त्रिंशदधिकशततमः सर्गः १३०
श्रीवाल्मीकिरुवाच ।
अथ राम उवाचास्य मुने केन विपश्चितः ।
स्यादुपायेन दुःखान्तः प्राक्तनात्मोदयादिति ॥ १ ॥
वसिष्ठध्यानजे वह्नौ मृगस्यात्र प्रवेशनम् ।
विपश्चिद्देहलाभेन प्राक्स्मृतिश्चात्र वर्ण्यते ॥
प्राक्तन आत्मा विपश्चिद्देहस्तस्योदयात्पुनराविर्भावाज्ज्ञानेन
वास्तवात्माविर्भावाच्च इति राम उवाचेत्यन्वयः ॥ १ ॥
श्रीवसिष्ठ उवाच ।
येनैवाभ्युदिता यस्य तस्य तेन विना गतिः ।
न शोभते न सुखदा न हिताय न सत्फला ॥ २ ॥
यस्य पुरुषस्य येनैव चिरोपासितेन दैवतेन गतिः पुनःपुनरभिलषितसिद्धिः
प्रागभ्युदिता तस्य पुरुषस्य तेन दैवतेन विनाऽपि अग्रे गतिरभिलषितसिद्धिर्न जायते
जातापि न शोभते शोभितापि परिणामे न सुखदा कथञ्चित्सुखप्राप्तावपि परलोकहिता
कदाचन न भवति । तथा च श्रुतिः यः स्वां देवतामतियजति प्रस्वायै देवतायै
च्यवते न परां प्राप्नोति पापीयान्भवतीति । अभियुक्ताश्चाहुः त्वामतियजेत
भगवन्यः कुलदैवं द्विजातिकुलजातः । उभयभ्रष्टो
नश्येदभ्युदयोपांशुयाजवत्स जडः ॥ इति ॥ २ ॥
विपश्चितोऽग्निः शरणं तत्प्रवेशादयं मृगः ।
पूर्वरूपमवाप्नोति निर्मलं कनकं यथा ॥ ३ ॥
शरणं इष्टार्थप्रदानेन रक्षिता । पूर्वरूपं प्राक्तनविपश्चिद्देहम् ॥ ३ ॥
करोम्येतदहं सर्वं दृश्यतां दर्शयामि वः ।
अग्निप्रवेशं हरिणः करोत्येषोऽधुना पुरः ॥ ४ ॥
श्रीवाल्मीकिरुवाच ।
इत्युक्त्वा स मुनिस्तत्र वसिष्ठः श्रेष्ठचेष्टितः ।
उपस्पृश्य यथान्यायं स्वकमण्डलुवारिणा ॥ ५ ॥
उपस्पृश्य आचम्य । यथान्यायं शिरश्चक्षुषी नासिके श्रोत्रे हृदयमालभ्य इति
श्रुत्युक्तन्यायमनतिक्रम्य ॥ ५ ॥
दध्यावनिन्धनं वह्निं ज्वालापुञ्जमयात्मकम् ।
तद्ध्यानेन सभामध्याज्ज्वालाजालं समुद्ययौ ॥ ६ ॥
दशरथसभामध्यप्रदेशात् ॥ ६ ॥
अङ्गाररहिताकारमिन्धनेन विवर्जितम् ।
स्वच्छं धमधमायन्तमधूममपकज्जलम् ॥ ७ ॥
धमधमायन्तमित्यव्यक्तानुकरणाड्डाचि डाचि बहुलं द्वे भवतः इति द्वित्वे
लोहितादिडाज्भ्यः क्वष् इति क्यषन्ताल्लटः शत्रादेशः । अपकज्जलमकज्जलमिति यावत् ॥ ७ ॥
मुग्धमुग्धकचत्कान्ति हेममन्दिरसुन्दरम् ।
उत्फुल्लकिंशुकाकारं सन्ध्याम्बुदवदुत्थितम् ॥ ८ ॥
मुग्धमुग्धं कचन्ती कान्तिर्यस्य तथाविधं हेममन्दिरमिव सुन्दरम् ॥ ८ ॥
दूरापसृतसभ्यन्न् तज्ज्वालाजालं विलोकयन् ।
मृगः प्राग्भक्तिभावेन प्रोल्ललास विलोकितैः ॥ ९ ॥
दूरादपगताः सभ्या यस्मात्तथाविधं तज्ज्वालाजालं विलोकयन्सन् स मृगः
प्राक्तनेन भक्तिभावेन विलोकितैः सादरदर्शनैः प्रोल्ललास जहर्ष ॥ ९ ॥
तं समालोकयन्वह्निं विविक्षुः क्षीणदुष्कृतः ।
पश्चादुपससाराशु दूरं सिम्ह इवोत्पतन् ॥ १० ॥
एतस्मिन्नन्तरे ध्याने विचार्य मुनिपुङ्गवः ।
मृगं विलोकितैः क्षीणपापं कुर्वन्नुवाच ह ॥ ११ ॥
उवाच । वह्निं प्रतीति शेषः ॥ ११ ॥
संस्मृत्य प्राक्तनीं भक्तिं भगवन्हव्यवाहन ।
कुरु कारुण्यतः कान्तं मृगमेनं विपश्चितम् ॥ १२ ॥
वदत्येवं मुनौ दूराद्धावित्वा नृपसंसदि ।
मृगोऽग्निं वेगनिर्मुक्तः शरो लक्ष्यमिवाविशत् ॥ १३ ॥
ज्वालाजालं प्रविष्टोऽसावादर्श इव बिम्बितः ।
सन्ध्याभ्र इव विश्रान्तो दृष्टः स्पष्टशरीरकः ॥ १४ ॥
दृष्टो जनैरिति शेषः ॥ १४ ॥
स पश्यत्स्वेव सभ्येषु मृगोऽथ नरतामगात् ।
ज्वालोदरे नभस्यभ्रलवो रूपान्तरं यथा ॥ १५ ॥
नरतां मनुष्याकारम् । नभसि मृगरूपोऽभ्रलवः । रूपान्तरं मनुष्यरूपं
यथा तथा ॥ १५ ॥
अदृश्यताथ ज्वालायामन्तःकनककान्तिमान् ।
पुरुषः पावनाकारः कान्तावयवसुन्दरः ॥ १६ ॥
कान्तैः कान्तिमद्भिरवयवैः सुन्दरः ॥ १६ ॥
अर्कबिम्ब इवादित्यश्चन्द्रबिम्ब इवोडुपः ।
महाम्भसीव वरुणः सन्ध्याभ्र इव वा शशी ॥ १७ ॥
अर्कबिम्ब इवेत्याद्युपमामाला ॥ १७ ॥
चक्षुःकनीनिकाकोशे मुकुरे सलिले मणौ ।
प्रतिबिम्ब इवार्काभो भक्तिनाधारपावकः ॥ १८ ॥
चक्षुरित्यादिमालितोपमा । चक्षुःकनीनिकाकोशादौ प्रतिबिम्ब इव आधारः पावको यस्य
तथाविधो भक्तिरेव ना पुरुषभूतेव स्थितः । अर्काभः पुरुषः अदृश्यतेति
पूर्वत्रान्वयः ॥ १८ ॥
अनन्तरं सभामध्याद्वातैर्दीप इवाहतः ।
ज्वालाजालं ययौ क्वापि सन्ध्याम्बुद इवाम्बरात् ॥ १९ ॥
अनन्तरं तज्ज्वालाजालं वातैराहतो दीप इव क्वापि ययौ । उपशशामेति यावत् ॥ १९ ॥
कुटीकुड्येषु भग्नेषु प्रतिबिम्ब इवामरः ।
अतिष्ठत्पुरुषस्तत्र पटान्नट इवोद्गतः ॥ २० ॥
देवालयकुट्याः कुड्येषु भग्नेषु सत्सु तदन्तर्गत आमरः विष्ण्वाद्यमराकारः
प्रतिबिम्बः प्रतिमेव । पटात्तिरस्करणीवस्त्रादुद्गतो नट इव ॥ २० ॥
अक्षमालाधरः शान्तो हेमयज्ञोपवीतवान् ।
अग्निशौचाम्बरच्छन्नः सद्यश्चन्द्र इवोदितः ॥ २१ ॥
अग्निदाहेनैव शौचं नैर्मल्यं यस्य तथाविधैरम्बरैश्छन्नः ॥ २१ ॥
अहो भा इति सभ्योक्त्या तस्य वेषस्य भासनात् ।
भास्वानिव विशालाभो भास इत्येष शब्दितः ॥ २२ ॥
एष भास इति नाम्ना शब्दितो जनैरुक्तः ॥ २२ ॥
असौ मूर्त इवाभासो भासनाम्ना भविष्यति ।
सभास्थैः कैश्चिदित्युक्तं तेन भासः स उच्यते ॥ २३ ॥
अथोपविश्य तत्रैव स भासो ध्यानसंस्थितः ।
आत्मोदन्तमशेषेण सस्मार प्राक्तनं तनौ ॥ २४ ॥
आत्मनः स्वस्य प्राक्तनमुदन्तं वृत्तान्तम् ॥ २४ ॥
सभालोके गतस्पन्दे स्मयेनात्मनि तिष्ठति ।
भासो मुहूर्तमात्रेण दृष्ट्वा स्वोदन्तमक्षतम् ॥ २५ ॥
स्मयेन विस्मयेन [स्मितेन इति मुद्रितपुस्तके पाठः ।] । दृष्ट्वा स्मृत्वा ॥ २५
॥
आययौ पूर्वजन्मभ्यो ध्यानालोकाद्व्यबुध्यत ।
सभामालोकयामास समुत्थाय यथाक्रमम् ॥ २६ ॥
आययौ इत्यस्य ध्यानालोकाद्व्यबुध्यतेति विवरणम् । यथाक्रमं
मुनिराजसामन्तादिक्रमेण ॥ २६ ॥
स चागत्य वसिष्ठाय प्रणाममकरोन्मुदा ।
ज्ञानार्कप्राणद ब्रह्मन्नमस्तेऽस्त्वित्युदाहरत् ॥ २७ ॥
स भासाख्यो विपश्चित् । उदाहरदुक्तवान् ॥ २७ ॥
तमुवाच वसिष्ठोऽपि हस्तेन शिरसि स्पृशन् ।
अद्य ते सुचिराद्राजन्नविद्यायाः क्षयोऽस्त्विति ॥ २८ ॥
सुचिराद्दृश्यमानायास्ते अविद्याया अद्य क्षयोऽस्त्विति ॥ २८ ॥
रामं जयेति जल्पन्तं नतं दशरथोऽथ तम् ।
आसनात्किञ्चिदुत्तिष्ठन्समुवाच हसन्निव ॥ २९ ॥
रामं प्रति जयेति जल्पन्तं व्यक्तं वदन्तम् । नतं नमस्कुर्वाणं तं भासम् ॥ २९ ॥
दशरथ उवाच ।
स्वागतं तेऽस्तु भो राजन्निदमासनमास्यताम् ।
अनेकभवसम्भारभ्रान्त विश्रम्यतामिह ॥ ३० ॥
श्रीवाल्मीकिरुवाच ।
वदत्येवं दशरथे विपश्चिद्भासनामभृत् ।
विवेश विष्टरे विश्वामित्रादीन्प्रणमन्मुनीन् ॥ ३१ ॥
विष्टरे आसने । वृक्षासनयोर्विष्टरः इति षत्वम् ॥ ३१ ॥
दशरथ उवाच ।
अहो बत चिरं कालमालानेनेव दन्तिना ।
अन्येनाविद्यया दुःखमनुभूतं विपश्चिता ॥ ३२ ॥
आलानेन बन्धनस्तम्भेनेव ॥ ३२ ॥
असम्यग्बोधदुर्दृष्टेरहो नु विषमा गतिः ।
व्योम्न्येव दर्शयत्येषा सर्गाडम्बरसम्भ्रमम् ॥ ३३ ॥
कियन्त्याश्चर्यमेतानि जगन्ति विततात्मनि ।
सन्ततानि चिरं तानि विभ्रान्तानि विपश्चिता ॥ ३४ ॥
विपश्चिता विततात्मनि कियन्ति विभ्रान्तानि । इदमाश्चर्यम् ॥ ३४ ॥
व्योमात्मनोऽपि महिमायमहो नु कीदृगस्य स्वभावविभवस्य चिदात्मवृत्तेः ।
यः शून्य एव परमात्मघनेऽम्बरेऽन्तरेवंविधानि विविधानि जगन्ति भान्ति ॥ ३५
॥
चिदात्मवृत्तेर्मायास्वभावरूपस्यास्य विभवस्य वस्तुतो व्योमात्मनः
शून्यस्याप्ययं महिमा कीदृक् । अहो इत्याश्चर्ये । नु इति वितर्के । यो महिमा शून्य एव
सन्नम्बरवदसङ्गे शून्ये एव परमात्मघने अन्तः एवंविधानि प्रागुक्तप्रकाराणि
विविधानि विचित्राणि जगन्ति भूत्वा भान्ति । इदमत्याश्चर्यमित्यर्थः ॥ ३५ ॥
इत्यार्षे श्रीवासिष्ठमहा० वाल्मीकीये दे० मो० निर्वाण० उ० अ० वि० मृगवह्निप्रवेशो
नाम त्रिंशदधिकशततमः सर्गः ॥ १३० ॥
इति श्रीवासिष्ठम० तात्पर्यप्रकाशे नि० उ० मृगवह्निप्रवेशो नाम
त्रिंशदधिकशततमः सर्गः ॥ १३० ॥