१२३

त्रयोविंशाधिकशततमः सर्गः १२३

श्रीवसिष्ठ उवाच ।

इत्येते दृश्यरूपाया अविद्याया विचारणे ।
प्रवृत्ताः पादचारेण समुद्रद्वीपगामिनः ॥ १ ॥

इह द्वीपसमुद्रेषु प्रयातानां विपश्चिताम् ।
पाश्चात्यादिक्रमात्प्राप्ता वर्ण्यन्ते विविधा दशाः ॥

इति अनया रीत्या एते विपश्चितः पादचारेण दृश्यरूपाया अविद्याया अन्तपर्यन्तं
विचारणे प्रवृत्ताः ॥ १ ॥

अब्धेर्द्वीपं पुनर्द्वीपादब्धिं द्वीपं गिरिं वनम् ।
लाघवाल्लङ्घयामासुश्छेदभेदविवर्जिताः ॥ २ ॥

लाघवाच्छैघ्र्यात् ॥ २ ॥

पीतो विपश्चित्पाश्चात्यो मीनेनामरमानिना ।
विष्णुमीनकुलोत्थेन वितस्तावाहनौजसा ॥ ३ ॥

तत्र पाश्चात्यः पश्चिमदिगन्तदर्शनाय प्रवृत्तो
विपश्चिदमरोऽहमित्यभिमानवता मीनेन पीतो निगीर्णः । वितस्ता नदी सा
ह्यत्यन्तशीघ्रगा प्रसिद्धा तद्वाहनस्य नौकादेरोज इव शीघ्रतरमोजो यस्य
तथाविधेन ॥ ३ ॥

क्षीरोदं प्राप्य मत्स्येन तेनोद्गीर्णः सुदुर्जरः ।
तेन क्षीरोदमुल्लङ्घ्य गतो दूरं दिगन्तरम् ॥

सुदुर्जरो जरयितुमशक्यः ॥ ४ ॥

दक्षिणो यक्षनगरे सम्प्रेक्ष्येक्षुरसार्णवे ।
शिक्षादक्षिणयाक्षिप्य यक्षिण्या कामुकीकृतः ॥ ५ ॥

द्वितीयस्योदन्तमाह - दक्षिण इत्यादिना । इक्षुरसार्णवे स्थिते यक्षनगरे ।
वशीकरणविद्याशिक्षाविषये दक्षिणया कुशलया यक्षिण्या प्रेक्ष्य
विद्याबलेनाक्षिप्य स्वकामुकीकृतः ॥ ५ ॥

पूर्वो मकरमाक्रम्य यदा गङ्गां निकृत्तवान् ।
गङ्गया स तदानीय कान्यकुब्जे समुज्झितः ॥ ६ ॥

तृतीयस्योदन्तमाह - पूर्व इति । पूर्वदिशि प्रवृत्तो विपश्चित्
गङ्गासहस्रमुखसम्भेदान् क्रमेण पश्यन् यदा क्वचिन्मकरं ग्रसितुकाम
बलादाक्रम्य तस्योद्धाराय गङ्गामानीय निकृत्तवान् विदारितवान् तदा स विपश्चित्
गङ्गया परावृत्यानीय कान्यकुब्जे नगरे समुज्झितस्त्यक्तः ॥ ६ ॥

उत्तरस्तूत्तरकुरूनाराध्य प्राप्तवाञ्श्रियम् ।
तं तयैनं न बाधन्ते दिगन्ते मृतभीतयः ॥ ७ ॥

चतुर्थस्योदन्तमाह - उत्तरस्त्विति । उत्तरकुरून् लक्षणया उत्तरकुरुषु देव्या सह
क्रीडन्तमीश्वरमाराध्य श्रियमणिमाद्यैश्वर्यं प्राप्तवान् । अत एव तमेनं
विपश्चितं तयैव श्रिया दिगन्ते प्रसृतमपि मृतं मरणं तत्प्रयुक्ता भीतयो न
बाधन्ते । अमरोऽभूदित्यर्थः ॥ ७ ॥

तया मकरमातङ्गनिगीर्णोर्द्गीर्णमूर्तिमान् ।
अतिचक्राम सुबहून्द्वीपान्तरकुलाचलान् ॥ ८ ॥

तया श्रियैव तत्प्रभावेणैवेत्यर्थः ॥ ८ ॥

पश्चिमः पृष्ठमारोप्य हेमचूडेन पक्षिणा ।
कुशद्वीपे कुशाङ्गश्रीस्तरसा तारतोऽर्णवान् ॥ ९ ॥

पुनः पश्चिमस्योदन्तमाह - पश्चिम इति । हेमचूडेन गरुडेनेति यावत् ।
कुशद्वीपे हि कुशस्तम्बे स्थितो गरुडः पूजादिना प्रसादितस्तद्द्वीपमर्णवांश्च
तारयतीति प्रसिद्धिः । स्वर्णमयकुशस्येव अङ्गश्रीर्देहकान्तिर्यस्य ॥ ९ ॥

क्रौञ्चद्वीपाचले पूर्वो निगीर्णो रक्षसा वने ।
तद्रक्षः पाटितं तेन हृदयेऽन्त्रविकर्तनैः ॥ १० ॥

पुनः पूर्वस्योदन्तमाह - क्रौञ्चेति । क्रौञ्चद्वीपे प्रसिद्धे वर्षसीमाचले
रक्षसा निगीर्णः । अथ तद्रक्षस्तेन विपश्चिता अन्त्राणां विकर्तनैः पाटितं विदारितम्
॥ १० ॥

दक्षिणो दक्षशापेन यक्षतामागतः क्षणात् ।
शाकद्वीपे शतेनासौ वर्षाणां मोक्षमागतः ॥ ११ ॥

पुनर्दक्षिणस्योदन्तमाह - दक्षिण इति । मोक्षं शापमोक्षम् ॥ ११ ॥

उत्तरस्तरसोत्तीर्णतारावरतरङ्गिणः ।
महार्णवसुवर्नोर्व्यां सिद्धशापाच्छिलां गतः ॥ १२ ॥

तरसा जवेनैव उत्तीर्णास्तारा महान्तः अवराः क्षुद्राश्च तरङ्गिण्यश्च
[अत्रैकशेषः ।] तरङ्गिणः समुद्राश्च तरङ्गिणो येन । महार्णवस्य
स्वादूदस्य परतः प्रसिद्धायां सुवर्णोर्व्यां शिलां शिलात्वं गतः ॥ १२ ॥

ततो वर्षशतेनासौ प्रसादाज्जातवेदसः ।
तेनैवोन्मोचितस्तत्र सिद्धेन रतिमाप्तवान् ॥ १३ ॥

येन सिद्धेन शापो दत्तस्तेनैव शापादुन्मोचितः सन् रतिं मनःप्रीतिमाप्तवान् ॥ १३ ॥

वर्षाण्यष्टावभूद्राजा नालिकेरनिवासिनाम् ।
पूर्वः परमधर्मिष्ठः प्राप्तवान्प्राक्स्मृतिं ततः ॥ १४ ॥

पुनः पूर्वस्योदन्तमाह - वर्षाणीति । कान्यकुब्जदेशादुत्तरां दिशं गतस्तत्र
नालिकेरप्रधानदेशनिवासिनां राजाऽभवदित्यर्थः । प्राक्स्मृतिं
पूर्वोदन्तस्मरणम् ॥ १४ ॥

कल्पवृक्षवने मेरोरुत्तरेऽप्सरसा सह ।
उवास दशवर्षाणि नालिकेरफलाश्नः ॥ १५ ॥

विहगाश्वासतत्त्वज्ञः शाल्मलिद्वीपशाल्मलौ ।
पश्चिमः पक्षिणीनीडे क्रीडया न्यवसत्समाः ॥ १६ ॥

पुनः पश्चिमस्योदन्तमाह - विहगेति । विहगानामाश्वासे वशीकरणविषये
तत्त्वज्ञो रहस्यज्ञः । अत एव प्राग्गरुडेन पृष्ठमारोप्यार्णवांस्तारित इत्युक्तम् ।
पक्षिण्या नीडे तया सह क्रीडया दशसमाः न्यवसदित्यर्थः ॥ १६ ॥

मन्दराद्रौ मृदुतले मन्दारतरुमन्दिरे ।
किन्नरी मन्दरीनाम्नी दिनमेकमसेवत ॥ १७ ॥

तदनन्तरं मन्दराद्रौ गतं तं पश्चिमंविपश्चितं मन्दराद्रौ किन्नरी
दिनमेकमसेवत ॥ १७ ॥

क्षीरोदवेलावनकल्पवृक्षवनावलीनन्दनदेवताभिः ।
सार्धं समाः सप्ततिमप्सरोभिर्निनाय कामाकुलितोऽथ पूर्वः ॥ १८ ॥

अथ पूर्वो नालिकेरवनात्क्षीरोदवेलां गतः संस्तत्रत्यकल्पवृक्षवनावलीषु
नन्दनदेवताभिरप्सरोभिः सार्धं कामाकुलितः सन् सप्ततिसमाः निनाय ॥ १८ ॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मी० दे० मो० नि० उ० अवि० वि० दिग्विहरणं नाम
त्रयोविंशाधिकशततमः सर्गः ॥ १२३ ॥

इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे निर्वाणप्रकरणे उत्तरार्धे
दिग्विहरणं नाम त्रयोविंशाधिकशततमः सर्गः ॥ १२३ ॥