एकोविंशाधिकशततमः सर्गः ११९
सहचरा ऊचुः ।
कथयत्येष पथिकः पश्य मन्दरगुल्मके ।
प्रियायाश्चिरलब्धाया वृत्तां विरहसङ्कथाम् ॥ १ ॥
पथिकः स्वां प्रियां प्राप्य तदग्रे तद्वियोगजाम् ।
प्राक्तनीं स्वां दशामत्र श्मशानान्तामवर्णयत् ॥
हे राजन् मन्दरगिरेः कुञ्जगुल्मके एष पथिकश्चिरलब्धायाः प्रियायाः पुरतः
प्राग्वृत्तां स्वां विरहसङ्कथां कथयति तं पश्य ॥ १ ॥
एकत्र शृणु किंवृत्तमाश्चर्यमिदमुत्तमम् ।
दातुं त्वन्निकटे दूतमहं चिन्तान्वितोऽवदम् ॥ २ ॥
प्रियागे तेन वर्णितां विरहसङ्कथां वर्णयितुमुपक्रमते - एकत्रेत्यादिना । हे
प्रिये त्वद्वियोगदशायां मम एकत्र एकस्मिन्दिने जातं किंवृत्तं
वृत्तान्तमाश्चर्यमिदं वक्ष्यमाणं त्वं शृणु । त्वन्निकटे स्ववृत्तान्तं
दातुन्न् प्रेषयितुं दूतन्न् विचारयंश्चिन्तान्वितोऽहमिदमवदम् ॥ २ ॥
अस्मिन्महाप्रलयकालसमे वियोगे यो मां तयेह मम याति गृहं स कः स्यात् ।
नैवास्त्यसौ जगति यः परदुःखशान्त्यै प्रीत्या निरन्तरतरं सरलं यतेत ॥ ३
॥
किमवदत्तदाह - अस्मिन्निति । अस्मिन्महाप्रलयकालसमे वियोगे वियोगलक्षणायां
महापदि इहस्थं मां वृत्तान्तप्रापणेन तया सभाजयितुं यो मम गृहं याति
स तादृशो दयालुर्दूतः कः स्यात् । यः परदुःखशान्त्यै प्रीत्या सरलं यथा
स्यात्तथा निरन्तरं यतेत । असौ तादृशः पुरुषो जगति नैवास्ति ॥ ३ ॥
आ एष शिखरे मेघः स्मराश्व इव संयुतः ।
विद्युल्लताविलासिन्या वलितो रसिकः स्थितः ॥ ४ ॥
आ इदानीं स्मृतः पुरोवर्तिगिरिशिखरे एष परिदृश्यमानो मेघः प्रीत्या सततं
परदुःखोपशमनादिगुणैः संयुतः स्मरस्याश्व इव शीघ्रं
मद्गृहगमनसमर्थः । परोपकाररसिको विद्युल्लतालक्षणया विलासिन्या वलितः
स्थितोऽस्तीत्यर्थः ॥ ४ ॥
भ्रातर्मेघ महेन्द्रचापमुचितं व्यालम्ब्य कण्ठेगुणं नीचैर्गर्जं
मुहूर्तकं कुरु दयां सा बाष्पपूर्णेक्षणा ।
बाला बालमृणालकोमलतनुस्तन्वी न सोढुं क्षमा तां गत्वा सुगते
गलज्जललवैराश्वासयात्मानिलैः ॥ ५ ॥
अतोऽहमेनमेव प्रार्थयिष्यामीत्यभिप्रेत्याह - भ्रातरिति । हे भ्रातर्मेघ त्वं
कण्ठे गुणो यस्य स कण्ठेगुणस्तथाविधं गुणवतस्तव उचितं महेन्द्रचापं
व्यालम्ब्य गृहीत्वा सुगते हे शोभननभोमार्गगामिन् तां मत्प्रियां गत्वा
गलज्जललवैरात्मानिलैः प्रथममाश्वासय । ततो मत्सन्देशं प्रापयितुं
नीचैर्मन्दं गर्ज मुहूर्तकं दयां कुरु । यतस्ते गाढगर्जितं
मद्विरहदुःखाद्बाष्पपूर्णेक्षणा बालमृणालकोमलतनुस्तन्वी बाला सा सोढुं न
क्षमा ॥ ५ ॥
चित्ततूलिकया व्योम्नि लिखित्वालिङ्गिता सती ।
न जाने क्वाधुनैवेतः पयोद दयिता गताः ॥ ६ ॥
हे पयोद सा दयिता मया हृद्व्योम्नि चित्ततूलिकया लिखित्वा आलिङ्गिता सती अधुना इतः
केव गता न जाने ॥ ६ ॥
इत्थं चिन्तापरवशमतेस्तन्वि सार्धं त्वयाऽसावन्तर्लीनप्रसरमनसः क्वापि
याता स्मृतिर्मे ।
सम्पन्नोऽहं परवशवपुः काष्ठकुड्योपमाङ्गो भङ्गं सोढुं क इव
विरहक्लेशजं नाम शक्तः ॥ ७ ॥
हे तन्वि इत्थं मेघं प्रत्युक्त्वा त्वच्चिन्तापरवशमतेः अन्तरेव लीनप्रसरं मनो
यस्य तथाविधस्य मे सा प्रसिद्धा स्मृतिः
पूर्वापरप्रतिसन्धानसमर्थाबुद्धिस्त्वया सार्ध क्वापि याता । ततः
स्मृतिलोपादहं परवशवपुः सन् काष्ठकुड्योपमान्यङ्गानि यस्य तथाविधः
सम्पन्नः । तथा हि विरहक्लेशजं भङ्गं परिभवं सोढुं क इव शक्तो नाम ।
न कश्चिदित्यर्थः ॥ ७ ॥
पश्चाज्जातः कलकलरवः सन्तते पान्थसार्थे
दीनालापैर्व्यसनविधुरैरालपन्ते च मेघम् ।
कष्टं पान्थो मृत इति महारम्भसम्पन्नहाहाशब्दः
प्रोद्यत्पथिकवनिताविस्तृतोरःप्रहारः ॥ ८ ॥
ततः पश्चान्मां तथाविधं पश्यति सन्तते मिलिते पान्थसार्थे पान्थजनसमूहे
महारम्भेण सम्पन्ना हाहाशब्दा यस्मिंस्तथाविधः
प्रोद्यन्तीनामागच्छन्तीनां पथिकवनितानां विस्तृता उरःप्रहाराश्च
यस्मिंस्तथाविधश्च पान्थो मृत इति कलकलरवः कोलाहलध्वनिर्जातः । तत्र
केचिद्व्यसनेन विधुरैर्भ्रष्टस्वरैर्दीनालापैर्मेघं च आलपन्ते अधिक्षिपन्ति ॥ ८ ॥
लोकेनायं मृत इति ततो बाष्पसम्पूरिताक्षं शावीं पूजां विरचितवता
सञ्चयीकृत्य दारु ।
दग्धुं नीतोऽस्म्यतिभयमहं
प्रज्वलच्चित्यन्तप्रोद्यत्स्फोटस्फुटपटपटारावरौद्रं श्मशानम् ॥ ९ ॥
ततः किमभूत्तत्राह - लोकेनेति । ततस्तेन पान्थलोकेन अयं मृत इति निश्चित्य
बाष्पैः सम्पूरिताक्षं यथा स्यात्तथा शावीं शवोचितां
गन्धमाल्यादिभिरलङ्करणरूपां पूजां विरचितवता दारु काष्ठं सञ्चयीकृत्य
सङ्गृह्य दग्धुमहमतिशयितं भयं यत्र तथाविधं
प्रज्वलन्तीभिश्चितिभिरनन्तैः प्रोद्यद्भिः स्फोटस्फुटपटपटारावैः
रौद्रमुद्वेगदं श्मशानं नीतोऽस्मि ॥ ९ ॥
तत्राहं तैः कमलवदने बाष्पपूर्णाक्षिपक्षैर्न्यस्तः कैश्चिच्चितिशयनके
बद्धलोकालिलेखे ।
धूमोद्गाराविरलजटिले मस्तके मत्तमृत्योश्चूडारत्नोत्तम इव
कलामात्रदृश्येऽग्निहेम्नि ॥ १० ॥
हे कमलवदने तत्र अहं कैश्चिद्बाष्पपूर्णाक्षिपक्षैस्तैः पान्थैश्चितिशयनके
न्यस्तः । तत्र बद्धा परितो लोकालिरिव लेखा पङ्क्तिर्यस्य तथाविधे
धूमोद्गारैरविरलं जटिले मत्तस्य मृत्योर्मस्तके प्रसिद्धचूडारत्नोत्तमे इव
द्योतमाने अग्निलक्षणे हेम्नि कलामात्रेण दृश्ये जाते सति ॥ १० ॥
अस्मिन्काले कुवलयलताकोमला धूमलेखा नासारन्ध्रं मृदुगलबिलं मे
प्रवृत्ता नियातुम् ।
उष्णा कृष्णा नकुलकलिता सत्वरं बालसर्पी भूमे रन्ध्रं तनुमिव
दराद्दैर्घ्यसङ्कोचकुब्जा ॥ ११ ॥
तस्मिन् काले कुवलयलतेव कोमला मृद्वी तथा उष्णा कृष्णा दैर्घ्यसङ्कोचात्कुब्जा
धूमलेखा मे मृदुगलबिलं नासारन्ध्रं नकुलेन कलिता भीषिता
पूर्वोक्तविशेषणकदम्बवती बालसर्पी तनुं सूक्ष्मं भूमे रन्ध्रमिव नियातुं
निश्चितं प्रवेष्टुं प्रवृत्ता ॥ ११ ॥
त्वत्सङ्कल्पामृतकवचितो नापविद्धस्तयाहं कुन्तश्रेण्या दृढपतनया
वज्रकायो यथाजः ।
त्वामासन्नां मदनसरितं हृद्गृहे गाहमानो मर्मच्छेदेष्वपि विलसिता
नाविदं वेदनास्ताः ॥ १२ ॥
हे प्रिये अहं त्वदाकारेणामृतेन कवचितः कवचेनावृतः संस्तया धूमलेखया
नापविद्धो न पीडितः । यथा वज्रकायः अजो ब्रह्मा मृत्योर्दृढपतनया
कुन्तश्रेण्या नापविद्धस्तद्वत् । किं च हृद्गृहे आसन्नां मदनसरितं त्वां
गाहमानोऽहमग्निदाहेन मर्मच्छेदेषु क्रियमाणेष्वपि विलसिता उद्भूतास्ता वेदना
नाविदं किं पुनर्धूममात्रस्येत्यर्थः ॥ १२ ॥
एतावन्तं समयमुचितं तन्वि सार्धं त्वयान्तर्लीलालोलं हृदि चिरतरं
तन्मयात्रानुभूतम् ।
यस्मिन्दृष्टेऽमृतह्रद इवोन्मज्जनौर्घैर्यथासौ राज्याभोगो
विशसनमिवाल्पाल्पमेवेति बुद्धिः ॥ १३ ॥
हे तन्वि एतावन्तं समयन्न् मया हृदि अन्तस्त्वया सार्ध विरचितमत्रास्यां
मूर्च्छायां तत्तादृशं सुखमनुभूतम् । कीदृशं तदाह - यस्मिन्निति ।
अमृतह्रदे उन्मज्जनौघैर्यथा तथा यस्मिन् सुखे दृष्टे सति असौ प्रसिद्धो
राज्यस्याभोगस्त्रैलोक्यराज्याधिपत्यसुखमपि प्रागुक्तं मर्मविशसनं दुःखमिव
अल्पादप्यल्पं तुच्छमेवेति बुद्धिर्भवतीत्यर्थः ॥ १३ ॥
सा लीला ते विलासा वचनमपि च तत्सस्मितं ते कटाक्षाः सानन्दानन्तरस्य
प्रसरसमुचिता दूरमण्येकभूषा ।
तानीहारावसारावहसनचलनावेगविक्षोभितानि किंवा तत्तन्न
यत्संस्मृतममृतरसाह्लादमन्तः करोति ॥ १४ ॥
हे प्रिये तव सा अनुभवैकगम्यनिरतिशयानन्दरूपा अनुपमा लीला ते तादृशा एव
भ्रूविक्षेपादिविलासास्तत्तादृशमेव वचनमपि तत्तादृशमेव स्मितं ते च
कटाक्षास्तथा दूरे मणिमयी एकभूषाप्रधानभूषणभूता एकावली यस्यां
तथाविधा सा आनन्दस्यानन्तरस्य सुरतस्य प्रसरे समुचिता अर्थादालिङ्गनक्रिया तानि
तादृशानि ईहा नखक्षतादिचेष्टा रतिकूजिताद्यारावास्तत्साराण्यवहसनानि
चलनावेगेन चित्तविक्षोभितानि चेत्येतेषु यत्संस्मृतमन्तरमृताह्लादं न करोति
तत्तत्किं वास्ति । न किञ्चित् सर्वमपि अमृतरसाह्लादं करोत्येवेत्यर्थः ॥ १४ ॥
त्वत्सङ्गमे सुरतसौख्यरसायनेन बाले ततोऽहमतितृप्ततया श्रमार्तः ।
तत्र स्थितो मृदुनि तल्पतले शशाङ्कबिम्बे शरच्छिशिरनिर्मलशोचिषीव ॥ १५ ॥
हे बाले ततस्तदनन्तरमहं त्वत्सङ्गमे सुरतसौख्यमेव रसायनं
यस्मिंस्तथाविधे अतितृप्ततया श्रमेणार्तो मन्थरः संस्तत्र मृदुनि तल्पतले
शरदि शिशिराणि शोचींषि यस्मिंस्तथाविधे शशाङ्कबिम्ब इव स्थितः ॥ १५ ॥
अत्रान्तरे झटिति चन्दनपङ्कशीताद्दीर्घादिवेन्दुशकलादशनिः सशब्दः ।
दृष्टो मया चितितलज्वलितो हुताशः क्षीराब्धिवाडवनिभोङ्गतः स्वतल्पात् ॥ १६ ॥
अत्रान्तरे अस्मिन्नवसरे
चन्दनपङ्कशीताद्दीर्घादिन्दुशकलादशनिरिवात्यन्तमसम्भाव्यः
स्वतल्पादुत्थितः स्व्नाङ्गगतः सशब्दश्चितितले ज्वलितो हुताशः
क्षीराब्धिसम्बन्धिवाडवो वडवानलस्तन्निभो दृष्टः ॥ १६ ॥
सहचरा ऊचुः ।
इत्युक्तवति कान्तेऽस्मिन् हा हतास्मीति वादिनी ।
मुग्धा मौग्ध्याद्वरावर्तशङ्कया मूर्च्छिता स्थिता ॥ १७ ॥
कान्ते इति इमां कथामुक्तवति सति तच्छ्रुत्वा मुग्धा सा स्त्री मौग्ध्यादेव वरः
श्रेष्ठ आवर्तः संवर्तस्तच्छङ्कया मूर्च्छिता भूत्वा स्थिता ॥ १७ ॥
तामेनामेष नलिनीदलवीजेन वारिभिः ।
आश्वासयंस्तथावस्थां कण्ठेकृत्वात्र संस्थितः … १८ ॥
तां तथाविधामेनां कान्तामेष कान्तो नलिनीदलैर्वीजनं वीजस्तेन शीतैर्वारिभिश्च
आश्वासयंस्तन्मूर्च्छामपनयन्सन् तथावस्थां तां कण्ठेकृत्वा अत्र
मन्दरकुञ्जे संस्थितः ॥ १८ ॥
पुनः पृष्टोऽनया वक्ति पश्य तामेव सङ्कथाम् ।
एष पार्श्वगतामेनां गृहीत्वा चिबुके प्रियाम् ॥ १९ ॥
तां प्रागुक्तामेव सङ्कथाम् । कथाशेषमिति यावत् । वक्ति पश्य ॥ १९ ॥
हा हा हुताश इति किञ्चिदिवोपजातखेदो वदामि खलु यावदहं त्वरावान् ।
तावच्चितिर्झटिति तैरवलुण्ठिता सा पान्थैः क्षणात्खरखराकुलिता लसद्भिः ॥ २०
॥
तमेवाह - हाहेति । हे प्रिये अहं किञ्चिदिवोपजातखेदः सन् हा हा हुताश इति
यावद्वदामि तावज्झटिति तैर्लसद्भिः प्रहृष्टैः पान्थैः
खरखरध्वनिभिराकुलिता सा चितिः सर्वोल्मुकापहारेणावलुण्ठिता ॥ २० ॥
पान्थास्ततस्तरलतालविलासवाद्यमालिङ्ग्य मामतनुशेखरपूरिताङ्गम् ।
उत्थापितस्थितिमलं परिवार्य सर्वे नेदुर्जगुर्जहसुराननृतुर्ववल्गुः ॥ २१ ॥
मृतस्य पुनरुज्जीवनहर्षात्पान्थास्तरलतालविलासवाद्यं यथा
स्यात्तथोत्थापितचितास्थितिमतनुभिर्बहुभिर्मङ्गलार्थैः
शेखरैस्तरुमञ्जरीगणोत्तंसैः पूरिताङ्गं मामालिऽन्ग्य सर्वे परिवार्य
हर्षान्नेदुर्जगुर्जहसुरासमन्तान्ननृतुर्ववल्गुरुच्चेलुश्चेत्यर्थः ॥ २१ ॥
विषमविनायकसुखदं वलितं भस्माहिशवशिरःप्रकरैः ।
शशिधवलास्थिकपालं वपुरिव रौद्रं श्मशानमथ दृष्टम् ॥ २२ ॥
अथ मया श्मशानं रौद्रं संहाररुद्रसम्बन्धिवपुरिव भीषणं दृष्टम् ।
विशेषणान्युभयत्र तुल्यतया योज्यानि ॥ २२ ॥
पार्श्वच्छायां हरन्तो विचलितविदलत्क्लिन्नकङ्कालगन्धा स्तन्वन्तो
भूरिभस्मप्रविततमिहिकामाधुनानाः शवानाम् ।
केशानाकाशकोशे शशिगलितशराकारिणः शाङ्कराणामस्थीनां
टाङ्कृतेनारचितखरगिरस्तत्र वातावहन्ति ॥ २३ ॥
तत्र तस्मिन् श्मशाने वाता वायवो वहन्ति । कीदृशास्ते । पार्श्वे वनस्य
हरितच्छायां भस्मक्षेपैर्हरन्तो विचलिताः प्रसृता विदलत् क्लिन्नकङ्कालानां
गन्धा यैर्भूरिभस्मभिः प्रविततां मिहिकां नीहारपटलीं तन्वन्तः शवानां
केशान् आधुनाना आकाशलक्षणे कोशे निषङ्गे शशिनः सकाशाद्गलिता ये
शरास्तदाकारिणस्तथा शाङ्कराणां शङ्करभूषायोग्यानामस्थीनां
टाङ्कृतेनाभिघातशब्देन आरचिताः खरा रूक्षा गिरः शब्दा यैस्तथाविधा
इत्यर्थः ॥ २३ ॥
ज्वलदनलचितिप्रवाहनिर्यत्पवनहतोष्मविशुष्कपर्णवृक्षा ।
ज्वलनपवनभास्करात्मजानां रमणगृहानुकृतिं बिभर्ति सा भूः ॥ २४ ॥
ज्वलन्तः अनला यासु तथाविधाभ्यश्चितिभ्यः प्रवाहेण निर्यता सधूमस्फुलिङ्गेन
पवनेन हता अत एवोष्मणा विशुष्कपर्णा वृक्षा यस्यां तथाविधा सा
श्मशानभूर्ज्वलनस्याग्नेः पवनस्य भास्करात्मजस्य शनैश्चरस्य च
रमणयोग्यं यद्गृहं तदनुकृतिं तत्सदृशलक्षणानि बिभर्ति ॥ २४ ॥
दृष्टं श्मशानं तदनन्तभीमकरङ्ककङ्कालघनामगन्धि ।
माद्यच्छिवावायसकङ्कगृध्रपिशाचवेतालविरावरौद्रम् ॥ २५ ॥
तत्तादृशं श्मशानं दृष्टं यत् अनन्तैर्भीमैः करङ्कैरर्धदग्धैः
कङ्कालैः शवैर्घनमत्यन्तमामगन्धि दुर्गन्धि ॥ २५ ॥
आनीतनानाशवबन्धुसार्थसंरोदनाह्रादिदिगन्तकुञ्जम् ।
खगावकृष्टार्द्रशिरान्त्रतन्त्रीनिबद्धदग्धद्रुमखण्डजालम् ॥ २६ ॥
पुनः कीदृशं तच्छ्मशानम् । आनीतानां नानाशवानां यो
बन्धुसार्थस्तदीयसंरोदनैरासमन्तात् ह्रादिनो दिगन्ताः कुञ्जाश्च यस्मिन् ।
खगैरवकृष्टा या आर्द्रा शिरा आन्त्रतन्त्र्यश्च तामिर्निबद्धं दग्धप्रायं
द्रुमखण्डं लताजालं च यस्मिन् ॥ २६ ॥
क्वचिच्चितिक्षोभकृतप्रकाशं क्वचिन्महाकेशकृताब्दवृन्दम् ।
क्वचिच्च रक्ताक्तधरावितानं नक्तं स्तनत्त्वभ्रमिवास्तशैलम् ॥ २७ ॥
चितेः क्षोभः सञ्चलनं तेन ज्वालोद्दीपनात्कृतप्रकाशम् । महाकेशैः
कृतमब्दवृन्दं मेघसमूह इव यत्र । क्वचित्तु अस्तस्त्यक्तः शैलो येन
तथाविधन्न् रक्तैः अक्तं धराया वितानमिव स्थितम् । नक्तं स्तनत् गर्जदभ्रमिव
स्थितम् ॥ २७ ॥
इत्यार्षे श्रीवा० वा० दे० मो० नि० उ० अवि० विप० पथिकविरहवृत्तवर्णनं
नामैकोनविंशाधिकशततमः सर्गः ॥ ११९ ॥
इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे निर्वाणप्रकरणे उत्तरार्धे
पथिकवृत्तविरहवर्णनं नामैकोनविंशाधिकशततमः सर्गः ॥ ११९ ॥