सप्तविंशाधिकशततमः सर्गः १२७
श्रीराम उवाच ।
भगवन्कथयैतन्मे कथं भूगोलकं स्थितम् ।
कथमृक्षगणो याति लोकालोकः कथं गिरिः ॥ १ ॥
भूमिनक्षत्रचक्रादेः स्थितिस्तत्परतो नभः ।
ब्रह्माण्डखर्परद्वन्द्वस्थितिश्चात्रोपवर्ण्यते ॥
प्रासङ्गिको रामप्रश्नः । निराधारं भूगोलकं कथं स्थितम् । ऋक्षगणो
नक्षत्रचक्रं च निराधारं कथं याति भ्रमति । त्वदुक्तो गिरिश्च कथं लोकालोकः ।
तत्सञ्ज्ञानिमित्तं किमित्यर्थः ॥ १ ॥
श्रीवसिष्ठ उवाच ।
यथा सङ्कल्परचिता शिशोर्व्योमनि तिष्ठति ।
वीटा चिन्मात्रबालेन कल्पिता भूस्तथाम्बरे ॥ २ ॥
तत्राद्यप्रश्नस्य वसिष्ठः प्रथममुत्तरमाह - यथेति । वीटा कन्दुकः ।
चिन्मात्रबालेन हिरण्यगर्भेण कल्पिता भूरपि तथा अम्बरे आकाशे तिष्ठति न
पततीत्यर्थः ॥ २ ॥
यथा तिमिरिकाक्षाणां केशचन्द्रादिदर्शनम् ।
चिदाकाशस्य सर्गादौ तथा पृथ्व्यादिदर्शनम् ॥ ३ ॥
मिथ्यात्वाद्वा पतनसम्भावना वारणीयेत्याह - यथेति । तिमिरमस्यास्तीति तिमिरिकम्
। मत्वर्थीयष्ठन् ॥ ३ ॥
यथा सङ्कल्पनगरं धार्यमाणं न दृश्यते ।
धार्यते धार्यते मा च तथोर्व्यनुभवश्चितेः ॥ ४ ॥
धार्यमाणं केनचिदाधारेणाध्रियमाणं न दृश्यते नानुभूयते ।
साङ्कल्पिकैरेव स्तम्भकुड्यादिभिर्धार्यते यद्यपि तथापि
साङ्कल्पिकस्तम्भादेरवस्तुत्वान्मा धार्यते न धार्यते च तथोर्व्यपीत्यर्थः ॥ ४ ॥
यद्यथा यावदाभाति चिति चित्त्वात्स्वभावतः ।
तत्तथा तावदाभाति तत्र तत्र तदात्मकम् ॥ ५ ॥
सर्ववस्तुस्वभावानां चिदधीनसिद्धिकत्वादधृतगोलकाकारेण चिता सिद्धाया
भूमेस्तादृश एव स्वभावो वाऽनुमीयतामित्याशयेनाह - यद्यथेति ।
तदात्मकमिति वस्तुस्वभावस्तथेति तत्प्रकारस्वभावस्तावदिति तदायुर्नियतिस्वभावः
परिगृह्यते ॥ ५ ॥
तिमिराक्रान्तनेत्रस्य केशोण्ड्रकमिवाम्बरे ।
चिन्मात्रस्य महीगोलो यो भातः स तथा स्थितः ॥ ६ ॥
केशचन्द्रादिदर्शनमित्यत्र केशदर्शनं स्पष्टयति - तिमिरेति । तथा भ्रान्त्यैव
स्थितः ॥ ६ ॥
ऊर्ध्वं वहन्त्यः सरितस्तदधस्ताद्धुताशनः ।
चिति चेत्स्वप्नवद्भाति तत्तथा तत्स्थितं भवेत् ॥ ७ ॥
नद्यादीनां निम्नवाहित्वस्वभावादिविपरीतस्वभावोऽपि चेत् क्वचिच्चिता भास्येत
तर्ह्यस्तीत्येव प्रतिपत्तिः स्यान्न नास्तीति यथा स्वप्ने इत्याह - ऊर्ध्वमिति ।
तासामधस्तादधोमुखज्वालो हुताशनश्चिति चेत्सर्गादौ भाति तत्प्रतीतं
वैपरीत्यमिदानीमपि स्थितमेव भवेन्नास्थितम् ॥ ७ ॥
तस्मात्पतन्ती भूर्भाता पतत्येवानिशं जगत् ।
उत्पतन्ती तु चिद्भाता तथा नानात्मिका भवेत् ॥ ८ ॥
अत एव वादिनां भूमेरजस्रपतनोर्ध्वगमनभ्रमणप्लवनादिकल्पनादि
तत्तद्बुद्ध्यवच्छिन्नचित्सत्तया सत्यैवेत्याशयेनोपसंहरति - तस्मादिति । तथाहि
- वादिनः केचिद्गुरुत्वादजस्रं महाकाशे पतत्येव भूः
आकाशस्याधोदेशावध्यभावाच्च न क्वचिदस्याः पतनं विश्राम्यति
विपुलतरत्वाच्च तत्पतनमस्माभिर्न विभाव्यते । ज्योतिश्चक्रं चोभयतो मेरुसंलग्ने
ध्रुवद्वये बद्धं सहैव पतति । तच्च
लघुतरत्वात्पतनवशादेवानादिकालाद्भ्रमतीति मन्यन्ते । अन्ये तु योऽप्सु नावं
प्रतिष्ठितां वेद प्रत्येव तिष्ठति इति श्रुतेर्भूम्याधारोऽर्णवोऽस्ति तत्रानिबद्धा नौरिव
भ्रमन्त्येवास्ते भूः प्रलये च तत्रैव निमज्जति सर्गकाले च
जलतुम्बिकान्यायेनोर्ध्वमायातीति । अन्ये तुमन्यन्ते । उपर्यधस्तात्परितश्च
भूमेरपरिच्छिन्नं जलमेवास्ति । तत्रान्तश्छिद्रेषु भूमेः सप्तलोकाः
पवनपूर्णान्तरालाः सन्ति । तत्रान्तरस्य
वायोर्लाघवातिशयबलाज्जलमग्नतुम्बीफलमिव सततमूर्ध्व गच्छतीति । अपरे तु
मन्यन्ते भूगोलात्परित आकाश एव । तस्य चानन्त्याद्गुरुत्वान्मेरुसंलग्नदेवदृशा
दक्षिणभागस्यैवाधोभागत्वाद्दक्षिणत एव सदा पततीति । अन्ये त्वासुरा वादिनः
पातालमेवोर्ध्वदेशं मन्यमाना देवाभिमतामूर्ध्वदिशमध इति कल्पयन्त
उत्तरत एव गुरुत्वाद्भूः पततीति मन्यन्ते । अनयैव रीत्या प्राच्यपाश्चात्या अपि
स्वस्वदेशमेवोर्ध्वं मन्यमानाः प्राचीप्रतीच्योरपि तपनं मन्यन्ते । अन्ये तु
ज्योतिश्चक्रं न भ्रमति किन्तु भूरेव स्वस्थाने भ्रमति तद्द्वयमविभावयन्तो
नौस्थास्तरुचलनमिव ज्योतिश्चक्रं भ्रमत्पश्याम इति । अपरे तु भूमिरेव
सर्वतोऽधस्तस्याः परितः स्थितानां जनानां दृष्ट्या तत्तच्छिरोदेशोपलक्षिताः
सर्वा एवोर्ध्वदिशः । तत्र गुरुत्वाद्यस्यामधोदिशि पृथिव्याः पतनं सम्भाव्येत
सैव निर्धारितरूपा नास्तीति विनिगमनाविरहात्क्वापि न पततीति स्वस्थाने स्थिरैवास्ते इति ।
तेषां तेषां वादिनां स्वस्वबुद्ध्यवच्छिन्नचित्सत्तया सर्वं सत्यं स्वतस्तु न
किञ्चिदपि सत्यमिति भावः । तथा तत्तद्भानानुसारेण विरुद्धनानात्मिकैव भवेत् ॥ ८ ॥
स्तब्धभाता स्थिता स्तब्धा सालोका तु प्रकाशिनी ।
निरालोका निरालोकलोकानामात्मनि स्थिता ॥ ९ ॥
स्तब्धा निश्चलेति भाता स्तब्धैव । दिवारात्रं ये प्राणिनोऽप्रतिहतचक्षुषस्तद्दृष्ट्या
सदैव सालोका प्रकाशवती । एवं निरालोकलोकानां जात्यन्धानां दृशा सदैव
निरालोका । आत्मनि बुद्ध्यवच्छिन्नचिति ॥ ९ ॥
चिद्भानैकानुसारेण ताराचक्रं तथा मही ।
असदेव सदैवेदं भातीदमविखण्डितम् ॥ १० ॥
एवं सदसद्वादिनां चिद्भानानुसारेण तथापि ताराचक्रं मही च तथैव
भवतीत्याह - चिद्भानेति ॥ १० ॥
आलोकालोकमेवाथ नभःखातं ततो महत् ।
तम एकार्णवाकारं स्थितं तत्र क्वचित्क्वचित् ॥ ११ ॥
प्रश्रद्वयोत्तरे समाप्ते तृतीयप्रश्नोत्तरमारभते - आलोकालोकमिति । इयं भूः
आलोकालोकं लोकालोकमभिव्याप्य स्थिता तावत्येव । अथ तदनन्तरं नभोरूपं
खातं गर्तो वलयाकारस्तत्र च महत्तमस्तत्रैकार्णवाकारम् । क्वचित्क्वचिदित्युक्त्या
तच्छृङ्गद्वयान्तराल ईषत्सौरालोकप्रवेशोऽप्यस्तीति गम्यते ॥ ११ ॥
दूरत्वादृक्षचक्रस्य करालत्वान्महागिरेः ।
क्वचित्तमः क्वचित्तेजस्तत्रैवाचत्वरेऽपि च ॥ १२ ॥
तस्य लोकालोकनामप्रवृत्तौ निमित्तमाह - दूरत्वादिति । ऋक्षचक्रस्य
नक्षत्रचक्रस्य खातात्परतः परिवर्तिनः अतिदूरत्वात् गिरेश्च करालत्वात्क्वचिदेकभागे
तमः ।चत्वरशब्देनाधित्यका गौण्या वृत्त्योच्यते । आचत्वरेऽधित्यकापर्यन्ते
क्वचिद्भागे तेजोपि चेति स लोकालोकाख्य इत्यर्थः ॥ १२ ॥
लोकालोकगिरेः पारे स्थितादाकाशमण्डलात् ।
दशदिक्कं सुदूरेण ऋक्षचक्रं विवर्तते ॥ १३ ॥
दूरत्वमेव दर्शयति - लोकालोकेति । विवर्तते परिभ्रमति ॥ १३ ॥
आपातालदिवो नद्धमृक्षचक्रं तदम्बरे ।
दशदिक्कं प्रसरति पतदूर्ध्वादृतेऽभितः ॥ १४ ॥
अध ऊर्ध्व च कियद्विस्तृतं तत्राह - आपातालदिव इति । सर्वोर्ध्वाद्ध्रुवादृते
अन्यत्सर्व पतद्भ्रमत् ॥ १४ ॥
भूलोकमेव पातालयुतं नक्षत्रमण्डलम् ।
पर्येति लोकालोकान्ते नान्यच्चित्कल्पनाच्च तत् ॥ १५ ॥
इदं नक्षत्रमण्डलं पातालसहितं कृत्स्नं भूलोकं पर्येति प्रदक्षिणीकरोति ।
तच्च चित्कल्पनादन्यन्न ॥ १५ ॥
सलोकालोकभूलोकद्विगुणात्खादनन्तरम् ।
पकवाक्षोटस्य भिस्सेव स्थितं नक्षत्रमण्डलम् ॥ १६ ॥
पक्वस्याक्षोटफलस्य भिस्सा बीजसारावरणभागैव ॥ १६ ॥
द्विगुणा नभसस्तस्मादृक्षचक्रस्य पुष्टता ।
दशदिक्कं विसरतो बिल्वत्वक्सदृशस्थितेः ॥ १७ ॥
तस्माद्भूलोकद्विगुणान्नभसः ऋक्षचक्रस्य द्विगुणा पुष्टता अन्तर्दलविस्तारः ॥ १७
॥
संविद्घनस्य कचनं यादृशं कल्पनात्मकम् ।
यदित्थं सन्निवेशेन नन्वियं जागती स्थितिः ॥ १८ ॥
संविद्घनस्य शबलब्रह्मणः सत्यसङ्कल्पात्मकं यादृशं कचनं
तदेवेत्थं सन्निवेशेन ब्रह्माण्डतदवयवरूपेण जागती स्थितिरित्यर्थः ॥ १८ ॥
नक्षत्रचक्राद्द्विगुणं ततोऽन्यद्विद्यते नभः ।
तच्च क्वचित्प्रकाशाढ्यं क्वचित्सान्द्रतमोमयम् ॥ १९ ॥
ततः परतः पूर्वोक्तनभसोऽन्यन्नभो विद्यते ॥ १९ ॥
पर्यन्ते तस्य नभसः स्थितं ब्रह्माण्डखर्परम् ।
एकमूर्ध्वे परमधो गगनं मध्यमेतयोः ॥ २० ॥
योजनानां कोटिशतं पुष्टं वज्रदृढं च तत् ।
स्थितं संवेदमयं व्योम्नि व्योममयात्मकम् ॥ २१ ॥
तदन्तर्दलपरिमाणमाह - योजनानामिति । संवेदनमयं कल्पनामात्ररूपं
परमार्थतो व्योमविकारपञ्चीकृतभूतकार्यभूतं व्योम चिदाकाशमेव ॥ २१ ॥
सर्वदिक्कं महागोले नभसि स्वर्कतारकम् [स्वर्गतारकं इति मूले
व्याख्यायां च पाठः ।] ।
किमत्रोर्ध्वमधः किं स्यात्सर्वमूर्ध्वमधश्च वा ॥ २२ ॥
महागोलाकारे नभसि स्वर्कतारकं ज्योतिश्चक्रं सर्वदिक्कं तिष्ठति । एवं सति
किमत्र अस्मिन् ज्योतिश्चक्रे किमूर्ध्वं किमधः स्यात् यदि स्यात्तर्हि सर्वमूर्ध्व सर्व
चाधः । चशब्दात्सर्वं दक्षिणोत्तरपूर्वपश्चात्तोऽपि वा स्याच्दित्यर्थः ॥ २२ ॥
पतनमुत्पतनं गमनं स्थितं चित इति स्फुरितं न तु वस्तु तत् ।
पतनमस्ति न चोत्पतनं न वा गमनमागमनं स्थितमित्यपि ॥ २३ ॥
सर्ववस्तूनां पतनं उत्पतनं तिर्यग्गमनं स्थितम् । एकत्रावस्थानं यद्भाति
तच्चितः प्रत्यगात्मनः स्फुरितं प्रतिभानमात्रमेव । वस्तुतस्तु न पतनमस्ति न
चोत्पतनमस्ति न वा गमनमागमनं स्थितमवस्थितं किञ्चिदित्यप्यस्ति ।
अद्वयत्वविरोधादित्यर्थः ॥ २३ ॥
इत्यार्षे श्रीवासिष्ठमहारामायणे वा० दे० मो० नि० उ० अ० वि० भूगोलनिर्णयो नाम
सप्तविंशाधिकशततमः सर्गः ॥ १२७ ॥
इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे निर्वाणप्रकरणे उत्तरार्धे
भूगोलनिर्णयो नाम सप्तविंशाधिकशततमः सर्गः ॥ १२७ ॥