द्वात्रिंशाधिकशततमः सर्गः १३२
भास उवाच ।
मन्दरे मृदुमन्दारमन्दिरे मन्दराभिधाम् ।
आलिङ्ग्याप्सरसं सुप्तं सरित्तृणमिवानयत् ॥ १ ॥
वर्ण्यन्तेऽत्रापि भासेन भूयो जन्मपरिभ्रमाः ।
आश्चर्याणि च भूरीणि निःसारत्वं च संसृतेः ॥
आश्चर्योपवर्णनैरन्तरितां ज्वजन्मपरम्परावर्णनकथां पुनरनुसन्धत्ते -
मन्दरे इत्यादिना । पर्वतनितम्बकदम्बकच्छे तापसभावानुभवेन
बहुदिनयापनेन प्राप्तसिद्धिं अत एव मन्दरपर्वते मृदुनि मन्दारकुञ्जमन्दिरे
मन्दराभिधामप्सरसमालिङ्ग्य सुप्तं मां वक्ष्यमाणा सरित् स्वप्रवाहपतितं
तृणमिवानयत् । प्रवाहितवतीत्यर्थः ॥ १ ॥
मामथासौ मया पृष्टा समाश्वास्य जलाकुला ।
बाले किमिदमित्युक्तं तया चपलनेत्रया ॥ २ ॥
मामिति पूर्वान्वयि । अथानन्तरं जलेन आकुला व्याकुला असौ अप्सराः मया समाश्वास्य
पृष्टा । हे बाले इदमाकस्मिकं नद्यामावयोः प्रवहणं किन्निमित्तमिति । ततो
भयाच्चपलनेत्रया तया उक्तम् ॥ २ ॥
इह चन्द्रोदयेष्वेताश्चन्द्रकान्तकटप्रजाः ।
नद्यो माद्यन्ति वनिताः सेष्टा इव निशागमे ॥ ३ ॥
किमुक्तं तदाह - इहेति । हे कान्त इहास्मिन्प्रदेशे चन्द्रोदये सति
चन्द्रकान्तशिलामयानां कटानामद्रिकटकानां प्रजाः सन्तानभूता एता नद्यो
माद्यन्ति प्रस्रवजलैर्वर्धन्ते । यथा निशागमे सेष्टाः इष्टेन प्रियतमागमनेन
सहिता वनिताः कामेन माद्यन्ति तद्वत् ॥ ३ ॥
त्वत्सङ्गमरसावेशवशात्तन्ननु विस्मृतम् ।
इत्युक्त्वा मामुपादाय सोड्डीना विहगीव खम् ॥ ४ ॥
तर्हि निद्रागमात्प्रागेवायमर्थस्त्वया मह्यं कुतो न निवेदितस्तत्राह -
त्वत्सङ्गमेति । ननु इति कोमलामन्त्रणे । विस्मृतं मयेति शेषः । यथा
गङ्गाकनकपङ्कजे स्थिता विहगी सहचरं भृङ्गमुपादाय खमुड्डीना तथा
सा मामुपादाय खमुड्डीनेति परेण सहान्वयः ॥ ४ ॥
भृङ्गं शृङ्गवतः शृङ्गे गङ्गाकनकपङ्कजे ।
अहमासं समाः सप्त तत्क्लिन्नोऽकर्दमाप्लुते ॥ ५ ॥
तेन जलेन क्लिन्नोऽहं तदनन्तरमकर्दमाप्लुते निर्मले मन्दरशृङ्गे सप्त
समास्तया सह आसम् ॥ ५ ॥
अन्यन्मया जगद्दृष्टमृक्षचक्रविवर्जितम् ।
गर्भगर्भस्थैकजातिस्वप्रकाशजनावृतम् ॥ ६ ॥
ततो जन्मान्तरे साश्चर्यजगदन्तरदर्शनमाह - अन्यदिति । ऋक्षचक्रेण
ज्योतिश्चक्रेण विवर्जितम् । कदलीत्वच इव गर्भस्य गर्भे स्थिता एकजातयः
स्वप्रकाशाश्च ये जनास्तैरावृतम् ॥ ६ ॥
न दिग्विभागो न दिनानि यत्र न चैव शास्त्राणि न वेदवादाः ।
न चैव दैत्यादिसुरादिभेदो जगन्मया तादृगथात्मदीप्तम् ॥ ७ ॥
तर्हि तत्र कथं लौकिकवैदिकव्यवहारप्रवृत्तिस्तत्राह - नेति । आअत्मनैव दीप्तं
प्रकाशमानम् ॥ ७ ॥
विद्याधरामरविहारविमानभूमावभ्रंलिहाचलनितम्बकदम्बकच्छे ।
आसं समाः समरसोऽमरसोमनामा सप्तान्यसप्त ससमुद्रतटे तपस्वी ॥ ८ ॥
ततो जन्मान्तरमाह - विद्याधरेति । ससमुद्रतटे समुद्रतटसन्निहिते
अभ्रंलिहानामत्युन्नतानामचलानां नितम्बकदम्बकच्छे अहं अमरसोमनामा
विद्याधरः सप्त अन्यत् सप्त चतुर्दशसमास्तपस्वी आसम् ॥ ८ ॥
पवनवहनसन्निवेशनानासुहयपयोधरदेहकैरनेकैः ।
गजहरिणमृगेन्द्रवृक्षवल्लीमृगनगपन्नगपक्षिभिः परीतम् ॥ ९ ॥
ततोऽहं वह्नेर्वरविभवेन जगति अभितः अविद्यां दिदृक्षुः सन् क्वचित्
पवनवद्वहनं प्रवाहरूपेण गमनं तद्युक्तक्रमसन्निवेशैर्नानाविधा ये
सुहया जात्यश्वाः पयोधरामेघा इव च देहा येषां
तथाविधैर्जनैर्गजैर्हरिणैर्मृनेन्द्रैर्वृक्षैर्वल्लीभिरन्यैश्च मृगैर्नगैः
पर्वतैः पन्नगैः पक्षिभिश्च परीतमनन्तकोशं गगनमवनितः समेत्य
उरगाशनो गरुडस्तद्वद्बलात् वेगेनाग्रे सृतः प्रसृत इति द्वयोरन्वयः ॥ ९ ॥
गगनमवनितः समेत्य वह्नेर्वरविभवेन जगत्यनन्तकोशम् ।
क्वचिदहमभितो दिदृक्षुरग्रे सृत उरगाशनवद्बलादविद्याम् ॥ १० ॥
क्वचिदहं जगतः परिनिर्गतः पतित एकमहार्णवविस्तृते ।
नभसि तत्र निवासिनिभे सितः समयमन्वभवं पतनं तथा ॥ ११ ॥
तस्माज्जगतः परिनिर्गतोऽहं क्वचिदेकमहार्णववद्विस्तृते नभसि पतितः । तत्र
निवासिनिभे नक्षत्रगणे सितो बद्धः सन् दिनरात्रिमासर्त्वादिसमयमन्वभवम् । तथा
दिक्षु पतनं गमनं चान्वभवम् ॥ ११ ॥
आकाशकोशपतनानुभवैकवृत्तेः श्रान्तस्य मे पदमकार्यथ निद्रयान्तः
।
तादृक्सुषुप्तवपुषाथ मयोपलब्धं स्वप्नात्मजाग्रति तदात्मनि तत्र विश्वम्
॥ १२ ॥
वर्णितेन प्रकारेण आकाशकोशे पतनस्य गमनस्यानुभवनमेवैका मुख्या
वृत्तिर्यस्य तथा चिरपतनेन श्रान्तस्य मे अथानन्तरं निद्रया अन्तर्हृदि पदं
स्थानमकारि । तादृशा सर्वजनप्रसिद्धेन सुषुप्तवपुषा स्थितेन मया अथ
अनन्तरं प्रवृत्ते स्वप्नात्मके जाग्रति तदा तत्र अन्तरेव आत्मनि
स्वस्मिन्विश्वमुपलब्धं दृष्टम् ॥ १२ ॥
भूयो दिगन्तभुवनामरमन्दराद्रिसंसारचञ्चलतया लतयेव पक्षी ।
अक्षीणवातबलया परिचाल्यमानस्तन्मासु तासु पतितो हि जगद्गुहासु ॥ १३ ॥
तत्रापि भूयो दिगन्तभुवनादिसंसारेण चञ्चलतया अक्षीणवातबलया लतया पक्षीव
परिचाल्यमानोऽहं तासु पूर्वसङ्कल्पितासु तेषां दृश्यानां मानानि माः इयत्तया
परिच्छेदास्तल्लक्षणासु जगद्गुहासु पतितः ॥ १३ ॥
विषयाशा दृशो यावत्तावद्यातः क्षणादहम् ।
पुनस्तथैव पश्यंस्तु दृश्यं यातः पुनः पुनः ॥ १४ ॥
दृशश्चक्षुषो यावत्पर्यन्तं विषयाशा प्रसृता अहं तावत्प्रदेशपर्यन्तं
क्षणाद्यातः पुनरपि तथैव पश्यन् सन् तद्दर्शनकौतुकेन पुनःपुनर्दृश्यं
यातोऽस्मीत्यर्थः ॥ १४ ॥
इति दृश्यमदृश्यं च गम्यं चागम्यमेव च ।
वेगाल्लङ्घयतो देशं मम वर्षगणा गताः ॥ १५ ॥
इति एवंरीत्या जागरेषु स्वप्नेषु च द्रष्टुं शक्यं दृश्यं तद्भिन्नमदृश्यं च
विषयमुद्दिश्य गम्यमगम्यं च देशं वेगाल्लङ्घयतो मम वर्षगणा बहवो
गताः ॥ १५ ॥
दृश्याख्याया अविद्याया न त्वन्तं प्राप्तवानहम् ।
मिथ्यैव हृदि रूढायाः पिशाच्या इव बालकः ॥ १६ ॥
नेदं नेदं सदित्येव विचारानुभवे स्थितम् ।
तथापीदमिदं चेति दुर्दृष्टिर्न निवर्तते ॥ १७ ॥
यद्यपि मया नेदं सत् नेदं सदिति विचारानुभवे स्थितं तथापि इदं सत्यमिदं च
सत्यमिति प्रतिविषयं दुर्दृष्टिर्न निवर्तते चिराभ्यस्तद्वैतसत्यतासंस्कारस्य
प्रबलत्वादिति भावः ॥ १७ ॥
प्रतिक्षणं सुखैर्दुःखैर्देशकालैः समागमैः ।
सरिद्वारिवदालोला नवमायान्ति यान्ति च ॥ १८ ॥
विचारेण निरस्ता अपि दुर्दृष्टयः प्रतिक्षणं प्रसक्तैः
सुखैर्दुःखैर्देशकालभेदैरिष्टानिष्टजनसमागमैश्च सरिद्वारिवत् नवं
नवमायान्ति ॥ १८ ॥
तालीतमालबकुलातुलतुङ्गशृङ्गमुन्नादवातजवमेकमहं स्मरामि ।
सूर्यादिभिर्विरहितं प्रकटं स्वकान्त्या सस्थावराद्रितटजङ्गममेव विश्वम्
॥ १९ ॥
तत्रैकमाश्चर्यं स्मृतमाह - तालीति । तच्च शृङ्गं सूर्यादिभिर्विरहितमपि
स्वकान्त्या प्रकटं भासमानम् । विश्वं तु तस्य शृङ्गस्य
स्थावरैरद्रितटैर्जङ्गमैश्च सहितं यत्सानु तत्स्थानीयमिति सर्वाधिष्ठानं
ब्रह्मैवात्राश्चर्य शृङ्गं निर्दिष्टम् ॥ १९ ॥
यदेतदेकान्तविहारहारि स्वच्छन्दमेकामितमस्तशङ्कम् ।
क्वचिन्मया चारुजगत्सु दृष्टं तुल्या न तस्यामरराजलक्ष्मीः ॥ २० ॥
यदेतच्छृङ्गमेकान्ते विहारो येषां तत्त्वविदां तेषां हारि मनोहरं
स्वच्छन्दमेकममितमस्तविकारशङ्कं चेति त्रिविधपरिच्छेदशून्यं तच्च
क्वचिच्चारुजगत्सु ब्रह्मविन्मण्डलीषु दृष्टम् । अमरराजस्येन्द्रस्य हिरण्यगर्भस्य
च लक्ष्मीस्तस्य तुलया सम्मिता तुल्या न । हैरण्यगर्भान्तानन्दानां परिमितत्वादिति
भावः ॥ २० ॥
इत्यार्षे श्रीवासिष्ठमहा० वा० दे० मो० नि० उ० अवि० वि० भासवर्णितस्वजन्मपरम्परा
नाम द्वात्रिंशाधिकशततमः सर्गः ॥ १३२ ॥
इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे निर्वाणप्रकरणे उत्तरार्धे
भासवर्णितखजन्मपरम्परा नाम द्वात्रिंशाधिकशततमः सर्गः ॥ १३२ ॥