१३१

एकत्रिंशदधिकशततमः सर्गः १३१

दशरथ उवाच ।

क्लिष्टोऽयं यदविद्यार्थं विपश्चिदविपश्चितः ।
तदहं चेष्टितं मन्ये कष्टोऽवस्तुनि किङ्ग्रहः ॥ १ ॥

वटधानाराजपुत्रकथामुक्त्वा प्रचोदितः ।
कौशिकेन विपश्चित्स्वां भ्रान्तिं विस्तरतोऽब्रवीत् ॥

अयं विपश्चिदविद्यार्थ दिगन्तदर्शनलक्षणामपुरुषार्थरूपामविद्यामुद्दिश्य
यत्क्लिष्टः क्लेशाननुभूतवांस्तत्सर्वमहमविपश्चितः अज्ञस्य
आत्मज्ञानशून्यस्यास्य भ्रान्तिरूपं वृथा चेष्टितं मन्ये । यतः अवस्तुनि
मिथ्याभूते दिगन्तदर्शनादिकौतुके कुत्सितो ग्रहः किङ्ग्रहोऽवश्यं साधयामीति
दुराग्रहः कष्टः क्लेशफल इत्यर्थः ॥ १ ॥

श्रीवाल्मीकिरुवाच ।

अस्मिन्नवसरे तत्र राज्ञः पार्श्वे व्यवस्थितः ।
प्रसङ्गपतितं वाक्यं विश्वामित्रोऽभ्युवाच ह ॥ २ ॥

राजवाक्यश्रवणादद्बुद्धवटधाना राजपुत्रकथासंस्कारो विश्वामित्रः
प्रस्तुतविपश्चिद्वृत्तान्तवर्णनप्रयोजनदार्ढ्यहेतुत्वादुपेक्षानर्हा तां
कथामाहेति वाल्मीकिराह - अस्मिन्निति ॥ २ ॥

अप्राप्तोत्तमबोधानां बोधवेद्या विलक्षणाः ।
भवन्त्येवंविधा राजन्बहूनां बहवो भृशम् ॥ ३ ॥

हे राजन् त्वया सम्यगेवोक्तं यतो न प्राप्त उत्तमबोधस्तत्त्वज्ञानं
यैस्तथाविधानां बहूनामेवंविधा विलक्षणा विचित्रा बहवो भ्रान्तिरूपा
बोधास्तद्वेद्या वासनामया अनन्तकोटिजगद्रूपा अर्थाश्च भृशं भवन्तीति
वक्ष्यमाणकथापीठिकारचनम् ॥ ३ ॥

अद्य सप्तदशं वर्षलक्षमक्षीणनिश्चयाः ।
एवमेव भ्रमन्तोऽस्यां वटधाना भुवि स्थिताः ॥ ४ ॥

तत्र कथां प्रस्तौति - अद्येत्यादिना । वक्ष्यमाणायां भुवि वटधानाख्या
राजपुत्रा अपि एवं विपश्चिद्वदेवाद्यपर्यन्तं सप्तदर्शं वर्षलक्षं भ्रमन्तः
स्थिता वर्तन्ते ॥ ४ ॥

भूमेरन्तावलोकार्थमद्याप्युद्वेगवर्जितम् ।
प्रवृत्ता न निवर्तन्ते वहनात्सरितो यथा ॥ ५ ॥

अयं खलु महालोको वर्तुलो व्योम्नि संस्थितः ।
बालसङ्कल्पतरुवद्ब्राह्मसङ्कल्पनिश्चयः ॥ ६ ॥

तामेव भुवं वर्णयितुं प्रस्तौति - अयमिति । अयं प्रसिद्धः
पातालभूम्यादिचतुर्दशलोकघटितत्वान्महान् लोको भुवनसमष्टिः भूवदेव
वर्तुलैरन्तरिक्षलोकैर्वर्तुलः सन् भूमेः परितो व्योम्नि संस्थितः । स च ब्राह्मो
हैरण्यगर्भः सङ्कल्पनिश्चय एव नान्यो निरूपयितुं शक्यः । अयं भूगोललक्षणो
महान्तो लोकाश्चतुर्दशभुवनाश्रिता जना यस्मिन् यदाधारास्तथाविधः खलु
ज्योतिःशास्त्रप्रसिद्धो व्योम्नि आकाशे बालसङ्कल्पतरुवत्संस्थितो यतोऽयमपि ब्राह्मः
सङ्कल्पनिश्चय एवेत्यर्थः ॥ ६ ॥

कन्दुके व्योम्नि संरुद्धे दशदिक्कं पिपीलिकाः ।
इत्थं भ्रमन्ति भूतानि तदाधाराणि नित्यदा ॥ ७ ॥

तस्य निराधारस्य कथं जनाधारत्वं तत्राह - कन्दुके इति । यथा मध्वक्ते
कन्दुके दशदिक्कं पिपीलिका भ्रमन्ति इत्थमेवं तस्मिन्परितस्तदुपजीवीनि भूतानि
दशदिक्कं भ्रमन्तीत्यर्थः ॥ ७ ॥

भूगोलकाधोभागानि तदङ्गान्यूर्ध्ववन्ति च ।
तदा भूतानि तिष्ठन्ति तान्याविश्य भ्रमन्ति च ॥ ८ ॥

यानि भूगोलकस्याधोभागगतानि यानि च ऊर्ध्ववन्त्युपरितनानि तदङ्गानि
तान्याविश्य यदा यत्र यानि भूतानि तिष्ठन्ति तदा तानि तत्र भ्रमन्ति च ॥ ८ ॥

तमेवाविश्य दूरेण सरितश्चर्क्षमण्डलम् ।
असंस्पर्शा भ्रमन्त्युच्चैः सचन्द्रार्कादि सन्ततम् ॥ ९ ॥

अन्तरिक्षवहा मन्दाकिन्यादिसरितो ज्योतिश्चक्ररूपमृक्षमण्डलं च तं
भूगोलमेव दूरेण वायुबन्धनवशादाश्रित्य असंस्पर्शा उच्चैर्भ्रमन्ति ।
स्त्रीशेषश्छान्दसः ॥ ९ ॥

इहैव सर्वदिक्कं द्यौस्तामावेष्ट्य व्यवस्थिता ।
सर्वदिक्कं खमत्यूर्ध्वं तस्याधस्तान्महीतलम् ॥ १० ॥

तां सज्योतिश्चक्रां भुवमावेष्ट्य द्यौरिह अस्यामेव भुवि व्यवस्थिता । तत्र च खं
सर्वासु दिक्षु ऊर्ध्वमेव महीतलं च सर्वाधस्तादेवेत्यर्थः ॥ १० ॥

भावाः पतन्तो धावन्ति तस्याधः सर्वतोङ्गकम् ।
यत्रोत्पतन्तो गच्छन्ति तदूर्ध्वमिति शब्दितम् ॥ ११ ॥

ननु भूगोलाधस्तनस्य खस्य कथमूर्ध्वत्वं तदपेक्षया महीतलस्य
कथमधस्तात्त्वं तत्राह - भावा इति । तस्य महीतलस्याधो ये भावाः पदार्थाः
सञ्चरन्ति ते तस्य सर्वतोङ्गकमवयवं तत्तत्प्रदेशे पतन्तः प्राप्नुवन्त एव
गच्छन्ति सञ्चरन्ति । यत्र यस्मिन्नभसि पक्ष्यादय उत्पतन्तो गच्छन्ति तत्तत्र
ऊर्ध्वमित्येव शब्दितं न त्वध इति तिर्यगिति वेत्यर्थः ॥ ११ ॥

तत्रैकदेशे विद्यन्ते वटधानाभिधानकाः ।
जातास्तेषां त्रयो राजन् राजपुत्राः पुराभवन् ॥ १२ ॥

तत्र तस्मिन्भूगोलके एकदेशे क्वचिद्वटधानाभिधानका देशा वा तदधीश्वराः
क्षत्रियाश्च विद्यन्ते । तेषां कुले त्रयो राजपुत्राः पुरा जाता अभवन् ॥ १२ ॥

ते ह्येवमेकसङ्कल्पा भूम्यादेर्दृश्यवर्त्मनः ।
कोऽन्तः स्यादिति निर्याता विहर्तुं दृढनिश्चयाः ॥ १३ ॥

ते राजपुत्र्रा एवं विपश्चिद्वदेव दृश्यवर्त्मनो भूम्यादेर्जगतः कोऽन्तः स्यात्तं
द्रक्ष्याम इत्येकसङ्कल्पा दृढनिश्चयाश्च सन्तस्तद्दर्शनाय निर्याताः ॥ १३ ॥

पुनर्वारि पुनर्भूमिस्तेषामाक्रमतां चिरम् ।
नवलब्धशरीराणां दीर्घकालो व्यवर्तत ॥ १४ ॥

द्वीपसमुद्रभेदेषु पुनःपुनर्वारि पुनर्भूमिरिति क्रमेण आक्रमतां मध्ये मध्ये
मरणेन नवानि लब्धानि शरीराणि यैस्तथाविधानां तेषां दीर्घकालो
व्यवर्ततेत्यर्थः ॥ १४ ॥

स्वच्छकन्दुकवम्रीकन्यायेनानिशमत्र ते ।
भ्रमन्तो नाप्नुवन्त्यन्तमन्यत्वं संविदन्ति च ॥ १५ ॥

स्वच्छे कन्दुके संलग्ना ये वम्रीकीटास्तन्न्यायेन भ्रमन्तस्ते । वल्मीकन्यायेन इति
पाठे वल्मीकपदेन तन्निर्मातारो वम्रीकीटा एव लक्ष्यन्ते । अन्यत्वं देशान्तरत्वम् ॥
१५ ॥

व्योमस्थकन्दुकभ्रान्तपिपीलिकवदाकुलम् ।
अद्यापि संस्थिता राजन्न च खेदं व्रजन्ति ते ॥ १६ ॥

देशं भूगोलकस्यास्य यं यमासादयन्ति च ।
इहेव तत्र तत्रोच्चैरधश्चोर्ध्वं तथा दिशः ॥ १७ ॥

यं यमधस्तनं पार्श्वगतं वा आसादयन्ति । दिशः पश्यन्तीति शेषः ॥ १७ ॥

ते वदन्ति महाराज यद्यस्माभिरितोद्यतैः ।
न तावदन्तः सम्प्राप्तः सञ्चराम इतः परम् ॥ १८ ॥

इतोद्यतैः प्राप्तोद्योगैः ॥ १८ ॥

इत्थं न किञ्चिदेवेदं ब्रह्मसङ्कल्पडम्बरम् ।
किञ्चित्सङ्कल्पमज्ञानमनन्तं स्वप्नदृश्यवत् ॥ १९ ॥

कथामुपसंहृत्य प्रकृते योजयति - इत्थमिति ॥ १९ ॥

कल्पनं तत्परं ब्रह्म परं ब्रह्मैव कल्पनम् ।
चिद्रूपं नान्योर्भेदः शून्यत्वाकाशयोरिव ॥ २० ॥

सङ्कल्पकल्पनस्य चिदधिष्ठानकत्वाच्चिन्मात्रं तत्त्वमिति व्यतिहारेण द्रढयति ##-

चिन्मात्रं यद्यदाभातं जलवाहविवर्तवत् ।
तत्तादृक्कथमन्याभमन्यस्यासम्भवाद्भवेत् ॥ २१ ॥

जलस्य वाहः प्रवाहस्तत्रत्यावर्ततरङ्गबुद्बुदादिविवर्तवत् । आवर्तादौ
नाभीकुहरादिसादृश्यात्कथञ्चिदन्याभतापि भवेत् इह तु सदृशस्य विसदृशस्य
चान्यस्यात्यन्तासम्भवादन्याभमपि कथं भवेदित्यर्थः ॥ २१ ॥

अभावः खे च खमिदं सर्गादौ परमाम्बरम् ।
स्वयं जगदिवाभाति नान्यत्प्रलयसर्गकौ ॥ २२ ॥

इदं जगत्सर्गस्यादौ अभावः अतः खं शून्यमेवेति तदा परमाम्बरं
ब्रह्माकाश एवेति तावदविवादम् । तथा च तदेव स्वयमिदानीमपि जगदिवाभातीति
दृष्टौ प्रलयसर्गकौ अन्यन्न ॥ २२ ॥

यथा कषति चिद्रूपं तथैव रतिमेत्य तत् ।
दृष्टादृष्टैः स्वसंसारैश्चिरमास्ते यथा चिरम् ॥ २३ ॥

तच्च चिद्रूपं कामकर्मवासनानुसारेण यथा यथा कषति कल्पनामालिङ्गति तथैव
तत्र रतिमासक्तिमेत्य
दृष्टादृष्टैर्वेद्यावेद्यैर्जडचिद्रूपैरन्योन्यतादात्म्याध्यस्तैः
स्वसंसारैर्यथा प्राक्चिरमासीत्तथाग्रेऽपि चिरमास्ते ॥ २३ ॥

दृश्यात्मकं रूपमेकमेकमस्यैवमक्षयम् ।
स्वयमेवमजं भाति यन्न भातीव किञ्चन ॥ २४ ॥

दृष्टादृष्टरूपते तयोर्विवृण्वन् द्वितीयस्याक्षयत्वं दर्शयति -
दृश्यात्मकमिति ॥ २४ ॥

चिदणोरुदरे सन्ति समस्तानुभवाणवः [अनुभवार्णवाः इति पाठश्चिन्त्यः
।] ।
शिलाः शैलोदर इव स्वच्छाः खात्मनि खात्मिकाः ॥ २५ ॥

चिदणोरुदरे तत्तदाकारवासनावच्छिन्ना जगदनुभवाणवस्तिष्ठन्तीत्याह -
चिदणोरिति ॥ २५ ॥

स्वभावनिष्ठास्तिष्ठन्ति [अत्र स्वभावभूता इति पाठो व्याख्यानुकूलः स्यात्
।] ते यदव्याकृतात्मनि ।
मा तिष्ठन्ति तु वै ते यदव्यावृत्ताः परे पदे ॥ २६ ॥

किं शुद्धचिदणोरुदरे नेत्याह - स्वभावेति । स्वभाव आवृतात्मस्वरूपं
तद्भूताः । परे पदे निरविद्ये चैतन्ये तु मा तिष्ठन्ति न सन्त्येव । यतस्तत्र
व्यावर्त्यरूपान्तरा प्रसिद्धेरव्यावृत्ता अत्यन्ताभिन्ना एव स्युरित्यर्थः ॥ २६ ॥

तदेव जगदित्युक्तं ब्रह्म भारूपमाततम् ।
पूर्वापरपरामर्शान्निपुणं निपुणाशयाः ॥ २७ ॥

यतस्तत्राव्यावृत्तास्ततस्तदेव जगन्नेतरदिति निपुणं पूर्वापरपरामर्शान्मयोक्तम्
। हे निपुणाशयाः ॥ २७ ॥

अत्याश्चर्यमनष्टोऽयं परमात्सदनात्स्वयम् ।
नानात्वबुद्ध्या नानैव जीवोऽहमिति ताम्यति ॥ २८ ॥

एवं शुद्धचिदैक्ये परमात्सदनान्न नष्टः अप्रच्युतोऽप्ययं जीवो नानात्वबुद्ध्या
जीवोऽहमिति यत्ताम्यति ग्लायते तदत्याश्चर्यमित्यन्वयः ॥ २८ ॥

उच्यतां भास भो राजन्विपश्चिदपराख्य हे ।
कियद्दृष्टं कियद्भ्रान्तं दृश्यं स्मरसि किं च वा ॥ २९ ॥

इत्थं वसिष्ठोक्तं विपश्चिच्चरितं स्वोक्त्या संवाद्य भासमुखोक्त्यापि
संवादयितुं विश्वामित्र उवाच - उच्यतामिति । हे विपश्चिदपराख्य हे भास त्वया
कियद्दृश्यं दृष्टं कियच्च भ्रान्तं तत्र किं च वा स्मरसि तत्किञ्चित्सङ्क्षिप्य
उच्यताम् ॥ २९ ॥

भास उवाच ।

बहु दृष्टं मया दृश्यं बहु भ्रान्तमखेदिना ।
बह्वेव बहुधा नूनमनुभूतं स्मराम्यहम् ॥ ३० ॥

मयाअनुभूतानि महान्ति राजंश्चिरं सुदूरे विविधैः शरीरैः ।
सुखानि दुःखानि जगन्त्यनन्तान्यनन्तमासाद्य महाम्बरं तत् ॥ ३१ ॥

तन्महाम्बरमव्याकृताकाशमासाद्य ॥ ३१ ॥

विचित्रदेहैर्वरशापयोगाद्दृश्यान्यनन्तानि मया महात्मन् ।
जन्मान्तरावर्तविवर्तनानि दृढैकचित्तेन वरात्कृशानोः ॥ ३२ ॥

मया कृशानोर्वराद्दिगन्तदर्शनविषये दृढैकचित्तेन जन्मान्तरावर्तेषु
विवर्तनानि तत्रानन्तानि दृश्यान्यनुभूतानीत्यनुषज्जते ॥ ३२ ॥

दृश्यात्मकोर्वीवपुषस्त्वविद्यादृशो जवेनान्तपरीक्षणाय ।
देहेन देहेन जगत्प्रति प्राक् स्मृतेः सदाहं घनयत्नमासम् ॥ ३३ ॥

अहं प्रतिब्रह्माण्डं देहेन देहेन अनानादेहभेदेन भ्रमन्नपि
प्राक्तनदृढनिश्चयस्मृतेर्हेतोर्दृश्यात्मकोर्व्यादिस्वरूपाया अविद्यादृशः
अन्तपरीक्षणाय जवेन घनयत्नन्न् यथा स्यात्तथा आसं अभवमित्यर्थः ॥ ३३ ॥

समाः सहस्रं विटपोऽहमासमन्तर्मनाश्चेतनभुक्तदुःखः ।
चित्तं विना पुष्पफलप्रताने वा कन्दवत्तत्तरसाङ्गरागः ॥ ३४ ॥

ततः अहं तस्य चित्तस्य तरसा मृतिकाले तरुदर्शनप्रयुक्तसंस्कारवेगेन अङ्गे
देहग्रहणे रागो यस्य तथाविधः सन् सहस्रं समाः विटपः । अकारो मत्वर्थीयः ।
विटपी आसम् । स कीदृशः । बहिःप्रवृत्तिनिमित्तप्राणचेष्टानाविष्करणादन्तरेव
मनो यस्य । चेतनेन वृक्षदेहाभिमानिजीवेन भुक्तं दुःखं यत्र । तथा
पूर्वापरपरामर्शहेतुं चित्तं विना पुष्पफलादीनां प्रताने जननविस्तारे वा
कन्दःकन्दविशेषस्तद्वद्भौमरसकालादितन्त्र इत्यर्थः ॥ ३४ ॥

समाः शतं मेरुमृगोऽहमासं सुवर्णवर्णस्तरुपर्णकर्णः ।
दूर्वाङ्कुरास्वादनगीतिनिष्ठ अहन्कनिष्ठो वनवासिमध्ये ॥ ३५ ॥

दूर्वाङ्कुराणामास्वादने गीतिषु च निष्ठा दृढासक्तिर्यस्य । वनजातानां
मृगाणां मध्ये कनिष्ठः अल्पदेहोऽल्पबलश्च । अत एव कमपि अहन् अहिंसन् ॥ ३५ ॥

पादाष्टकैरावलितात्मपृष्ठो मृतेऽम्भसः क्लेशकृतात्ममृत्युः ।
समाः शतार्धं शरभोऽहमासं क्रौञ्चाचले काञ्चनकन्दरासु ॥ ३६ ॥

शरभजातेः पृष्ठतोऽपि पादचतुष्टयेन सञ्चारादिसामर्थ्ये उदरप्रदेशस्यापि
पृष्ठत्वसम्भवात्पादाष्टकैरावलिते आत्मनः पृष्ठे यस्य । मृते मरणे
प्रसक्ते तु गर्जन्मेघनिर्गतात्करकाम्भसो निमित्तान्मेघेन सह योद्ध्रुं
गिरिशिखरादुत्पतनपतनादिक्लेशेनैव कृत आत्ममृत्युर्यस्य ॥ ३६ ॥

कालागुरुद्रुमलतावलितानिलेन विद्याधरीसुरतधर्मकलामृतानि ।
पीतानि मे मलयसानुनि मन्दरे च मन्दारचन्दनकदम्बलतागृहेषु ॥ ३७ ॥

ततो मे इति कर्तुः शेषत्वे षष्ठी । विद्याधरजन्म प्राप्तेन मया मलयसानुनि मन्दरे
च कालागुरुद्रुमाणां लताभिर्वलितेनालिङ्गितेन अत एव शीतमन्दसुरभिणा अनिलेन
सह विद्याधरीणां सुरतधर्मेषु तदीयकलालक्षणान्यमृतानि पीतान्यनुभूतानि ॥
३७ ॥

हेमारविन्दमकरन्दपिशङ्गितानि पीतानि पञ्चदशवर्षशतानि मेरौ ।
वैरिञ्चहंसतनयेन मया पयांसि तीरान्तरेषु रमतोपरि निर्झरिण्याः ॥ ३८ ॥

विरिञ्चहंसस्य तनयेन पुत्रजन्मप्राप्तेन मया मेरोरुपरि निर्झरिण्या
मन्दाकिन्यास्तीरान्तरेषु रमता हेमारविन्दानां मकरन्दैः पिशङ्गितानि
पि"गलवर्णीकृतानि पयांसि पीतानि ॥ ३८ ॥

क्षीरोदवेलावनगन्धवाहविलोलनीलालकवल्लरीणाम् ।
समाः शतं शोकजरापहारि गीतं श्रुतं माधवसुन्दरीणाम् ॥ ३९ ॥

कालञ्जरे मञ्जरिते करञ्जगुञ्जावने जम्बुकतां गतोऽहम् ।
गजेन पिष्टे हरिणा हतोऽसौ हस्ती मयात्रार्थमृतेन दृष्टः ॥ ४० ॥

ततोऽहं कालञ्जरे गिरौ करञ्जगुञ्जाप्रचुरे वने जम्बुकतां सृगालजन्म गतः
प्राप्तः । तत्रापि गजेन पिष्टे सञ्चूर्णिते स्वदेहे सत्यर्धमृतेन मया असौ मत्पेष्टा
हस्ती हरिणा सिंहेन हतो दृष्टः ॥ ४० ॥

सन्तानकप्रकरहासिनि सह्यसानौ कस्मिंश्चिदन्यजगतीन्दुमुखी सुरस्त्री ।
एकाकिनी कृतयुगार्धमथाहमासं कल्पद्रुमस्तबकसद्मनि सिद्धशापात् ॥
४१ ॥

अथ सन्तानकानां कल्पवृक्षभेदानां प्रकरैर्हासिनि हासवतीव शोभमाने
सह्यगिरेः सानौ अहमिन्दुमुखी सुरस्त्री कृतयुगस्यार्थ सिद्धशापादासम् ॥ ४१ ॥

अद्रीन्द्रकच्छकरवीरलतालयेषु नीतं समाशतमशङ्कधिया मयान्यत् ।
अन्यत्र दूरजगतीन्द्रगिरौ विराविवाल्मीकपक्षिवपुषाऽनिशमेककेन ॥ ४२ ॥

ततो मया अद्रीन्द्रस्य सन्निधानात्सह्यस्य कच्छे जलप्राये प्ररूढानां
करवीराणां लताः शाखास्तदन्तरप्रदेशेषु विरावी सदैवरवणशीलो वाल्मीकनामा
पक्षिजातिभेदस्तद्वपुषा समानां शतं नीतम् । ततः करवीरवने
सहभार्यापुत्रादिभिरुच्छिन्ने सति अन्यत्र दूरस्थे जगति इन्द्रगिरौ महेन्द्रपर्वते
भृशं वियोगार्तेनैककेन शेषं वयो नीतम् ॥ ४२ ॥

अन्यत्र सानुनि मया परिलम्बमानाः सच्छायचन्दनवनावलिते लतानाम् ।
दृष्टाः स्त्रियः फलमिवावलिता विलासैर्भुक्ताश्च ता अपहृता अपि
सिद्धपान्थैः ॥ ४३ ॥

एवं जन्मद्वयेन सिद्धशापमोक्षानन्तरं सिद्धानुग्रहादेव सिद्धभूतेन मया
महेन्द्रगिरेरेव सच्छायचन्दनवनावलिते अन्यत्र सानुनि लतानां दोलासु तत्फलमिव
परिलम्बनाविलासैरावलिताः स्त्रियो दृष्टाः सिद्धपान्थैरपहृता अपि ता भुक्ताश्च ॥
४३ ॥

अन्यत्र पर्वतनितम्बकदम्बकच्छे नीतानि तापसतयोत्तमया दिनानि ।
प्राप्यैकवस्त्वभिनिवेशविषूचिकात्तचित्तेन तान्तमतिनाऽमतिना मयान्तः ॥ ४४ ॥

तदनन्तरममतिना अविवेकेन एकवस्तुनि अविद्यान्तदर्शनलक्षणे
योऽभिनिवेशस्तल्लक्षणया विषूचिकया आत्तं वशीकृतं चित्तं यस्य तथाविधेन अत
एव तान्ता ग्लाना मतिर्यस्य तथाविधेन मया अन्तर्निर्वेदं प्राप्य अन्यत्र
पर्वतनितम्बकदम्बकच्छे तापसतया दिनानि नीतानि ॥ ४४ ॥

ब्रह्माण्डसम्पूरितमन्यदस्ति जलेचराशेषदिगन्तभूतम् ।
सन्दिग्धतेजोम्बरवातसत्तं जलस्थभूताकृतिमात्रभूमि ॥ ४५ ॥

इत्थं स्वजन्मपरम्परावर्णनान्तराले बलात्स्मृतान्यत्याश्चर्याणि
कानिचिदुत्कण्ठया वक्तुमारभते - ब्रह्माण्डेत्यादिना । हे मुने
अन्यदेकमत्याश्च्र्यमस्ति तच्छृणु । कीदृशं तत् । ब्रह्माण्डैरनन्तैः सम्पूरितम्
। जलेचरा इवाशेषदिगन्तस्थितानि भूतानि यत्र तथाविधम् । जलेचरा इवेति
दृष्टान्ततात्पर्य विवृण्वन्विशिनष्टि - सन्दिग्धेति । सन्दिग्धा
तेजोम्बरवाताख्यानां त्रयाणां महाभूतानां सत्ता यस्मिन् । जलस्थं जले
प्रतिबिम्बितं भूतमिवाकृतिर्यस्यास्तथाविधाकृतिमात्रा भूमिर्यस्मिन् ।
तदिदमीषद्व्याकृतनामरूपावस्थं ब्रह्मैवात्याश्चर्यमस्तीत्यर्थः ॥ ४५ ॥

एकत्र दृष्टा वनिता मयैका तस्याः शरीरे त्रिजगन्ति भान्ति ।
प्रतिबिम्बितानीव सुदर्पणेऽन्तराकाशशैलादिदिगादिमन्ति ॥ ४६ ॥

तच्चाश्चर्य कलधौतशिलान्यायेन वनिताशरीरादिसर्वपदार्थेष्वपि सर्वजगद्गर्भं
प्रत्येकं पर्याप्तमस्तीत्येतत्तत्राश्चर्यान्तरं मया दृष्टमिति वक्तुं
काञ्चिद्वनितामुदाहरति - एकत्रेति । तस्या वनितायाः शरीरे सुदर्पणे अन्तः
प्रतिबिम्बितानीव आकाशशैलादिसहितदिक्कालप्राण्यादिमन्ति त्रिजगन्ति भान्ति
तदत्यन्तमाश्चर्यमित्यर्थः ॥ ४६ ॥

पृष्टा मयासौ वरगात्रि कासि शरीरमेतच्च किमीदृशं ते ।
तयोक्तमङ्गेह चिदस्मि शुद्धा ममाङ्गमेतानि महाजगन्ति ॥ ४७ ॥

अथ सा वनिता मया पृष्टा । हे वरगात्रि त्वं कासि । ते एतच्छरीरमीदृशं
त्रिजगद्घटितं किमिति । ततस्तया मां प्रत्युक्तम् । हे अङ्ग इहास्मिन्वस्तुजाते या शुद्धा
चित् सर्वावभासिका साहमस्मि । इमानि च महाजगन्ति मम अङ्गं मूर्तामूर्तात्मकं
शरीरम् । द्वे वाव ब्रह्मणो रूपे मूर्त चैवामूर्त च यस्य सर्वाणि भूतानि शरीरम्
इत्यादिश्रुतेरिति भावः ॥ ४७ ॥

यथाहमेवं स्मयदेहिकेयं सर्वं तथैवाङ्ग न चित्रमेतत् ।
अन्यैः स्वभावो विदितो न शुद्धो यदा न पश्यन्ति तदेत्थमङ्ग ॥ ४८ ॥

हे अङ्ग इयं त्वद्दृष्टा अहं यथा जगद्घटितत्वात्स्मयो विस्मय आश्चर्य
तद्योग्यदेहवती तथा इदं सर्वमेतत्स्तम्भकुम्भादिवस्तुजातमपि
सर्वजगद्घटितत्वाद्विचित्रमत्याश्च्र्यभूतमेव । तर्हि अन्यैः पृथग्जनैरपि सर्व
वस्तु इत्थं कुतो न दृश्यते तत्राह - अन्यैरिति । यदा इत्थं स्वभावः प्रतिवस्तु न
विदितस्तदा इत्थं न पश्यति । यदा त्वातिवाहिकमात्रभावदृढीकारे विदितो भविष्यति
तदा द्रक्ष्यन्त्येव तेऽपीति भावः ॥ ४८ ॥

अवेदशास्त्रेण जगत्यशेषैर्भूतैः स्वदेहालयभित्तिभागात् ।
एतद्विधेयं न विधेयमेतद्ध्वनिः स्वतः श्रूयत एव नित्यम् ॥ ४९ ॥

नन्विदमसमञ्जसम् । मया स्वदेहस्य
सर्वजगद्घटितत्वेनाननुभवाद्देहान्तश्चक्षुराद्यप्रवेशेन यदि तत्र
जगददर्शनं ब्रूषे तर्हि तत्रत्यवेदशास्त्रादेः श्रोत्रेण श्रवणं न स्यादेवेति
ममासम्भावनां लिङ्गैरुपलक्ष्य तत्सम्भावनार्थ सा मामाह - अवेदेति
द्वाभ्याम् । त्वदादिभिरशेषैरपि भूतैः प्राणिभिः अवेदशास्त्रत्वेनाभिमतेऽपि
बाह्यादन्यस्मिन् देहान्तर्गते जगति स्वदेहालयमित्तेर्भागात्
एकदेशभूतात्स्वस्वकर्णशष्कुलीप्रदेशान्नित्यमनाहतध्वनिः
सर्ववेदशास्त्रादिशब्दसामान्यरूपनादात्मकः स्वतः श्रूयत एव । स एव हि
एतन्नित्यनैमित्तिकं कर्म शमदमादिज्ञानसाधनं च
विधेयमवश्यमनुष्ठेयमिति सर्वविधिगर्भः । एतत्कलञ्जभक्षणादि न विधेयमिति
सर्वनिषेधवेदशास्त्रगर्भश्चेति तच्छ्रवणेनैव तदन्तर्गतं
विधिनिषेधशास्त्रमिव तदर्थभूतं जगदपि देहेऽस्तीति सम्भावयेति भावः ॥ ४९ ॥

ईदृक्स्वभावैव पदार्थसत्ता सा तेऽत्र यद्भित्त्यचलादयोऽपि ।
स्वप्नादिमायास्विव मे वदन्ति वाचं न युष्मास्वसमञ्जसं तत् ॥ ५० ॥

उक्तन्यायेन स्तम्भकुम्भादिष्वपि सर्वजगत्सद्भावः सम्भावनीय इत्याशयेनाह ##-
शब्दसामान्यस्वभावोऽनाहतध्वनिः ईदृक्स्वभावैव
सर्वजगद्घटितसामान्यस्वभावैव । यद्यस्मात्कारणादत्र जगति प्रसिद्धा
भित्त्यचलादयोऽपि सा ब्रह्मसत्तैव । न च भित्त्यादयो वाचं न वदन्तीत्यचेतना एवेति
भ्रमितव्यम् । यतस्ते स्वप्नादिप्रसिद्धमायास्विव इदानीमपि मे पुरतः वाचं वदन्ति ।
यदा अत्यन्तजडत्वेन प्रसिद्धेष्वपि कुड्यादिषु सर्वजगद्घटितचेतनत्वं
नासमञ्जसं तदा चेतनप्रायेषु युष्मासु युष्मदादिदेहेषु सुतरां
तन्नासमञ्जसमित्यर्थः ॥ ५० ॥

अस्त्रीकसंसारगतेन दृष्टं मया क्वचिद्यावदनन्यकामम् ।
भूतानि निर्यान्ति बहूनि भूताद्विशन्ति भूतानि बहूनि भूतम् ॥ ५१ ॥

वनितासंवादलक्षणमाश्चर्य स्वदृष्टमुपवर्ण्याश्चर्यान्तरं तादृशं
वर्णयति - अस्त्रीकेति । क्वचिद्देशे काले च न विद्यन्ते स्त्रियो यत्र तथाविधो यः
संसारो जगत्तद्गतेन मया यावत्सकलं प्राणिजातं न विद्यते अन्यस्याह् कामो
व्यतिकराभिलाषो यस्य तथाविधं दृष्टम् । तर्हि तत्र कथं पुत्रपौत्रादिसङ्गतिः
पूर्वेषां मरणं वा तत्राह - भूतानीति ॥ ५१ ॥

आएकानि दृष्टानि मयाञ्जसानि खेऽभ्राण्यदभ्राङ्ग झणज्झणानि ।
वृष्ट्या समन्तान्निपतन्ति खण्डैर्भवन्ति तीक्ष्णानि जनायुधानि ॥ ५२ ॥

आश्चर्यान्तरमाह - एकानीति । आञ्जसानि उत्पातादिनिमित्तनिरपेक्षाणि । एकानि अन्यानि
अभ्राणि खे दृष्टानि । तानि च गर्जनैः शस्त्रसङ्घट्टनध्वनिसाम्येन
सञ्जातझणज्झणानि । तेभ्यो वृष्ट्या यानि विद्युदादीनि जलवन्निपतन्ति तानि खण्डैः
स्वशकलैर्जनानामायुधानि भवन्ति ॥ ५२ ॥

अन्यत्र दृष्टं गगनेन यावदिहान्धया ग्रामगृहाणि यान्ति ।
विशन्त्यमुत्रान्त इहाभवद्वो ग्रामः स एवान्यत एव लब्धः ॥ ५३ ॥

अन्यत्र आश्चर्यान्तरं दृष्टम् । किं तत् । इहास्मिञ्जगति यावत् यावन्ति ग्रामगृहाणि
सन्ति तावन्ति अन्धया तिमिराद्युपहतदृष्ट्यैव गगनेन आकाशमार्गेण यान्ति अमुत्र
दूरे दिगन्ते विशन्ति स च वो ग्रामः इह अभवत् । स एव मया अन्यतोऽन्यत्रैव लब्ध
इत्याश्चर्यमित्यर्थः ॥ ५३ ॥

नरामराऽहिप्रविभागमुक्तान्यन्यत्र भूतानि समानि सन्ति ।
खादेव सर्वाणि समुद्भवन्ति तत्रैव काले न लयं प्रयान्ति ॥ ५४ ॥

अन्यत्र दृष्टमाश्चर्यान्तरमाह - नरेति । एते नरा एते अमरा एते अहय इति
लोकत्रयवासिनां ये अवान्तरप्रविभागास्तैर्मुक्तानि अत एव समानि ॥ ५४ ॥

अचन्द्रतारार्कमनन्धकारं स्वयम्प्रकाशाखिलभूतजातम् ।
स्मरामि किञ्चिज्जगदेककान्तं ज्वालोदराभं दिनरात्रिमुक्तम् ॥ ५५ ॥

अन्यत्राश्चर्यान्तरमाह - अचन्द्रेति । अनन्धकारत्वे हेतुः - स्वयम्प्रकाशेति ॥
५५ ॥

अपूर्वदैत्याहिनरामरादिभूतान्यपूर्वद्रुमपत्तनानि ।
अपूर्वलोकान्तरकार्यवन्ति स्मराम्यनन्तानि महाजगन्ति ॥ ५६ ॥

आश्चर्यान्तरमाह - अपूर्वेति । प्रसिद्धसंस्थानव्यवहारवैलक्षण्यमपूर्वता ॥
५६ ॥

दिगस्ति सा नो विहृतं न यस्यां न सोऽस्ति देशः खलु यो न दृष्टः ।
यन्नानुभूतं न तदस्ति कार्यमन्याश्रयं नापरमस्ति मर्शात् ॥ ५७ ॥

किं बहुना । मया यस्यां दिशि न विहृतं सा दिङ्नास्ति । यो देशो न दृष्टः सोऽपि
नास्ति । यत्कार्य कौतुकं नानुभूतं तदपि नास्ति ।
मदीयान्मर्शाद्विमर्शादनुभवरूपात्सर्वसाक्षिणः
सकाशादन्याश्रयमन्याधिष्ठानकमपरं तद्व्यतिरिक्तं च यत्स्यात्तदपि नास्ति ॥ ५७

क्षीरोदकभ्रमितमन्दररत्नशृङ्गधाराग्रनिर्दलनजातझणज्झणानाम् ।
एकत्र संयुतमुपेन्द्रभुजाङ्गदानां शब्दं स्मरामि
घनगर्जितशङ्कितेन ॥ ५८ ॥

क्षीरोदके समुद्रे मथनार्थ भ्रमितो यो मन्दरगिरिस्तदीयरत्नमयशृङ्गाणां
तीक्ष्णैः शाणप्रायैर्धाराग्रैर्निर्दलने निशातने जातझणज्झणानां
सिञ्जितानामुपेन्द्रस्य भगवतो भुजाङ्गदानां घनगर्जितशङ्कितेन
मेघगर्जनशङ्कया जनैः श्रुतमत्याश्चर्यभूतं शब्दं
स्मरामीत्याश्चर्योक्तीनामुपसंहारः ॥ ५८ ॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मो० नि० उ० अ० वि०
भाससंसारवर्णनं नामैकत्रिंशाधिकशततमः सर्गः ॥ १३१ ॥

इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे निर्वाणप्रकरणे उत्तरार्धे
भाससंसारवर्णनं नामैकत्रिंशदुत्तरशततमः सर्गः ॥ १३१ ॥