अष्टादशाधिकशततमः सर्गः ११८
सहचरसहचर्यः क्रमेणोचुः ।
निर्गुणस्य बकस्यास्य गुण एकोऽस्ति दृश्यताम् ।
यत्प्रावृषं स्मारयति प्रावृत् प्रावृडिति ब्रुवन् ॥ १ ॥
बकमद्गुमयूराणां पान्थानां च वियोगिनाम् ।
मत्स्यानां चातकानां च चरित्रमिह वर्ण्यते ॥
प्रावृट् प्रावृडिति बकशब्दस्याव्यक्तस्य व्यक्तवर्णैरनुकृत्योक्तिः ॥ १ ॥
बक हम्स इवाभासि सरःस्थो मद्गुसौहृदम् ।
नृशंसत्वं च वाणीं च त्यक्त्वा हंसो भव स्फुटम् ॥ २ ॥
अत्राप्यन्यापदेशोक्तयः प्राग्वत् । हे बक त्वं वर्णतो हम्स इवाभासि ।
मद्गुसौहृदादिदोषत्रयं त्यक्त्वा हंसो भवेत्यर्थः ॥ २ ॥
गम्भीरं वारिगर्भं प्रसृतजलचरं ये प्रविश्य प्रविश्य
पाङ्मत्स्यान्प्रोतचञ्चवश्चतुरतर परं जग्धवन्तो विदग्धाः ।
ते केनाप्यद्य दिष्ट्या मृततिमिगमिताः कालयुक्ते महिम्ना नाक्रामन्ति
क्रमस्थाः सुहरमपि पुरः पङ्गवो मद्गवोऽमी ॥ ३ ॥
हे चतुरतर मत्स्यवधे विदग्धाः पण्डिता ये मद्गवः प्रसृता जलचरा
यस्मिंस्तथाविधं वारिगर्भ प्रविश्य प्रविश्य । पुनः पुनः प्रविश्येत्यर्थः । प्राक्
गिलनसमये मत्स्यैः प्रोताश्चञ्चवो येषां तथाविधाः सन्तो मत्स्यान् जग्धवन्तो
भक्षितवन्तस्तेऽमी मद्गवो दिष्ट्या दैववशात्केनापि महिम्ना
मृतैस्तिमिभिर्मत्स्यजातिभेदैर्गलरुजं गमिताः सन्तः क्षुधातिशयकालयुक्ते
आक्रमणे तीरे क्रमेण पङ्क्तिबन्धेन स्थिताः सन्तोऽपि पुरस्तीरप्रदेशागतं सुहरमपि
मत्स्यं पङ्गवः सन्तो नाक्रामन्ति । आश्चर्यमित्यर्थः ॥ ३ ॥
एवं विहन्यते लोकः स्वार्थेनेति प्रदर्शयन् ।
मद्गुर्मद्गुरुतां यात इत्येवं स्तौति दुर्जनः ॥ ४ ॥
दुर्जनैर्लोकहिंसनेन स्वार्थसम्पादनं मद्गुभ्यः शिक्षितमिति भङ्ग्यन्तरेणाह
- एवमिति । एवं मद्गुवदेव स्वार्थेन वाञ्छितेन लोको विहन्यते हन्तुं युज्यते इति
इममर्थ प्रदर्शयन् मद्गुर्मम गुरुर्मद्गुरुस्तद्भावं प्राप्त इति एवं
दुर्जनोमद्गुं स्तौति प्रशंसति ॥ ४ ॥
उत्कन्धरो विततनिर्मलचारुपक्षो हंसोऽयमत्र नभसीति जनैः प्रतीतः ।
गृह्णाति पल्वलजलाच्छफरीं यदासौ ज्ञातस्तदा खलु बकोऽयमितीह लोकैः ॥ ५
॥
अत्र नभसि उत्कन्धर ऊर्ध्वीकृतकण्ठो विततौ निर्मलौ चारू पक्षौ यस्य
तथाविधोऽयं परोवर्ती हम्स एवेति प्राग्जनैः प्रतीतो निश्चितो बको यदा असौ इह भूमौ
पल्वलजलाच्छफरीं गृह्णाति तदा बकोऽयमिति लोकैर्ज्ञातः ॥ ५ ॥
अतिबहुकालविलोलानवलोक्य बकांस्तपोदम्भान् ।
अत्रैवातिमिरस्थांस्तटवनिता विस्मिता धूर्तान् ॥ ६ ॥
पल्वलादौ मत्स्यार्थमतिबहुकालं विलोलान् अत्रैव सरसि तपोदम्भान् बकान्विलोक्य
ज्ञातधूर्तचरित्रा काचित्तटवनिता तथैवान्यत्रातिबहुकालं विषयलाम्पट्येन
विलोलानत्रैव तपोदम्भान् आतिमिरस्थान्तिमिरोदयपर्यन्तं
प्रतीक्षमाणान्धूर्तान्विलोक्य विस्मिताभूदित्यर्थः ॥ ६ ॥
अत्र जले हिमहेलाः पश्यैता अपहरन्ति सितपद्मान् ।
इच्छसि ता अनुगन्तुं नाहं ते वल्लभा व्रजामीति ॥ ७ ॥
पान्थस्त्री पद्महारिणीः पश्यन्तं पान्थं प्रत्याह । हे कान्त अत्रास्मिञ्जले हिमं
शीतं हेलयन्तिन गणयन्ति तथाविधा एता ग्रामीणवध्वः । हीति पृथक्पदम् महिला
एव मेहला इति वा । सितपद्मानपहरन्ति त्वं ता अनुगन्तुमिच्छसि । तेन अहं ते वल्लभा
प्रिया न इति हेतोरहं व्रजामीति ॥ ७ ॥
कुपितां तामनुनेतुं यत्नपरः पान्थ एष पथि कान्ताम् ।
अवलोकय नरनायक कुसुमलताकुहरकेलितीरवने ॥ ८ ॥
एवंवादिनीं कुपितां तां कान्तामनुनेतुमेष पथिकः पथि कुसुमलताकुहरे
केलितीरवने यत्नपरः प्रार्थयते । हे नरनायक त्वमवलोकयेति द्वयोरन्वयः ॥ ८ ॥
इति हावभावविलसितविवलनकोपार्धदृष्टिहसितानि ।
कुर्वाणा वरवनिता कथयति ते दृश्यतां राजन् ॥ ९ ॥
इममेव पथिकं मिथुनचरित्रं प्रागल्भ्यात्कथयन्तीं वाराङ्गनां राज्ञे
दर्शयति - इतीति ॥ ९ ॥
बकमद्गुशरारूणां नित्यमेकौकसामपि ।
सङ्करोऽस्ति मिथो बुद्धेर्न मूर्खविदुषामिव ॥ १० ॥
शरारूणां हिंस्राणां निषादादीनाम् । बुद्धेः सङ्करो मेलनं प्रीतिरिति यावत् ॥ १० ॥
चञ्च्वग्रे खञ्जरीटस्य कीटः किटिकिटायते ।
दौर्भाग्यस्य पुराणस्य पताकेवोच्छ्रितोन्नते ॥ ११ ॥
कीटोऽत्र पतङ्गः । किटिकटीति रौति किटिकिटायते । डाजन्तादिवार्थनिष्ठात्करोत्यर्थे
क्यङ् । स्फिटि चञ्च्वग्रे किटायते केटतीति किटः कम्पमानःस इवाचरति । पुराणस्य
प्राक्सञ्चितस्य दौर्भाग्यस्य पापस्य उन्नते ऊर्ध्वभागे उच्छ्रिता पताकेव ॥ ११ ॥
तारं तीरतरौ स रौति तरलो यावद्बकः प्रोल्लसंस्तावत्पल्वलगोष्पदेऽम्बुकलिले
यावद्वलाद्देहकम् ।
मज्जन्त्या प्रियवक्षसीव निपुणं त्रातं शफर्या भयाद्धृद्भङ्गेन
महापदीह हि मृतेर्नान्यद्भवेत्सौख्यदम् ॥ १२ ॥
पल्वलतीरतरौ प्रोल्लसन् स बको यावद्रौति कूजति तावदम्बुकलिले ईषज्जलार्द्रे
पल्वलगोष्पदे यावद्बलात् । यावदिति साकल्ये । सर्वप्राणेनेत्यर्थः । प्रियवक्षसि
रागादिव भयान्मज्जन्त्या शफर्या मृत्वापि स्वदेहकं त्रातम् । इह संसारे
महापदि प्राप्तायां हृद्भङ्गेन मृतेर्मरणादन्यत्सौख्यदं शरणं न
भवेत् । तथा च मृत्वापि तया कृतं स्वदेहरक्षणमुचितमेवेत्यर्थः ॥ १२ ॥
बकाजगरमद्गूनां हृदि या प्राणिनां धृतिः ।
अचर्वितनिगीर्णानां मन्ये निद्रोपमैव सा ॥ १३ ॥
बकादीनां हृदि उदरे प्रविष्टानामचर्वितं निगीर्णानां मत्स्यादिप्राणिनां या
धृतिश्चित्तस्थितिः सा निद्रोपमा सुषुप्तिसदृशी मूर्च्छेवेति मन्ये ॥ १३ ॥
आसन्नमद्गुबकगृध्रबिडालसर्पदृष्ट्या भयं भवति यत्सलिलाशयानाम्
।
तस्याग्रतस्तृणमिवाशनिपातभङ्गो जातिस्मरेण विदुषोक्तमदः पुरा मे ॥ १४
॥
सलिलाशयानां मत्स्यादीनां आसन्नमद्गुबकादिदर्शनेन यद्भयं भवति तस्य
भयस्याग्रतः अशनिपातप्रयुक्तो भङ्गो भयं तृणमिवाल्पमेव । अदः रहस्यं
मे पुरा जातिस्मरेण मत्स्यादियोनिदुःखानि स्मरता विदुषा स्वानुभूतमुक्तम्
नासत्यमिति मन्तव्यमित्यर्थः ॥ १४ ॥
इह सरोवरतीरतरोस्तले कुसुमशालिनि मुग्धमृगान्पुरः ।
समवलोकय लोकमलौ बलात्समवकीर्णनवोत्पलकेतकान् ॥ १५ ॥
नेत्रश्रोत्रशोभाबलात् अलौ भ्रमरे सति सम्यगवकीर्णानि नवोत्पलानि केतकानि च
यैस्तथाविधान्मुग्धमृगान् लोकं प्रियाजनन्न् समवलोकय दर्शय ॥ १५ ॥
बर्ही प्रोन्नतचित्तत्वात्तोयमिन्द्रं प्रयाचते ।
स पूरयति तेनास्य महात्मा निखिलां महीम् ॥ १६ ॥
बर्ही मयूरः प्रोन्नतचित्तत्वादक्षुद्राशयत्वादिन्द्रं तोयं प्रयाचते ।
याचेर्द्विकर्मकत्वादिन्द्रोऽप्यकथितं कर्म । स इन्द्रस्तेन प्रोन्नतचित्तत्वगुणेन
सन्तुष्टः सन् अस्य प्रीत्यै निखिलां महीं तोयेन पूरयति । यतो महात्मा अत्युदार
इत्यर्थः ॥ १६ ॥
मेघाननुसरन्त्येते मयूरास्तनपा इव ।
मलिनो मलिनस्यैव पुत्र इत्यनुमीयते ॥ १७ ॥
स्तनं पिबन्तीति स्तनपा वत्सा इव ॥ १७ ॥
मृगानालोक्य पथिकश्चिन्तयन्दयितेक्षणे ।
पुरःस्थेषु पदार्थेषु यन्त्रपुत्रिकतां गतः ॥ १८ ॥
यन्त्रनिर्मितपुत्रिकातुल्यताम् । निश्चेष्टतामिति यावत् ॥ १८ ॥
शिखी वार्यपि नादत्ते भूमेर्भुङ्क्ते बलादहिम् ।
दौरात्म्यं तन्न जाने किं सर्पस्य शिखिनोऽथवा ॥ १९ ॥
किं सर्पस्य दौरात्म्यमथवा शिखिनो दौरात्म्यं तन्न जाने ॥ १९ ॥
सज्जनाशयनीकाशं त्यक्त्वा बर्ही महत्सरः ।
पिबत्यम्ब्वभ्रनिष्ठ्यूतं मन्ये तन्नतिभीतितः ॥ २० ॥
लसत्कलापजलदाः पश्य नृत्यन्ति बर्हिणः ।
धुन्वानाः पिच्छकान्तीन्दुं प्रावृषः पोतका इव ॥ २१ ॥
तत्तस्मै सरसे या नतिः शिरोनमनं तद्भीतितः ॥ २० ॥ २१ ॥
वरवने वनवातविसारिणां चपलचन्द्रकचारुतरङ्गिणाम् ।
इह पयोनिधिरेव कलापिनां विसृतमुक्ततयेव विलासनः ॥ २२ ॥
विसृता विश्राणिता मुक्ता येन तद्भावेनेव इह वने पयोनिधिरेव कलापिनां
मयूराणां विलासनो नर्तयिता न मेघः पश्येत्यर्थः ॥ २२ ॥
चर तृणानि पिबाम्बु वनावनौ कलय विश्रमणं कदलीवने ।
चकितचातक पावकदूषिता न हि सुखाय भवत्यतिमानिता ॥ २३ ॥
हे चकितचातक ते वनावनौ गीष्मे पावकदूषिता सम्भावितपावका
शुष्कतरुकोटरवासनिर्बन्धसूचिता अतिमानिता सुखाय न हि भवति ।
कदलीवनसन्निहितानि शीतलहरिततृणानि चर । कुल्यादिष्वम्बु पिब । कदलीवने
विश्रमणं कलयेत्यन्यापदेशः ॥ २३ ॥
नायं मयूर मकरालयवारिपूरपूर्णोदरो जलधरोऽम्बरमारुरुक्षुः ।
दावाग्निदग्धवनपादपकोटराग्रधूमावलीवलय उत्थित एष शैलात् ॥ २४ ॥
हे मयूर अयमग्रे प्रदृश्यमानः अम्बरमारुरुक्षुः पदार्थो मकरालयस्य
समुद्रस्य वारिभिः पूर्णोदरो जलधर इति ते भ्रान्तिर्मा भूत् किन्त्वेष दावाग्निना
दग्धानां वनपादपानां कोटराग्नेर्धूमावलीवलयः शैलादुत्थितस्तथा चास्थाने
ते नृत्यारम्भसम्भ्रम इत्यर्थः ॥ २४ ॥
येनाब्देन शरद्विधावपि शिखी सन्तर्पितो वारिभिर्नो वर्षास्वपि पूरयेद्यदि
सरस्तद्बाललोकोचितम् ।
आरब्धं समवेक्ष्य सज्जनजनो हासेन दुःस्थो भवेद्बर्हीत्यात्मतृषैव
नेतुमखिलं कालं समभ्युद्यतः ॥ २५ ॥
अनावृष्टौ भौमं वार्यपिबतो मयूरस्याशयं कश्चिद्वर्णयति - येनेति । येन
अब्देन मेघेन शरत्कालेऽपि शिखी मयूरो वारिभिः सन्तर्पितः स वर्षासु वर्षर्तावपि
सरो न पूरयेदिति यच्चरित्रं तद्बाललोकानान्न् क्षुद्राणामेवोचितं न महतस्तस्य ।
औदार्ययोग्ये समयेऽप्यारब्धमिदमनौदार्यं समवेक्ष्य पामरैः कृतेन हासेन
सज्जनजनो दुःस्थो दुःखितो भवेत् । इति एवं विचिन्त्य बर्ही मयूरः आत्मनस्तृषैव
निखिलं कालं नेतु समभ्युद्यत उद्युक्त इत्यर्थः ॥ २५ ॥
स्फटिकविमलं पीत्वा तोयं घनोदरनिर्गतं पिबति न पुनर्मार्गे
क्षुभ्यंस्तृषापि शिखी जलम् ।
स्फुरति च घनं स्मृत्वा स्मृत्वा न चापि विपद्यते गुणवति जने
बद्धाशानां श्रमोऽपि सुखावहः ॥ २६ ॥
तर्हि समयूरः किमनुचितकारी नेत्याह - स्फटिकविमलमिति । शिखी तृषा
क्षुभ्यन्नपि प्राक् स्फटिकविमलं घनोदरनिर्गतं तोयं पीत्वा पुनर्मार्गे
सकर्दमं जलं न पिबति । तर्हि स कुतो न तृषा म्रियते तत्राह - स्फुरतीति । स
घनं मेघं स्मृत्वा स्फुरत्युल्लसति नापि च विपद्यते म्रियते । यतो गुणवति जने
बद्धा आशायैस्तेषां श्रमोऽपि सुखावह एव न दुःखद इत्यर्थः ॥ २६ ॥
इहातिवाहयन्त्येते मार्गदौस्थ्यं घनागमे ।
कथाभिः पथिकाः प्रायो विमूढा जीवितं यथा ॥ २७ ॥
कान्तावियोगिनां पथिकानां वर्षासु क्वचित् कथालापादिना कष्टेन कालयापनं यथा
आत्मज्ञानहीनानां मूर्खानां जन्मयापनं तथेत्याह - इहेति । एते पथिकाः ॥
२७ ॥
पश्यात्र नाथ सरसः कमलोत्पलकुमुदबिसमृणालानाम् ।
कह्लारपत्रपयसां भारानादाय बालिकाश्चलिताः ॥ २८ ॥
कह्लारपत्रनिबद्धपयसां च भारानादाय बालिकास्तरुण्यश्चलिताः । हे नाथ पश्य
॥ २८ ॥
किमिदं नयथेति ततः पृष्टाभिस्ताभिरुक्तमेतस्य ।
व्यसनज्वरतप्तायाः पथिक वयं बालसख्य इति ॥ २९ ॥
इदं भारजातं किं किमर्थं नयथ इति पृष्टाभिस्ताभिर्बालिकाभिरेतस्य
प्रष्टुर्मम उत्तरमुक्तम् । हे पथिक वयं वियोगव्यसनज्वरतप्तायाः बालसख्यः
तथा च तदुपचाराय कमलोत्पलादिभारान्नयाम इत्यर्थः ॥ २९ ॥
अथ रागरक्तहृदयाः स्तनभरवितता विलासललिताङ्ग्यः ।
पथिकानां स्मरणपथं भूयोऽप्यनयन्प्रियाः स्वगेहस्थाः ॥ ३० ॥
अथ तदुत्तरं स्वकान्तेषु रागरक्तहृदयास्ताः स्वाः पश्यतां पथिकानां
स्वगेहस्थाः प्रियाः स्मरणपथमनयन् । सदृशदर्शनस्य
संस्कारोद्बोधकत्वादिति भावः ॥ ३० ॥
सा नूनं मम कान्ता दृष्ट्वा सुस्निग्धघनतमःश्यामम् ।
गगनं च शून्यगहनं प्रलपति भुवि पतति विस्खलति ॥ ३१ ॥
तत्र कश्चित्पथिकः स्वप्रियां स्मरन्नाह - सेति । सुस्निग्धा ये घना
मेघास्तल्लक्षणैस्तमोभिः श्यामं गगनं सुस्निग्धं घन इव तम इव च
श्यामं गहनं च दृष्ट्वा मम कान्ता प्रलपति भुवि पतति गच्छन्ती च विस्खलति ।
नूनमिति सम्भावनायाम् ॥ ३१ ॥
भृङ्गावलीकुवलयावलिताब्जपात्रसम्प्रेर्यमाणनलिनीमधुपानमत्तः ।
हा वाति तीरतरुपल्लवलास्यलब्धसम्मुग्धशब्दगणगीतगुणो नभस्वान् ॥ ३२ ॥
भृङ्गावल्या कुवलयैश्च आवलितेनाब्जलक्षणेन पानपात्रेण सम्प्रेर्यमाणं
यन्नलिनीमधु तत्पानेन मत्तस्तथा तीररुहाणां तरुवल्लीनां पल्लवलास्येन लब्धो
यः सम्मुग्धो मृदुमन्द्रः शब्दगणस्तेन गीतः ख्यापितः
शैत्यमान्द्यसौरभ्यादिर्गुणो यस्य तथाविधो नभस्वान्वायुर्वाति । हा इति
विरहोद्दीपनप्रयुक्तखेदे ॥ ३२ ॥
इत्यार्षे श्रीवासिष्ठमहा० वा० दे० मो० नि० उ० अवि० वि०
हरिणमयूरबकमुग्धादिवर्णनं नामाष्टादशाधिकशततमः सर्गः ॥ ११८ ॥
इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे निर्वाणप्रकरणे उत्तरार्धे
हरिणमयूरबकमुग्धादिवर्णनं नामाष्टादशाधिकशततमः सर्गः ॥ ११८ ॥