१२०

विंशाधिकशततमः सर्गः १२०

सहचरा ऊचुः ।

एवम्प्रायाः कथाः कुर्वत्पश्यैनन्मिथुनं महत् ।
पानं प्रवृत्तवत्सारं पातुं पद्मनिभेक्षण ॥ १ ॥

वर्ण्यन्ते वायवो वृक्षा भ्रमरा वनपङ्क्तयः ।
देवस्त्रियोऽब्धिवीच्यश्च हेमचूडखगादयः ॥

हे पद्मनिभेक्षण एवं प्रागुक्तप्रायाः कथाः कुर्वदेनत् प्रागुक्तं मिथुनं
स्त्रीपुंसयुग्मं सम्प्रति सारमुत्तमं सीधुपानं पातुं प्रवृत्तवत् पश्येति
मिथुनकथोपसंहारः । अन्वादेशे नपुंसके एनद्वक्तव्यः इत्येनदादेशः ॥ १ ॥

कदलीकन्दलीस्वच्छगुच्छाच्छोटनपण्डिताः ।
विविधा वायवो वान्ति पुष्पकेसरमण्डिताः ॥ २ ॥

वायून्कश्चिद्वर्णयति - कदलीत्यादिना । गुच्छानामाच्छोटने विकासने पण्डिताः ॥
२ ॥

वान्ति वाता वनोद्वान्तविविधामोदमांसलाः ।
पीतघर्मकणाः क्रान्तललनालकलालकाः ॥ ३ ॥

क्रान्तानां विक्षिप्तानां ललनालकानां लालका विलासकाः ॥ ३ ॥

कुलाचलगुहागेहवलनोद्यन्मृगाधिपाः ।
सरन्त्यसुरसंरम्भैर्लवणार्णवमारुताः ॥ ४ ॥

कुलाचलानां गुहागेहेषु वलने प्रविश्य भ्रमणे उद्यन्त उद्युक्ता मृगाधिपाः
सिंहा इव । असुराणामिव संरम्भैर्मेरुशिखराक्रमणोद्योगैः सरन्ति ॥ ४ ॥

तमालतालतरललीलान्दोलनलालिताः ।
अनिलाजलकल्लोलोत्क्रान्तकोमलपल्लवाः ॥ ५ ॥

तमालेषु तालेषु च तरलशिशुवत् लीलान्दोलनैर्दोलिताः । जलकल्लोलेभ्य उत्प्लुत्य क्रान्ता
वृक्षाग्रकोमलपल्लवा यैः ॥ ५ ॥

ललन्नवलतावान्तपुष्पधूलिविद्नूसराः ।
सरन्ति मरुतो मदमुद्यानेषु नृपा इव ॥ ६ ॥

ललन्त्यो या नवा लतास्ताभिर्वान्ता याः पुष्पधूलयस्ताभिर्विधसराः ॥ ६ ॥

मधुरं वंशविश्रान्तो गातुमेष वनानिलः ।
प्रवृत्तः पाण्डुनगरनारीभिरिव शिक्षितः ॥ ७ ॥

वंशेषु कीचकवनेषु विश्रान्तः । पाण्डुनगरे हस्तिनापुरे नार्यो गानविद्याकुशला इति
प्रसिद्धिः ॥ ७ ॥

निकारः कर्णिकारेण पवनस्य यदा कृतः ।
तदा परिहरन्त्येनं भ्रमरा अपि दूरतः ॥ ८ ॥

भ्रमरैः कर्णिकारवृक्षस्य दूरतस्त्यागे हेतुमुत्प्रेक्षते - निकार इति । निकारो
गन्धपरागाद्यनर्पणेन तिरस्कारः ॥ ८ ॥

न ददाति फलं किञ्चिदर्थिने न च पल्लवम् ।
तालः स्तम्भतयाऽऽरम्भन्न् ह्यरूपैव विनाऽऽकृतिः ॥ ९ ॥

अयं तालः स्तम्भप्रायतया दुरारोहत्वादर्थिने फलं न ददाति पल्लवं च न ददाति
। हि यस्मात्कारणादुन्नताप्याकृतिरस्य अर्थ्यभिलाषपूरणारम्भं विना अरूपैव न
शोभत इत्यर्थः ॥ ९ ॥

राग एव हि शोभायै निर्गुणानां जडात्मनाम् ।
राजेव राजते राजन्रागेणैवैष किंशुकः ॥ १० ॥

औदार्यादिगुणशून्यानां जडात्मनां मूर्खाणां वस्त्रालङ्काराद्याडम्बरेण
रागः शरीररञ्जनमेव शोभायै नान्यदित्यर्थः । किंशुकः पुष्पितः पलाशः ॥ १०

आगच्छ कर्णिकारोऽयं विकारस्यैव भाजनम् ।
निरामोदः किमेतेन निर्गुणेनेव जन्तुना ॥ ११ ॥

विकारस्य वृथाऽयमनुसृत इति विषादलक्षणस्य चित्तविकारस्यैव ॥ ११ ॥

विलोलमञ्जरीजालतडित्सङ्गस्थितोऽसितः ।
चातकस्याम्बुदभ्रान्तिं तमालः कुरुते मुधा ॥ १२ ॥

मञ्जरीजाललक्षणतडित्सङ्गेन स्थितः असितश्च तमालश्चातकस्याम्बुदभ्रान्तिं
कुरुते । मुधा वृथा ॥ १२ ॥

पत्राला घनसङ्घाताः सच्छायावृतभूभृतः ।
गुणानां महतां योग्या वंशा वंशा इवोन्नताः ॥ १३ ॥

पत्रैः पर्णैर्वाहनैश्च अलाः भूषिताः । घनो दुर्भेद्यः सङ्घातो येषाम् ।
सतीभिश्छायाभिर्वृता भूभृतो गिरयो यैः । सतां छायार्थं वृताः स्वीकृता
भूभृतो राजानो यैः । गुणानां धनुर्भावे मौर्वीणां सन्मानादीनां च ॥ १३ ॥

हेमसान्वासनस्थोऽग्र्यो वातव्याधितटोऽम्बुदः ।
तडित्पीताम्बरं धत्ते क्षुब्धं [क्षुब्धमित्यत्र आकाशपक्षे तडिद्भिरेव
क्षुब्धम् । वस्त्रपक्षे सञ्चलितं स्फुरत् ।] हरिरिवोद्भवः [उद्भव
ऊर्ध्वभवः पक्षे उत्कृष्टैश्चर्यः ।] ॥ १४ ॥

हेममयसानुलक्षणे आसने तिष्ठत्यम्बुदः हेमसानुसदृशे हरिः । अत एवाग्रे
भवोऽग्र्यः । वातलक्षणो व्याधिस्तटेषु यस्याम्बुदस्य वातव्याधिरुद्धवस्तटे
सन्निधौ यस्य हरेः । तडिद्भिः पीतमम्बरमाकाशं धत्तेऽम्बुदः
तडिद्वत्पीतमम्बरं वस्त्रं धत्ते हरिः ॥ १४ ॥

प्रवेशनिर्गमव्यग्रतरत्खगशिलीमुखः ।
प्रफुल्लकिंशुको भाति वीरो रक्त इवासृजा ॥ १५ ॥

प्रवेशनिर्गमयोर्व्यग्राः सरन्तः खगा इव शिलीमुखा बाणाः अलयश्च यस्य । वीरो
योधः असृजा रक्तप्रवाहेण रक्तो रञ्जित इव ॥ १५ ॥

मन्दारमञ्जरीपुञ्जपिञ्जराम्भोदमन्दिरे ।
महेन्द्रमस्तके मत्ताः सुप्ता गन्धर्वकामिनः ॥ १६ ॥

महेन्द्रस्य गिरेर्मस्तके शिखरे । पानमत्ताः सन्तः सुप्ताः ॥ १६ ॥

कल्पद्रुमवनच्छाया विश्रान्ता विततान्विताः ।
पश्य पार्थिव गायन्ति सिद्धविद्याधराध्वगाः ॥ १७ ॥

विशिष्टैस्ततैर्वीणादिवाद्यैरन्विताः ॥ १७ ॥

पश्य कल्पद्रुमस्यास्य पल्लवे पल्लवे वने ।
विश्रान्ताः सुरसुन्दर्यो गायन्ति च हसन्ति च ॥ १८ ॥

मन्दिरं मन्दपालस्य मन्दरे मृदुमन्दिरे ।
मुनेरिदमुदारस्य भार्या सा यस्य पक्षिणी ॥ १९ ॥

मन्दपालस्य मुनेर्महाभारतादौ प्रसिद्धस्य सा प्रसिद्धा पक्षिणी जरिताख्या
गृध्री ॥ १९ ॥

अन्योन्यामतसिंहेभनकुलोरगकेलिकाम् ।
पश्य मुन्याश्रमश्रेणिं सर्वर्तुकुसुमद्रुमाम् ॥ २० ॥

अन्योन्यममतानां सिंहेभादीनां जातिवैरपरित्यागेन प्रीतिकेलिका यस्यां
तथाविधां मुन्याश्रमश्रेणिम् ॥ २० ॥

विद्रुमद्रुममिश्राणाम्भोधितटवीरुधाम् ।
बिम्बितार्काः कचन्त्येते पल्लवेषूदबिन्दवः ॥ २१ ॥

विद्रुमद्रुमैर्मिश्राणां संवलितानामम्भोधितटस्थानां वीरुधां लतानां
पल्लवेषु बिम्बितः अर्को येषु तथाविधा एते उदबिन्दवः उदकबिन्दवः कचन्ति ।
मन्थौदनसक्तुबिन्दुवज्रभारहारवीवधगाहेषु च इत्युदकस्योदादेशः ॥ २१ ॥

वीचयो रत्नमाणिक्यपदेष्वावर्तवृत्तिभिः ।
विलसन्ति विलासिन्यो वक्षःस्विव विलासिनाम् ॥ २२ ॥

रत्नमाणिक्यानां पदेष्वाकरस्थानेषु वीचय आवर्तवृत्तिभिर्मुहुर्मुहुः
परिवर्तनैर्विलसन्ति क्रीडन्ति । विलासिन्यस्तरुण्यो विलासिनां स्वकान्तानां वक्षःस्विव ॥
२२ ॥

नागलोकेन्द्रलोकस्त्रीगमनागमनोद्भवः ।
दिव्यो भूषणझाङ्कारः श्रूयते नभसः शृणु ॥ २३ ॥

श्रवणोपान्तविभ्रष्टमदमत्तालिनीस्वरैः ।
ऐरावणस्नानभुवो गायन्तीव गुहा गिरेः ॥ २४ ॥

श्रवणोपान्ताद्गण्डस्थलाद्विभ्रष्टैर्मदैर्मत्तानामलिनीनां
स्वरैरैरावणस्यैरावतस्य स्नानभूमेर्गिरेरिमा गुहा गायन्तीव पश्य ॥ २४ ॥

ह्रसतोऽनुदिनं कृष्णपक्षे कृष्णान्तलेखिकाः ।
दृश्यन्ते कृशगात्रस्य वास्तुकावलयोऽम्बुधेः ॥ २५ ॥

कृष्णपक्षे चन्द्रमनु ह्रसतः अम्बुधेः कृष्णान्तरेखारूपा वास्तुके
निवासभूमिभूते वेलातटे पङ्क्तयो दृश्यन्ते ॥ २५ ॥

आमोदगन्धश्वसना सच्छाया शीतलाङ्गिका ।
एकान्तदर्शिताकारा नानाकुसुमपूरिता ॥ २६ ॥

वनान्येव कश्चित्स्त्रीरूपेण वर्णयति - आमोदेति द्वाभ्याम् । विशेषणानि सर्वाणि
श्लेषादिनार्थद्वयपराण्येकीकृत्य योज्यानि । वनामोद एव गन्धयुक्तं श्वसनं
श्वासो यस्याः ॥ २६ ॥

वनविन्यासवसना निर्झरामलहासिनी ।
आस्तीर्णपुष्पास्तरणा धन्या वनविलासिनी ॥ २७ ॥

वनलक्षणा विलासिनी स्त्री ॥ २७ ॥

रमन्ते नन्दनोद्याने न तथोदारबुद्धयः ।
यथोपशान्तशब्दासु शुद्धासु वनभूमिषु ॥ २८ ॥

उदारबुद्धयो देवादयः ॥ २८ ॥

सुविरक्तं मुनेश्चेतो रक्तं च विषयार्थिनः ।
रमयन्ति समं रम्या विजना वनभूमयः ॥ २९ ॥

मुनेर्विरक्तं चेतो विषयार्थिनः कामिनो रक्तं च चेतः समं तुल्यतया रमयन्ति ॥ २९

सलिलाधौतवप्राणामम्भोधितटभूभृताम् ।
नूपुरैरिव रत्नौघैः पादा भान्ति ध्वनन्ति च ॥ ३० ॥

पादाः प्रत्यन्तपर्वतास्तल्लक्षणाश्चरणाश्च ॥ ३० ॥

पुन्नागनगविश्रान्ताः कान्तकाञ्चनकान्तयः ।
हेमचूडाः खगा भान्ति दिवि देवगणा इव ॥ ३१ ॥

भ्रमराम्भोदधूमाढ्याः फुल्लचम्पककाननाः ।
कम्पन्ते पश्य वातेन ज्वलिता इव पर्वताः ॥ ३२ ॥

भ्रमरैरम्भोदैश्च धूमाढ्याः । यतः कम्पन्ते अतो ज्वलिता इव ॥ ३२ ॥

कुर्वन्तं करवीराग्रलतान्दोलावदोलकम् ।
कोकिलं कोकिलालिङ्ग्य लोलालापयति प्रियम् ॥ ३३ ॥

करवीरस्य अग्रलता ऊर्ध्वशाखा तल्लक्षणदोलाया अवदोलकमान्दोलनं कुर्वन्तं
कोकिलं तत्प्रिया कोकिला आलिङ्ग्य मधुरगीतमालापयति ॥ ३३ ॥

लसत्कलकलारावमेता लावणसैन्धवीः ।
पूर्णास्तटभुवो भूपैः पश्योपायनपाणिभिः ॥ ३४ ॥

हे राजन् एता लवणसिन्धोरिमा लावणसैन्धवीः हृद्भगसिन्ध्वन्ते पूर्वपदस्य च
इत्युभयपदवृद्धिः । लसत्कलकलं यथा स्यात्तथा उपायनपाणिभिर्भूपैः
पूर्णास्तटभुवः पश्य ॥ ३४ ॥

आ पूर्वादाऽपरस्माल्लवणजलनिधेरोत्तराद्दक्षिणाद्वा देवोदग्राजिशिष्टा
इहनरपतयः पादपीठीक्रियन्तां ।
दीयन्तां मण्डलानां दिशि दिशि च यथाशास्त्रमस्त्राण्यवन्या रक्षायै
क्षान्तिपूर्वं चिरमतुलबलं शान्तया शासनानि ॥ ३५ ॥

हे देन आ पूर्वाल्लवणजलनिधेः आऽपरस्मात्पश्चिमाल्लवणजलनिधेश्च तथा आ
उत्तराद्दक्षिणाद्वा लवणजलनिधेः । मर्यादायामाङः । इहास्मिन् जम्बूद्वीपे उदग्रे
आजौ शिष्टा अवशिष्टा ये यावन्तो नरपतयस्ते सर्वे पादपीठीक्रियन्ताम् । शिरसि
पादार्पणेनानुगृह्यन्तामिति यावत् । किं च तत्तन्मण्डलानामवन्या दिशि दिशि चिरं
रक्षायै यथाशास्त्रं नीतिशास्त्रोक्तप्रकारेण क्षान्तिपूर्वं समाधानपुरःसरं
शान्तया धिया शासनानि दीयन्ताम् । तदन्वस्त्राणि दीयन्तां तदनु च बलं स्वसैन्यं
दीयताम् ॥ ३५ ॥

इत्यार्षे श्रीवासि० वा० दे० मो० निर्वा० उ० अविद्यो० विप० दिगन्तरवृत्तिवाय्वादिवर्णनन्न्
नाम विंशत्यधिकशततमः सर्गः ॥ १२० ॥

इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे निर्वाणप्रकरणे उत्तरार्धे
दिगन्तरवृत्तिवाय्वादिवर्णनं नाम विंशत्यधिकशततमः सर्गः ॥ १२० ॥