१२४

चतुर्विंशत्यधिकशततमः सर्गः १२४

श्रीराम उवाच ।

एकसंविन्मयाः सर्व एवैकवपुषोऽपि ते ।
विविधेच्छाः कथं ब्रह्मन्सम्पन्ना एकदेहिनः ॥ १ ॥

एकस्यापि चतुर्देहैर्व्यवहारः समर्थ्यते ।
द्वीपेषु नानाशैलेषु विहारश्च विपश्चिताम् ॥

चतुर्णामेकदेहत्वे एकजीवकत्वे च भिन्नेच्छत्वमनुपपन्नमिति रामः शङ्कते -
एकेति । एकसंविदेकं साक्षिचैतन्यं तन्मया एकस्यैव
वपुषश्चतुर्धाभावादेकवपुषश्च ते विपश्चितः । एकः देही जीवो येषाम् । तथा
चजीवभेदं विना युगपदिच्छाभेदोऽनुपपन्न इत्यर्थः ॥ १ ॥

श्रीवसिष्ठ उवाच ।

एकसंविद्घनाकाशमप्यनानैव सर्वगम् ।
स्वयं नानेव सम्पन्नं सुप्ते चित्तमिवात्मनि ॥ २ ॥

एकस्यापि जीवस्याविद्यया स्वप्ने नानादेहादिकल्पनदर्शनात्तेषु च
शत्रुमिर्तोदासीनभावकल्पने नानेच्छत्वदर्शनाच्च सर्गादौ ब्रह्मणि जीवे जाग्रत्यपि
तादृशकर्मसत्त्वे सर्वसम्भव इत्याशयेन वसिष्ठ उत्तरमाह - एकसंविदिति ॥
२ ॥

तस्याच्छत्वात्तथाभूतमात्मैवात्मनि बिम्बति ।
तादृशस्य तथाभूतौ मुकुरस्येव निर्मला ॥ ३ ॥

तस्य संविद्घनाकाशस्याच्छत्वाद्दर्पणवदतिस्वच्छत्वात्तथाभूतं
नानात्मतामिवापन्नं आत्मा स्वमेवात्मनि बिम्बति दर्पणोदराकाशे
गिरिनद्यादिसहितं महाकाशमिवेत्यर्थः । तादृशस्य स्वच्छस्यापि तथाभूतौ
नानाजगदाकारभवने मुकुरस्येव निर्मला स्वच्छतैव हेतुरिति शेषः ॥ ३ ॥

एकलोहमया एव यथादर्शाः परस्परम् ।
तथैते प्रतिबिम्बन्ति पदार्थाः पारमर्थिकाः ॥ ४ ॥

ननु जगदपि वस्तुतश्चिदेव । तथा सति चित एव चिति कथं प्रतिबिम्बनमिति चेच्छृणु
दृष्टान्तमित्याह - एकेति । पारमार्थिकाः परमार्थतश्चिद्रूपा अपीत्यर्थः ।
मायोपाधेरचिन्त्यशक्तित्वाद्गन्धर्वनगरस्फटिककुड्यरूपे नभसि स
चन्द्रार्काभ्रमहानभःप्रतिबिम्बनदर्शनाच्चेति भाव ॥ ४ ॥

तेन यस्य यदा यद्यत्पुरो भवति वस्त्वसौ ।
यदर्थं [तदर्थं इति टीकानुगुणः पाठः ।] युज्यते तेन
चिद्घनैकस्वभावतः ॥ ५ ॥

अत एवाध्यस्तभोग्यजगदाकारं ब्रह्म विषयेन्द्रियसंयोगे बुद्ध्यवच्छिन्नजीवचिति
प्रियाप्रियविषयभोगाकारेण प्रतिबिम्बतीत्याह - तेनेति । यद्यद्भोग्यवस्तु पुरो
भवति सन्निकर्षमापद्यते तेन वस्तुना असौ तदर्थं तद्भोगार्थं युज्यते उपपद्यते
। यदि भोग्यं वस्तु बुद्धौ न प्रतिबिम्बेत भोग एव न युज्येतेत्यर्थः ॥ ५ ॥

इत्यनानैव नानेदं नानानाना च वस्तुतः ।
न च नाना च चानाना नानानानात्मकं ततः ॥ ६ ॥

तर्ह्येकस्य नानाऽनानात्मकत्वं विरुद्धं माययापि कथं स्यात्तत्र युक्तिर्वाच्येति
चेत्तत्राह - न चेति । यदि नानात्वमात्रनिषेधः स्यात्तदा नियतैकरूपमेव स्यात् ।
अनानात्वधर्मस्यापि निषेधान्नानात्वेनापि तत्सम्भावयितुं शक्यमित्यविरोधे
युक्तिरित्यर्थः ॥ ६ ॥

तेन यस्य यदायातं पुरो वस्तु विपश्चितः ।
स तेन संविन्मयतामेत्य तद्वशमागतः ॥ ७ ॥

अत एव विपश्चितो नानादिगतभोग्यानां युगपद्भोगप्रदकर्मपरिपाके एकस्यैव
देहादेश्चातुर्विध्यं तत्तद्देशस्य विषयाणां तत्र तत्र बुद्धौ
युगपत्प्रतिबिम्बनन्न् च सम्पन्नमित्याशयेनाह - तेनेति ॥ ७ ॥

एकदेशगता विष्वग्व्याप्य कर्माणि कुर्वते ।
योगिनस्त्रिषु कालेषु सर्वाण्यनुभवन्त्यपि ॥ ८ ॥

यदा योगिनामगस्त्यादीनां मलयादिनियतैकदेशे नित्यं स्थितानामपि
नानादेशेष्वतीतानागतादिकालेषु योगबलात्सन्निधाने सर्वानुभवितृत्वं प्रसिद्धम्
तदा भिन्नदेशं प्रयातानां विपश्चितां तत्किं वाच्यमित्याशयेनाह -
एकदेशेति ॥ ८ ॥

अब्दोऽपि व्याप्तिमानेकस्तुल्यकालं पृथक्क्रियाः ।
आह्लादस्तेन पादेन करोत्यनुभवत्यपि ॥ ९ ॥

नानादेशेषु युगपदेकस्य भिन्नक्रियाकारित्वे तत्तद्देशव्याप्तिरेवोपयुज्यते न
जीवभेद इत्याह - अब्द इति । यथा घर्मार्तान् आह्लादयतीत्याह्लादः अब्दो मेघोऽपि
महत्त्वादेव नानानगरगिरिनदीक्षेत्रादिव्याप्तिमांस्तुल्यकालं
सौधक्षालनकूटभेदनजलवर्धनसस्यपोषणादिपृथक्क्रियाः तुल्यकालं तेन तेन
पादेनांशेन करोति तदभिमानी जीवश्च मयेमाः क्रियाः कृता इत्यनुभवत्यपि
तद्वद्वात्रोपपत्तिर्बोध्येत्यर्थः ॥ ९ ॥

तुल्यकालमसङ्ख्यातमीश्वरप्रतियोगिनः ।
कर्मजालं जगज्जातं कुर्वन्त्यनुभवन्ति च ॥ १० ॥

अणिमाद्यैश्वर्यलाभादीश्वरप्रतिमाः योगिनः ॥ १० ॥

एको विष्णुश्चतुर्भिः स्वैर्बाहुभिर्वा शरीरकैः ।
पृथक्कुर्वन्क्रियाः पाति जगद्भुङ्क्ते वराङ्गनाः ॥ ११ ॥

चतुर्भिः शरीरकैः क्वचिद्योगनिद्रां क्वचित्तपः क्वचिदिन्द्रानुजतया तत्साहाय्यं
क्वचिद्वैकुण्ठे भोगजातमिति पृथक् क्रियाः कुर्वन् जगत्पाति वराङ्गना भुङ्क्ते
अनुभवति ॥ ११ ॥

बहुबाहुर्यदा द्वाभ्यां हस्ताभ्यां द्व्यर्थसङ्ग्रहम् ।
करोति बहुभिर्भूयः सङ्ग्रामं सततं करैः ॥ १२ ॥

यदा द्वाभ्यां बाहुभ्यां द्वयोरर्थयोः सङ्ग्रहप्रसक्तिस्तदा तं सम्भूय
सर्वैः करैः सङ्ग्रामप्रसक्तौ तं च करोति ॥ १२ ॥

तथैव तैर्विपश्चिद्भिः सर्वदिक्कं तथा स्थितैः ।
तथा व्यवहृतं प्राप्तमेकसंविन्मयैरपि ॥ १३ ॥

दृष्टान्तान्प्रकृते योजयति - तथैवेति । प्राप्तं सुखदुःखादिकमिति शेषः ॥ १३

सुप्तं तैर्भूमिशय्यासु भुक्तं द्वीपान्तरेषु च ।
विहृतं वनलेखासु प्रक्रान्तं मरुभूमिषु ॥ १४ ॥

प्रक्रान्तं चलितम् ॥ १४ ॥

उषितं गिरिमालासु भ्रान्तं सागरकुक्षिषु ।
विश्रान्तं द्वीपलेखासु निलीनं घनमालिषु ॥ १५ ॥

घनमालिषु मेघमालावत्सु पर्वताग्रेषु निलीय स्थितम् ॥ १५ ॥

रूढमर्णवमालासु वात्यासु जलवीचिषु ।
क्रीडितं भूभृदब्धीनां तटीषु नगरीषु च ॥ १६ ॥

रूढं प्रादुर्भूतम् ॥ १६ ॥

शाकद्वीपोदयगिरितटे सप्तवर्षाणि सुप्तं पूर्वेणान्तर्विदलगहने
यक्षसम्मोहितेन ।
पाषाणाम्बु प्रसभममुनैवात्र पीत्वा दृषत्तामागत्यान्तः स्थितमथ
समाः सप्त जात्येन भूमेः ॥ १७ ॥

तथा पूर्वेण विपश्चिता शाकद्वीपे प्रसिद्धस्योदयगिरेस्तटे विदलस्य दलरहितस्य
स्रुहीवृक्षस्य गहने अन्तर्यक्षेण सम्मोहनविद्यया सम्मोहितेन सप्तवर्षाणि
सुप्तम् । अमुनैव पूर्वविपश्चिता पाषाणकरं अम्बु अत्रास्मिन् गिरौ क्वचित्पीत्वा
प्रसभं बलाद्दृषत्तां पाषाणभावमागत्य भूमेरन्तस्तज्जात्येन भूत्वा सप्त
समाः स्थितम् ॥ १७ ॥

शाकद्वीपेऽस्तशैलस्य शिरस्यभ्रगुहागृहे ।
पिशाचाप्सरसा मासं पाश्चात्यः कामुकीकृतः ॥ १८ ॥

अभ्रसन्निहिते गुहागृहे ॥ १८ ॥

यत्र शान्तभये वर्षे जलधारे महागिरौ ।
हरीतकीवने वर्षं पूर्वोऽन्तर्धानमाययौ ॥ १९ ॥

शान्तभयाख्ये वर्षे भूमिभेदेकस्यचिन्मुनेः शापाद्धरीतकीवृक्षतां
प्राप्याऽन्तर्धानं जनैरदृश्यताम् । वर्ष सप्ततिवर्षम् ॥ १९ ॥

अत्र रैवतके शैले वर्षे शिशिरनामनि ।
दशरात्रमभूत्सिंहः पूर्वो यक्षवशीकृतः ॥ २० ॥

अत्र काञ्चनशैलादिदरीदर्दुरतां गतः ।
पिशाचमायाछलितो दशवर्षाण्युवास सः ॥ २१ ॥

दरीषु दर्दुरतां भेकताम् ॥ २१ ॥

कौमारं वर्षमासाद्य श्यामाद्रेरुत्तरस्तटम् ।
शाकद्वीपेऽन्धकूपेऽन्धो न्यवसच्छरदां शतम् ॥ २२ ॥

उत्तरस्योदन्तं पुनराह - कौमारमिति । श्यामोद्रर्नीलगिरेः । अन्धो दर्दुरः
सन्नित्यर्थः ॥ २२ ॥

मरीबकेऽकरोद्वर्षे वर्षाण्यत्र चतुर्दश ।
विद्याधरत्वं पाश्चात्यः स विद्याधरविद्यया ॥ २३ ॥

पाश्चात्यस्योदन्तमाह - मरीबक इति । विद्याधरत्वप्रापिकया मन्त्रविद्यया ॥ २३ ॥

रतक्लमक्लान्तपुरारिलक्ष्मीचलाङ्गलेखाक्रमशीकराक्तम् ।
एलालतालिङ्गनलब्धगन्धमालम्ब्य वेलावनगन्धवाहम् ॥ २४ ॥

किमालम्ब्य विद्याधरत्वमकरोत्तदाह - रतेति । रतं सुरतं तत्रत्येन क्लमेन
क्लान्तस्य पुरारेर्लक्ष्म्या शोभातिशयेन चलानामङ्गलेखानां क्रमेणोद्भूतैः
शीकरैः आक्तं सम्पृक्तम् । तथा एलालतानामालिङ्गनैर्लब्धगन्धं वेलावनस्य
गन्धवाहं वायुमालम्ब्य आनन्दहेतुत्वेनाश्रित्येत्यर्थः ॥ २४ ॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वा० दे० मो० निर्वा० उ० अवि० वि० द्वीपान्तरवर्णनं
नाम चतुर्विंशत्यधिकशततमः सर्गः ॥ १२४ ॥

इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे निर्वाणप्रकरणे उत्तरार्धे
द्वीपान्तरवर्णनं नाम चतुर्विंशत्यधिकशततमः सर्गः ॥ १२४ ॥