१२८

अष्टाविंशाधिकशततमः सर्गः १२८

श्रीवसिष्ठ उवाच ।

अस्मादादेर्जनस्यैतत्प्रत्यक्षं नानुमानिकम् ।
शुद्धबोधशरीरेण नाधिभौतिकरूपिणा ॥ १ ॥

तमः श्वभ्रं समुत्तीर्य ब्रह्माण्डावरणानि च ।
विपश्चितोऽत्र भ्रमणमविद्यायामुदीर्यते ॥

इदं ज्योतिश्चक्रतत्परिमाणादिकं त्वया केन प्रमाणेनावगतं तत्राह -
अस्मदादेरिति । जनस्य योगिजनस्य योगज्ञानाभ्यासशोधितत्वाच्छुद्धो यस्तत्त्वबोधः
सर्वजगत्तत्त्वसाक्षात्कारस्तत्प्रधानेनातिवाहिकशरीरेण न
त्वाधिभौतिकस्थूलरूपेणेत्यर्थः ॥ १ ॥

एतदस्मज्जगत्स्वप्ने नान्येषु कथितं मया ।
अन्येष्वस्ति जगत्स्वप्नेष्वेवमन्यापि च स्थितिः ॥ २ ॥

एतद्यन्मया लोकालोकज्योतिश्चक्रादिसंस्थानं कथितं तदस्मद्दृष्टे जगत्स्वप्ने
प्रसिद्धं कथितमन्येषु तु न कथितम् । अन्येषु ब्रह्माण्डान्तरलक्षणेषु
जगत्स्वप्नेष्वप्येवमेवोत्सर्गतः स्थितिः क्वचिदन्यादृश्यपीत्यर्थः ॥ २ ॥

जगत्स्वप्नेषु चान्येषु संस्थानकथनेन किम् ।
न ह्यौपयोगिकादन्या कथा भवति धीमताम् ॥ ३ ॥

तर्हि तदपि वद तत्राह - जगदिति ॥ ३ ॥

सर्वेषामुत्तरे मेरुर्लोकालोकश्च दक्षिणे ।
येषामित्यनुमाऽशेषभूथौघे तेन पण्डिताः ॥ ४ ॥

हे पण्डिताः तेन उत्सर्गेण तु सर्वेषां ब्रह्माण्डानां मध्ये
सर्वद्वीपसमुद्राणामुत्तरे मेरुर्लोकालोकस्तु दक्षिणे इति अशेषभूथौघे येषां
जिज्ञासा तेषामनुमानमनुमा प्रवर्ततामित्यर्थः ॥ ४ ॥

प्रत्यक्षमेतदन्येषां यत्र तेऽन्ये जगद्भ्रमाः ।
नास्माकं विषये ते हि तथा संस्थानशोभिनः ॥ ५ ॥

ये त्ववान्तरविशेषास्ते तत्रत्यानामेव प्रत्यक्षा नात्रत्यानामित्याह - प्रत्यक्षमिति
॥ ५ ॥

सर्वेषामुत्तरे मेरुर्लोकालोकश्च दक्षिणे ।
सप्तद्वीपनिवासानां नान्येषामिति निश्चयः ॥ ६ ॥

अन्येषां ब्रह्माण्डाद्बहिर्गतानाम् ॥ ६ ॥

प्रकृतं शृणु हे राम तद्ब्रह्माण्डकवाटकम् ।
यत्प्रमाणं ततो वारि बाह्ये दशगुणं स्थितम् ॥ ७ ॥

ब्रह्माण्डस्य कवाटकं प्रागुक्तखर्परद्वयं यत्प्रमाणं
प्रागुक्तशतकोटियोजनप्रमाणं ततः परं बाह्ये दशगुणं वारि जलावरणं
स्थितम् ॥ ७ ॥

तद्ब्रह्माण्डकवाटं तु तृणं तृणमणिर्यथा ।
धत्ते वारि स्वभावेन नित्यं कल्पकरत्नवत् ॥ ८ ॥

ननु तस्य क आधारस्तत्राह - तदिति । तद्ब्रह्माण्डकवाटमेव पार्थिवभागतया
आकर्षणशक्त्या तद्वारि धत्ते । यथा
तृणमणिस्तृणचुम्बकमणिविशेषस्तृणमाकर्षणशक्तिरूपस्वभावेन धत्ते ।
यथा वा कल्पवृक्षोऽर्थिवाञ्छितानि रत्नानि धत्ते तद्वदित्यर्थः ॥ ८ ॥

सर्वेषामेव भावानां स्थितः कल्पकरत्नवत् ।
सर्वदा पार्थिवो भागस्तेनात्रैते पतन्त्यलम् ॥ ९ ॥

तर्हि मेघनिर्मुक्तजलकरकादयः समुद्रनद्यादिषु न पतेयुर्जले
आकर्षणशक्त्यभावात्किन्तु दूरादपि तीरभूमिमेवोपसृत्य तत्र पतेयुस्तत्राह -
सर्वेषान्ती । एते वृष्टिजलादयः ॥ ९ ॥

जलाद्दशगुणं बाह्ये स्थितं तेजो निरिन्धनम् ।
आकाशविशदं शान्तस्तब्धज्वालोदरोपमम् ॥ १० ॥

प्रागुक्ताद्ब्रह्माण्डावरणजलाद्बाह्ये ॥ १० ॥

तस्माद्दशगुणो बाह्ये संस्थितो वायुरायतः ।
वायोर्दशगुणं बाह्ये व्योम तिष्ठति निर्मलम् ॥ ११ ॥

ततः परतरं शान्तं ब्रह्माकाशमनन्तकम् ।
न प्रकाशं न च तमो महाचिद्घनमव्ययम् ॥ १२ ॥

ब्रह्माकाशमविद्याशबलब्रह्माकाशम् । चिद्घनं प्रज्ञानघनं सुषुप्तिकल्पम् ॥
१२ ॥

अनादिमध्यपर्यन्ते तस्मिन्ब्रह्ममहाम्बरे ।
महाचिन्नाम्नि सर्वात्मन्ययोनिर्वाणरूपिणि ॥ १३ ॥

अयोघनवदच्छिद्रनिर्वाणरूपिणि ॥ १३ ॥

ब्रह्माण्डानां तादृशानां दूरे दूरे पुनः पुनः ।
मिथोलक्षाणि लक्षाणि कचन्त्युपरमन्ति च ॥ १४ ॥

कचन्त्युद्भवन्ति । उपरमन्ति प्रलीयन्ते ॥ १४ ॥

न किञ्चित्कचयत्यत्र समे कचनरूपिणि ।
तादृङ्मयं तथारूपं तदात्मन्येव संस्थितम् ॥ १५ ॥

किं तत्कारणं यद्ब्रह्माण्डलक्षाणि कचयति तत्राह - न किञ्चिदिति । किन्तु
तद्ब्रह्मैवात्मनि अविद्यया तादृङ्मयमेवावस्थितम् ॥ १५ ॥

एष ते कथितः सर्वो दृश्यानुभवनक्रमः ।
अधुना शृणु किंवृत्तं लोकालोके विपश्चितः ॥ १६ ॥

प्रश्नोत्तरमुपसंहृत्य प्रकृतं श्रावयति - एष इति ॥ १६ ॥

स्वभ्यस्तपूर्वसंस्कारो विलसन्निश्चयेरितः ।
लोकालोकगिरेर्मूर्ध्नस्तमःश्वभ्रं पपात सः ॥ १७ ॥

सुष्ठु अभ्यस्तः पूर्वो दिगन्तदर्शनोद्योगसंस्कारो येन तथाविधनिश्चयेनेरितो
विपश्चित्तस्य लोकालोकगिरेर्मूर्ध्नः शिखरात्परतः प्रागुक्तं तमःश्वभ्रं पपात
विवेश ॥ १७ ॥

ददर्श तत्र शिखरप्रतिमैर्विहगैर्वपुः ।
विकर्तितं मनोदेहं प्रसृतं च स्वचिन्तिते ॥ १८ ॥

तत्र च निजं स्वं देववपुः
पर्वतशिखरप्रतिमैर्महत्तरैर्विहगैर्गृध्रादिभिर्विकर्तितं विच्छिद्य भक्षितं
ददर्श । तदनन्तरं च खचिन्तिते दिगन्तदर्शने मनोदेहमेव प्रवृत्तं ददर्श ॥
१८ ॥

देशस्य तस्य पुण्यत्वाद्देहं तच्चातिवाहिकम् ।
आधिभौतिकताबोधं नानयन्निर्मलाशयः ॥ १९ ॥

तस्य मरणप्रदेशस्य
पुण्यत्वात्स्थूलदेहभावगोचरसंस्कारोद्बोधकचतुर्विधभूतग्रामादि##-
अनयत् । आतिवाहिकभावं न विसस्मारेति यावत् ॥ १९ ॥

तावन्मात्रप्रबोधोऽसौ नाधिकं बोधमागतः ।
चिन्तयित्वाऽसितं कार्यन्न् बभूव प्रकृतेर्हितः ॥ २० ॥

तावन्मात्रः स्थूलदेहातिरिक्तात्ममात्रगोचरः प्रबोधो यस्य तथाविधोऽसौ विपश्चित्
ततोऽधिकं देहत्रयातिरिक्तशुद्धचिन्मात्रात्ममात्रगोचरं बोधं नागतः । ततो
दिगन्तदर्शनलक्षणं कार्यमसितमपर्यवसितं चिन्तयित्वा
प्रकृतेरुपसर्पणस्वभावस्य हितः अनुकूलो बभूव नोपरत इत्यर्थः ॥ २० ॥

श्रीराम उवाच ।

अदेहं प्रसरत्येतच्चित्तं कार्ये कथं मुने ।
आतिवाहिकसंवित्तेर्बोधः स्यात्कीदृशोऽधिकः ॥ २१ ॥

नन्वदेहं चित्तं बहिः कथं प्रसरति गच्छति । तदभ्युपगमेपि पूर्व
देवशरीरेणापि नभोवर्त्मन्यप्रतिहतगतिः स आसीत्ततस्तन्नाशेऽपि मनोदेहेन
नभोमार्गे गच्छतस्तस्य पूर्वदेहान्मनोमात्रमयदेहस्य को विशेषोऽभूदिति रामः
पृच्छति - अदेहमिति ॥ २१ ॥

श्रीवसिष्ठ उवाच ।

सङ्कल्पपथिकत्वेन यथान्तःपुरवासिनः ।
इदं मनः प्रसरति तथास्य प्रसृतं मनः ॥ २२ ॥

तत्राद्यप्रश्नस्योत्तरमाह - सङ्कल्पेत्यादिना । न हि सङ्कल्पस्य पथि प्रसरो
देहप्रसरमपेक्षते इत्यर्थः ॥ २२ ॥

भ्रमे स्वप्ने मनोराज्ये मिथ्याज्ञाने कथाश्रुतौ ।
यथा मनः प्रसरति तथा तत्प्रसृतं मनः ॥ २३ ॥

पतन्ति तु शरीरं तदातिवाहिकमुच्यते ।
आधिभौतिकधीर्भाति विस्मृत्यात्रैव कालतः ॥ २४ ॥

द्वितीयस्योत्तरमाह - पतन्तीति । तु शब्द आधिभौतिकापेक्षया विशेषद्योतनार्थः ।
यस्मिंस्तु देहे ते भ्रमस्वप्नमनोराज्यादयः पतन्ति प्रसरन्ति
तच्छरीरमातिवाहिकमित्यर्थः । अत्रातिवाहिके देह एव तद्भावविस्मृत्या
आधिभौतिकताबुद्धिरुदेतीति प्रागुक्तस्यानुवादो विशेषप्रदर्शनार्थः ॥ २४ ॥

अते तदान्तर्धिमायाते सर्परज्जुभ्रमोपमे ।
आधिभौतिकदेहेऽस्मिञ्छिष्यते त्वातिवाहिकः ॥ २५ ॥

कदा तर्हि आधिभौतिकभावनिवृत्त्या आतिवाहिकपरिशेषस्तत्राह - ते तदेति । ते इति
पदं पूर्वश्लोकान्वयि । विचारेण आधिभौतिकविभ्रमे अन्तर्धिमायाते सति तदा
आतिवाहिकः शिष्यते ॥ २५ ॥

आतिवाहिक एषोऽङ्ग निपुणं प्रविचार्यताम् ।
चिन्मात्रव्यतिरेकेण यावदत्रान्यदस्ति नो ॥ २६ ॥

आतिवाहिकदेहनिवृत्त्या चिन्मात्रपरिशेषेऽपि विचार एवोपाय इत्याशयेनाह -
आतिवाहिक इति । निपुणं तेजसा सोम्य शुङ्गेन सन्मूलमन्विच्छ इति
श्रुतिदर्शिततत्त्वदर्शनोपायेन ॥ २६ ॥

देशाद्देशान्तरप्राप्तौ यन्मध्ये संविदो वपुः ।
चिन्मात्रस्यास्य तद्रूपमनन्तस्यैकरूपिणः ॥ २७ ॥

निर्विषयचिन्मात्रा प्रसिद्धिस्तु प्राग्बहुशो वारितैवेत्याशयेन प्राग्बहुशः
पठितमेव श्लोकार्ध पुनः पठति - देशादिति । तद्रूपं प्रसिद्धमेवेति शेषः ॥
२७ ॥

क्व द्वैतं क्व च वा द्वेषः क्व रागादि तु कथ्यताम् ।
सर्वं शिवमनाद्यन्तं परो बोध इति स्मृतः ॥ २८ ॥

तत्र च द्वैतरूपस्य विषयस्य तत्प्रयुक्तरागद्वेषादेश्च प्रसक्तिरेव नास्तीत्याह -
क्वेति ॥ २८ ॥

निर्मनोमननं शान्तमासितं बोध उत्तमः ।
आतिवाहिकदेहस्थो न तं बोधमुपागतः ॥ २९ ॥

यन्निर्गतमनोमननमासितमवस्थानं स एवोत्तमो बोधः । आतिवाहिकदेहस्थो
विपश्चित्तु तं बोधं नोपागतः किन्तु तद्विबोधः आतिवाहिकदेहमात्रात्मबोधवान् ।
अत एवाग्रे विसरन्मनो ददर्शेति परेणान्वयः ॥ २९ ॥

विपश्चित्तद्विबोधोऽसौ ददर्श विसरन्मनः ।
आतिवाहिकबोधेन गर्भवासोपमं तमः ॥ ३० ॥

गर्भवासोपमं तमश्च ददर्श ॥ ३० ॥

तमसोऽन्ते विरिञ्चाण्डकवाटच्छेदभूतलम् ।
वज्रसारं हेममयं कोटियोजनविस्तृतम् ॥ ३१ ॥

विरिञ्चाण्डस्य कपाटप्रायो यश्छेदः खण्डस्तद्रूपं भूतलं
सम्पुटविभागसन्धिभूतमिति यावत् ॥ ३१ ॥

तदन्ते प्राप सलिलं तस्मादष्टगुणं ततः ।
कपाटभूम्यैव समं स्थितमर्णवपृष्ठवत् ॥ ३२ ॥

तदुत्तरं तदावरणप्राप्तिमाह - तदन्ते इति । कवाटभूम्यैव समं तुल्यतया
द्वीपान्ते अर्णवपृष्ठवत्स्थितम् । जलस्य
निराधारावस्थानायोगादण्डकपालखण्डमाश्रित्य तद्वदेव विभज्य स्थितमिति
भावः ॥ ३२ ॥

तमतीत्य ततः प्राप तेजोऽर्कगणभीषणम् ।
प्रलयाग्निघनज्वालापिण्डकोटरभास्वरम् ॥ ३३ ॥

तैजसाद्यावरणस्य तु न जलवदाधारापेक्षेति सन्धिविभागाभावात्पिण्डकोटरमिव
भास्वरमित्युक्तिः ॥ ३३ ॥

दाहशोकादिमुक्तेन वपुषा मानसेन तत् ।
तत्र गच्छन्स बुबुधे वहनं पूर्ववासितम् ॥ ३४ ॥

तत्र तैजसावरणे गच्छन् स विपश्चित्तदुत्तरं वाय्वावरणे वहनं बुबुधे ॥ ३४ ॥

उह्यमानो विवेदासावात्मानं त्वातिवाहिकम् ।
चित्तमात्रात्मनः स्वस्य किमिवोह्यत इत्यपि ॥ ३५ ॥

तच्च तस्य स्वप्नकल्पनाप्रायं न वास्तवमिति बुबुधे इति पदस्य तात्पर्यमित्याह -
उह्यमान इति ॥ ३५ ॥

इति बोधेन धीरात्मा तं तताराऽनिलार्णवम् ।
प्राप तद्विततं व्योम तस्माद्दशगुणं स्थितम् ॥ ३६ ॥

तादृशवेदनबलादेव वाय्वावरणतरणं तस्येत्याह - इतीति ॥ ३६ ॥

तदतिक्रम्य स प्राप ब्रह्माकाशमनन्तकम् ।
यत्र सर्वं यतः सर्वं यन्न किञ्चिच्च किञ्चन ॥ ३७ ॥

ब्रह्माकाशमविद्याशबलब्रह्माकाशम् ॥ ३७ ॥

मनसा प्रभ्रमंस्तत्र दूराद्दूरतरं ययौ ।
तेन दृष्टं च पृथ्व्यापस्तेजो वायुस्तथा जगत् ॥ ३८ ॥

दृष्टं संस्कारवशादिति भावः ॥ ३८ ॥

पुनः संसाररचनाः पुनः सर्गाः पुनर्दिशः ।
पुनर्महीधरा व्योम पुनर्देवाः पुनर्नराः ॥ ३९ ॥

पुनर्नरा दृष्टा इति विपरिणामेनानुषज्जते ॥ ३९ ॥

पुनः पञ्चमहाभूतपर्यन्ते ब्रह्म निर्घनम् ।
पुनस्तत्र जगन्त्युच्चैः पुनः सर्गाः पुनर्दिशः ॥ ४० ॥

निष्ठितं घनं निर्घनम् ॥ ४० ॥

ब्रह्माकाशस्ततः सर्गाः पुनरन्ये त्वनिष्ठिताः ।
इत्यसौ विहरन्दीर्घकालमद्यापि संस्थितः ॥ ४१ ॥

अनिष्ठिता अव्यवस्थिताः ॥ ४१ ॥

स्वनिश्चयाच्चिराभ्यस्तान्नासौ विरतिमेति हि ।
अन्तो नैवास्त्यविद्यायाः सा हि ब्रह्मैव सत्यता ॥ ४२ ॥

निश्चयाज्जगत्सत्यतानिश्चयात् । सत्यता सत्यस्वभावः पर्यालोचितश्चेत्सा ब्रह्मैव ॥ ४२

वस्तुतो नास्त्यविद्येह ब्रह्मण्यविकलात्मनि ।
इदं दृश्यमविद्येयमित्यात्मैष विकासितः ॥ ४३ ॥

तत्कुतस्तत्राह - वस्तुत इति ॥ ४३ ॥

यद्यथा जाग्रति स्वप्ने दृष्टं द्रक्ष्यसि पश्यसि ।
तत्तथा ब्रह्म सच्छान्तमासीदस्ति भविष्यति ॥ ४४ ॥

यद्ब्रह्म जाग्रति स्वप्ने च यथा यादृशवासनोद्भवेन प्राग्दृष्टं साम्प्रतं
पश्यस्यग्रेऽपि द्रक्ष्यसि तद्ब्रह्म तथैवासीदस्ति भविष्यति च ॥ ४४ ॥

वनतमःप्रविलोकनचक्रकं क्रमजगत्प्रतिभानमिदं महत् ।
परतया प्रतिभात्मतयानया न च सदङ्ग न वाप्यसदाकृति ॥ ४५ ॥

अत एवेदं जगत्सदसद्विलक्षणमनिर्वचनीयमेवेत्याह - घनतप्त इति । इदं
आसीदस्ति भविष्यतीति क्रमयुक्तं जगत्प्रतिभानं घनं तमः अविद्यामात्रमेव
प्रमीलितयोर्विलोचनयोस्तैमिरिकं चक्रकमिव महद्भाति । तच्च परञ्चिन्मात्रात्मा
तत्तया न सत् प्रतिभात्मतया अनया अज्ञदृष्टिप्रसिद्धया तु न असदाकृति । अत
उभयदृष्टिप्रामाण्ये अनिर्वचनीयमेवेत्यर्थः ॥ ४५ ॥

तेष्वेव तेष्विव च तेषु तनूतरेषु ब्रह्मोदरेषु चिरदूरतरं जगत्सु ।
सोऽद्याप्यसंविदिततत्त्वतया तयोच्चैः खण्डेषु रङ्कुरिव राघव बम्भ्रमीति ॥
४६ ॥

हे राघव स विपश्चित् अद्यापि असंविदिततत्त्वतया तेषु पूर्वदृष्टेष्वेव तेष्विव
तत्सदृशेष्वन्येषु च वासनामात्रत्वात्तनूतरेषु ब्रह्मणां विराजामुदरेषु
प्रसिद्धेषु जगत्सु वनखण्डेषु रङ्कुर्मृगविशेष इव उच्चैः स्ववासनौन्नत्येन
बम्भ्रमीति पुनःपुनर्भ्रमति । भ्रमेर्यङ्लुकि अभ्यासस्य नुक् ॥ ४६ ॥

इ० श्रीवा० वा० दे० मो० नि० उ० अ० वि० ब्रह्मगीतासु
ब्रह्माकाशविपश्चिज्जगच्चन्द्रदर्शनं नामाष्टाविंशत्युत्तरशततमः सर्गः ॥
१२८ ॥

इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे निर्वाणप्रकरणे उत्तरार्धे
ब्रह्माकाशविपश्चिज्जगच्चन्द्रदर्शनं नामाष्टाविंशत्युत्तरशततमः सर्गः ॥
१२८ ॥