्भूतैश्च सहितं सर्व जगच्च
प्रलयसम्भ्रमेण भीतं सत् उच्चैः ररास दध्वान रुरोद च ।
धात्वावृत्तिस्तत्तच्छब्दवैलक्षण्यद्योतनाय ॥ १५ ॥
उर्वी ररास धरणे सविरावरंहःसंरम्भतर्जितसमस्तदिगन्तरासा [रासो
ध्वनिः ।] ।
व्योमापि घुङ्घुममलङ्घ्यमलं चकार
नागारिवृन्दभयविद्रवणप्रचण्डम् ॥ १६ ॥
उक्तमेव स्पष्टं पुनराह - उर्वीति । धरणे पतितस्य शवस्य धारणे ।
तारत्वाधिक्येन शब्दान्तरैरलङ्घ्यं घुङ्घुमं ध्वनिमलमत्यर्थ चकार ।
नागारीणां गरुडानां भयेन विद्रवण इव प्रचण्डं दुःसहम् ॥ १६ ॥
निर्घातशब्द उदभूदभितो भयाय भीमाय भूधरदरीदृढदारणोत्थः
।
उत्पातभीमजवजालयुगान्तवातसंरब्धकल्पघनघोषवितीर्णतर्जः ॥ १७ ॥
भूधरदरीणां दृढदारणादुत्थ उत्थितो निर्घात आस्फालनं तन्निमित्तः शब्दो
भयाय भीमाय भयहेतवे श्रोत्रहृदयादिभेदनाय च उदभूत् । स कीदृक् ।
उत्पातैर्भीमजवत्वाज्जालवदाकर्षिणो ये युगान्तवातास्तैः संरब्धा ये कल्पघनाः
प्रलयाम्बुदास्तद्घोषेभ्यो वितीर्णा विश्राणिता तर्जा भर्त्सना येन तथाविधः ॥१७ ॥
तस्मिञ्जवेन पतिते वसुधा ररास सारावदिङ्मुखतया शतवेधमागात् ।
तत्रास्फुटन्कुलगिरीन्द्रमहातटानि पातालदेशमविशन्हिमवच्छिरांसि ॥ १८ ॥
तस्मिन्शवे । शतगुणं वेधममिधातमागात्प्राप । तत्र तस्मिन्वेधे ॥ १८ ॥
आसीत्तत्पतनं तस्य मेरुशैलशिलाकृतेः ।
दलनं शैलशृङ्गाणां विदारणकरं भुवः ॥ १९ ॥
तस्य शवस्य तत्तादृशं पतनमासीत् । कीदृशं तदाह - दलनमित्यादि ॥ १९ ॥
क्षोभणं जलराशीनामद्रीणां भूतलार्पणम् ।
पीडनं सर्वभूतानां क्रीडनं प्रलयार्थिनाम् ॥ २० ॥
भूतले अर्पणं समीकरणसाधनमिति यावत् । प्रलयार्थिनां । रुद्रगणानाम् ॥ २० ॥
पातनं भूतले भानोः स्थगनं द्वीपपद्धतेः ।
चूर्णीकरणमद्रीणां दलनन्न् मण्डलावनेः ॥ २१ ॥
स्थगनमाच्छादनम् ॥ २१ ॥
द्वितीयमिव भूपीठं ब्रह्माण्डार्धमिवापरम् ।
पतितं खमिवाकृत्या तदपश्यन्नभश्चराः ॥ २२ ॥
आकृत्या मूर्ताकारेण ॥ २२ ॥
अथ पश्याम्यहं यावदसौ मांसमयोऽचलः ।
न माति सप्तद्वीपायां भुवि तस्याङ्गमेककम् ॥ २३ ॥
तमालोक्य मया देवः प्रसादे समवस्थितः ।
सम्पृष्टो भगवान्वह्निः प्रभो किमिदमित्यथ ॥ २४ ॥
कथं मांसमयः सार्धं स चार्कः पतितो दिवः ।
स न माति हि भूपीठे सपर्वतवनाम्बुधौ ॥ २५ ॥
मांसमयो देहः कथं पतितः । तेन सार्ध स प्रसिद्धोऽर्कश्च कथं पतित
इत्यावृत्त्या योज्यम् ॥ २५ ॥
अग्निरुवाच ।
प्रतिपालय पुत्र त्वं क्षणमेकं गतत्वरः ।
यावच्छाम्यतु [शाम्यति इत्युभयत्रापि पाटः ।] दोषोऽयं कथयिष्यामि
ते ततः ॥ २६ ॥
प्रतिपालय प्रतीक्षस्व । अयमेतत्पतनदोषो यावत्साकल्येन शाम्यति [शाम्यति
इत्युभ्यत्रापि पाठः ।] ॥ २६ ॥
अथ तस्मिन्वदत्येवं समाजग्मुर्नभश्चराः ।
तज्जगज्जालजातीया दिग्भ्यो गगनजाखिलाः ॥ २७ ॥
गगनजगखिलं वस्त्रभूषणमाल्यादि येषाम् ॥ २७ ॥
सिद्धसाध्याप्सरोदैत्यगन्धर्वोरगकिन्नराः ।
ऋषयो मुनयो यक्षाः पितरो मातरोऽमराः ॥ २८ ॥
ते नभश्च्राः के के तानाह - सिद्धेति ॥ २८ ॥
अथ सर्वेश्वरीं देवीं शरण्यां ते नभश्चराः ।
भक्तिनम्रशिरःकायाः कालरात्रिं प्रतुष्टुवुः ॥ २९ ॥
नभश्चरा ऊचुः ।
बद्ध्वा खट्वाङ्गशृङ्गे कपिलमुरुजटामण्डलं पद्मयोनेः कृत्वा
दैत्योत्तमाङ्गैः स्रजमुरसि शिरःशेखरं तार्क्ष्यपक्षैः ।
या देवी भुक्तविश्वा पिबति जगदिदं साद्रिभूपीठभूतं सा देवी निष्कलङ्का
कलिततनुलता पातु नः पालनीयान् ॥ ३० ॥
या देवी महाकल्पान्ते संहृतस्य पद्मयोनेः कपिलमुरुजटामण्डलं
खट्वाङ्गशृङ्गे बद्ध्वा तथा दैत्यानामुत्तमाङ्गैः शिरोभिः उरसि स्रजं
कृत्वा संहृतस्य तार्क्ष्यस्य गरुडस्य पक्षैः शिरःशेखरमवतंसं च
कृत्वा भुक्तं विश्वं प्राणिजातं यया तथाविधा सती साद्रिभूपीठभूतमिदं
जगत्पिबति । एवं सर्वजगत्संहारेऽपि दोषलेशेनाप्यलिप्तत्वान्निष्कलङ्का
शुद्धचिन्मात्रस्वभावाप्यस्मदनुग्रहाय कलिततनुलता स्वीकृतशरीरा सती
अवश्यपालनीयान्नः अस्मान्पातु रक्षतु ॥ ३० ॥
इत्यार्षे श्रीवासिष्ठमहारामा० वा० दे० मो० नि० उ० अ० वि० शवोपाख्याने
महाशववर्णनं नाम त्रयस्त्रिंशाधिकशततमः सर्गः ॥ १३३ ॥
इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे निर्वाणप्रकरणे उत्तरार्धे
महाशववर्णनं नाम त्रयस्त्रिंशाधिकशततमः सर्गः ॥ १३३ ॥