१२६

षड्विंशाधिकशततमः सर्गः १२६

श्रीराम उवाच ।

अनन्तरं मुनिश्रेष्ठ कुर्वन्तः किं विपश्चितः ।
आसंस्तेषु दिगन्तेषु सद्वीपाब्धिवनाद्रिषु ॥ १ ॥

मृतानामिह सर्वेषां स्वान्तः संसृतिविभ्रमः ।
उत्तरस्य तमःखातदर्शनान्तोऽनुवर्ण्यते ॥

तेषु पूर्वादिषु दिगन्तेषु गतास्ते विपश्चितः किं कुर्वन्त आसन् ॥ १ ॥

श्रीवसिष्ठ उवाच ।

शृणु किंवृत्तमेतेषां तात तत्र विपश्चिताम् ।
तालीतमालमालाढ्यद्वीपाद्रिवनचारिणाम् ॥ २ ॥

एतेषां किंवृत्तं वृत्तान्तम् ॥ २ ॥

क्रौञ्चद्वीपगिरेरेको विपश्चित्पश्चिमे तटे ।
कटेनाद्रितटे पिष्टः करिणा कमलं यथा ॥ ३ ॥

तेषां मध्ये एको विपश्चित् क्रौञ्चद्वीपे प्रसिद्धस्य वर्षसीमगिरेः पश्चिमे तटे
भागे करिणा अद्रितटे वप्रशिलायां कटेन गण्डेन दन्ताभ्यां पिष्टः सञ्चूर्णितो
मृत इत्यर्थः । वरप्रार्थनकाले आसिद्धगम्यमध्वानं मृत्युरस्माकमस्तु मा
इत्यवधिकरणात्तदुत्तरं सिद्धागम्योऽध्वेत्यनुक्तमपि गम्यते । एवमग्रेऽपि बोध्यम् ॥
३ ॥

द्वितीयो नभसा नीतो रक्षसा विक्षताङ्गकः ।
निक्षिप्तो वाडवे वह्नौ तत्र भस्मत्वमागतः ॥ ४ ॥

द्वितीयो विपश्चिद्रक्षसा युद्धे विक्षताङ्गको नभसा नभोमार्गेण नीतो वाडवे
वह्नौ सामुद्रे निक्षिप्तस्तत्र भस्मत्वं चागतः ॥ ४ ॥

तृतीयस्त्रैदशं देशं नीतो विद्याधरेण वै ।
गतोऽप्रणामकुपितशक्रशापेन भस्मताम् ॥ ५ ॥

त्रैदशं देशमिन्द्रसभां गतः । तत्र च अप्रणामान्नमस्काराकरणात्कुपितस्य
शक्रस्य शापेन भस्मतां गतः ॥ ५ ॥

चतुर्थश्चतुरं गच्छन्कुशद्वीपगिरेस्तटे ।
दुर्वारेण नदीकच्छे मकरेणाष्टधाकृतः ॥ ६ ॥

चतुर्थो विपश्चित्कुशद्वीपगिरेस्तटे नदीकच्छे मकरेण अष्टधा शकलीकृतो मृत
इत्यर्थः ॥ ६ ॥

इति ते पञ्चतां प्राप्ता दिङ्मुखेष्वाकुलाशयाः ।
क्षये चतुर्षु चत्वारो भूपाला लोकपालवत् ॥ ७ ॥

इति अनया रीत्या ते चत्वारो भूपाला विपश्चितः पञ्चतां मरणं प्राप्ता यथा क्षये
कल्पान्ते चत्वारो लोकपालाः पञ्चतां यान्ति तद्वत् ॥ ७ ॥

अथ तेषां ददर्शासौ व्योम्न्येव व्योमरूपिणाम् ।
संवित्प्राक्तनसंस्काराद्व्योमात्मावनिमण्डलम् ॥ ८ ॥

अथ मरणानन्तरं तेषां संविद्व्योमात्मा भूत्वा तस्मिन्व्योम्न्येव अवनिमण्डलं
पूर्ववद्ददर्श ॥ ८ ॥

सप्तद्वीपाब्धिवलयं पुरपत्तनभूषणम् ।
सुरशैलशिरःपीठं ब्रह्मलोकशिरोमणिम् ॥ ९ ॥

अवनिमण्डलं कीदृशं ददर्श तदाह - सप्तद्वीपेत्यादि । सुरशैलो मेरुः स एव
शिरःपीठमिवोन्नतो यस्य । ब्रह्मलोकोऽत्र मेरुस्थन्न् ब्रह्मगृहम् ॥ ९ ॥

चन्द्रार्कबिम्बनयनं तारामुक्ताकलापकम् ।
विलोलमेघवसनं नानावनतनूरुहम् ॥ १० ॥

देहान्विपश्चितां संविद्ददर्श चतुरोऽपि सा ।
प्राग्वत्कल्पपरावृत्तौ द्यौर्दिगन्तानिवाततान् ॥ ११ ॥

कल्पः प्रलयस्तत्परावृत्तौ सर्गारम्भकाले । द्यौरिति तत्र प्रथमसृष्टाः
प्रजापतयो गृह्यन्ते ॥ ११ ॥

आतिवाहिकसंवित्तेस्तेऽव्योम्नि व्योमतात्मकाः ।
आधिभौतिकदेहत्वभावान्ददृशुरग्रतः ॥ १२ ॥

अव्योम्न्येव चिदात्मनि व्योमताप्रतीतिस्तदात्मकास्ते विपश्चितः
आतिवाहिकसंवित्तेर्मानसप्रतिभासमात्रस्य विषये प्रातिभासिकदेहे
आधिभौतिकदेहत्वप्रयुक्तस्थौल्यजाड्यादिभावान् अग्रतो ददृशुः ॥ १२ ॥

अस्यात्मकत्वेऽविद्येयं कियती स्यादितीक्षितुम् ।
चत्वारोऽपि प्रवृत्तास्ते संस्कारवशतः पुरः ॥ १३ ॥

अस्यैवं निश्चितस्य देहस्य अज्ञात आत्मा आत्मकस्तद्भावे सति इयं
दृश्यपृथ्व्यादिरूपा अविद्या कियती किम्परिमाणा स्यादितीक्षितुं
पूर्वसंस्कारवशात्प्रवृत्ताः ॥ १३ ॥

दृश्यदर्शनयोरुर्वीमण्डलानुभवाकृतेः ।
निष्ठान्न् द्रष्टुमविद्याया भ्रेमुर्द्वीपान्तराणि ते ॥ १४ ॥

दृश्यदर्शनयोर्मध्ये उर्वीमण्डलरूपाया अनुभवाकृतेरविद्याया
निष्ठामियत्तया परिच्छित्तिं द्रष्टुम् ॥ १४ ॥

द्वीपसप्तकमुल्लङ्घ्य समहार्णवसप्तकम् ।
विपश्चित्पश्चिमः प्राप घनभूमौ जनार्दनम् ॥ १५ ॥

तेषु पश्चिमो विपश्चित् घनभूमौ प्रागुक्तस्वर्णघनायां भूमौ क्रीडन्तं
जनार्दनं भाग्योदयवशात्प्राप ददर्श ॥ १५ ॥

तस्मादनुपमं ज्ञानन्न् समासाद्य दिगन्तरे ।
तस्मिन्नेव समाधाने सोऽतिष्ठद्वर्षपञ्चकम् ॥ १६ ॥

तस्माज्जनार्दनादनुपमं ज्ञानं ब्रह्मविद्यां समासाद्य तस्मिन्नेव दिगन्तरे सः
समाधाने समाधौ वर्षपञ्चकमतिष्ठत् ॥ १६ ॥

ततो देहं परित्यज्य चित्ते सत्तामुपागते ।
स तत्प्राण एवाकाशं परं निर्वाणमाययौ ॥ १७ ॥

देहं देहभावं परित्यज्य वीतहव्योपाख्यानोक्तरीत्या चित्ते सत्तां सन्मात्ररूपताम् ।
असत्तामिति वा च्छेदः । स विपश्चित् परं निर्वाणं कैवल्यमाययौ यथा तस्य प्राण
आकाशभावमाययौ तद्वत् । उपलक्षणमेतत् षोडशकलानाम् । गताः कलाः
पञ्चदश प्रतिष्ठाम् इति श्रुतेः ॥ १७ ॥

पूर्वः पर्वणि शीतंशुबिम्बपार्श्वे स्थितं वपुः ।
चिन्तयंश्चिरमुन्नष्टदेहश्चन्द्रपुरे स्थितः ॥ १८ ॥

पूर्वः पूर्वदिक्प्रवृत्तो विपश्चित् पर्वणि राकायां शीतांशोः पूर्णचन्द्रस्य
बिम्बपार्श्वे चन्द्रसन्निधाविति यावत् । स्थितं स्वं वपुश्चिरमैन्दववत्
आतद्भावोदयं चिन्तयन्नुन्नष्टदेहो भूत्वा चन्द्रपुरे स्थितः । नन्विदमयुक्तम् ।
चतुर्ष्वपि शरीरेष्वेको हि विपश्चिज्जीवो योगिकायव्यूहेष्विव विभक्तं स्थितः । तस्य
पश्चिमशरीरे विष्णुप्रसादाज्ज्ञानेन निर्वाणप्राप्तौ कोऽन्यः पुनः
पूर्वविपश्चिच्छरीरे चन्द्रोपासनया चन्द्रलोकं यायात् । न ह्येकस्यैव जीवस्य
क्वचिन्मुक्तिः क्वचिद्बन्धश्च युगपत्समञ्जसौ । मुक्तिफलस्य
पाक्षिकत्वपरिच्छिन्नत्वयोरापत्तेः । न चैकस्य देहचतुष्टयधारणेन
जीवचतुष्टयभागो जीवान्तरोत्पत्तिर्वा युक्ता । आद्ये चतुर्धा विभागे पूर्वजीवस्य
नाशापत्तेः । द्वितीयेऽप्यभिनवोत्पन्नानां कामकर्मवासनादिबीजाभावेन
संसारानापत्तेः । न च भोगवैचित्र्यमिव बन्धमोक्षवैचित्र्यं कर्मभिर्मायया वा
अविरोधेन निर्वोढुं शक्यम्
मोक्षस्याकर्मतन्त्रत्वाद्विश्वमायानिवृत्तिश्रुतिविरोधाच्चेति चेत् । सत्यम् ।
अयमत्राशयो भगवतो वसिष्ठस्य लक्ष्यते - न जीवो नाम ब्रह्माकाशादतिरिक्तः
कश्चिदस्ति । ब्रह्मैव ह्यन्तःकरणोपाधिषु मायया विभक्तं
तद्गतकामकर्मवासनानुसारेण संसरदिव विभाव्यमानं जीव इत्युच्यते ।
तत्रान्तःकरणानां दीपवद्बहूनां मेलने एकत्वमुपचयश्च भवति । एकस्य च
योगदेवताप्रसादादिनिमित्तवशाद्युगपद्विरुद्धानेकदेश##-
तुल्यदेशकालभोग्यसमानकामकर्मवासनोद्भवस्तदा तद्भोगाय मेलने
एकजीवत्वमेव भवति यावद्विरुद्धदेशभोगहेतुकर्मोद्भवं लाघवादेकमेव
भोगायतनं शरीरं सम्पद्यते । यथा युधिष्ठिरजीवो धर्मस्य इन्द्रस्य च
मेलनेनैको जीवः यथा वा भीमस्य वाय्विन्द्रयोर्मेलनेनैको जीवः यथा वा अर्जुनजीवो
द्वयोरिन्द्रयोर्नरस्य च मेलनेनैकः यथा वा नकुलसहदेवयोरिन्द्रस्याश्विनोश्च
मेलनेनैको जीवः । द्रौपद्याश्च नारायणीलक्ष्मीगौर्यंशमेलनेनैको जीवः
पञ्चेन्द्रोपाख्यानादिपर्यालोचने प्रसिद्धः । यथा वा
अग्नेर्वायोश्चेन्द्रशापादगस्त्यावतारे मेलनेनैको जीव इत्याद्यूह्यम् । एकस्य
जीवस्यानेकधोपाधिविभागे अनेकजीवतापि । इन्द्रहन्तारं पुत्रं कश्यपाद्गर्भे
प्राप्य अशुचित्वेन सुप्ताया दितेरेकजीवैकशरीरकस्य गर्भस्येन्द्रेण प्रथमं
सप्तधा छेदने सप्त जीवास्तत एकैकस्य सप्तधा छेदने
जातानामेकोनपञ्चाशन्मरुतामेकोनपञ्चाशज्जीवाः सम्पन्नाः ।
वटेक्षुदूर्वादीनां च काण्डशाखारुहां प्रतिशाखं प्रतिकाण्डं च प्ररोहेण
जीवनदर्शनादेकस्य नानाजीवात्मनौपाधिको विभागश्च प्रसिद्धतर एव । इत्थं च
प्रकृतेऽपि चतुर्णा जीवानां यावत्समानकामकर्मोद्भवे एकदेहतया
राज्यपरिपालनम् विरुद्धभिन्नदेशभोग्यकर्माद्युद्भवे च देहादिविभागेन
दिगन्तरप्रसर्पणमिति कल्पने वा एकस्यैव विपश्चिज्जीवस्योपाधिविभागेन
मरुद्वच्चतुर्जीवभावोभूदिति कल्पने वा एकमुक्तौ न सर्वमुक्तिप्रसङ्गः । न च
बहूनां मेलनेनैकजीवारम्भे तस्याभिनवस्य कर्माभावात्संसारानुपपत्तिः ।
आरम्भवादेनाभिनवजीवोत्पत्त्यनभ्युपगमात् ।
गङ्गायमुनयोर्मेलनेनैक्यापत्तावप्यभिनवगङ्गोत्पत्तिबुद्ध्यभावेन सैवेयं
गङ्गेति प्रत्यभिज्ञया
द्वयोरप्येकगङ्गात्मनावस्थानवदनादिजीवयोरेवैक्येनावस्थाने बाधकाभावात् ।
उपाधिद्वयस्य मेलनेनैक्ये उपहितेऽपि मेलनैक्यस्य सर्वप्रत्ययसिद्धत्वात् । एकत्वेनापि
प्राक्तनकर्मभोगसम्भवात् । एवमेकस्य चतुर्जीवभावे प्रत्यभिज्ञया चतुर्णामपि
प्राक्तनजीवादभेदेन तद्गतकामकर्मवासनाराशीनां चतुर्धा विभागेन
व्यवस्थितेः संसरणोपपत्तिस्तत्रैकस्य मुक्तावप्यपरस्य
ज्ञानाभावात्संसरणोपपत्तिश्च । न चैवं मुक्तिफलस्य
पाक्षिकत्वपरिच्छिन्नत्वयोः प्रसङ्गः । व्यष्टिजीवानां मुक्तावपि
समष्टिहिरण्यगर्भजीवस्याधिकारान्ते मुक्तिवदुपपत्तेः । न हि समष्ट्यात्मनो
हिरण्यगर्भस्य तत्त्वज्ञानं व्यष्टीनां मुक्त्यभावे
पाक्षिकपरिच्छिन्नमोक्षफलम् । यत्र वर्तमानेऽपि व्यष्टिसमष्ट्यभेदेन
मुक्तिसङ्करस्तत्र साम्प्रतिके जीवभेदे सति प्राक्तनतदभेदमात्रेण
मुक्तिसङ्करापादनस्यानवसर एव । भूयश्चान्ते विश्वमायानिवृत्तिः इति श्रुतिरपि
तत्तज्जीवोपाधिकृत्स्नबीजनिवृत्तिपरा । अन्यथा एकमुक्त्यैव ज्ञानशून्यानामपि
सर्वजीवानां मुक्त्यापत्तेः । तद्यो यो देवानां प्रत्यबुध्यत स एव
तदभवत्तथर्षीणां तथा मनुष्याणाम् बहवो ज्ञानतपसा पूता
मद्भावमागताः इत्याद्यनेकश्रुतिस्मृतिवैयर्थ्यापत्तेश्च । न
चेदानीन्तनमन्दाधिकारिणो भाविबहुतरजन्मलभ्यमोक्षप्रत्याशया
साधनानुष्ठानं न स्यान्ममैकस्यानेकजीवभावे क्वचिन्मोक्षेऽपि
क्वचिद्बन्धानुवृत्त्यनिवृत्तिः स्यादिति शङ्कया अनिर्मोक्षशङ्कानपनयादिति
वाच्यम् । मोक्षसाधनानुष्ठानप्रवृत्तेः स्वल्पमप्यस्य धर्मस्य त्रायते महतो
भयात् न हि कल्याणकृत्कश्चिद्दुर्गतिं तात गच्छति अनेकजन्मसंसिद्धस्ततो याति
परां गतिम् इति स्मृतिप्रामाण्यानुरोधेनोत्तरजन्मसु नानाजीवात्मना अविभागस्य
विभागे वा सहैव साधनसंस्कारैर्विभागात्सर्वत्र क्रमेणावश्यं ज्ञानोदयस्य
वानुमानेन साधनानुष्ठाने प्रवृत्त्युपपत्तेः । वर्णिता हि तथैव
भिक्षुजीवटोपाख्याने भिक्षोः साधनानुष्ठानवतः
प्रामादिकसङ्कल्पप्राप्तनानाजीवभावस्यान्ते शतरुद्रभावे सर्वेषां
तद्विभागजीवानां ज्ञानावाप्तिर्मुक्तिश्चेति । न चैवं
सर्वजीवमुक्त्यनापत्तिरिष्टापत्तेः । मायादृष्ट्या मायानन्त्यस्य न रूपमस्येह
तथोपलभ्यते नान्तो न चादिर्न च सम्प्रतिष्ठा नित्यैव सा जगन्मूर्तिस्तया सर्वमिदं
ततम् इत्यादिस्मृतिसिद्धत्वात् । तत्त्वदृष्ट्यातु जीव एव नास्तिकस्य मुक्त्यनापत्तिः । न च
अतोऽन्यदार्तम् इति श्रुतिविरोधः । तस्याः श्रुतेर्व्यक्त्यार्तिमात्रेणाप्युपपत्तेः
प्रवाहानन्त्येऽप्यविरोधात् । चरमव्यक्तिनाशस्यैव प्रवाहनाशतया
सर्वजीवसंसारचरमव्यक्त्यप्रसिद्धौ तन्नाशस्याप्रसिद्धेः । प्रकृते तु
पश्चिमविपश्चित एकस्यैव भगवद्भक्तिपरिपाकोदितात्तदनुग्रहाज्ज्ञानलाभो
नान्येषामिति तस्यैकस्यैव मुक्त्युपपत्तिरिति ॥ १८ ॥

दक्षिणः शाल्मलिद्वीपे राज्यमुत्सन्नशात्रवः ।
करोत्यद्यापि न सतो विस्मृतान्यविनिश्चयः ॥ १९ ॥

अथ दक्षिणो विपश्चित्किमकरोत्तत्राह - दक्षिण इति । उत्सन्नाः शात्रवा येन
तथाविधः सन् । सतः पारमार्थिकतत्त्वस्य लाभाद्विस्मृतः अन्यविनिश्चयो
बाह्यार्थनिश्चयो येन तथाविधस्तु न ॥ १९ ॥

उत्तरस्तरलास्फालकल्लोले सप्तमाम्बुधौ ।
सहस्रमेकं वर्षाणामुवास मकरोदरे ॥ २० ॥

सप्तमाम्बुधौ स्वादूदे मकरेण निगीर्णः सन् मकरोदरे वर्षाणां
सहस्रमेकमुवास ॥ २० ॥

मकरोदरमांसाशी मृते मकरनायके ।
मकरोदरतोऽब्धेश्च निर्गतो मकरो यथा ॥ २१ ॥

तत्र किमाहारोऽभूत्तत्राह - मकरोदरेति ॥ २१ ॥

ततोऽशीतिसहस्राणि योजनानां घनावनिम् ।
हिमकल्पजलाम्भोधेरुल्लङ्घ्य सुघनोदरीम् ॥ २२ ॥

ततः हिमकल्पजलस्य स्वादूदाम्भोधेरवशिष्टान्यशीतिसहस्राणि योजनान्युल्लङ्घ्य
सुघनं विशालमुद्ररं यस्यास्तथाविधां सौवर्णीं महामहीं प्राप्त
इत्युत्तरेणान्वयः ॥ २२ ॥

प्राप्तो दशसहस्राणि योजनानां महामहीम् ।
सौवर्णीं सुरसञ्चारसरणिं मृतवानसौ ॥ २३ ॥

तस्यां भूमौ च मध्ये च विपश्चिन्नाकितामगात् ।
उत्तमामग्निमध्यस्थं क्षणात्काष्ठमिवाग्निताम् ॥ २४ ॥

अथ तस्यां भूमौ स विपश्चिन्मृतः सन्नुत्तमां नाकितां देवभावमगात् ।
यथाग्निमध्यस्थं काष्ठं क्षणादग्नितां गच्छति तद्वत् ॥ २४ ॥

प्रधानदेवो भूत्वासौ लोकालोकगिरिं गतः ।
अस्य भूमण्डलतरोरालवालमिव स्थितम् ॥ २५ ॥

असौ विपश्चित्प्रधानदेवो देवश्रेष्ठो भूत्वा प्राक्तनदिगन्तोपसर्पणवासनया ततो
लोकालोकगिरिं गतः । कीदृशं लोकालोकगिरिम् । उत्तरे
आमेरुशृङ्गमुन्नतत्वात्तरुप्रायस्यास्य भूमण्डलस्य मूले आलवालं सेतुमिव
स्थितम् ॥ २५ ॥

स पञ्चाशत्सहस्राणि योजनानां समुन्नतः ।
आलोकलोकाचाराढ्यो भाग एकोऽस्य नेतरः ॥ २६ ॥

अस्य लोकालोकगिरेः एकः प्रथमो भागः सूर्यालोकेन लोकानां जनानामाचारेण
व्यवहारेण चाढ्यः इतरस्तु न ॥ २६ ॥

लोकालोकशिरः प्राप्तं तारकामार्गसंस्थितम् ।
अधःस्थिता अपश्यंस्तमुच्चनक्षत्रशङ्कया ॥ २७ ॥

लोकालोकगिरेरारोहणेन तच्छिरःप्राप्तं तं देवविपश्चितं अधःस्था
जनानक्षत्रशङ्कया अपश्यन् ॥ २७ ॥

तस्मात्प्रदेशात्तत्पारे तमस्तस्य महागिरेः ।
चतुर्दिक्कं महाखातं नभः शून्यमनन्तकम् ॥ २८ ॥

तस्य महागिरेः पारे परभागे तमः । चतुर्दिक्कं परितः महत् खातं परिखाकारो
गर्तः । नभ इव सर्वप्राणिशून्यमनन्तकमनेकयोजनविस्तृतम् ॥ २८ ॥

ततो भूगोलकोऽयं हि समाप्तो वर्तुलाकृतिः ।
नभःशून्यं महाखातं ततस्तिमिरपूरितम् ॥ २९ ॥

तत्रालिकज्जलतमालनभोन्तरालनीलं तमो न च मही न च जङ्गमादि ।
नालम्बनं न च मनागपि वस्तुजातं किञ्चित्कदाचिदपि सम्भवतीति विद्धि ॥ ३० ॥

हे राम तत्र तस्मिन् खाते अलिरिव कज्जलमिव तमाल इव नभोन्तराले नीलं तम एवास्ति । न
च मही न च जङ्गमादि प्राणिजातमस्ति । आलम्बनमाश्रयश्च नास्ति । न च
किञ्चिद्वस्तुजातं कदाचिदपि सम्भवतीति त्वं विद्धीत्यर्थः ॥ ३० ॥

इत्यार्षे श्रीवा० वा० दे० मो० निर्वा० उ० अवि० विप० विपश्चिज्जन्मान्तराचरणं नाम
षड्विंशाधिकशततमः सर्गः ॥ १२६ ॥

इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे निर्वाणप्रकरणे उत्तरार्धे
विपश्चिज्जन्मान्तराचरणं नाम षड्विंशाधिकशततमः सर्गः ॥ १२६ ॥