द्वाविंशत्यधिकशततमः सर्गः १२२
श्रीवसिष्ठ उवाच ।
ततः प्रभाते प्रसभं पृथिव्याः कृत्वा यथाशास्त्रमलं व्यवस्थाम् ।
आविष्टदेहा इव ते रसेन निषेध्यमाना इव मन्त्रिमुख्यैः ॥ १ ॥
पदैरब्धितरङ्गेषु गच्छन्तोऽत्र विपश्चितः ।
विदार्यावर्तमकरान्निर्याताः साधुवर्णिताः ॥
यथाशास्त्रं नीतिशास्त्रमनतिक्रम्य
राज्यविभागपरिपालनोपायोपदेशमर्यादास्थापनादिव्यवस्थां कृत्वा । रसेन
दिगन्तदर्शनोत्कण्ठातिशयेन ग्रहाद्याविष्टदेहा इव
साक्षान्निषेद्धुमशक्नुवद्भिर्मन्त्रिमुख्यैरिङ्गितैर्निषेध्यमानत्वादिवकारः ॥ १ ॥
निवार्य सर्वं परिवारमात्रमाक्रन्दमानं वदनै रुदद्भिः ।
निरस्य चास्नेहतयाभिमानमात्सर्यलोभाभिभवैषणादि ॥ २ ॥
परिवारमात्रं कृत्स्नं परिजनं निवार्य । अभिभवः शत्रुपराभवस्तदेषणा ।
आदिपदाद्राज्यस्त्रीपुत्राद्येषणापरिग्रहः । अथवा अभिभवः
शत्रुभिरुपहसद्भिस्तिरस्कारः एषणाश्च प्रागुक्ताः । आदिपदाद्राज्यधनादींश्च
निरस्य हित्वा ॥ २ ॥
दिगन्तमालोक्य समुद्रपारे क्षणात्समायाम इति ब्रुवन्तः ।
स्वमन्त्रशक्त्योत्तमतां गतैस्तैरब्धिः [अद्भिः इति मुद्रितपाठश्चिन्त्यः ।
] पदैरेव तदा प्रविष्टः ॥ ३ ॥
वयं समुद्रपारे दिगन्तमालोक्य क्षणाच्छीघ्रमेव समायाम इति
परिजनसमाधानाय ब्रुवन्तः सन्तो जग्मुरित्यध्याहारः ।
अग्निप्रसादहेतुमन्त्रशक्त्यैव भूमिजलादिभूतजयेनोत्तमतां सिद्धतां
गतैस्तैस्तदा अब्धिः पदैरेव प्रविष्टो न तु पोताद्युपायेनेत्यर्थः ॥ ३ ॥
विपश्चितस्ते दिशि दिश्यनल्पैर्भृत्यैः समुद्रं प्रविशद्भिरेव ।
भृत्यैश्च कैश्चित्त्वनुगम्यमाना ययुर्यथा वारिणि पद्भिरेव ॥ ४ ॥
स्नेहातिशयात्समुद्रं प्रविशद्भिः कैश्चिद्भृत्यैरनुगम्यमानाः पद्भिरेव
ययुः ॥ ४ ॥
तरङ्गजालेषु पदानि कृत्वा पृष्ठे स्थलस्येव जलस्य चान्तः ।
चत्वार एकैकतयैव युक्ता भृशं वियुक्ता निजसेनया ते ॥ ५ ॥
कथं ययुस्तदाह - तरङ्गेति । स्थलस्य भूमेः पृष्ठ इव तरङ्गजालेषु
पदानि कृत्वा विन्यस्य । युक्ता उद्युक्ताः ॥ ५ ॥
पदक्रमेणैव महार्णवान्तस्तावत्प्रविष्टा अवलोकितास्ते ।
तटस्थितैर्यावददृश्यभावं शरन्नभोमेघलवा इवापुः ॥ ६ ॥
तटस्थितैर्भृत्यजनैस्ते तावत्कालमवलोकिता यावच्छरन्नभोमेघलवा इव
अदृश्यभावमापुः ॥ ६ ॥
तमध्वानमथोहुस्ते जलधौ पादचारिणः ।
वितताध्यवसायेन बद्धकक्षाहरा इव ॥ ७ ॥
विततेनाध्यवसायेन दृढनिश्चयेन । हस्तिपकस्थानीयेन प्रेर्यमाणास्ते विपश्चितो
बद्धां कक्षां हरन्ति तथाविधा गजा इव तं जलाध्वानं ऊहुः अतिवाहयामासुः ॥
७ ॥
उन्नतावनतामद्रिसमारोहावरोहणैः ।
श्रियं वारितरङ्गाणां हरन्तो हरिमूर्तयः ॥ ८ ॥
अद्रिसमैः आरोहावरोहणैर्निम्नोन्नतीभावैः उन्नतावनतां वारितरङ्गाणां
श्रियं शोभान्न् स्वयमपि तत्स्वीकाराद्धरन्तः । अत एव हरेर्मूर्तिरिव मूर्तिर्येषाम् ।
हरिमूर्तिरपि हि मन्थाद्रेर्मन्थनकाले वारितरङ्गाणां
समारोहावरोहणैरुन्नतावनतां श्रियं लक्ष्मीं जहारेति प्रसिद्धमिति भावः ॥ ८ ॥
आवर्तेषु तृणानीव भ्रान्ता विगतसम्भ्रमम् ।
चिरं चञ्चलमत्ताभ्रचन्द्रमण्डलशोभिषु ॥ ९ ॥
मत्ताभ्रप्रविष्टेन चन्द्रमण्डलेनेव स्वप्रवेशाच्छोभमानेष्वावर्तेषु तृणानीव
चिरं भ्रान्ताः ॥ ९ ॥
मन्त्रविद्याबलौजोभिर्दुर्जयाः शस्त्रपाणयः ।
क्वचित्प्रमत्तैर्मकरैर्निगीर्णोद्गीर्णदेहकाः ॥ १० ॥
पूर्व निगीर्णाः पश्चाज्जरणाशक्त्या उद्गीर्णा देहा येषाम् ॥ १० ॥
जलकल्लोलविश्रान्तवातोत्सारितमूर्तयः ।
नीतानीताः क्षणेनैव योजनानां शतं शतम् ॥ ११ ॥
जलकल्लोलमातङ्गतुङ्गिताङ्गतया तया ।
दधाना निजराज्येभपृष्ठरोहस्थितिश्रियम् ॥ १२ ॥
जलकल्लोललक्षणैर्मातङ्गैस्तुङ्गिताङ्गतया आरोहिताङ्गतया अपूर्वचमत्कारिण्या ॥
१२ ॥
विस्तीर्णोर्मिघटापट्टपाटपट्टनपाटवैः ।
दर्शयन्तो जलाम्भोदनिष्क्रान्तिं मारुता इव ॥ १३ ॥
विस्तीर्णानामूर्मिघटालक्षणानां शिलापट्टानां यः पाटनं पाटो विदारणं
यच्च पट्टनमधोमुखीकरणं तत्र पाटवैः कौशलैः
जललक्षणादम्भोदान्निष्क्रान्तिं मारुता मरुद्दीपिता विद्युत इव दर्शयन्तः ॥ १३ ॥
तरत्तरलमातङ्गतरङ्गौघविघट्टिताः ।
अत्यजन्तो निजं धैर्यं वेलावरतटा इव ॥ १४ ॥
तरलमातङ्गैरिव तरङ्गौघैर्विघट्टिता अपि वेलासु प्रसिद्धा वरतटाः शिलावप्रा
इव निजं धैर्य अत्यजन्तः ॥ १४ ॥
महोर्मिमुक्तामाणिक्यमण्डलप्रतिबिम्बिताः ।
एकाकिनोऽपि परितः पौरुषेयवृता इव ॥ १५ ॥
महोर्मिषु मुक्तामाणिक्यमण्डलेषु च प्रतिबिम्बिताः सन्तः पुरुषाणां समूहः
पौरुषेयं तेन परिवृता इव भासमानाः ॥ १५ ॥
पाण्डुडिण्डीरपिण्डेषु कुर्वन्तो लाघवात्पदम् ।
श्वेतपद्मपरिक्रान्तराजहंसश्रियं दधुः ॥ १६ ॥
श्वेतपद्मेषु परिक्रान्तस्यारूढस्य राजहंसस्य श्रियम् ॥ १६ ॥
घननिर्घातनिर्घोषभीषणार्णवघुङ्घुमात् ।
न भीता भूभृतस्तत्र वेलावलनजृम्भितात् ॥ १७ ॥
निर्घातः स्फूर्जथुः । भूभृत इति श्लिष्टम् । यतो भूभृतस्ततो न भीताः ॥ १७ ॥
अभ्रंलिहजलाद्रीन्द्रपातोत्पातविघट्टिताः ।
क्षणं पातालमाजग्मुः क्षणमर्कास्पदं ययुः ॥ १८ ॥
अभ्रंलिहेभ्यो जलमयेभ्योऽद्रीन्द्रेभ्यः पातैरुत्पातैश्च विघट्टिताः सन्तः ॥ १८ ॥
अशङ्कितोत्पतद्वारिपूरपातपटावृताः ।
उत्पातपातनिपतद्वितानकवृता इव ॥ १९ ॥
उत्पातस्य पाते प्राप्तौ निपतन्तो ये मेघवितानकास्तैर्वृता इव ॥ १९ ॥
प्रक्रान्तास्तेम्बुराशौ सहचरमकराः शूरनक्रैः
कुलीरैर्व्याप्तावर्ताविवृत्ताः सलिलतरुलतासीकरैरन्तरालैः ।
कुर्वन्तः कान्तियुक्तं वपुरिव
कुसुमैर्भ्रान्तमाणिक्यमुक्तैर्व्यक्ताव्यक्तांशुजालैः
प्रतिपदमितरैरभ्ररूपैरदभ्रैः ॥ २० ॥
अदभ्रैर्बहलैरभ्ररूपैर्व्यक्ताव्यक्तांशुजालैर्भ्रान्तैर्माणिक्यमुक्ता##-
कुसुमैरिव वपुः कान्तियुक्तं भूषितं कुर्वन्तः तथा शूरैर्नक्रैः कुलीरैः
कर्कटकैश्च व्याप्तेष्वावर्तेषु आसमन्ताद्विवृत्ताः सहचरा मकरा येषां
तथाविधास्ते विपश्चितः अम्बुराशौ समुद्रे प्रक्रान्ताः चलिता इत्यर्थः ॥ २० ॥
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मी० दे० मो० नि० उ० अवि० वि० बलपरिभ्रंशो
नाम द्वाविंशाधिकशततमः सर्गः ॥ १२२ ॥
इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे निर्वाणप्रकरणे उत्तरार्धे
बलपरिभ्रंशो नाम द्वाविंशाधिकशततमः सर्गः ॥ १२२ ॥