१२९

एकोनत्रिंशदधिकशततमः सर्गः १२९

श्रीराम उवाच ।

तयोर्द्वयोर्मुनिश्रेष्ठ सम्पन्नं किमतः परम् ।
पश्चाद्विपश्चितोस्तस्य रुद्धयोर्वै विपश्चितोः ॥ १ ॥

विपश्चितोरुदन्तोऽत्र वर्ण्यते ह्यवशिष्टयोः ।
तत्रैकस्य मृगत्वेऽन्ते तथा रामसमागमः ॥

एको विपश्चिद्विष्णुप्रसादाज्ज्ञानं प्राप्य मुक्तो द्वितीयस्त्वद्याप्यविद्यायां
बम्भ्रमीतीति श्रुत्वा अवशिष्टयोर्द्वयोः समाचारं रामः पृच्छति - तयोरिति ।
चन्द्रलोके शाल्मलिद्वीपराज्ये च
भोगैर्निरुद्धयोर्विपश्चितोर्भोगासारत्वाभिज्ञयोस्तयोर्द्वयोः
पूर्वदक्षिणविपश्चितोः पश्चादनन्तरं अतः प्रागुक्तात्परमन्यत्तस्य
दिगन्तदर्शनवरस्य सम्बन्धि किं चरित्रं सम्पन्नमिति प्रश्नः ॥ १ ॥

श्रीवसिष्ठ उवाच ।

तयोरेकश्चिराभ्यस्तवासनाविवशीकृतः ।
भ्रमन्द्वीपेषु देहौघैस्तामेव पदवीं गतः ॥ २ ॥

तामुत्तरविपश्चितः पदवीं ब्रह्माण्डावरणलङ्घनेन शबले ब्रह्मणि
संसारलक्षकोटिषु भ्रमणलक्षणामेव पदवीं दक्षिणो विपश्चिद्गत इत्यर्थः ॥ २ ॥

तथैवावरणांस्त्यक्त्वा परमाकाशकोटरे ।
पश्यन्संसारलक्षाणि तथैवाद्यापि संस्थितः ॥ ३ ॥

तथैवेत्यादिरुक्तस्यैव प्रपञ्चः ॥ ३ ॥

तयोर्द्वितीयः स्वाभ्यस्तादादावासङ्गतेर्वशात् ।
त्यक्तवान्प्रभ्रमद्देहैरद्य शैले मृगः स्थितः ॥ ४ ॥

द्वितीयः पूर्वो विपश्चित् स्वेन
चन्द्रसन्निधावभ्यस्ताच्चन्द्रमृगस्नेहातिशयलक्षणात् आसङ्गतेरासङ्गस्य
वशात् चन्द्रेण सह प्रतिमासमुद्भूतैः प्रभ्रमद्देहैरुपलक्षितस्तानि त्यक्तवान्सन्
अद्य शैले मृगो भूत्वा स्थितः ॥ ४ ॥

श्रीराम उवाच ।

एकैव वासना ब्रह्मन्या चतुर्णां सदोदिता ।
नानातां सा कथं प्राप्ता हीनोत्तमफलप्रदाम् ॥ ५ ॥

एकरूपाया वासनाया अन्तःकरणस्य देहस्य च चतुर्धाभावेऽपि वासनाविभागस्य
हीनोत्तमफलभेदस्य वाऽसम्भवं रामः शङ्कते - एकैवेति ॥ ५ ॥

श्रीवसिष्ठ उवाच ।

स्वभ्यस्ता वासना जन्तोर्देशकालक्रियावशात् ।
तनुदार्ढ्यान्यतामेति घनदार्ढ्यैति नान्यताम् ॥ ६ ॥

तत्राद्यप्रश्नस्योत्तरमाह - स्वभ्यस्तेति । तनुदार्ढ्या कोमला । घनदार्ढ्या
अतिपरिपाकदृढीभूता । अन्यतां विभागम् ॥ ६ ॥

देशकालक्रियाद्येतदेकता वासनैकता ।
तयोर्यदेव बलवत्तदेव जयति क्षणात् ॥ ७ ॥

वासनानामेकीभावे विभागे वा को हेतुस्तत्राह - देशेति । यदा
भोग्यफलानुकूलानां देशकालकर्मप्रयत्नसामग्रीणामेकता तदा
तदनुकूलसमानविषयवासनानामप्येकता सम्पद्यते । यदा तु भेदस्तदा विभागः ।
यदा तु समानदेशकालक्रियाफला काचिद्वासना तद्भिन्नदेशकालक्रियाफला चापरा
वासना द्वे उद्भूते तदा तयोर्मध्ये यदेव बलवत्तदेव जयति । बलवत्ता च
फलानुमेयेति भावः ॥ ७ ॥

एवं विभागेनैतेऽत्र चत्वारः समवस्थिताः ।
कृष्यन्ते द्वावविद्यार्थमन्यो मुक्तो मृगोऽपरः ॥ ८ ॥

एवमनया रीत्या एते विपश्चितो
युगपदुद्भूतविरुद्धदेशादिभोग्यवासनाविभागप्रयुक्तेनाश्रयविभागेन
चत्वारः सन्तः समवस्थिताः । तत्राद्यावविद्यार्थमपरो मृग इति त्रयोऽपि कृष्यन्ते
वासनाभिः । अन्य एकस्तु मुक्तः ॥ ८ ॥

नाद्यापि तैरविद्याया लब्धोऽन्तो भ्रान्तिबुद्धिभिः ।
अनन्तेयमविद्येयमज्ञानपरिबृंहिता ॥ ९ ॥

तैस्त्रिभिः । अज्ञानैर्भ्रान्तिसहस्रैः परितो बृंहिता वर्धिता ॥ ९ ॥

क्षिप्रेण शान्ता भवति विज्ञानालोक आगते ।
अमूलमेव [समूलमेव इति पाठः ।] गलति तिमिरश्रीरिवोदये ॥ १० ॥

अमूलं निःशेषमेव गलति ॥ १० ॥

कालेनान्यजगज्जातं शृणु वृत्तं विपश्चितः ।
तस्मिन्दूरतरे देशे कस्मिंश्चित्संसृतिभ्रमे ॥ ११ ॥

क्षिप्रेण कालेनेति पूर्वश्लोकान्वयि । इदानीं पश्चिमविपश्चितो येन वृत्तेन मुक्तिर्जाता
तत्पुनः श्रावयति - अन्येति । अन्यस्मिन्स्ववासनाकल्पिते जगति ब्रह्माण्डे जातम् ।
तस्मिन् ब्रह्माण्डे । दूरतरे स्वादूदधिपरभागस्थवर्णभूदेशे ॥ ११ ॥

क्वचिद्ब्रह्ममहाव्योम्नि कस्मिंश्चिद्दृश्यमण्डले ।
तस्य दृश्यात्मना प्राप्ते वस्तुतो ब्रह्मरूपिणि ॥ १२ ॥

ब्रह्ममहाव्योम्नि क्वचिदध्यस्ते कस्मिंश्चिद्दृश्यमण्डले । किं वास्तवेनेत्याह ##-

स एकः शुभसङ्गत्या विदुषां मध्यमागतः ।
दृश्यं यथावद्विज्ञाय ब्रह्मतामलमागतः ॥ १३ ॥

शुभस्य शान्तिदान्तिभगवद्भक्त्यादिगुणौघस्य सङ्गत्या स पश्चिमो विपश्चिदेको
विदुषां जीवन्मुक्तानाम् ॥ १३ ॥

तत्रैवाशु परिज्ञानात्साऽविद्या स च देहकः ।
मृगतृष्णाम्ब्विवाशान्तिमागतौ रागतन्त्रितौ ॥ १४ ॥

तस्य सा जगदाकारा अविद्या स देहश्च मोक्षोत्तरं क्व गतौ तत्राह - तत्रैवेति ।
आशान्तिं बाधमागतौ यतस्तौ रागः कामस्तत्तन्त्रितौ तदधीनस्थितिकौ । तथा च
श्रुतिः यदा सर्वे प्रमुच्यन्ते कामा येऽस्य हृदि श्रिताः । अथ मर्त्योऽमृतो भवत्यत्र
ब्रह्म समश्नुते इति ॥ १४ ॥

इति ते सर्वमाख्यातं विपश्चिच्चेष्टितं स्फुटम् ।
अनन्तैवमविद्येयं ब्रह्मवत्तन्मयी यतः ॥ १५ ॥

प्रकृतकथामुपसंहरति - इतीति । इयमविद्या कार्याविद्या सर्वदिक्ष्वद्यापि
तैरन्तादर्शनादनन्ता कारणब्रह्मवत् ॥ १५ ॥

येन यत्रैव वर्षाणां लक्षलक्षाणि गम्यते ।
तत्र तत्र स्वभावेन चिता किमपि लक्ष्यते ॥ १६ ॥

तत्कल्पकाज्ञातचित आनन्त्यादेव तदानन्त्यमिति ब्रह्मवदिति
दृष्टान्तोक्तेस्तात्पर्यमित्याह - येनेति ॥ १६ ॥

तदेवाश्वपरिज्ञातं मिथ्या विद्येति कथ्यते ।
परिज्ञातं तु तच्छान्तं तथा ब्रह्मेति कथ्यते ॥ १७ ॥

तन्मयीत्युक्तेरपि तात्पर्यमाह - तदेवेति । तद्ब्रह्मैव ॥ १७ ॥

भेदो न भेदस्तत्रायं भेदोऽयं यन्मयः किल ।
तद्ब्रह्मैव चिदाभासं चिद्रूपैव हि भिन्नता ॥ १८ ॥

नन्वविद्येति ब्रह्मेति च भेदे सति कथं तदेव तत्राह - भेद इति । अयं भेदो न
भेदो यतोऽयन्न् तन्मयः अविद्यामय एव सा च ब्रह्मैवेति । चिद्भास्यत्वादपि भेदो न
चितोऽन्य इत्याह - तदिति ॥ १८ ॥

ब्रह्माण्डमण्डपस्यास्य भ्रमतेत्यविपश्चिता ।
लब्धो युगशतैरन्तो नाविद्याया विपश्चिता ॥ १९ ॥

ज्ञानशून्येनोत्तरविपश्चिता तु युगशतेनाप्यविद्याया अन्तो न लब्ध इत्याह -
ब्रह्माण्डेति । इति उक्तरीत्या भ्रमता अविपश्चिता अविदुषा विपश्चिता तु अविद्याया अन्तो
युगशतैरपि न लब्धः ॥ १९ ॥

श्रीराम उवाच ।

स ब्रह्माण्डकपाटः किं न सम्प्राप्तो विपश्चिता ।
त्वयैतत्कथितं ब्रह्मन्न कथं वदतां वर ॥ २० ॥

उत्तरविपश्चितो ब्रह्माण्डकवाटसन्ध्याकाशमार्गेण निर्गमनं कथं
ब्रह्माण्डभङ्गे अकारणानुक्त्या सन्ध्याकाशस्यैवासम्भावनादित्याशयेन
रामः शङ्कते - स इति । ब्रह्माण्डकपाट एव किं न सम्प्राप्तः तथा च तं
भित्त्वा यथा स बहिर्गतः एतत् त्वया कथं न कथितम् ॥ २० ॥

श्रीवसिष्ठ उवाच ।

जातेनैव विरिञ्चेन पुरा ब्रह्माण्डमण्डलम् ।
द्वाभ्यामधस्तादूर्ध्वात्स्वभुजाभ्यां प्रविदारितम् ॥ २१ ॥

वसिष्ठो ब्रह्माण्डकपाटद्वयविभागे कारणं प्राक् पाषाणाख्याने उक्तमेव
स्मारयति - जातेनेति ॥ २१ ॥

भागस्तेनोर्ध्वतस्तस्मादतिदूरतरं गतः ।
अतो [अन्य इति पाठः ।] भागो गतोऽधस्तादतिदूरतरान्तरम् । २२ ॥

अन्यदतिदूरतरं अतिदूरतरान्तरम् । अतिदूरतरमन्तरमवधिं गत इति वा ॥ २२ ॥

ताविवाश्रित्य तिष्ठन्ति जलाद्यावरणास्ततः ।
त एव च तदाधारा लम्बन्ते संस्थितास्तयोः ॥ २३ ॥

जलाद्यावरणास्तौ भागाविव विभक्तास्तावेवाश्रित्य तिष्ठन्ति । आश्रित्य स्थितिः
साधारणी विभक्तता तु जलावरणमात्रस्येति प्रागुपपादितमेव ॥ २३ ॥

एतयोर्मध्यमाकाशं विदुरण्डकपाटयोः ।
अपारावारमानीलमिदमालक्ष्यते तु यत् ॥ २४ ॥

जलाद्यावरणास्तत्र न लगन्ति न सन्ति च ।
तद्धि निर्मलमाशून्यमालानं कल्पकॢप्तिभिः ॥ २५ ॥

तत्र आकाशे अपारत्वोक्तिरितरभूतापेक्षया वैपुल्यख्यापनाय । अन्यथा
बाह्याकाशावरणस्य पूर्वावरणदशगुणपरिमाणत्वानुपपत्तेः । तदग्रे
ब्रह्माकाशवर्णनायोगाच्च । आलानमितरभूतानामाधारः । यावत्प्रलयं
कल्पकालकल्पनैः ॥ २५ ॥

तेन मार्गेण यातोऽसौ विपश्चिदृक्षचक्रवत् ।
अविद्यायाः परीक्षार्थमामोक्षमतिदीक्षितः ॥ २६ ॥

अविद्यायाः परित ईक्षार्थमतिशयेन दीक्षितो गृहीतदीक्ष इव ॥ २६ ॥

ब्रह्मैवानन्तरूपेयमविद्या तन्मयी यतः ।
अतोऽस्ति साऽपरिज्ञाता परिज्ञाता न विद्यते ॥ २७ ॥

तर्हि स दृढतरपुरुषप्रयत्नाविच्छेदादविद्यान्तं कुतो न ददर्शेति
चेत्तस्यावस्तुतोऽनन्तब्रह्मात्मकत्वादेवेत्याह - ब्रह्मैवेति । तर्हि तत्त्वज्ञैस्तदन्तः
कथं दृश्यते तत्राह - परिज्ञातेति ॥ २७ ॥

विपश्चित इति प्राप्य दूराद्दूरं परेऽम्बरे ।
जगद्रूपेष्वविद्याया भ्रमन्त्यन्येषु केषुचित् ॥ २८ ॥

अविद्याया जगल्लक्षणेषु रूपेषु केषुचित् ॥ २८ ॥

कश्चिन्मुक्तो मृगः कश्चित्कौचिदद्यापि तौ क्वचित् ।
भ्रमतः प्राक्तनानल्पसंस्कारविवशीकृतौ ॥ २९ ॥

श्रीराम उवाच ।

कीदृशेषु क्व दूरेषु ते जगत्सु विपश्चितः ।
भ्रमन्तीति मुने ब्रूहि मयि चेज्जायते कृपा ॥ ३० ॥

रामप्रश्नाः स्पष्टाः ॥ ३० ॥

कियत्यध्वनि संसारास्ते जाता येषु ते मुने ।
महदेतदिहाश्चर्यमस्माकं कथितं त्वया ॥ ३१ ॥

श्रीवसिष्ठ उवाच ।

स्थितौ विपश्चितौ राम तावुभौ जगतोर्ययोः ।
तेऽस्माकं गोचरं याते जगती यत्नतोऽपि नो ॥ ३२ ॥

स्वप्नदृष्टोऽपूर्वो ग्राम इतः कियद्दूरेऽस्तीति प्रश्नवद्रामप्रश्नोऽयं
योजनसङ्ख्योक्त्या न समाधातुं योग्य इति मत्वा वसिष्ठस्तदपरिज्ञानोक्तिच्छलेन
स्वाशयं सूचयन्नुत्तरमाह - स्थिताविति । यत्नतः पर्यालोचनेऽप्यस्माकं ते जगती
गोचरं बुद्धिविषयतां नो याते ॥ ३२ ॥

तृतीयो मृगतां यातो विपश्चिद्यत्र तिष्ठति ।
स कदाचित्ससंसारो गोचरे नोऽवतिष्ठते ॥ ३३ ॥

स ब्रह्माण्डस्तदन्तर्गतसंसारैः सहितः ससंसारो नो गोचरे
बुद्धिविषयभावेऽवतिष्ठते ॥ ३३ ॥

श्रीराम उवाच ।

विपश्चिन्मृगतां यातो यस्मिञ्जगति संस्थितः ।
तज्जगत्क्व महाबुद्धे यथावत्कथयेति मे ॥ ३४ ॥

श्रीवसिष्ठ उवाच ।

दूराद्दूरतरं गत्वा परब्रह्ममहाम्बरे ।
मृगो विपश्चिज्जगति स यस्मिंस्तज्जगच्छृणु ॥ ३५ ॥

तदिदं विद्धि त्रिजगदिहासौ संस्थितो मृगः ।
इदं तत्परमाकाशं दूराद्दूरे जगत्स्थितम् ॥ ३६ ॥

पूर्वतनविपश्चिज्जन्मदेशाद्दूराद्दूरे व्यवस्थितम् ॥ ३६ ॥

श्रीराम उवाच ।

विपश्चिदस्मादेवासौ जगतस्तां गतिं गतः ।
इहैवाद्य मृगो जातः कथमेतत्समञ्जसम् ॥ ३७ ॥

तां दिगन्तदर्शनगतिं गतः सन् इहैव मृगो जात इति कथं समञ्जसम् ।
परावृत्त्या गमनं विना इह मृगजन्मासम्भवादित्यर्थः ॥ ३७ ॥

श्रीवसिष्ठ उवाच ।

अवयवानवयवी नित्यं वेत्ति यथाखिलान् ।
तथा सर्वानहं वेद्मि ब्रह्मण्यात्मन्यवस्थितान् ॥ ३८ ॥

दूरं दूरतरं चेत्यादिसर्व परिच्छिन्नात्मदर्शिनामेव भवति ।
अपरिच्छिन्नात्मदर्शिनां त्ववयविनामवयवा इव सर्वं सन्निहिततरमेवेति
स्वानुभवेनेयमुक्तिरित्याशयेनोत्तरमाह - अवयवानिति । सर्वान्ब्रह्माण्डानिति
शेषः ॥ ३८ ॥

अनिष्ठितान्ससंहारान्नानाकारांस्तु तान्बहून् ।
मिथः प्रोतान्मिथोदृश्यान्स्वरूपानिव पार्थिवान् ॥ ३९ ॥

अन्यदृशा अतीततराणामपि ब्रह्मदृशा साम्प्रतं सन्निहिततरत्वमेवेति कालतोऽपि न
कस्यचिद्दूरतास्तीत्याशयेन तान्विशिनष्टि - अनिष्ठितानिति ।
चिरकालोत्तरभावित्वात्साम्प्रतमनिष्ठितान् असञ्जातान् तथा ससंहारान्
पूर्वकालनिष्पन्नसंहारसहितान् नानाकारान्विचित्रान् मिथः परस्परमदृश्यानपि
एकत्र चित्यध्यासात्परस्परप्रोतान् पार्थिवान्
पृथ्वीविकारभूतपटतन्त्वादिस्वरूपानिव स्थितान् ॥ ३९ ॥

तत्र कस्मिंश्चिदन्यस्मिन्मार्गेऽस्मिन्निव तिष्ठति ।
यद्वृत्तं कथितं राम तदेतद्भवते मया ॥ ४० ॥

तत्र ब्रह्माण्डेषु कस्मिंश्चिदन्यस्मिन्माग्रे अस्मिन्नेतद्ब्रह्माण्डस्थे मार्गे इव
तिष्ठति सति यद्वृत्तं तन्मया भवत एतद्ब्रह्माण्ड इव कृत्वा अत्रैव
विपश्चिज्जन्मराज्यादीति कथितं तत्त्वतः प्रकारतश्च भेदाभावादित्यर्थः ॥ ४० ॥

विपश्चितोऽन्यसंसारे देहैर्भ्रान्ता दिगन्तरान् ।
ताननन्ताम्बरे व्योम्नि तावत्कालमखिन्नधीः ॥ ४१ ॥

तान् पूर्वोक्तान् दिगन्तरान् स्वस्ववासनाकल्पिते अन्यान्यसंसारे तादृशैरेव
देहैर्वस्तुतो भ्रान्ताः नैकस्मिंस्तत्र पूर्वो विपश्चिदिहैव हरिणो जात
इत्युत्तरत्रान्वयः ॥ ४१ ॥

इहैव हरिणो जातः कस्मिंश्चिद्गिरिकन्दरे ।
काकतालीययोगेन भ्रान्त्वा भूरिजगद्भ्रमम् ॥ ४२ ॥

स जगन्ति भ्रमन्दूरे यस्मिन्सर्गे मृगः स्थितः ।
ससर्गोऽयमिति व्योम्नि काकतालीयवत्स्थितम् ॥ ४३ ॥

व्योम्नि ब्रह्माकाशे ॥ ४३ ॥

श्रीराम उवाच ।

एवं चेत्तद्वद ब्रह्मन्कस्यां ककुभि मण्डले ।
कस्मिन्कस्मिंश्च शैलेऽसौ वने कस्मिन्मृगः स्थितः ॥ ४४ ॥

ककुभि दिशि ॥ ४४ ॥

किं करोति कथं दूर्वाश्चर्वयत्युर्वरास्पदः ।
जातिं तां जरठज्ञानी कदोदारां स्मरिष्यति ॥ ४५ ॥

उर्वरा सस्याढ्या भूमिस्तदास्पदः जरठं जरयेव शिथिलं ज्ञानमस्यास्तीति
जरठज्ञानी स मृगस्तां प्राक्तनीं जातिं विपश्चिज्जन्म कदा संस्मरिष्यति ॥ ४५ ॥

श्रीवसिष्ठ उवाच ।

योऽसौ त्रिगर्तनाथेन दत्तः क्रीडामृगस्तव ।
स्थितः क्रीडामृगागारे विद्धि तं त्वं विपश्चितम् ॥ ४६ ॥

त्रिगर्ता देशविशेषास्तेषां नाथेन राज्ञा तव उपायनत्वेन यः क्रीडामृगो दत्तः
स इदानीं क्रीडामृगबन्धनागारे स्थितोऽस्ति तं मृगं त्वं विपश्चितं विद्धि ॥ ४६

श्रीवाल्मीकिरुवाच ।

श्रुत्वेति राघवस्तस्यां सभायां विस्मयान्वितः ।
बालकान्मृगमानेतु प्रेषयामास भूरिशः ॥ ४७ ॥

अथानीतो मृगो मुग्धः सभां स्फारां विवेश सः ।
सर्वैः सभ्यगणैर्दृष्टः पुष्टिमांस्तुष्टिमानपि ॥ ४८ ॥

ताराबिन्दुयुतं देहबिन्दुभिः खं विडम्बयन् ।
दृष्टिपातोत्पलासारैः सुन्दरीः परितर्जयन् ॥ ४९ ॥

देहगतैर्बिन्दुभिः पृषद्भिस्ताराबिन्दुयुतं खं विडम्बयन्ननुकुर्वन् ॥ ४९ ॥

आदृतानादृतसभैर्नीला मरकतत्विषः ।
धावंस्तृणेच्छया लोलं मुग्धैश्चकितवीक्षितैः ॥ ५० ॥

आदृता दर्शनादरवत्यपि अनादृता सभा यैस्तथाविधैश्चकितवीक्षणैः
सभयकटाक्षैर्नीलवर्णाः सभास्तम्भादिखचितमरकतत्विषो
हरिततृणभ्रान्तिप्रयुक्तया इच्छया आदातुं धावन् ॥ ५० ॥

उत्कर्णोन्नयनोद्ग्रीवं क्षणभङ्गावलस्थितैः ।
उत्कर्णनयनोद्ग्रीवैः सभ्यानाकुलयञ्जवैः ॥ ५१ ॥

ऊर्ध्वीकृतकर्णनयनग्रीवं यथा स्यात्तथा क्षणभङ्गैरस्थिरैरवलैरनिवार्यैः
स्थितैरवस्थानैस्तथाविधैर्जवैश्च सभ्यान्सभागतान् जनान् दर्शनोत्कण्ठया
आस्कन्दनशङ्कया च आकुलयन् ॥ ५१ ॥

मृगमालोक्य तं लोकाः सराजमुनिमन्त्रिणः ।
अनन्ता बत मायेति चिरमासन्स्मयाकुलाः ॥ ५२ ॥

स्मयो विस्मयस्तदाकुला आसन् ॥ ५२ ॥

आश्चर्यचर्वणसुविस्मितसर्वलोका सर्वावलोकनघनोत्पलवर्षकृष्णम् ।
रत्नांशुजालकचितं मृगमीक्षमाणा सासीत्सभा कमलिनी लिपिनिर्मितेव ॥ ५३ ॥

सर्वेषां सभासदामवलोकनलक्षणैर्घनैर्निबिडैरुत्पलवर्षैः कृष्णं
नीलवर्णीकृतमिव स्थितं नानाविधरत्नानामंशुजालैः कान्तिसमूहै रचितं
परिष्कृतं तं मृगमीक्षमाणा सभा आश्चर्यस्याद्भुतरसस्य यच्चर्वणं
विगलितवेद्यान्तरतया अन्तरास्वादनं तेन सुविस्मिता विस्मयजडीकृताः सर्वे लोका
यस्यां तथाविधा सती लिपिनिर्मिता चित्रलिखिता कमलिनी पद्मवनीव आसीत् ॥ ५३ ॥

इत्यार्षे श्रीवा० वा० दे० मो० निर्वा० उ० अवि० विप० विपश्चिन्मृगलाभो
नामैकोनत्रिंशदधिकशततमः सर्गः ॥ १२९ ॥

इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे निर्वाणप्रकरणे उत्तरार्धे
विपश्चिन्मृगलाभो नामैकोनत्रिंशदधिकशततमः सर्गः ॥ १२९ ॥