एकविंशत्यधिकशततमः सर्गः १२१
श्रीवसिष्ठ उवाच ।
अथ तेष्वर्णवतटेष्वेते भूमौ विपश्चितः ।
उपविश्यैतदखिलं चक्रू राज्यप्रयोजनम् ॥ १ ॥
अत्र मण्दलमर्यादां संस्थाप्याग्निमुपेयुषाम् ।
वरादग्नेर्दिगन्तानां दर्शनोद्योग ईर्यते ॥
अथ एते प्रागुक्ता विपश्चितेस्तेष्वर्णवतटेषु उपविश्य एतत्प्राङ्मन्त्रिभिर्निवेदितं
मण्डलमर्यादास्थापनरूपं प्रयोजनं चक्रुः ॥ १ ॥
तदा तत्रैव ते वासभूमिं कृत्वा यथाक्रमम् ।
तस्थुर्मण्डलमर्यादां स्थापयामासुरक्षताम् ॥ २ ॥
स्वयं तत्र तस्थुर्मण्डलमर्यादां च स्थापयामासुः ॥ २ ॥
अथ वर्णयितुं श्रीमांस्तत्प्रतापमिवागमत् ।
सम्प्रविश्य समुद्रान्तरन्यलोकान्तरं रविः ॥ ३ ॥
तेषां विपश्चितां प्रतापम् । लोकान्तरं ज्योतिषमते पाताललोकम् । पौराणिकमते
मेरूत्तरभागस्थं वर्षान्तरम् । समुद्रान्तः प्रविश्येति
समुद्रतीरस्थजनदृष्ट्योक्तिः ॥ ३ ॥
आययौ यामिनीश्यामा मेघलेखेव तानवम् ।
सम्पादिताहर्व्यापारास्तस्थुः स्वशयनेषु ते ॥ ४ ॥
तानवं विस्तारम् । ते विपश्चितः ॥ ४ ॥
आसमुद्रं नदीवाहा इव दूरादुपागताः ।
इदं सम्पादयामासुर्विस्मयाकुलचेतसः ॥ ५ ॥
इदं वक्ष्यमाणं मनसि सम्पादयामासुश्चिन्तयामासुः ॥ ५ ॥
अहो नु दूरमध्वानं प्राप्ता वयमयत्नतः ।
प्रभावोद्देवदेवस्य वह्नेर्दिव्यैः स्ववाहनैः ॥ ६ ॥
कियती स्यात्प्रविस्तीर्णा दृश्यश्रीरियमातता ।
इतः समुद्रस्तदनु द्वीपभूरम्बुधिः प्रभुः ॥ ७ ॥
तदेवाह - कियती स्यादित्यादिना । इतः अस्माज्जम्बूद्वीपात् परतो लवणसमुद्रस्तदनु
प्लक्षद्वीपभूस्तत इक्षुरसाम्बुधिः प्रभुर्महान् लवणसमुद्राद्द्विगुणायाम इति
यावत् ॥ ७ ॥
इतो द्वीपं ततोऽम्भोधिः किमन्ते स्यात्ततोऽपि च ।
कियती कीदृशी वा स्यान्मायेयं चेत्यरूपिणी ॥ ८ ॥
इतः इक्षुसमुद्रात्परतः कुशद्वीपं ततः परतः सुरोदोऽम्भोधिः । एवं क्रमेण
सप्तद्वीपसमुद्राणामन्ते किं स्यात् । ततोऽपि च परतः किं स्यात् । इयं चेत्यरूपिणी माया
कियती स्याद्वस्तुवैचित्र्येण कीदृशी वा स्यात् ॥ ८ ॥
तत्प्रार्थयामहे देवं हुताशं तद्वरादिमाः ।
प्रेक्षामहे दिशः सर्वा आपर्यन्तमखेदिनः ॥ ९ ॥
तत्सर्व द्रष्टुं हुताशं देवं प्रार्थयामहे प्रार्थयेमहि ॥ ९ ॥
इति सञ्चिन्त्य ते सर्वे यथास्थानमवस्थिताः ।
सममेवाह्वयामासुर्भगवन्तं हुताशनम् ॥ १० ॥
यथास्थानं चतुःसागरकूलेष्ववस्थितास्ते समं युगपदेव ॥ १० ॥
बभूव भगवानेषामथ दृश्यो हुताशनः ।
आकारवान्वरं पुत्राः प्रगृह्णीतेत्युवाच ह ॥ ११ ॥
विपश्चित ऊचुः ।
पञ्चभूतात्मकस्यास्य दृश्यस्यान्तं सुरेश्वर ।
देहेन मन्त्रदेहेन तदन्ते मनसापि च ॥ १२ ॥
यावदनेन देहेन गन्तुं शक्यं तावदनेन देहेन । एतदगम्ये
वैदिकमन्त्रप्रभावसंस्कृतेनानेनैव देहेन । तदगम्ये मनसा ॥ १२ ॥
यावत्संवेदनं यावत्सम्भवं यावदात्मकम् ।
पश्येम इति नो देव दीयतामुत्तमो वरः ॥ १३ ॥
यावत्संवेदनमिति प्रत्यक्षयोग्यसर्वार्थोक्तिर्यावत्सम्भवमित्यनुमानगम्य##-
द्वितीयेन यावत्सूक्ष्मोक्तिः तृतीयेन यावत्कारणप्रपञ्चोक्तिः । इति नः अस्मभ्यं वरो
दीयताम् ॥ १३ ॥
आसिद्धगम्यमध्वानं पश्येम वपुषा वयम् ।
तदन्ते मनसैवाथ दृश्यं पश्येम भो प्रभो ॥ १४ ॥
सिद्धा योगिनस्तेषां योगप्रभावगम्यमभिव्याप्येत्यासिद्धगम्यम् । वपुषा अनेनैव
देहेन । अथ तदन्ते तदगम्यमिति यावत् ॥ १४ ॥
आसिद्धगम्यमध्वानं मृत्युरस्माकमस्तु मा ।
अध्वन्यसम्भवद्देहे मन एव प्रयातु नः ॥ १५ ॥
अध्वानं गच्छतामिति शेषः । असम्भवद्देहे अध्वनि दक्षिणोत्तरायणादिमार्गरूपे
मृत्वैव गन्तुं शक्ये अध्वनि ॥ १५ ॥
श्रीवसिष्ठ उवाच ।
अथैवमस्त्विति प्रोच्य पावकः सहसागमत् ।
क्षणादौर्वतया यातुं समुद्र इव सत्वरः ॥ १६ ॥
अथ तद्वरप्रार्थनानन्तरम् । और्वतया वडवाग्निभावेन समुद्रे यातुं सत्वर इव ॥
१६ ॥
अग्निर्जगामाथ समाजगाम निशा विलम्ब्याथ जगाम सापि ।
समाजगामापि रविर्जगाम तेषां च धीरार्णवलङ्घनेहा ॥ १७ ॥
एवं वरं दत्त्वा अग्निर्जगाम । अथ निशा समाजगाम । सा निशापि यामचतुष्टयं
विलम्ब्य जगाम । अथ रविः समाजगाम । तेषां विपश्चितां धीरार्णवलङ्घनेहा च
समाजगाम ॥ १७ ॥
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मी० दे० मो० नि० उ० अवि० विप० विपश्चिन्निर्णयो
नामैकविंशत्यधिकशततमः सर्गः ॥ १२१ ॥
इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे निर्वाणप्रकरणे उत्तरार्धे
विपश्चिन्निर्णयो नामैकविंशत्यधिकशततमः सर्गः ॥ १२१ ॥