पञ्चविंशत्यधिकशततमः सर्गः १२५
श्रीवसिष्ठ उवाच ।
वर्षे शान्तभयाभिख्ये जलधारे गिरौ तरौ ।
तादृक्कर्तरिपानीयं शाकद्वीपे पिबन् स्थितः ॥ १ ॥
परस्परोपकारित्वं विपद्यत्र विपश्चिताम् ।
विष्वगर्थक्रिया जीवन्मुक्तानां चोपवर्ण्यते ॥
तत्र विपश्चितां भिन्नदिक्षु भ्रमतां परस्परानुसन्धानं विपत्सु
परस्परानुग्राहकत्वं चास्ति न वेति रामस्य संशयं लिङ्गैरुपलक्ष्य तं
निराचिकीर्षुर्वसिष्ठः प्रथमं पूर्वस्य शान्तभयवर्षे हरीतकीतरुभावसङ्कटे
पश्चिमकृतमनुग्रहमाह - वर्षे इति शान्तभयमित्यभिख्या प्रसिद्धिर्यस्य
तस्मिन् वर्षे । अत्र शान्तभये वर्षे जलधारे महागिराविति प्राक्सर्गोक्ते गिरौ हरीतकीवने
हरीतकीवृक्षभूतस्तादृक्तदवस्थः
कर्तरीयन्त्रसदृशभूम्यन्तःशिलासम्बन्धि पानीयं मूलैः पिबन् स्थितः पूर्वो
विपश्चित् पाश्चात्येन विपश्चिता तद्वृत्तान्तं ज्ञात्वा तत्र एत्य आगत्य शापप्रदं
मुनिं प्रसाद्य तद्दत्तया विद्यया क्रकचेन वृक्षत्वं छित्त्वेव
वृक्षभावान्मोक्षित इति परेणान्वयः ॥ १ ॥
पूर्वोऽथ वर्षसप्तत्या पाश्चात्येनैत्य मोक्षितः ।
विद्यया क्रकचेनेव छित्त्वा वृक्षत्वमक्षतः ॥ २ ॥
पाश्चात्यः शिशिरे वर्षे पाषाणत्वमुपागतः ।
मोचितो दक्षिणेनाशु गोमांसादिप्रयोगतः ॥ ३ ॥
एवं पाश्चात्योऽपि शिशिराख्ये वर्षे पिशाचपतिशापात्पाषाणत्वमुपागतो दक्षिणेन
एत्य गोमांसादिप्रयोगतः पिशाचपतिं प्रसाद्य मोचितः ॥ ३ ॥
शिवेऽस्ताचलपारस्थे वर्षे वर्षेण पश्चिमः ।
मोचितो दक्षिणेनैत्य गोपिशाच्या वृषीकृतः ॥ ४ ॥
गोरूपया पिशाच्या पिशाचविद्यया वृषीकृतो वृषपिशाचीकृतः पश्चिमो
दक्षिणेन मोचितः ॥ ४ ॥
अत्रैव क्षेमके वर्षे आम्बिकेयगिरौ तरौ ।
दक्षिणो यक्षतां यातो मोक्षं यक्षेण लब्धवान् ॥ ५ ॥
यक्षतां पिशाचभेदताम् । देवतायक्षभावस्य मोक्षणे प्रयोजनाभावात् । यक्षेण
पश्चिमप्रसादितेन यक्षपतिना निमित्तेन ॥ ५ ॥
अत्रैव वृषके [क्षेमके वर्षे इति पाठः ।] वर्षे शैले केसरनामनि ।
केसरित्वं गतः पूर्वः पाश्चात्येनैव मोचितः ॥ ६ ॥
अत्रास्मिन्नेव शाकद्वीपे ॥ ६ ॥
श्रीराम उवाच ।
एकदेशगता विष्वग्व्याप्य कर्माणि कुर्वते ।
योगिनस्त्रिषु कालेषु सर्वाणि भगवन्कथम् ॥ ७ ॥
विष्वक् सर्वतो व्याप्य विविधं आप्य । कर्माणि अनुग्रहादीनि कथं कुर्वते
तत्रोपपत्तिर्वाच्येत्यर्थः ॥ ७ ॥
श्रीवसिष्ठ उवाच ।
इह रामाप्रबुद्धानां यदस्त्यस्त्वलमेव नः ।
तेन यत्तु प्रबुद्धानां तदिदं शृणु कथ्यते ॥ ८ ॥
योगिनां दृशा सर्वप्रपञ्चस्य मनोमात्रत्वान्मानसक्रियासु च मनसः सर्वत्र
युगपद्व्यवहारेऽपि निरङ्कुशस्वातन्त्र्याविघातात्सर्वक्रियोपपत्तिरित्याशयेन वसिष्ठ
उत्तरमाह - इहेत्यादिना । हे राम इह जगति अप्रबुद्धानां दृशा
यद्भूतभौतिकादिस्थूलं वस्त्वस्ति तेन नः प्रबुद्धानामुपपत्तिचिन्तया अलम् ।
प्रबुद्धानां दृशा यत्तु चिन्मात्रं मनोमात्रं वस्तु तत् सर्वत्रार्थक्रियासमर्थ
यथोपपद्यते तथा कथ्यते शृण्वित्यर्थः ॥ ८ ॥
चिन्मात्रसत्तासामान्यादृतेऽन्यन्नात्म तद्विदाम् ।
दृश्यात्यन्ताभावबोधे सर्गासर्गदृशोः क्षये ॥ ९ ॥
तत्र चिन्मात्रमेव वस्त्विति कल्पे सर्वेश्वरस्येव सर्वत्र सर्वार्थक्रियोपपत्तिरित्याह -
चिन्मात्रेति । तद्विदां तत्त्वविदां दृशा चिन्मात्रसत्तासामान्यादृते अन्यत्
जगद्रूपन्न् न विद्यते आत्मा स्वरूपं यस्य तन्नात्म । नशब्दोऽयं न तु नञ् ।
निःस्वरूपमिति यावत् ॥ ९ ॥
चिन्मात्रसत्तासामान्ये विश्रान्तस्य निरन्तरम् ।
सर्वेशस्येह सर्वत्वं सर्वात्मत्वं च सर्वदा ॥ १० ॥
वद केन कथं कुत्र कदा किमिव रोध्यते ।
सर्वगस्त्वथ सर्वात्मा यत्र भाति यदा यथा ॥ ११ ॥
किंवृत्तानि प्राग्वत् । रोध्यते सर्वत्र सर्वार्थक्रियाविषये निवार्यते ।
दृष्टसृष्टिपक्षमालम्ब्यापि तदनिरोधमाह - सर्वग इति । अथेति
पक्षान्तरद्योतनाय ॥ ११ ॥
तथा भाति तदा तत्र सर्वात्मनि किमस्ति नो ।
अतीतं वर्तमानं च भविष्यत्स्थूलमप्यणु ॥ १२ ॥
किं नो अस्ति किं तद्यत्ततः सत्तां न लभत इत्यर्थः । अतीतमित्यादिस्तत्प्रपञ्चः ॥ १२ ॥
तथा दूरमदूरं च निमेषः कल्प एव च ।
स्वरूपमजहत्येव सामान्ये तानि सर्वदा ॥ १३ ॥
सामान्ये सत्तासामान्ये । तान्यतीतादीनि ॥१३ ॥
सर्वात्मनि स्थितान्येव पश्य मायाविजृम्भितम् ।
अजातमनिरुद्धं च यथास्थितमवस्थितम् ॥ १४ ॥
अनिरुद्धमनष्टम् ॥ १४ ॥
विज्ञानघनमेवेदमत एव जगत्त्रयम् ।
नभस्त्वमत्यजंश्चैव सर्वात्मैव नभः स्थितम् ॥ १५ ॥
अत एव सत्तासामान्याधीनस्थितिकत्वादेव । अविकृतस्य सदात्मन एव नभ##-
अनुगृह्णन्नेव ॥ १५ ॥
जगदात्मा जगद्रूपं द्रष्ट्टदृश्यतयोदितम् ।
विश्वात्मदृग्वपुर्यत्स्यात्तत्किं केन कथं कदा ॥ १६ ॥
मायाशबलो हि जगदात्मा तदेव द्रष्ट्टदृश्यतया जगद्रूपमुदितम् । यत्तु
विश्वात्मनः शबलस्य दृङ्मात्ररूपं वपुस्तत्केन कथं कदा किं स्यात् । शुद्धे
परिणामविवर्ताद्यघटनादित्यर्थः ॥ १६ ॥
दुःसाध्यं ब्रूहि तत्त्वज्ञ साध्यासाध्यस्वरूपिणः ।
तस्मादस्याः सदैकस्या विपश्चिद्राजसंविदः ॥ १७ ॥
साध्यासाध्यस्वरूपिणः शबलस्य दुःसाध्यं किम् न किञ्चिदिति सर्वदा सर्वत्र
सर्वार्थक्रियोपपत्तिरित्यर्थः ॥ १७ ॥
प्रबोधमनुगच्छन्त्या अप्राप्तायाः परं पदम् ।
एकस्या अप्यनेकस्याः सर्वं सर्वत्र युज्यते ॥ १८ ॥
रामप्रश्नसमाधानं प्रकृते योजयन्नुपसंहरति - तस्मादिति । ईश्वरचित
एवोपाधिभेदे विपश्चिदादिजीवत्वादेकस्या अप्युपाधिनानात्वेनानेकभावापन्नाया
अग्न्यादिप्रसादात्सर्व सर्वत्र कार्य युज्यत इत्यर्थः ॥ १८ ॥
बोधाबोधात्मरूपे हि किं नामास्ति परात्मनि ।
अप्राप्तायाः परं बोधं पदार्थाकुलतोचिता ॥ १९ ॥
बोधाबोधात्मरूपे शबले किं नामास्ति । असाध्यमिति शेषः । तत्रैव युक्त्यन्तरमाह
- अप्राप्ताया इति ॥ १९ ॥
किञ्चिद्बोधं प्रविष्टायाः सिद्धताप्युचितैव सा ।
एवं ते सर्वदिक्सम्स्थाः सर्वमेव परस्परम् ॥ २० ॥
योगिनामैच्छिकार्थक्रियासामर्थ्यलक्षणसिद्धतायामप्युपपत्तिमाह - किञ्चिदिति ।
बोधप्रकर्षक्रमेण अकामहतत्वप्रकर्षसम्भवात्तत्प्रयुक्तानन्दोत्कर्ष##-
विपद्रोगं चिकित्सन्ते प्रतिकुर्वन्ति ॥ २० ॥
पश्यन्त्यनुभवन्त्याशु चिकित्सन्ते च सङ्कटम् ।
बोधाकाशः स्वकाद्रूपादीषच्च्युत इवाशु चेत् ॥ २१ ॥
प्रबुद्धानां मनोमात्रमेव सर्ववस्त्विति कल्पे तु सर्वत्र सर्वार्थक्रिया
मनोराज्यवदुपपन्नतरैवेत्याशयेनाह - बोधाकाश इति । ईषत्स्वरूपात्प्रच्युतिरेव
मनोभाव इत्युत्पत्तिप्रकरणे बहुशो व्युत्पादितत्वादिति भावः ॥ २१ ॥
तदन्यतामिवादत्ते सुस्थितोऽपि यथास्थितम् ।
श्रीराम उवाच ।
विपश्चितः प्रबुद्धाश्चेत्कथं सिंहवृषादिताम् ॥ २२ ॥
यथास्थितं सुस्थितोऽपि तत्तस्मान्मनोभावलक्षणादीषच्च्यवनदोषादन्यतां
जगद्रूपतां युगपदादत्ते । विपश्चित्प्रसङ्गे योगिनां प्रबुद्धानां
युगपत्सर्वार्थक्रियोपपत्तौ वर्णितायां विपश्चितोऽपि प्रबुद्धा इति मन्यमानो रामः
शङ्कते - विपश्चित इति । प्रबुद्धानां सर्वार्थक्रियास्वातन्त्र्येण पारतन्त्र्येण
सिंहवृषादिदेहसङ्कटाप्रसक्तेः परस्परानुग्रहोक्तिरसङ्गतेति भावः ॥ २२ ॥
दिक्षु यान्तीति मे ब्रह्मन्बोधाय कथयाश्वलम् ।
श्रीवसिष्ठ उवाच ।
प्रबुद्धाः कथिता ये ते योगिनस्ते मयानथ ॥ २३ ॥
त्वया योगिनः कथं व्याप्य कर्माणि कुर्वते इति पृष्टमिति मयात्र योगिनः प्रबुद्धा
वर्णिता न तु विपश्चितोऽपि प्रबुद्धा योगिन इतीति वसिष्ठ समाधत्ते - प्रबुद्धा इति ॥
२३ ॥
प्रसङ्गरूपान्तरतो न प्रबुद्धा विपश्चितः ।
विपश्चितो महाबाहो प्रबुद्धा निपुणं न ते ॥ २४ ॥
त्वत्प्रश्नसमाधानार्थं विपश्चित्प्रसङ्गरूपस्यान्तरतः अन्तरेण योगिनस्ते कथिता
न तु विपश्चितोऽपि प्रबुद्धा इत्याशयेनेत्यर्थः ॥ २४ ॥
बोधाबोधदृशोर्मध्ये ते हि दोलयिताः स्थिताः ।
मोक्षचिह्नानि दृश्यन्ते बन्धचिह्नानि चाभितः ॥ २५ ॥
तर्हि ते किमत्यन्तमूढा नेत्याह - बोधेति । द्वितीयभूमिकास्था इत्यर्थः ।
भाविमोक्षचिह्नानि विवेकादीनि । बन्धचिह्नानि रागादीनि ॥ २५ ॥
नित्यधर्मप्रबुद्धानां तथाभूततया तया ।
विपश्चितो धारणया योगिनो न परं गताः ॥ २६ ॥
तया उक्तया तथाभूतया दोलायिततया धारणया योगिनो न तु परं गता योगिन
इत्यर्थः ॥ २६ ॥
धारणायोगिनस्ते हि धारणाप्राप्तसिद्धयः ।
ये परं बोधमायाता येष्वविद्या न विद्यते ॥ २७ ॥
हृदयादिप्रदेशेष्वग्निदेवतायां चित्तनिरोधेन
तत्प्रसादप्राप्तसिद्धित्वाद्धारणायोगिनो न तु ज्ञानयोगिनो येष्वविद्या नष्टेत्यर्थः ॥
२७ ॥
किमविद्यामवेक्षन्ते ते तामरसलोचन ।
धारणायोगिनो ह्येते वरेण प्राप्तसिद्धयः ॥ २८ ॥
ते ज्ञानयोगिनश्चेदविद्यां किं किमर्थमवेक्षन्ते ।
तद्दर्शनेच्छैवैषामविद्यानुच्छेदे लिङ्गमित्यर्थः । धारणापरिपाकान्ते
देवताप्रसादजेन वरेण प्राप्तसिद्धयस्ते ॥ २८ ॥
अविद्या विद्यते तेषां तेन तेऽतद्विचारिणः ।
अन्यच्च शृणु हे राम जीवन्मुक्तशरीरिणाम् ॥ २९ ॥
ते विपश्चितः अतद्विचारिण आत्मविचारशून्याः । जीवन्मुक्तानां व्यवहारकाल एव
देहादिभानम् समाधौ तु विदेहकैवल्यसाम्यमेवेति विपश्चिद्भ्यो विशेषान्तरं
श्रावयति - अन्यच्चेत्यादिना ॥ २९ ॥
भवेद्व्यवहृतावेव पदार्थान्तरवेदनम् ।
मोक्षोऽपि चेतसो धर्मश्चेतस्येव स तिष्ठति ॥ ३० ॥
व्यवहृतौ व्युत्थानकाले एव । कुतस्तेषां समाधावेव तथात्वं तत्राह - मोक्ष
इति । यो हि बद्धस्तस्यबन्धनिवृत्तिर्मोक्षः । चित्तमेव बध्यते नात्मेति मोक्षोऽपि
तद्धर्म एव । अतः समाहिते चेतस्येव स मोक्षस्तिष्ठति न देहे देहभावापन्ने व्युत्थिते
इत्यर्थः ॥ ३० ॥
न देहे देहधर्मस्य न देहाद्विनिवर्तते ।
न कदाचन निर्मुक्तं चेतो भूयो निबध्यते ॥ ३१ ॥
न देहे इति पूर्वान्वयि । यस्तु देहधर्मो देहभावाधीनो व्यवहारः स जीवन्मुक्तस्यापि
देहान्न निवर्तते इति पदार्थान्तरवेदनोपपत्तिरित्यर्थः । तर्हि जीवन्मुक्तचेतोऽपि
देहभावे बध्येतेति चेन्नेत्याह - न कदाचनेति ॥ ३१ ॥
यत्नेनापि पुनर्बद्धं केन वृन्तच्युतं फलम् ।
देहस्तु देहधर्मेण जीवन्मुक्तिमतामपि ॥ ३२ ॥
वृन्ताच्च्युतं पतितं फलं पुनः केन समर्थेनापि वृन्ते पूर्ववद्बद्धम् । न
केनापीत्यर्थः । अत एव मुक्तानाममुक्तानां च देहधर्मानुवृत्तिस्तुल्या न
चित्तधर्मानुवृत्तिरित्याह - देहस्त्विति ॥ ३२ ॥
गृह्यते तद्गतं तेषां चेतस्त्वचलमेव तत् ।
मोक्षो हि न परज्ञेयो धारणादिप्रयोगवत् ॥ ३३ ॥
अत एव ते परैर्जीवन्मुक्ता इमे इति न ज्ञातुं शक्यन्ते धारणादिसिद्धास्तु ज्ञातुं
शक्यन्त इत्यपरो विशेष इत्याह - मोक्ष इति ॥ ३३ ॥
आत्मसंवेद्य एवासौ मध्वाद्यास्वादसौख्यवत् ।
सुखदुःखैर्युतो योऽसौ स्वयं बन्धानुभूतिमान् ॥ ३४ ॥
मनोधर्मो मोक्षः कथमात्मसंवेद्य इत्युच्यते तत्राह - आत्मसंवेद्य इति ।
बन्धवन्मोक्षस्यापि मनोगतस्य साक्षिस्वानुभूत्यैव सिद्धेरिति भावः । यदि
बन्धमोक्षौ मनोधर्मौ तर्हि कथमात्मा बद्धो मुक्त इति च शास्त्रे व्यवह्रियते
तत्राह - सुखदुःखैरिति । स्वानुभूतिप्रदः असौ आत्मा तु मनोधर्मैः
सुखदुःखैर्युतः सन् यो जीवः स्वयं बन्धानुभूतिमान् भवति स तस्य मनसो
मुक्तौ मुक्त इति शास्त्रे उक्त इत्यन्वयः ॥ ३४ ॥
तन्मुक्तौ मुक्त इत्युक्तः स्वानुभूतिप्रदस्त्वसौ ।
अन्तःशीतलचित्तो हि मुक्त इत्यभिधीयते ॥ ३५ ॥
नन्वेवं सति देहादयोऽपि मनोधर्माभ्यां ताभ्यां बद्धा मुक्ताश्चेति
व्यवह्रियेरंस्तत्राह - अन्तरिति । आन्तरयोराह्लादसन्तापयोरान्तरे एव
चिदात्मन्यध्यासोऽनुभवसिद्धोऽभ्युपगन्तुन्न् व्यवहर्तुं च युक्तो न बाह्ये
देहादाविति भावः ॥ ३५ ॥
बन्धः सन्तप्तचित्तेति देहादेस्तन्न दृश्यते ।
शरीरे कणशः कृत्ते राज्ये वा विनियोजिते ॥ ३६ ॥
सन्तप्तचित्तेति सन्धिरार्षः । युक्ते मनसि शरीरधर्माणामिव मनोधर्मस्य
मोक्षस्य शरीरे प्रतीतिप्रसक्तिरित्याशयेनाह - शरीरे इति । कृत्ते छिन्ने ॥ ३६ ॥
रुदतो हसतश्चैव जीवन्मुक्तमतेरिह ।
न दुःखं न सुखं किञ्चिदन्तर्भवति तत्स्थितम् ॥ ३७ ॥
तत्स्थितं देहप्रयुक्तम् ॥ ३७ ॥
गृह्णतोऽप्यनुभूतिस्तु तत्रैवैषास्ति नापरे ।
दृश्यन्ते पण्डिता भग्ना रूपान्तरमुपागताः ॥ ३८ ॥
ननु पादे मे कण्टकदुःखं देहे मे चन्दनसुखमिति देहेऽपि जनो
मनोधर्मसुखदुःखादीन् गृह्णाति तत्कथमात्मन्येव तदध्यासस्तत्राह -
गृह्णत इति । अवच्छेदकतासम्बन्धेन देहे सुखदुःखादीन् गृह्णतोऽपि जनस्य अहं
सुखी अहं दुःखीत्यात्मन्येव तदनुभवपर्यवसानात्तत्रैवैषा कल्पनास्ति न अपरे
बाह्ये देहादौ । अत एव हि आत्मन्यध्यासमनभ्युपगच्छन्तो
देहाद्यात्मताभिमानाद्रूपान्तरमुपागताश्चार्वाकनैयायिकसाङ्ख्यबौद्धकाणाद्
आदयः पण्डिता मोक्षोपायालाभाद्भग्नाः पराभूता दृश्यन्ते वेदान्तिभिर्वा
जल्पकथायां भग्नाः पराजिता दृश्यन्त इति योज्यम् ॥ ३८ ॥
देहादिजीवन्मुक्तानां स्वभावान्न कदाचन ।
मृतोऽपि नैव म्रियते रुदन्नपि न रोदिति ॥ ३९ ॥
अस्तु वा बन्धस्य सुखदुःखादेर्देहेऽपि कथञ्चिदनुभवः मोक्षस्य तु स नास्त्येव ।
जीवन्मुक्तैः समाधौ देहाभाने स्फुटं तदनुभवाद्देहभाने व्युत्थानकाले
मन्दमध्यमज्ञानिभिस्तदनुभवाच्चेत्याशयेनाह - देहादीति ।
स्वभावान्नित्याशरीरात्मस्वभावात् । तथा च श्रुतिः अशरीरं
शरीरेष्वनवस्थेष्ववस्थितम् । महान्तं विभुमात्मानं मत्त्वा धीरो न शोचति इति । अत
एव स मरणादिदेहधर्मैर्न युज्यत इत्याह - मृतोऽपीति ॥ ३९ ॥
विहसन्न हसत्येव जीवन्मुक्तो महोदयः ।
वीतरागाः सरागाभा अकोपाः कोपसंयुताः ॥ ४० ॥
मनोधर्मैरपि तेषामसम्बन्धमाह - वीतरागा इति ॥ ४० ॥
अमोहा मोहवलिता दृश्यन्ते तत्त्वदर्शिनः ।
इदं सुखमिदं दुःखमित्यादिकलनास्तु ताः ॥ ४१ ॥
अलं दूरगतास्तेषामङ्कुरा नभसो यथा ।
जगदात्मा च नास्त्येव यस्यैकं सर्वमस्ति च ॥ ४२ ॥
जगदात्मा जगत्स्वरूपं चकारात्तन्मूलमज्ञानं च यस्य नास्त्येव । यस्य
सर्वमेकमेकरसं सदस्ति च तस्य जीवन्मुक्तस्य सुखदुःखाद्यस्तीति वाग्व्योम्नो
विटपाः शाखाः सन्तीति वागुपमेत्यन्वयः ॥ ४२ ॥
सुखदुःखादि तस्येति वाग्व्योमविटपोपमा ।
अशोका एव शोचन्ते जीवन्मुक्ता जयान्विताः ॥ ४३ ॥
तत्र को मोहः कः शोक एकत्वमनुपश्यतः इति श्रुतेः शोकमोहजयान्विताः ॥ ४३ ॥
अच्छिन्ना एकतद्भावा दृश्यन्ते तत्त्वदर्शिनः ।
शिरः कमलजस्योच्चैः सामगायनतत्परम् ॥ ४४ ॥
शिर-आद्यङ्गच्छेदेऽप्यच्छिन्ना एकतद्भावा अद्वितीयात्मभावाः । क्व
तद्दृष्टं तदुदाहरति - शिर इति । गायनमित्यशित्यात्वाभावश्छान्दसः ॥ ४४ ॥
हरो नखेन चिच्छेद सुकुमारमिवाम्बुजम् ।
शक्तोऽपि न पुनर्ब्रह्मा जनयामास तच्छिरः ॥ ४५ ॥
व्योमैकतास्य चिद्व्योम्नो मुधा मूर्ध्नेतरेण किम् ।
नैव तस्य कृतेनार्थो नाकृतेनेह कश्चन ॥ ४६ ॥
अस्य कमलजस्य व्योमैकता आकाशसमता अतो मुधा मिथ्याभूतेनेतरेण पञ्चमेन
मूर्ध्ना किं प्रयोजनमित्यर्थः । तर्हि तस्य चतुर्भिः शिरोभिर्वा किमर्थं
वेदोपदेशकरणं तत्राह - नैवेति ॥ ४६ ॥
यद्यथा नाम सम्पन्नं तत्तथास्त्वितरेण किम् ।
हरो हरिणशावाक्षीमक्षीणशरतोऽश्रु च ।
धत्ते वपुषि दुग्धाब्धिर्गुप्तामृतकलामिव ॥ ४७ ॥
सम्पन्नं प्राणिकर्मवशादिति शेषः । ईश्वरस्यापि प्राणिकर्मानुसारेणैव
व्यवहारो न स्वार्थे इत्याह - हर इति । अनुगृहीतादक्षीणशरतो
मन्मथाद्धरिणशावाक्षीमर्धाङ्गे धत्ते । निगृहीतात्तु
निरुपप्लवसमाधिप्रवृत्तेरानन्दाश्रु च वपुषि धत्ते ।
गुप्तामृतकलामिवेत्युभयदृष्टान्तः ॥ ४७ ॥
शक्तोऽपि रागितामेष न त्यजत्युत्तमाशयः ।
पञ्चेषुदाहसमये दृष्टा नीरागतागुणाः ॥ ४८ ॥
नैव तस्य कृतेनार्थो नाकृतेनेह कश्चन ।
न चास्य सर्वभूतेषु कश्चिदर्थव्यपाश्रयः ॥ ४९ ॥
अर्थव्यपाश्रयः प्रयोजनलाभः ॥ ४९ ॥
रागितैषास्तु मा वास्य किमरागितयान्यया ।
यद्यथा नाम सम्पन्नं तत्तथास्त्वितरेण किम् ॥ ५० ॥
अरागितया अन्यया रागितया वा किं को लाभः का वा क्षतिरित्यर्थः ॥ ५० ॥
करोति कारयत्युच्चैर्म्रियते मार्यतेऽपि च ।
जायते वर्धतेऽजस्रं जीवन्मुक्तो जनार्दनः ॥ ५१ ॥
स्वयमसुरनिग्रहादि करोति इन्द्रादिद्वारा कारयति । म्रियते अवतारसमाप्तिषु
मरणमङ्गीकरोति । तदनुकूलैः शरभलुब्धकादिभिर्मार्यतेऽपि च ॥ ५१ ॥
न चाजवं जवीभावं त्यक्तुं शक्तोऽप्यसौन तम् ।
तेन त्यक्तेन नैवार्थस्तस्य नैवाश्रितेन च ॥ ५२ ॥
तं प्राणिकर्मवशोपगतं आजवं जवीभावं व्यवहारव्यग्रतां न च त्यक्तुं
शक्नोति ॥ ५२ ॥
तद्यथास्थितमेवास्तु इह इत्यस्तवासनम् ।
हरिर्निरिच्छ एवास्ते शुद्धचिन्मात्ररूपभृत् ॥ ५३ ॥
आत्मानमान्दोलयति कालकन्दुकतां गतम् ।
अजस्रं नित्यमादित्यो जगद्गृहनभोङ्गणे ॥५४ ॥
सूर्यादीनामपि निरिच्छानामेव प्राणिकर्मानुसारादेव स्वस्वाधिकारपालनमित्याह
- आत्मानमिति । आन्दोलयति भ्रमयति ॥ ५४ ॥
न च रोधयितुं देहं न समर्थो दिनेश्वरः ।
निरिच्छ एव निर्वाणस्तथाप्यास्ते यथास्थितम् ॥ ५५ ॥
निर्वाणो जीवन्मुक्तः ॥ ५५ ॥
चन्द्रोऽनुभवति व्यर्थमाकल्पं क्षयमक्षयम् ।
जीवन्मुक्ततया खिन्नो यथास्थितमवस्थितः ॥ ५६ ॥
आकल्पं कल्पान्तावधि । क्षयं राजयक्ष्माणम् ॥ ५६ ॥
मरुत्तहव्यगौरीशवीर्यग्रासादिखेदिताम् ।
जीवन्मुक्तो वहत्यग्निर्यथा स्थित्या समस्थितिः ॥ ५७ ॥
मरुत्तस्य यज्ञे द्वादशवर्षपर्यन्तं
गजशुण्डाप्रमाणाजस्रनिपतद्घृतधारादिहव्यग्रासप्रयुक्ताऽजीर्णेन
स्कन्दोत्पत्तिप्रसङ्गे गौरीशस्य गौरीसङ्गमे देवैर्विघ्नाचरणे स्थानात्क्षुभितस्य
वीर्यस्य ब्रह्मणो नियोगाद्ग्रासः पानं तत्प्रयुक्तेनान्तर्दाहेन आदिपदाद्देवानां
दिवानिशं हव्यवहनदेवस्वापहरणाप्सुनिलयनादिना [हव्यवहनेन
देवस्वापहारेणेत्यादि पाठः ।] खेदिताम् ॥ ५७ ॥
बह्वीभिर्विजिगीषाभिः कृपणाविव तिष्ठतः ।
जीवन्मुक्तावपि गुरू लोके शुक्रबृहस्पती ॥ ५८ ॥
विजिगीषाभिः परस्परजयेच्छाभिः ॥ ५८ ॥
करोति जनको राज्यन्न् जीवन्मुक्तमना मुनिः ।
जगत्यामाजिषूग्रासु देहं जर्जरतां नयन् ॥ ५९ ॥
आजिषु युद्धेषु ॥ ५९ ॥
नलमान्धातृसगरदिलीपनहुषाद्यः ।
जीवन्मुक्ताश्चिरं राज्यन्न् चक्रुराकुलिता इव ॥ ६० ॥
व्यवहारे यथैवाज्ञस्तथैव खलु पण्डितः ।
वासनावासने एव कारणं बन्धमोक्षयोः ॥ ६१ ॥
बलिप्रह्लादनमुचिवृत्रान्धकमुरादयः ।
जीवन्मुक्ताः स्थितिं चक्रुर्वितरागाः सरागवत् ॥ ६२ ॥
तस्मादसत्त्वे सत्त्वे च रागद्वेषक्षयोदये ।
न मनागपि भेदोऽस्ति ज्ँअनखं प्रति स्वरूपिणि ॥ ६३ ॥
एतेन जीवन्मुक्तानां रागद्वेषाभासदर्शनेऽपि मुक्तिसन्देहो निरस्त इति
दर्शयन्नुपसंहरति - तस्मादिति । ज्ञखं जीवन्मुक्तचिदाकाशं प्रति
लक्षीकृत्य रागद्वेषयोः क्षये उदये वा चरिते न च सत्त्वे सुचरित्रत्वे असत्त्वे
दुश्चरित्रत्वे वा स्वरूपिणि आविर्भूतस्वरूपवति मोक्षे मनागपि भेदः संशयो नास्ति
॥ ६३ ॥
ज्ञानेनाकाशशुद्धेन धर्मान्ये गगनोपमान् ।
विन्दन्ति जीवन्मुक्तानां तेषां भेदमतिः कुतः ॥ ६४ ॥
नाहं ब्रह्मेति भेदमतौ सत्यां हि मुक्तौ संशयः स्यात् सैव तेषां नास्तीत्याह ##-
चरमसाक्षात्कारवृत्त्यात्मकज्ञानेन ये धारयन्ति देहमनःप्राणादीनिति धर्मा
जीवास्तान् गगनोपमान् असङ्गाद्वयपूर्णब्रह्मभावेनाकाशसदृशान्विन्दन्ति
लभन्ते तेषां जीवन्मुक्तानां भेदभ्रमहेत्वज्ञानस्य नष्टत्वात्पुनर्भेदमतिः
कुतः । कस्मान्निमित्तात्सम्भाव्येतेत्यर्थः ॥ ६४ ॥
भास्वरं शक्रकोदण्डं यथा नानेव शून्यकम् ।
आभासमात्रमेवायं तथा दृश्यात्मको भ्रमः ॥ ६५ ॥
तत्त्वसाक्षात्कारेण जीवजगद्भेदः कुतो बाध्यत इति चेत्
भान्तिमात्रसिद्धत्वादित्याशयेन तस्यावस्तुतां दृष्टान्तेन साधयति -
भास्वरमिति । शक्रकोदण्डमिन्द्रचापः । मेघपटलस्थाः सूर्यरश्मय
एवेन्द्रचापात्मना दृश्यन्त इति प्रसिद्धम् ॥ ६५ ॥
शक्रचापे यथा भान्ति नानावर्णा नभोङ्गणे ।
तथा शून्यात्मका एव ब्रह्माण्डपरमाणवः ॥ ६६ ॥
ब्रह्माण्डलक्षणाः परमाणवः ॥ ६६ ॥
इदं जगदसद्भाति सदिव व्यक्तिमागतम् ।
अजातमनिरुद्धं च यथा शून्यत्वमम्बरे ॥ ६७ ॥
व्यक्तिं प्रकटताम् । अजातमनुत्पन्नम् । अनिरुद्धमनष्टम् ॥ ६७ ॥
साद्यन्तमप्यनाद्यन्तमशून्यमपि शून्यकम् ।
जगज्जातं तथाऽजातमरुद्धं रुद्धमेव च ॥ ६८ ॥
अप्यर्थे तथाशब्दः । जातमप्यजातमेव रुद्धं नष्टं अरुद्धमनष्टमेव ।
जगत्तयापि गृहीते नित्यकूटस्थासङ्गाद्वये वस्तुनि आद्यन्ताद्यप्रसक्तेरिति भावः ॥ ६८
॥
जातं निरुद्धमस्त्येवं ब्रह्म व्योमैव भासते ।
यथा दारुमयः स्तम्भस्तथा तच्छालभञ्जिका ॥ ६९ ॥
जगद्भाव इव तज्जन्मनिरोधभावोऽपि ब्रह्मणि कल्पनयोपपाद्यते इति चेदिष्टापत्तिः
कल्पनामात्रेण कौटस्थ्याक्षतेरित्याशयेनाह - जातमिति । यथा स्तम्भो दारुमयो
दार्वेव तथा तस्य स्तम्भस्यैकदेशस्था शालभञ्जिका प्रतिमापि दार्वेवेत्यर्थः ॥ ६९
॥
समस्तकलनोन्मुक्तं समं निर्निद्रमासनम् ।
यदेकान्तचिदाकाशं तद्विद्यात्तन्मयं जगत् ॥ ७० ॥
अकल्पनं तु जगद्ब्रह्मैवेति समाधिदृष्ट्या अनुभवमारोपयेदित्याह - समस्तेति
। समाधिना समस्तकलनोन्मुक्तं निर्निद्रं च समं
यदासनमात्ममात्रतयावस्थानं तन्मयं तन्मात्रमेव तज्जगद्विद्यात् ॥ ७० ॥
देशाद्देशान्तरप्राप्तौ यन्मध्ये संविदो वपुः ।
अनुन्मेषं चिदाकाशं तद्विद्यात्तन्मयं जगत् ॥ ७१ ॥
असमाधावपि शाखाचन्द्रदर्शने बुद्धिवृत्तेः शाखादेशाच्चन्द्रदेशप्राप्तौ
मध्ये यन्निर्विषयं वृत्त्यभिव्यक्तं संविदः स्वरूपं तन्मयं
जगद्विद्यादित्याह - देशादिति ॥ ७१ ॥
तत्र यद्द्वैतमैक्यं तन्मन्ये तदपि नैव च ।
तद्व्योम केवलं भाति मन्ये तदपि नैव वा ॥ ७२ ॥
तत्र तादृशे चिदात्मनि यद्द्वैतं विशेषरूपमैक्यं सामान्यरूपं चाभाति तदपि
तत्तस्माच्चिदाकाशस्वभावादेव नैव नास्त्येवेति मन्ये मननेन निश्चिनोमि । तत्
केवलं व्योम शून्यमिति च यद्भाति तदपि च नैव । पूर्णानन्दैकरसे
शून्यत्वस्याप्ययोगादित्यर्थः ॥ ७२ ॥
जगदाकाशमेवेदमात्मैवात्मनि वा स्थितम् ।
भविष्यत्पुरवद्दृष्टमपि स्फारमपि स्फुटम् ॥ ७३ ॥
शून्यता पूर्णता च सप्रतियोगिका लोके यादृशी प्रसिद्धा । यथा जलेन शून्यो घटो
जलेन पूर्ण इति वा । सा आत्मनि न सम्भवति किन्तु जगदिदं
जगद्भावस्यात्यन्ताप्रसिद्ध्या आकाशमेवेदमिति शून्यत्वम् । एवमात्मैवात्मनि
संस्थितमित्यन्यनिरपेक्षं पूर्णत्वम् । यथा भविष्यत्पुरमिदानीं
प्रतियोगिनिरपेक्षशून्यतया दृष्टं स्फारं दिक्कालादि यथा
प्रतियोगिनिरपेक्षपूर्णतया स्फुटं दृष्टं तद्वदित्यर्थः ॥ ७३ ॥
आकाशकोशविशदाशय दृश्यजातं मौनात्म तिष्ठति शिलाघनमेव
शान्तम् ।
यन्नाम तस्य जगदित्यभिधां विधाय स्वात्मैव मोहित इवायमहो नु माया ॥ ७४
॥
हे आकाशकोशमिव विशदाशय राम यद्दृश्यजातं शिलाघनप्रायमेव शान्तं
ब्रह्मैव मौनं तिष्ठति नाम तस्य स्वात्मैव जगदित्यभिधान्न् विधायायं मोहित
इव तिष्ठति अहो नु माया अत्याश्चर्यभूतेत्यर्थः ॥ ७४ ॥
इत्यार्षे श्रीवासिष्ठमहारामायणे वा० दे० मो० नि० उ० अवि० वि० जीवन्मुक्तकलनं नाम
पञ्चविंशाधिकशततमः सर्गः ॥ १२५ ॥
इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे निर्वाणप्रकरणे उत्तरार्धे
जीवन्मुक्तकलनं नाम पञ्चविंशाधिकशततमः सर्गः ॥ १२५ ॥