सप्तदशाधिकशततमः सर्गः ११७
सहचरा ऊचुः ।
पश्याद्रिसानाविव बिम्बितं खं पुरःसरो मारपुरःसरो यः ।
कह्लारपद्मोत्पलजालनालललद्विचित्रारवपक्षिवीतम् ॥ १ ॥
वर्ण्यतेऽत्र सरः पद्मकुमुदोत्पलमण्डितम् ।
पद्मभ्रमरहंसाद्यास्तत्प्रसङ्गेन वर्णिताः ॥
तत्रादौ त्रयोदशभिः सर एव प्राधान्येन वर्णयितुं प्रस्तौति - पश्येति । हे राजन्
इह पुरः अद्रिसानौ कह्लारपद्मोत्पलजालानां नालेषु भृणालार्थ ललद्भिः
क्रीडद्भिर्विचितारवैः पक्षिभिर्वीतं व्याप्तम् । अत एव सनक्षत्रपक्षिकं प्रतिबिम्बितं
खमिव स्थितं सरः पश्य । यः अद्रिसानुः सरः शोभातिशयेन
मारस्योद्दीपकत्वात्पुरःसरः प्रधानभृत्य इवास्तीत्यर्थः ॥ १ ॥
विकासितोद्दण्डसहस्रपत्रकोशस्थलस्थोद्धुरराजहंसम् ।
पीठद्विरेफद्विजलोकजुष्टं भुवीव गेहं कमलासनस्य ॥ २ ॥
तदेव सरो विशिनष्टि - विकासितेत्यादिद्वादशभिः । विकासितेषूद्दण्डेषु
सहस्रपत्राणां पद्मभेदानां कोशस्थलेषु स्थिता उद्धुरास्तच्छोभाधुरन्धरा
राजहंसा यत्र तथेन्द्रनीलपीठस्थानीयैर्द्विरेफेर्द्विजैः
सारसक्रौञ्चादिपक्षिभिर्ब्राह्मणैर्लोकैर्जनैश्च जुष्टं सेवितं भुवि कमलासनस्य
गेहमिव स्थितम् ॥ २ ॥
आकीर्णसीकरकरालदिगन्तराले फुल्लोत्पलाब्जपटलोदररेणुगौरम् ।
आमोदमत्तमधुपद्विजगीतिगीतं यातं वितानकमिवाम्बरगं वहन्तम् ॥ ३ ॥
आकीर्णैः सीकरैः करालानि सहिमानि दिगन्तरालानि येन । फुल्लानामुत्पलाब्जादीनां
पटलस्य समूहस्योदरस्थै रेणुभिर्गौरम् । आमोदमत्तानां मधुपानां द्विजानां
च गीतिभिर्गीतम् । ऊर्ध्व यातं वितानकमिवाम्बरगं मेघनीहारादिप्रतिबिम्बच्छलेन
वहन्तं वहत् । पुंस्त्वं छान्दसम् ॥ ३ ॥
क्वचित्तरत्तारतरङ्गभङ्गं क्वचिद्द्विषद्भूरिविराविभृङ्गम् ।
क्वचिद्गभीरामलवारिसुप्तं क्वचित्सरोजोज्ज्वलपुष्पगुप्तम् ॥ ४ ॥
क्वचित् तरन्तस्तारास्तरङ्गभङ्गा यस्मिन् । क्वचिन्मदोत्कर्षात्परस्परं द्विषन्तः अत
एव भूरिविराविणो भृङ्गा यत्र । गभीरेणामलवारिणा निश्चलत्वात्सुप्तमिव ।
सरोजैरुज्ज्वलपुष्पैः कुमुदैश्च गुप्तं शोषितमिव च्छन्नम् ॥ ४ ॥
कणाणुमुक्ताजलतापटालं तीरेषु सिंहे सुलतासुटालम् ।
तरङ्गनिर्धूतशिलोग्रकच्छं महीतलाकाशमनन्तकच्छम् ॥ ५ ॥
कणाणुभिः सीकरीभूतैर्मुक्ताप्रायैर्जलैस्तापं टालयति अपसारयतीति तापटालम् ।
तीरेषु सिंहे प्रतिबिम्बसिंहान्तरशङ्कया जलपानाप्रगल्भतां
क्वचिद्वृक्षाग्रादारभ्य जलपर्यन्तं प्रलम्बिताभिः सुलताभिः
प्रतिबिम्बदर्शननिरोधेन सुष्ठु टालयतीति तत्तथा । तथा तरङ्गैर्निर्धूतशिलाः
पङ्कोग्राः कच्छा जलप्रायप्रदेशा यस्य । तथा अनन्तैर्मेघैरनन्तकच्छं
महीतले अवतीर्णमाकाशमिव स्थितम् ॥ ५ ॥
तडित्प्रकाशोदरमस्यमेघनुन्नाब्जजातोत्थरजःप्रभाभिः ।
पृषद्भरध्वान्तमयैकदेशं सन्ध्याम्बराभोगमिवाप्रकाशम् ॥ ६ ॥
अस्याः निरसनीया मेघा यस्य तथाविधेन वायुना नुन्नं कम्पितं यदब्जजातं
पद्मसमूहस्तदुत्थरजःप्रभाभिस्तडित्प्रकाशमिव उदरं यस्य । अत एव एकतः
पृषद्भरमयो जलबिन्दुप्रचुरः अन्यतश्च ध्वान्तमयोऽन्धकारप्रचुर एकदेशो
यस्य तथाविधं सन्ध्याकालिकमम्बराभोगमाकाशसंस्थानमिव
आसमन्तात्प्रकाशत इत्याप्रकाशं ईषत्प्रकाशमिति वा ॥ ६ ॥
वातावकीर्णशरदम्बुदखण्डखण्डं व्योमेव
केवलसमीरणमावृताङ्गम् ।
हंसैर्लसद्बिसलताकवलालसांसैः कालेन सञ्चयकृतैरिव चन्द्रबिम्बैः ॥ ७ ॥
विसलतामृणालानि तल्लक्षणानि यानि कवलानि शिशूनां पोषणाय नीडं प्रति
नीयमानानि तद्भारेण अलसा अंसाः स्कन्धा येषां तथाविधैर्हंसैः कालेन एकत्र
सञ्चयरूपेण कृतैश्चन्द्रबिम्बैरिव स्थितैः आवृताङ्गं सत् वातावकीर्णाः
शरदम्बुदानां खण्डखण्डा बहवः खण्डा यस्मिंस्तथाविधं व्योमेव
केवलसमीरणमपि सलत् किं पुनः सर्वगुणोपपन्नसमीरणमित्यर्थः ॥ ७ ॥
आमोदमन्दमकरन्दकरालवातव्याधूतपङ्कपुटपाटनपाटवेन ।
उद्यन्महापटपटा वयतीव लेखा क्षुभ्यत्खगाश्रितलतोज्झितपुष्पवर्षम् ॥ ८ ॥
अस्य सरसः आमोदभरादिव
मन्दैर्मकरन्दसम्पर्कात्करालैरार्द्रैर्वातैर्व्याधूतस्य पङ्कपुटस्य
जलसम्मिश्रितपङ्कभागस्य यत्पाटनं पङ्कस्याधोनयनेन जलाद्विभजनं
तद्विषये पाटवेन त्वरयाउद्यन्महान्पटपटा इति शब्दो यस्यास्तथाविधा लेखा
तरङ्गपङ्क्तिः स्वध्वनि क्षुभ्यत्खगैराश्रिताभिस्तीरलताभिरुज्झितं पुष्पवर्ष
वृष्टानि पुष्पाणि सरःपटवृद्ध्यै वयतीव सन्तनोतीवेत्यर्थः ।
क्षुभ्यदित्यादिबहुव्रीह्याश्रयणेन विच्छिन्नं स्वतन्त्रं सरोविशेषणं वा ॥ ८ ॥
वेल्लन्महाकमलपल्लवतालवृन्तसंवीजितं वलितचामरचारुफेनम् ।
राजायमानमलिकोकिलगीतगीतं सद्वृत्तपङ्कजलताललिताङ्गनौघम् ॥ ९ ॥
तदेव सरो राजसाम्येन वर्णयति - वेल्लदिति ।
वेल्लद्भिश्चलद्भिर्महाकमलपल्लवलक्षणैस्तालवृन्तैः संवीजितम् । वलितानि
चामराणीव चारुफेना यस्य । अलीनां कोकिलानां च गीतिभिर्गीतम् । सद्वृत्तः
चारुवर्तुलः सच्चरितश्च पङ्कजलतालक्षणो ललितः अङ्गनौघो यस्य । अत एव
राजायमानम् ॥ ९ ॥
भृङ्गाग्रभाजनमनोहरहारिगीतं राजीवरेणुरणकीर्णपिशङ्गतोयम् ।
डिण्डीरपिण्डपरिपाण्डुरपुण्डरीकखण्डोपमण्डिततटोपवनावतंसम् ॥ १० ॥
भृङ्गलक्षणानामग्रभाजनानां श्रेष्ठपात्राणां मनोहराणां हारि
मनोहरं गीतं यस्मिन् । तथा राजीवरेणूनां पद्मपरागाणां रणेन विमर्देन
कीर्ण व्याप्तम् । अत एव पिशङ्गं पीतवर्णं तोयं यस्मिन् । डिण्डीरपिण्डा इव
परिपाण्डुरैः पुण्डरीकखण्डैरुप समीपे मण्डितमलङ्कृतम् ।
तटवनस्यावतंसं शिरोभूषणं पुष्पजालं येन ॥ १० ॥
विविक्तहृदयाम्भोजं हृदयाह्लादनं परम् ।
रसवत्स्वादु भातीदं सरः सत्सङ्गमोपमम् ॥ ११ ॥
एवंविधमिदं सरः सत्सङ्गमोपमं भाति । विशेषणान्युभयत्र योज्यानि ॥ ११ ॥
बिम्बितेन मरुव्योम्ना भातीदं सौम्य निर्मलम् ।
शास्त्रार्थपरिणामेन महतामिव मानसम् ॥ १२ ॥
मरुदेशवन्निर्जलेन व्योम्ना शरदाकाशेनेति यावत् । हे सौम्य शास्तार्थो ब्रह्म
तदाकारेण चरमसाक्षात्कारवृत्तिरूपेण परिणामेन ॥ १२ ॥
किञ्चिल्लक्ष्यमपश्यामं पृषत्परुषमारुतम् ।
हिमाभ्रमिव भातीदं सरः सरससारसम् ॥ १३ ॥
हेमन्ते तर्हि इदं सारः कीदृशं तत्राह - किञ्चिदिति । सर्वतो
नीहारावृतत्वात्किञ्चिल्लक्ष्यम् । नीहारैः स्ववर्णसाम्यापादनापगतश्यामम् ॥ १३ ॥
यथेदं ब्रह्मणो दृश्यमविकारादि नेतरत् ।
यथाम्भसि तरङ्गादि राजन्पृथगिव स्थितम् ॥ १४ ॥
न विद्यते विकारः परिणामः । आदिपदादारम्भसङ्घातविवर्ता गृह्यन्ते । न इतरत्
कूटस्थं किन्तु ब्रह्ममात्रं तथास्य सरसोऽम्भसि तरङ्गादि अम्भोमात्रमित्यर्थः
॥ १४ ॥
आत्मनैवोह्यमानानां चक्रावर्तविधायिनाम् ।
जडाशयानां विषमा हा कल्लोलपरम्परा ॥ १५ ॥
आत्मना स्वेनैवाम्भसा उह्यमानानाम् । हा इत्याश्चर्ये । छाययेदं ब्रह्मण्यपि
योज्यम् ॥ १५ ॥
कूपवापीसरोब्धीनां दृश्यते यादृगन्तरम् ।
नारीपुरुषतोयानां विज्ञेयं तादृगन्तरम् ॥ १६ ॥
कूपवाप्याद्युपाधिभेदेनाम्भसि तारतम्यमिव
नारीपुरुषादिशरीरोत्कर्षात्तदात्मन्यपि तारतम्यविभावनमित्याह - कूपेति ।
अन्तरं उत्कर्षापकर्षतारतम्यम् ॥ १६ ॥
जन्तोरिवास्य मनसो जलजातिबन्धजीर्णस्य जर्जरदशालहरीभ्रमेण ।
आवर्तवृत्तिवलितान्यतिसन्ततानि को नाम सङ्कलयितुं कमलानि शक्तः ॥ १७ ॥
जले जातिर्जन्म येषां पद्मोत्पलादीनाम् । लडयोरभेदाज्जडाज्जातयो नानायोनिभेदाश्च
तेषां बन्धेन सम्बन्धेन जीर्णस्य जन्तोर्मनस इवास्य सरसः पद्मादीनां
तत्तद्देहानां च जर्जरदशान्ता या लहर्यस्तरङ्गा भोगोत्साहश्च
तद्भ्रमेणातिशयेन सन्ततानि आवर्ततुल्यानि इच्छाद्वेषादिवृत्तीनां वलितानि
परिवर्तनानीवासङ्ख्यातानि कमलानि सङ्कलयितुं को नाम शक्तः । न कश्चिदित्यर्थः
॥ १७ ॥
चित्रं विजृम्भितमहो जडसङ्गमस्य पद्मोपि यन्निजगुणानगुणानिवैषः ।
अन्तः प्रगोपयति कण्ठतले निवेश्य सर्वस्य दर्शयति दुर्भगकण्टकौघम् ॥
१८ ॥
पद्मानि वर्णयितुं प्रस्तौति - चित्रमित्यादिना । इतः परं प्रायेणान्यापदेशाः ।
जडसङ्गमस्य जलसम्बन्धस्य मूर्खसमागमस्य च विजृम्बितं
चित्रमाश्चर्यभूतं अहो । तत्कुतः । यद्यत एष सद्गुणनिधित्वेन प्रसिद्धतमः
पद्मोऽपि निजान् सौरभ्यसौन्दर्यमकरन्दादीन् गुणानगुणान् दोषानिव मुकुलितः सन्
कण्ठतले निवेश्य अन्तः प्रगोपयति । दुर्भगं कण्ठकौघं च बहिः सर्वस्य
जनस्य दर्शयति ॥ १८ ॥
सच्चिद्रैरदृढैः सूक्ष्मैर्गोपितैर्जाड्यसंयुतैः ।
अनल्पैरपि निःसारैः पद्मस्येव गुणैरलम् ॥ १९ ॥
ये तु पद्मस्य गुणशब्दवाच्यास्तन्तवस्तत्सदृशाः सदोषा गुणास्तु सर्वत्रोपेक्ष्या
एवेति प्रसङ्गादाह - सच्छिद्रैरिति । सच्छिद्रत्वादिदोषदुष्टत्वात् अलं उपादेयता
नास्तीत्युपेक्ष्या इत्यर्थः ॥ १९ ॥
महतां कुलपद्मानां गुणसौन्दर्यशालिनाम् ।
प्रभावं नास्ति सङ्ख्यातुं वासुकेरपि शक्तता ॥ २० ॥
कुलपद्मानां यशःशौरभेण कुलप्रख्यापकानाम् । वासुकेः शेषस्यापि ॥ २० ॥
हरिवक्षोगता लक्ष्मीरपि शोभार्थमेव यत् ।
बिभर्ति कमलं हस्ते कान्याशंसाधिका भवेत् ॥ २१ ॥
तस्य पद्मस्य सर्वसौन्दर्याधिदेवताया लक्ष्म्या अपि शोभासम्पादकत्वापेक्षया
अन्याशंसा प्रशंसा सर्वसौन्दर्योत्कर्षोक्तिरधिका का भवेत् । तत्साम्यं कस्य वा
भवेत् इति पाठे तु स्पष्टम् ॥ २१ ॥
सितासिताभ्यां रूपाभ्यां कमलोत्पलखण्डयोः ।
वैसादृश्यं भवेत्किन्तु समा जडजडैतयोः ॥ २२ ॥
एतयोः कमलोत्पलखण्डयोर्जडेन जलेन जडा चेतना
चन्द्रसूर्येद्वेषरूपमौर्ख्यलक्षणा च वृत्तिः समा किन्तु सितासिताभ्यां
रूपाभ्यामेव वैसादृश्यं वैलक्षण्यं भवेत् इति योज्यम् ॥ २२ ॥
साम्यं न फुल्लविपिनेन सरःसु याति व्योम्ना न तारकयुतेन न चेन्दुवृन्दैः
[इन्दुबिम्बैः इति टीकाकृदभिमतः पाठः ।] ।
नृत्यद्वधूविहसिताननशोभयैति फुल्लस्य पङ्कजवनस्य नवोदिता श्रीः ॥ २३
॥
सरः सु फुल्लस्य पङ्कजवनस्य नवोदिता श्रीः शोभा फुल्लेन मन्दारादिविपिनेन
साम्यं न याति । तारकयुतेन व्योम्नापि साम्यं न याति । एवमिन्दुबिम्बैरप्येकत्र
मिलितैः साम्यं न याति । किन्तु नृत्यन्तीनां वधूनां विहसितयुक्तया
आननशोभया साम्यमेति लभते इत्येतद्विध्यर्थापूर्वोपमाननिराक्रिया ॥ २३ ॥
येषां पुष्पलतास्वादैरनन्यमनसां गतम् ।
भृङ्गाणामायुरायामि त एव सुभगोत्तमाः ॥ २४ ॥
प्रसङ्गाद्भृङ्गान्वर्णयति - येषामिति । येषां भृङ्गानां
पुष्पलतास्वादैरायामि दीर्घमायुर्गतं ते भृङ्गा एव सुभगोत्तमाः । हे सुभगेति
पृथक्पदं वा ॥ २४ ॥
चूतचारुचमत्कारं चञ्चरीकाश्चरन्ति ये ।
त एव सचमत्कारा इतरे जातिपूरणम् ॥ २५ ॥
चूतस्य चारुचमत्कारं सुगन्धिं मकरन्दरसं नवाङ्कुरकषायरसं च चरन्ति
आस्वादयन्ति ये भृङ्गाः कोकिलाश्च ॥ २५ ॥
मत्ता मधुमदामोदैः पुष्करेषु रणन्ति ये ।
तुष्टानामितरस्वादैर्भ्रमराणां हसन्ति ते ॥ २६ ॥
पद्मकरन्दास्वादिनो भृङ्गा वनान्तरासक्तान् भृङ्गान् हसन्तीवेत्याह -
मत्ता इति । ये भृङ्गा भ्रमराणां हसन्ति । जन्मेति शेषः । कर्मणः
शेषत्वविवक्षा वा ॥ २६ ॥
येनोषितं विरुतमुल्लसितं प्रसुप्तं पद्मोदरेषु शशिकोटरकोमलेषु ।
भृङ्गः स एष शिशिरे विरसेषु भावं कष्टं करिष्यति कथं तरुपुष्पकेषु
॥ २७ ॥
येन भृङ्गेण पद्मोदरेषु उषितं विहृतं उल्लसितं प्रसुप्तं च स एष
भृङ्गः शिशिरे विरसेषु तरुपुष्पकेषु भावं प्रीतिं कथं करिष्यति ॥ २७ ॥
अफुल्लमल्लिकोद्दाममुकुलोपरि षट्पदः ।
दृश्यते कालरुद्रेण शूले प्रोत इवान्धकः ॥ २८ ॥
मुकुलपदेनैवाफुल्लत्वे लब्धे अफुल्लपदं विकासोन्मुखव्यावृत्त्या
शूलसाम्योपपादनार्थम् ॥ २८ ॥
आस्वादयन्विविधपुष्पमधूनि भृङ्ग नित्यं भ्रमन्सकलशैललतागृहेषु
।
नाद्यापि तुष्यसि किमङ्ग दुराशयोऽसि मन्ये न सारमुपगच्छसि वा वनेभ्यः ॥
२९ ॥
अङ्ग हे भृङ्ग त्वं विदिधपुष्पमधूनि आस्वादयन्सन् सकलशैललतागृहेषु
नित्यं भ्रमन्नद्यापि किं न तु तुष्यसि । मधुलम्पटत्वाद्दुराशयोऽसि अद्यापि
वनेभ्यः सारं नोपगच्छसि वा । कष्टमिति खेदे । मन्ये इति वितर्के । न हि सारलाभे
अपरितोषो भ्रमणं वा सम्भावयितुमपि शक्यमिति भावः ॥ २९ ॥
कमलकुलकवलकोविद गच्छ सरो मधुप मा रूढम् ।
बदरदरीषु विदीर्णं देहं कुरु कण्टकक्रकचैः ॥ ३० ॥
कमलकुले पद्मवने कवलनं कवलो मकरन्दास्वादनं तत्र कोविद हे मधुप त्वं
सरः पद्माकरं गच्छ । रूढं मकरन्दपुष्टं स्वदेहं बदरदरीषु
कण्टकक्रकचैर्विदीर्णं मा कुरु ॥ ३० ॥
अतसीकुसुमे कुवलयदलवलये विकसिते च तापिच्छे ।
परभागमेहि मधुना तासु विसदृशीव पण्डितः पुरुषः ॥ ३१ ॥
हे मधुप यासु हेमन्तशिशिरादिकालकलासु कमलानि न लभसे तास्वपि
त्वद्वर्णसदृशे अतसीकुसुमे तथा कुवलयदलवलये तथा विकसिते तापिच्छे तमाले च
यथायोगं मधुना आयुषः परभागं एहि यापय । यथा पण्डितः पुरुषः
स्वानुरूपप्रभुसमाजाद्यलाभे विसदृशि प्रभौ वसन्नपि विद्वत्प्राप्तये वसति न
किरातकुले तद्वदित्यर्थः ॥ ३१ ॥
पश्यैषा नाभिनलिनीकेसरैः पालिता श्रिया ।
हंसमालामलावल्ली सामगायनकूजिता ॥ ३२ ॥
तत्र हंसमालां वर्णयन्दर्शयति - पश्येति । हे राजन् सरोनाभिनलिनीनां
केसरैरुपभुक्तैस्तत्समानवर्णरूपया श्रिया शोभया पालिता हंसमालालक्षणा
अमला वल्ली सामगायनमिव गम्भीरं कूजितं यस्यास्तथाविधास्ति तां पश्येत्यर्थः
। गायनमित्यशित्यात्वाभावश्छान्दसः । अथवा भगवन्नाभिनलिनीकेसरैः श्रिया
लक्ष्म्या पालिता यथार्थसामगानमेव कूजितं यस्यास्तथाविधेति
दैवाद्दृष्टब्राह्महंसमालापरतया व्याख्येयम् ॥ ३२ ॥
दोलाकमलनीडस्थां दृष्ट्वा खे प्रतिबिम्बिताम् ।
हंसो हंसीमनुसरन्मण्डले नेह चेतति ॥ ३३ ॥
इह सरोमण्डले खे हंसीमनुसरन् हंसः प्रतिबिम्बितां दोलासदृशे कमलनीडे
स्थितां हंसी दृष्ट्वा तत्पतनमज्जनशङ्कया न चेतति । मूर्च्छितोऽभूदित्यर्थः ॥
३३ ॥
मा भूत्कस्यचिदेवैषा राजन्व्यसनिता भृशम् ।
पश्यैतां बिम्बितां हंसो हंसीमनुसरन्मृतः ॥ ३४ ॥
तादृशी स्त्रीव्यसनितां निन्दति - मा भूदिति । अप्यर्थे एवकारः ॥ ३४ ॥
हेलया राजहंसेन यत्कृतं कलकूजितम् ।
न तद्वर्षशतेनापि जानात्याशिक्षितुं बकः ॥ ३५ ॥
समानेष्वाकराकारजातिचेष्टाशनादिषु ।
हंसस्य राजहंसस्य दूरमत्यन्तमन्तरम् ॥ ३६ ॥
आकरो जन्मस्थानम् । आकारः संस्थानम् । अशनमाहारः । आदिपदान्नामवर्णादयो
गृह्यन्ते । इतरहंसस्य राजहंसस्य चात्यन्तमन्तरं तारतम्यं दूरं
विप्रकृष्टम् । यतस्ते मानसे स्वर्णपद्मवने क्रीडन्ति समुद्रे च निमज्ज्य मुक्ताः
खादन्ति सर्वपक्ष्यगम्ये ऊर्ध्वभागे नभसः सञ्चरन्ति नान्ये इति भावः ।
राजहंसास्तु ते चञ्चुचरणैर्लोहितैः सिताः ॥ ३६ ॥
शुक्लपक्षस्थितो व्योम्नि कुमुदाकरभासकः ।
आह्लादयति चेतांसि हंसश्चन्द्र इवोत्थितः ॥ ३७ ॥
शुक्लेन पक्षेण चन्द्रः शुक्लाभ्यां पक्षाभ्यां हंसो व्योम्नि स्थितः ।
कुमुदानामाकरस्य भासको विकासकश्चन्द्रः शोभाहेतुर्हस इति तयोः साम्यम् ॥ ३७ ॥
उन्नालनलिनीनालकदलीस्तम्भसङ्कुले ।
वने विहरतां लक्ष्मीं हंसानामेति कः खगः ॥ ३८ ॥
उन्नाला या नलिन्यस्तन्नाललक्षणैः कदलीस्तम्भैः सङ्कुले कदलीवनप्राये पद्मवने
विहरतां हंसानां लक्ष्मीं शोभामित्युत्तानोऽर्थः । तात्पर्यतस्तु योगेन
ऊर्ध्वीकृतनाला या हृदयपद्मलक्षणा नलिनी तस्याः
प्राणायामाभ्यासाद्विकासेन कदलीवद्यः स्तम्भनं स्तम्भस्तत्सङ्कले
प्रागुक्तहृत्पद्मत्रयलक्षणे वने निरस्तत्रिविधतापनिरतिशयानन्दास्वादनेन सदा
विहरतां हंसानां यतीनां जीवन्मुक्तिसुखसाम्राज्यलक्षणां लक्ष्मीं सम्पदं
खगो देवोऽपि क एति प्राप्नोतीत्यर्थः ॥ ३८ ॥
तरङ्गवलया लोलसीकरोत्करहारिणी ।
कुमुदोत्पलकह्लारपुष्पसम्भारसुन्दरी ॥ ३९ ॥
इदानीं तां सरसीं नारीसाम्येन रूपयन्नुत्प्रेक्षते - तरङ्गेत्यादिना । तरङ्गा
एव वलया यस्याः । लोलैः सीकरोत्करैर्हारिणी हारवती ॥ ३९ ॥
भृङ्गलोलालकलता रणत्सारसनूपुरा ।
वर्तुलावर्तनाभीका चलद्वीचिविलोचना ॥ ४० ॥
भृङ्गा एव लोला अलकलता यस्याः ॥ ४० ॥
प्रतीक्षमाणा दयितं रसपूरकरं धरम् ।
नारीव सरसी चारुहंसकाभ्यां विराजते ॥ ४१ ॥
रसो मनोरथो जलं च तस्य पूर्तिः पूरस्तत्करं धरं पर्वतं प्रतीक्षमाणा
प्रतिमुखमीक्षमाणा । हंसकाभ्यां मञ्जीराभ्यां हंसपोताभ्यां च ॥ ४१ ॥
हे हम्स मद्गुबककाकशरारुसारे मा त्वं सरस्यविरतं कुरु वासमेकः ।
आपद्यपीह समशीलवयोवचोभिः श्रेयःफला भवति सङ्गतिरात्मवर्गैः ॥ ४२ ॥
प्रसङ्गात्कश्चिदन्यापदेशेन कञ्चित्प्रत्याह - हे हंसेति । हे हम्स त्वं
मद्गुर्जलकाको बकः प्रसिद्धकाकश्च एतद्रूपा ये शरारवो हिंस्रास्तत्सारे
तत्प्रधाने सरसि एको वासं मा कुरु । यतः इह आपद्यपि
समशीलवयोवचोभिरात्मवर्गैर्हंसैरेव सह सङ्गतिः श्रेयः फला सुखोदर्का
भवति नान्यैरित्यर्थः ॥ ४२ ॥
पादाक्रान्तमहेभमस्तकतटः पद्माकरैकालयः
कह्लारोत्पलकुन्दचम्पकलतासम्भोगसौभाग्यवान् ।
भृङ्गोऽप्येष विधेर्वशेन शिशिरे लोष्टं तृणं स्वादयन् शीते
शुष्कबकत्यहो नु विपदा दैन्ये मनो दीयते ॥ ४३ ॥
अन्यः प्रसङ्गादाह - पादेति ।पादैराक्रान्ता महेभानां मस्तकतटा येन तथा
पद्माकर एवैक आलयो यस्य तथा कह्लारादिलतावधूनां सम्भोगशृङ्गारवान्
एष ईदृशप्रभावोऽपि भृङ्गो विधेर्दैवस्य वशेन शिशिरर्तौ लोष्टं तृणं च
स्वादयन्नास्वादयन्सन् शुष्को बक इवाचरति बकति । सर्वप्रातिपदिकेभ्य
आचारेक्विब्वक्तव्यः इति क्विप् । अहो इति सखेदाश्चर्ये । विपदा महद्भिरपि मनो दैन्ये
दीयते ॥ ४३ ॥
पुत्रस्येह दलोदरे द्युति तरत्तारं चिरं संस्मृतं
हंसस्यांसविनुन्ननालगहने सञ्चारिणा भो मया ।
शुक्लासारमिवाब्जिनी विकिरति स्वं वारिविन्दूत्करं मध्याह्ने शिशिरं विकासि
सहसा मूर्ध्नि स्फुटं दृश्यताम् ॥ ४४ ॥
भो राजन् हंसस्यांसाभ्यां पक्षाभ्यां विनुन्ने नालगहने नालवने प्रविष्टेन
मया द्युति द्योतमाने पद्मदलोदरे निविष्टस्य पुत्रस्य हंसपोतस्य तरन्निः सरत्
तारमुच्चैः स्वरं स्वपितरं प्रति यद्वचनं
तत्सदृशदर्शनोद्बोधकसमवधानात्संस्मृतम् । किं तद्वचनं तदाह -
शुक्लेति । हे तात अब्जिनी शुक्लं मुक्तामयमासारमिव स्वं वारिबिन्दूत्करं विकिरति ।
मूर्ध्नि शिरोभागे मध्याह्नकालेऽपि सहसा विकासि शिशिरं हिमं स्फुटं
प्रत्यक्षं दृश्यतामिति ॥ ४४ ॥
व्योम्नीन्दोरिव सौम्यवारिणि चिरं निःशब्दकं सर्पतो
हंसस्यांसहताब्जनालवलनानिष्कम्पटङ्कक्षतैः ।
गङ्गावारिवदत्र पुष्करपुटाद्ब्राह्मादिवास्योपरि भ्रष्टा ये जलबिन्दवो
जलचरा हृष्टाः पिबन्त्याशु तान् ॥ ४५ ॥
हे राजन् इह सरसि व्योम्न्याकाशे इन्दोरिव चन्द्रवत् सौम्ये प्रसन्ने वारिणि निःशब्दकं
सर्पतो गच्छतो हंसस्य अंसाभ्यां पक्षाभ्यां हतानि यान्यब्जनालानि
तत्सम्बलनलक्षणैर्निष्कम्पटङ्काघातैः पुष्करपुटाद्ब्राह्मात्
हिरण्यगर्भासनपुष्करपुटादिव ये जलबिन्दवः अस्योपरि भ्रष्टास्तान् जलचरा
मत्स्यादयो हृष्टाः सन्तो गङ्गावारिवदाशु पिबन्ति ॥ ४५ ॥
इत्यार्षे श्रीवासिष्ठमहारामा० वा० दे० मो० नि० उ० अविद्यो० विप०
पद्मभ्रमरहंसवर्णनं नाम सप्तदशाधिकशततमः सर्गः ॥ ११७ ॥
इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे निर्वाणप्रकरणे उत्तरार्धे
पद्मभ्रमरहंसवर्णनं नाम सप्तदशाधिकशततमः सर्गः ॥ ११७ ॥