षोडशाधिकशततमः सर्गः ११६
अनुचरा ऊचुः ।
देव पश्यात्र सङ्ग्रामलग्नसीमान्तभूभृताम् ।
कचन्ति हेतिसङ्घाता विसरन्ति बलानि च ॥ १ ॥
सङ्ग्रामव्योमविरहिशिखरिग्रामडम्बराः ।
गिरिगह्वरमेघाश्च मूर्खकाकाश्च वर्णिताः ॥
तत्रादौ सप्ताभिः सङ्ग्रामं वर्णयितुं प्रस्तौति - देवेति । बलानि चतुर्विधानि
सेनाङ्गानि ॥ १ ॥
हतान्हतानभिमुखान्वीरान्वीरैः सहस्रशः ।
आरोप्यारोप्य खं यान्ति पश्य पश्याङ्गनारथैः ॥ २ ॥
अङ्गना अप्सरसः । रथैर्विमानैः ॥ २ ॥
विजिगीषो पुनः प्राप्ते सङ्कटे प्रकटे रणे ।
धर्म्यं विराजते युद्धं यौवने सुरतं यथा ॥ ३ ॥
विजिगीषोर्बलवतः शत्रूणां रणे प्रकटे सङ्कटे प्राप्ते विनाधर्मेण तेषां वधो
न शोभते किन्तु धर्म्यं धर्मादनपेतं युद्धं विराजते इत्यर्थः ॥ ३ ॥
लोकैरनिन्दिता लक्ष्मीरारोग्यं श्रीसमन्वितम् ।
धर्म्यं युद्धं परार्थेन जीवितस्योत्तमं फलम् ॥ ४ ॥
तत्कुतस्तत्राह - लोकैरिति । यत एतानीदृशान्येव जीवनस्योत्तमफलानि न तु
निन्दितसम्पदादय इत्यर्थः ॥ ४ ॥
अविरोधेन धर्मस्य युद्धे सम्मुखमागतम् ।
योधानुरूपं यो हन्ति शूरः स्वर्ग्यः स नेतरः ॥ ५ ॥
योधानुरूपमिति । तद्यथा एकस्मिन्योधे एक एव सः सवाहने सवाहनः सधनुषि
सधनुः सखड्गे सखड्गो निरायुधे निरायुध एव बाहुयुद्धं चरन्यो हन्तीत्यर्थः
॥ ५ ॥
हस्तस्थितासिवरनीलसरोजदामश्यामो हयोत्थघनरेणुनिशागमोऽत्र ।
आलोकय क्रमणमेष कथं करोति प्रोन्नामहेतिभरभूषणभाजि लक्ष्म्याः ॥ ६
॥
हे राजन् प्रोन्नामा उद्यता हेतिभरा एव भूषणानि तद्भाजि अस्मिन् शूरपुरुषे एष
सङ्ग्रामलक्ष्म्या हस्तस्थितासिवरलक्षणेन नीलसरोजदाम्ना श्यामो
हयोत्थघनरेणुकृतोऽन्धकारलक्षणो निशागमोऽत्रास्यां सङ्ग्रामभूमौकथं
क्रमणं करोति । किं लक्षीरेनमस्यां निशि स्वयंवरेवृणीते उत नेति कौतुकं
पश्येत्यर्थः ॥ ६ ॥
एते कचन्ति शरशक्तिगदाभुशुण्डीशूलासिकुन्तपटुतोमरचक्रपूर्णाः ।
तापाः सताण्डवकचप्रचले चलेऽब्धौ देहेन वल्गति भुवीव फणीन्द्रसङ्घाः ॥
७ ॥
शरशक्त्याद्यायुधैः पूर्णा एते योधाः सताण्डवकचप्रायतृणदारुप्रचले अचले
पर्वते प्रज्वलितास्तापा दवाग्नय इव कचन्ति । तेषु च शरशक्त्यादिसङ्घाः अब्धौ
देहेन वल्गति सति तत्रत्याः फणीन्द्रसङ्घाः भुवि प्रसूता इव कचन्ति ॥ ७ ॥
पश्याम्बरं बलवदम्बुधराब्धिपूर्णं पश्याम्बरं
तरलतारकतारहारम् ।
पश्याम्बरं सुघनसक्तमसैकसारं पश्याम्बरं
विशदचन्द्रकरावसिक्तम् ॥ ८ ॥
इतःप्रभृत्याकाशं चतुर्दिक्षु वर्णयति - पश्येत्यादिना । सुघनं सज्जत इति
सुघनसक् तथाविधेन तमसा एकसारं तुल्यसारं नीलमिति यावत् ॥ ८ ॥
यत्रानेकसुरासुरास्पदघटा तारापदेशं गता ऋक्षाणां च यदास्पदं
विसरतां सर्वोन्नतानां च यत् ।
तस्मिञ्छून्यमिति प्रतीतिरधुनाप्यस्तं गता नाम्बरे कोऽन्यो मार्जयितुं
जनोऽज्ञरचितं लोकापवादं क्षमः ॥ ९ ॥
यत्र यस्मिन्नम्बरे अनेकेषां सुरासुरास्पदानां विमानादीनां घटा तारा
इत्यपदेशं व्याजं गता । ऋक्षाणामश्विन्यादीनां यदास्पदं यद्विसरतां
सर्वोर्न्नतानां चन्द्रसूर्यादीनां चास्पन्दं तस्मिन्नम्बरे सर्वतः पूर्णेऽपि
अज्ञानां शून्यमिति प्रतीतिरधुनापि नास्तं गता । यत्रैवं महान्समर्थोऽप्याकाशः
अज्ञरचितं शून्यतापवादं मार्जयितुं न क्षमस्तत्र कोऽन्यः क्षमः स्यादित्यर्थः
॥ ९ ॥
मेघाटोपैः
प्रलयदहनैरद्रिपक्षाभिघातैस्तारापूरैरमरदितिजक्षुब्धसङ्ग्राम##-
व्योमाद्यापि प्रकृतिविकृतिं नाम नायात्यसङ्ख्यैरन्तः
साराशयगुणवतां लक्ष्यते नो महिम्नः ॥ १० ॥
साराशयगुणवतां महिम्नः अन्तो न दृश्यते ॥ १० ॥
आन्दोलयस्यविरलं गगनार्कमङ्केनारायणं च शशिनं च तथेतराणि ।
तेजांसि भासुरतडित्प्रभृतीनि साधो चित्रं तथापि न जहासि यदान्ध्यमन्तः ॥
११ ॥
हे साधो गगनत्वमविरतमर्कं नारायणं चकारात्तत्परिजनान्सर्वान्देवान्
शशिनं चकारादन्यान् ग्रहांस्तथा इतराणि भासुरतडित्प्रभृतीनि तेजांसि च अङ्के
आन्दोलयसि तथाप्यन्तर्यदान्ध्यं तमः श्यामिकालक्षणं तन्न जहासि
चित्रमाश्चर्यमित्यर्थः ॥ ११ ॥
आकाश काशसि तु यत्र शशाङ्कबिम्बं त्वत्कीर्णकज्जलतमो मलिनोऽसितत्वम् ।
सङ्गान्न यन्नयसि तत्खलु चित्रमुच्चैः को नाम वान्तरमलं मलिनीकरोति ॥ १२ ॥
हे आकाश त्वं मलिनोऽसि । यत्र शशाङ्कबिम्बं त्वया छिद्रात्मना कीर्णं
कज्जलतमःप्रायं सम्पन्नं तत्र कलङ्कच्छलेन मलिनः प्रत्यक्षं काशसि तु
दृश्यसे खल्वित्यर्थः । एवं सति स्वसङ्गात्सम्पूर्णं शशाङ्कबिम्बं यत्
असितत्वं न नयसि तत् उच्चैर्महच्चित्रम् । वा अथवा मलिनसङ्गादन्तर्मलिन एव बहिरपि
मालिन्यमापद्यते । अन्तरमलं तु को नाम मलिनीकरोति न कश्चिदित्यर्थः ॥ १२ ॥
पूर्णस्यापि जगद्दोषैः सर्वदैवाविकारिणः ।
खस्य मन्ये बुधस्येव सुखं सर्वार्थशून्यता ॥ १३ ॥
अथवा सन्तु मालिन्यादयः सर्वेऽपि दोषास्तथापि निर्विकारताबलेनैव
तत्प्रयुक्तसर्वानर्थशून्यतासुखं सुलभमित्याशयेनाह - पूर्णस्यापीति ।
बुधस्य तत्त्वविद इव ॥ १३ ॥
कल्पाभ्रद्रुमवीरुदुन्नतिदृशां कर्तासि धर्तासि च
आकाशेन्दुघनार्ककिन्नरमरुत्स्कन्धामराणामपि ।
सर्वं रम्यमसङ्कुलाशय समस्वच्छस्वभावस्य ते
यत्त्वेतद्दहनत्वमङ्ग तदहो मुख्याय खेदाय नः ॥ १४ ॥
हे अङ्ग असङ्कुलाशय उदारबुद्धे हे आकाश त्वं कल्पाभ्राणां
प्रलयाम्बुदानान्न् द्रुमाणां वीरुधां लतानां चोन्नतिं
पश्यन्त्यभिलषन्तीत्युन्नतिदृशस्तेषामवकाशदानेनोन्नतेः कर्तासि । इन्दुश्च
घनाश्च अर्कश्च किन्नराश्च मरुत्स्कन्धाश्च अमराश्चेत्येषामपि धर्ता
आधारश्चासीति समस्वच्छस्वभावस्य ते सर्व कर्म रम्यमेव । यत्त्वग्नेः सूर्यस्य च
प्रज्वलनावकाशदानेन दहनत्वं सन्तापकत्वं एतत्कर्म नः मुख्याय खेदाय
न तु सुखायेति दावाग्न्यातपादिसन्तप्तस्योक्तिः ॥ १४ ॥
आकाश काशमसि निर्मलमच्छमुच्चैराधार उन्नततयोत्तममुत्तमानाम् ।
त्वामेत्व किन्तु विअरलं करकाघनोऽयं लोकं विमर्दयति तेन परोऽसि नीचैः ॥ १५
॥
हे आकाश त्वं निर्मलमच्छं [मेघाद्यावरणशून्यम् ।] काशं
भास्वरं उन्नततया उत्तमानां देवादीनामुत्तममाधारश्चासि किन्तु विरलं
सावकाशं त्वामेत्य आश्रित्य अयं करकावर्षी घनो लोकं जनं विमर्दयति तेन
तद्दोषेण परः नीचैः अत्यन्तमपकृष्टोऽसीत्यर्थः ॥ १५ ॥
आकाश कर्षकष एव निकर्षणं ते मन्ये चिरं समचितं न तु किञ्चिदन्यत् ।
शून्योऽसि यज्जलधरर्क्षविमानचन्द्रसूर्यानिलान्वहसि भासि न चार्थशून्यः ॥
१६ ॥
हे आकाश ते तव स्वर्णवत्कर्षकषे कर्षकषणस्थाने निकषोपल एव निघर्षणं
चिरमुचितम् । न त्वन्यत्किञ्चित्त्वत्परीक्षास्थानमित्यर्थः । यद्यस्मात्त्वं शून्योऽसि
तथापि जलधरान् ऋक्षाणि विमानानि चन्द्रं सूर्यमनिलांश्च वहसि भासि
अर्थशून्यो निष्प्रयोजनश्च न चासीति तव सकलकनकगुणशालिनो गुणपरीक्षार्थमपि
तद्गुणपरीक्षास्थानस्यैवौचित्यादिति भावः ॥ १६ ॥
अह्नि प्रकाशमसि रक्तवपुर्दिनान्ते यामासु कृष्णमथ चाखिलवस्तुरिक्तम् ।
नित्यं न किञ्चिदपि सद्वहसीति मायां न व्योम वेत्ति विदुषोऽपि विचेष्टितं ते ॥ १७ ॥
हे व्योम - न ङिसम्बुद्ध्योः इति नलोपनिषेधश्छान्दसत्वादनित्यत्वाद्वा
नाश्रितः । त्वं अह्नि प्रकाशं भास्वरवर्णमसि । दिनान्ते सन्ध्यारागेण
रक्तवपुरसि । यामासु नामैकदेशे नामग्रहणात्त्रियामासु कृष्णमसि । अथ च
नित्यं न किञ्चिदपि सद्वस्तु वहसीति हेतोरखिलवस्तुरिक्तमसि इति तव मायां
विदुषस्तत्त्वविदो विचेष्टितमपि न कश्चिदपि वेत्तीत्यर्थः ॥ १७ ॥
अकिञ्चनोऽपि कार्याणि साधयत्पातताशयः ।
अन्तःशून्यमपि व्योम सर्वस्योन्नतिकारणम् ॥ १८ ॥
आतताशयः अतिविपुलबुद्धिस्तत्त्ववित् ॥ १८ ॥
न तृणसलिलं नैव ग्रामो न नाम च पत्तनं न च
दलभरस्निग्धच्छायस्तरुर्न च सत्प्रपा ।
तदपि गगनाध्वानं सूर्यः प्रयाति दिने दिने विषममपि यत्प्रारब्धं
तत्त्यजन्ति न सात्त्विकाः ॥ १९ ॥
गगनाध्वनि अध्वगविश्रान्तिसाधनं तृणं सलिलं च नास्ति । ग्रामस्तु नैवास्ति ।
पत्तनं नगरं च न नाम अत्यन्तासम्भाव्यमित्यर्थः । दलभरैः
स्निग्धच्छायस्तरुश्च नास्ति । सती रम्या प्रपा पानीयशाला च नास्ति । तत्तथापि सूर्यो
गगनाध्वानं दिने दिनेप्रयाति । सात्त्विकाः सत्त्ववन्तो विषममन्येषामसाध्यमपि
यत्प्रारब्धं तन्न त्यजन्ति स्वसामर्थ्येनावश्यं साधयन्त्येवेत्यर्थः ॥ १९ ॥
यामा ध्वान्तपटेन शीतलरुचिः कर्पूरपूरैः करैरर्कालोकनवांशुकेन
दिवसस्तारौघपुष्पोत्करैः ।
द्यौरम्भोदतुषारवारिकुसुमैः सर्वर्तवो भूषयन्त्येते
कालकलात्मनोस्त्रिभुवने व्योमाङ्गणं नाथयोः ॥ २० ॥
दिवसः अर्कालोकलक्षणेन नवांशुकेन स्वं भूषयति । द्यौः
रात्रितारौघपुष्पोत्करैः स्वं भूषयति । सर्वर्तवो वसन्तादयः
अम्भोदतुषारलक्षणैर्वारिकुसुमैः स्वं भूषयन्ति । एते सर्वेऽपि मिलित्वा
कालकलात्मनोस्त्रिभुवने नाथयोः स्वामिनोश्चन्द्रसूर्ययोः क्रीडास्थानं
व्योमाङ्गणं भूषयन्तीत्यर्थः ॥ २० ॥
धूमाभ्ररेणुतिमिरार्कनिशेशसन्ध्या ताराविमानगरुडाद्रिसुरासुराणाम् ।
क्षोभैरपि प्रकृतिमुज्झति नान्तरिक्षं चित्रोत्थिता स्थितिरहो न महाशयस्य ॥ २१
॥
महाशयस्य स्थितिश्चित्रा आश्चर्यरूपा उत्थिता उन्नता दृश्यते यतोऽन्तरिक्षं
धूमादीनां त्रयोदशानां क्षोभैरपि प्रकृतिं पूर्वावस्थां नोज्झति ॥ २१ ॥
दिग्भित्तिबद्धमिदमूर्ध्वतलान्तरिक्षमुर्वीतलं घनपुराचलभूरिभाण्डम् ।
विद्याधरामरमहोरगजालकारं लोकौघसंसरणसङ्घपिपीलिकाढ्यम् ॥ २२ ॥
अपरः कश्चित्त्रिभुवनमेकजीर्णगृहत्वेन वर्णयति - दिग्भित्तीति । दिश एव
भित्तयस्ताभिर्बद्धमूर्ध्वतलं उपरितनसौधभूतमन्तरिक्षं यस्य । उर्वी
भूमिरेव अधस्तलं यस्य । घनं पुराण्यचलाश्च भूरिभाण्डं गृहोपस्करो
यस्मिन् । विद्याधरादयो जालकारा ऊर्णनाभिकीटा यस्मिन् । तथा
लोकौघाश्चतुर्विधभूतग्रामास्तल्लक्षणाभिः सङ्घपिपीलिकाभिराढ्यम् ॥ २२ ॥
कालः क्रिया च भुवनं भवनं चिराय नामाधितिष्ठत इवोपवनं विकासि ।
आशङ्क्यते प्रतिदिनं ननु नष्टमेव नाद्यापि नश्यति च केयमहो नु माया ॥ २३
॥ (युगलकम् ।)
ईदृशमिदं भुवनं भवनं कालः क्रिया चेति दम्पती चिराय नाम अधितिष्ठतः
पालयतः । यथा मालाकारदम्पती विकासि उपवनमधितिष्ठतस्तद्वत् । यद्यपि
कालक्रियाभ्यान्न् नाधिष्ठीयते प्रतिदिनं ननु नष्टमेवाशङ्क्यते तथापि नाद्यापि
नश्यति चकारान्नश्यति चतथापि प्रवाहेणानुवर्तत एव । एवं नश्यदपि न नश्यतीति
विरुद्धधर्मकत्वादहो नु माया । इन्द्रजालसदृशमेतदित्यर्थः । तथा च श्रुतिः
कस्मात्तानि न क्षीयन्ते अद्यमानानि सर्वदा इति । पुरुषो वा अक्षितिः स हीदमन्नं धिया
धिया जनयते कर्मभिः इति ॥ २३ ॥
खं मन्ये पादपादीनां रोधयत्यधिकोन्नतिम् ।
अकर्तुरेव महतो महिम्नोदेति कर्तृता ॥ २४ ॥
मन्ये इत्युत्प्रेक्षायाम् । आदिपदाद्वृद्धिमतां सर्ववस्तूनाम् । ननु
निरोधकव्यापारशून्यस्य खस्य निरोधे अकर्तृतैव तत्कथं तद्विरुद्धा
कर्तृतोत्प्रेक्ष्यते तत्राह - अकर्तुरेवेति । रुन्धन्ति मार्ग दिरयोऽध्वगानाम् इति वदिति
भावः ॥ २४ ॥
जगतां यर्त लक्षाणि न भवन्त्युद्भवन्ति च ।
तच्छून्यमुच्यते व्योम धिक्पाण्डित्यमखण्डितम् ॥ २५ ॥
कश्चिद्व्योमशून्यतावादिनो युक्त्या खण्डयन्निन्दति - जगतामिति । न भवन्ति
लीयन्ते उद्भवन्ति जायन्ते च ॥ २५ ॥
व्योमन्येव प्रलीयन्ते व्योमतः प्रोद्भवन्ति च ।
गच्छतोन्मत्ततामेतामीश्वरान्यभिदा कृता ॥ २६ ॥
अपरो व्योम्न्येवेश्वरलक्षणानि पश्यंस्तदन्यतावादिनं निन्दति - व्योमन्येवेति ।
ईश्वरादन्यद्व्योमेति भिदा उन्मत्ततां गच्छता प्राप्तेन वादिना कृता । यतः सर्वा।इ
जगन्ति व्योमन्येव प्रलीयन्ते व्योमत एव प्रोद्भवन्ति चकाराद्योमन्येव तिष्ठन्तीति
जन्माद्यस्य यतः इति शास्त्रसिद्धमीश्वरलक्षणं व्योम्न्येव दृश्यत इति
तदेवेश्वर इत्यर्थः । ईश्वराद्यभिधाः कृताः इति पाठे एतां
उक्तार्थबोधप्रयुक्तां उन्मत्ततां भ्रान्तिं गच्छता वादिना अन्यताभ्रमेण व्योम्न
एवेश्वराद्यभिधाः कृताः ॥ २६ ॥
आयान्ति यान्ति निपतन्ति तथोत्पतन्ति सर्गश्रियः कणघटा इव पावकोत्थाः ।
यत्रामलं तदहमेकमनादिमध्यं मन्ये खमेव न तु
कारणमीश्वराख्यम् ॥ २७ ॥
यदि व्योम्नः सकाशादेवाग्निविस्फुलिङ्गन्यायेन जगज्जन्मादि मन्यसे तर्हि न जडं
व्योम तत् किन्तु चिद्व्योमरूपोऽहमेव । मय्येव सकलं जातं मयि सर्व प्रतिष्ठितम् ।
मयि सर्व लयं याति तद्ब्रह्माद्वयमस्म्यहम् इति श्रुतेरहमेव स ईश्वर इति
तटस्थेश्वरपक्ष एव निरसनार्ह इति तत्र कश्चित्तत्त्वविदाह - आयान्तीति ।
ईश्वराख्यन्न् तटस्थं नैयायिकाद्यभिमतं न तु ॥ २७ ॥
आधारमायततरं त्रिजगन्मणीनामङ्गे बिभर्त्यमितमन्तरशेषवस्तु ।
व्योमैव चिद्वपुरहं परमेव मन्ये यत्रोदयास्तमयमेति जगद्भ्रमोऽयम् ॥ २८
॥
अमितं यदशेषवस्तु अङ्गे बिभर्ति त्रिजगन्मणीनामायततरमाधारं तद्व्योमैव
चिद्वपुः परं ब्रह्मैवेत्यहं मन्ये ॥ २८ ॥
वनावनौ वनचरचाअरुकामिना मनोहरद्रुमगहनेषु गीयते ।
इतो गिरेः शिरसि विलोक्यतेऽमुना वियोगिना पथि वहता रसाकुलम् ॥ २९ ॥
कश्चिद्गिरौ कौतुकविशेषं दर्शयन्नाह - वनावनाविति । गिरेः शिरसि वनावनौ
वनचारेण चारुणा कामिना मनोहरद्रुमगहनेषु गीतं गीयते । अधःपथि वहता
गच्छता अमुना वियोगिना पुरुषेण तद्गीतं श्रुत्वा रसाकुलं यथा स्यात्तथा स गाता
ऊर्ध्व विलोक्यते ॥ २९ ॥
गीतं शृङ्गतरूच्चपल्लवपुटे निःश्वस्य सोत्कण्ठया कण्ठाश्लिष्टगिरा
वियोगहतया विद्याधराणां स्त्रिया ।
यन्नामात्र तदेष नाथ पथिकः सोच्छ्वासमाकर्णयन् दोलान्दोलनयेव
चञ्चलधिया नो याति नोनूच्यते ॥ ३० ॥
अपरस्तथाविधमपरं कौतुकं दर्शयन्नाह - गीतमित्यादिना । हे नाथ
गिरिशृङ्गवने उच्चो यस्तरुस्तदीयपल्लवपुटप्राये कुञ्जे वियोगहतया सोत्कण्ठया
विद्याधराणां स्त्रिया निःश्वस्य कण्ठाश्लिष्टगिरा यन्नाम गीतं
तदत्राधस्ताद्गच्छन्नेष पथिकः सोच्छ्वासमाकर्णयन्सन् दोलायामान्दोलनयेव
चञ्चलया धिया अग्रे नो याति । अनुगैरपि याहीति नोऽनूच्यते चित्रमित्यर्थः ॥ ३० ॥
गायत्यद्रिशिरस्तरौ दलपुटे निःश्वस्य विद्याधरी काकल्याऽतिलकं वियोगविधुरा
बाष्पाकुलैषा पुरः ।
नाथोत्सङ्गगृहे गृहीतचिबुकं स्मेरं भवच्चुम्बनं स्मृत्वास्वाद्य
रसायनं हतसमा नीता मयैता इति ॥ ३१ ॥
सा विद्याधरी बाष्पाकुला सती अतिलकं विमृष्टविशेषकं यथा स्यात्तथा गायति । किं
गायतिं तदाह - हे नाथ त्वदुत्सङ्गलक्षणे गृहे गृहीतचिबुकं
स्मेरमीषद्धास्यसहितं भवच्चुम्बनलक्षणं रसायनं स्मृत्वा
पुनःपुनरास्वाद्य इह मया एता हतसमा निन्द्याः संवत्सरकाला नीता इति गायति ॥ ३१ ॥
अस्याः प्राग्भवसत्पतिः स मुनिना शापेन वृक्षीकृतो वर्षद्वादशकं
तदेव गणयन्त्येषैव सात्र स्थिता ।
गायत्युत्कलिता तदेव दयितं तं पादपं संश्रिता मार्गे मार्गविहारिणां
वदनतो राजन्ममैतच्छ्रुतम् ॥ ३२ ॥
किमर्थ तत्रैव सा स्थिता गायति तत्राह - अस्या इति । सः गीयमानः प्राग्भवतीति
प्राग्भवः सन् युवा पतिर्विद्याधरो मुनिना केनचिदपराधेन निमित्तेन शापेन
वर्षद्वादशकं वृक्षीकृतस्तदेव गणयन्ती सैषा अत्रैव स्थिता उत्कलिता उत्कण्ठिता
तमेव स्वदयितं पादपं संश्रिता सती सा गायति । हे राजन् मार्गविहारिणां वदनतो
मया एतन्मार्गे श्रुतम् ॥ ३२ ॥
पश्यैष सोऽस्मदवलोकनशान्तशापो विद्याधरो विटपितामवमुच्य बालाम् ।
कण्ठेकरोति विटपाकृतिविप्रलम्भैस्तैरेव बाहुभिरलं स्फुटपुष्पहासः ॥
३३ ॥
स च मुनिरस्मद्दर्शनमेव शापान्तमकरोदतः स एष वृक्षभूतो
विद्याधरोऽस्मदवलोकनादेव शान्तशापः सन् विटपितामवमुच्य बालां तां
विद्याधरीं विटपाकृतिव्याजैस्तैरेव बाहुभिः स्फुटपुष्पाण्येव हासत्वेन
सम्पन्नानि यस्य तथाविधः सन् आलिङ्ग्य कण्ठेकरोति पश्य ॥ ३३ ॥
शिखरिणां करिणां कुसुमोत्करो विटपिषु स्फुटरोमसु राजते ।
गगनविच्युततारकलीलया शिखरमेष तुषारसमानया ॥ ३४ ॥
अपरः शिखरिणो वर्णयति - शिखरिणामिति । शिखरिलक्षणानां करिणां
विटपिलक्षणेषु स्फुटरोमसु कुसुमोत्करः शिखरेषु मेषतुषारो
वासन्तिकहिमकणस्तत्समानया गगनविच्युततारकलीलया राजते ॥ ३४ ॥
मीनावलीसरभसप्लुतिघट्टिताम्बुवीचीविलोलविरुवत्कुररीकराला ।
कावेर्यहो कुसुमशुक्लपटाऽवभाति निःशङ्करङ्कुकुलसङ्कुलकूलकच्छा ॥
३५ ॥
अपरः कावेरीं वर्णयति - मीनेति । मीनावलीनां
सरभसप्लुतिभिर्घट्टितास्वम्बुवीचिषु विलोलाभिः क्रीडन्तीभिर्विरुवतीभिः कुररीभिः
कराला कुसुमशुक्लपटा निःशङ्कैरङ्कुभिर्मृगभेदैः सङ्कुलाः कूलानि
कच्छा जलप्रायदेशाश्च यस्यास्तथाविधा कावेरी अवभाति । अहो इत्याश्चर्ये ॥ ३५ ॥
भात्यत्र पश्य रविणा कटके सुवेलशैलस्य काञ्चनशिला सकलामलश्रीः ।
वेलावलोलवरुणालयवीचिभङ्गपर्यस्तवाडवकृशानुकणोपमाना ॥ ३६ ॥
हे राजन् अत्र सुवेलशैलस्य कटके सकला काञ्चनशिला रविणा प्रद्योत्यमाना
वेलास्ववलोलस्य वरुणालयस्य वीचिभङ्गैः पर्यस्तस्य वाडवकृशानोर्वडवाग्नेः
कणा एवोपमानं यस्यास्तथाविधा भाति ॥ ३६ ॥
आसन्नपीनजलदावलितालयानां गेहोपशल्यपरिफुल्लवनद्रुमाणाम् ।
लक्ष्मीः पलाशपटलावलिताम्बराणां घोषौकसां समवलोकय पर्वतेषु ॥ ३७
॥
तथा पर्वतेषु आसन्नैः पीनैर्जलदैरावलितालयानां गेहोपशल्येषु गृहसीमान्तेषु
परिफुल्लवनद्रुमाणां तथा पलाशपटलैरावलिताम्बराणां
घोषौकसामाभीरपल्लीगृहाणां लक्ष्मीः समवलोकय ॥ ३७ ॥
उन्निद्रपुष्पपटुपाण्डुरपुष्पखण्डा
मन्दारभाण्डविशिखण्डिकरण्डकच्छाः ।
ग्रामाः प्रपातजलजालविलासवाद्या वल्गद्गुहागहनगीतजना जयन्ति ॥ ३८ ॥
तथा उन्निरैः पुष्पैः पटुपाण्डुरा अतिशुभ्राः पुष्पखण्डाः पुष्पवाटिका येषु ।
तथा मन्दारवृक्षा एव भाण्डानीव बहुतरपुष्पभाजनानि येषु तथाविधा
विविधशिखण्डिनां नृत्यस्थानत्वात्तत्करण्डप्रायाः कच्छा जलप्रायाः
शिशिरप्रदेशा येषु । तथा प्रपातेषु ऊर्ध्वदेशात्पततो जलजालस्य विलासा एव
शिखण्डिनां नृत्ये वाद्यानि येषु । तथा प्रतिध्वनिभिर्वल्गन्त्यो गुहा यत्र
तथाविधेषु गहनेषु गीतानि येषां तथाविधा जना येषु एवंविधा गिरिग्रामा जयन्ति
स्वर्गमिति शेषः ॥ ३८ ॥
उन्निद्रकन्दलदलान्तरलीयमानकूजन्मदान्धमधुपोन्मदपामराणाम् ।
मन्ये न सा भवति तुष्टिरिहामराणां या गोकुलेषु गिरिगह्वरिणां नराणाम् ॥ ३९ ॥
तदेव स्फुटयति - उन्निद्रेति । इह गिरिग्रामगोकुलेषु उन्निद्राणां सद्योविकसितानां
कन्दलानां मुकुलानां दलान्तरेषु गर्भेषु लीयमानैः
कूजद्भिर्मदान्धैर्मधुपैर्निरीक्षितैरुन्मदानामुद्दीपितकामानां पामराणामपि
गिरिगह्वरिणां नराणां घोषमिथुनानां या तुष्टिर्भवसि सा तुष्टिर्नन्दने
क्रीडतामप्यमराणां न भवतीति मन्ये ॥ ३९ ॥
भृङ्गावदोलितलताकुलकाननान्तर्गायत्पुलिन्ददयिताननदत्तनेत्रम् ।
लीलाकुला गतघृणं गिरिगह्वरेषु किं घ्नन्ति शत्रुमिव मुग्धमृगं
किराताः ॥ ४० ॥
भृङ्गैरवदोलिताभिर्दोलात्वेन कल्पिताभिर्लताभिराकुलकाननस्यान्तर्गिरिगह्वरेण
गायन्तीनां पुलिन्ददयितानामाननेषु दत्तनेत्रं यथा स्यात्तथा लीलासु
शृङ्गारचेष्टाभिराकुलाः किराता मुग्धमृगं शत्रुमिव गतघृणं
निर्दयं क्व किं कथं घ्नन्ति । अहो येषामन्यत्र दत्तद्दृष्टीनामन्यमनसां
चललक्ष्यवेधनपाटवमीदृशसमयेऽप्यतिनिर्दयत्वं चेत्यर्थः । अथवा
भृङ्गावदोलितलतासदृशपुलिन्दललनानामाननेषु
दत्तनेत्रत्वान्मुग्धमृगाणां
पुलिन्दललनानेत्रसौन्दर्यापहारित्वलतापल्लवाशित्वप्रतिसन्धानाच्छत्रुमिव
मन्यमाना दयायोग्यसमयेऽपि निर्दयं घ्नन्ति किमित्युत्प्रेक्षा ॥ ४० ॥
नानाविकासिकुसुमोत्करसारलब्धवल्लीदलावलनशीतलिताध्वगाङ्गाः ।
साम्भःप्रथप्रसरणेन तरत्तरङ्गा ग्रामा गिरीन्द्रगहनेषु जयन्ति चन्द्रम्
॥ ४१ ॥
किं च नानाविधेभ्यः कुसुमोत्करेभ्यो लब्धः शैत्यसौगन्ध्यपरागादिसारो येन
तथाविधस्य वायोर्वल्लीदलानां चावलनैः शीतलितानि अध्वगानामङ्गानि यैः ।
अम्भोभिः सह तद्गुणेन शैत्येन प्रथन्त इति साम्भःप्रथास्तथाविधानां
वायूनां प्रसरेण तरत्तरङ्गा जलाशया येषु तथाविधा ग्रामाः
सौरभ्यगुणाधिक्येन चन्द्रं जयन्ति । तथा च चन्द्रमण्डलस्थेभ्यो देवेभ्योऽपि
ग्रामवासिनां सुखाधिक्यमिति भावः ॥ ४१ ॥
कूजन्निर्जरवारयः परिसरत्प्रोन्निद्रतालद्रुमा
हेलोल्लासितपुष्पपल्लववलद्वल्लीवितानाम्बराः ।
पर्यन्तोन्नतसाललम्बिजलदा रम्या गिरिग्रामकाश्चन्द्राश्वत्थमितावनिं
शशिपुरस्योद्यानभागा इव ॥ ४२ ॥
पादत्रयं व्याख्यातम् । ईदृशा गिरिग्रामकाः शशिपुरस्य
स्वर्गस्थचन्द्रनगरस्ययान्युद्यानानि तद्भागा इव सोश्वत्थः सोमसवनः इति
श्रुतेश्चान्द्रामृतस्राविणा अश्वत्थेन मितां ब्रह्मलोकावनिं च जयन्तीत्यनुषज्यते
॥ ४२ ॥
आसन्नपीतघनघर्घरमेघनादनृत्यच्छिखण्डिनवताण्डवविप्रकीर्णैः ।
ग्रामाः कलापिकुलकोमलबर्हखण्डैः प्रोड्डीनचन्द्रकमणिप्रकरा जयन्ति ॥
४३ ॥
किञ्चैते गिरिग्रामा आसन्नाः पीता विद्युतो येषां तथाविधानां घनघर्घराणां
मेघानां नादैर्नृत्यतां शिखण्डिनां नवताण्डवेषु विप्रकीर्णैः
कलापिकुलानां कोमलैर्बर्हखण्डैः प्रोड्डीनाश्चन्द्रकलक्षणा मणिप्रकरा येषु
तथाविधाः सन्तो जयन्ति प्रागुक्तमित्यर्थः ॥ ४३ ॥
पार्श्वस्थचारुशशिमण्डलमण्डनेषु विश्रान्तवारिगुरुवारिदवारणेषु ।
ग्रामेषु या गिरितटेषु विलासलक्ष्मी राज्येषु सा विभववत्सु कुतो विरिञ्चे ॥ ४४ ॥
किञ्चैकपार्श्वस्थं यच्चारुशशिमण्डलं तदेव मण्डनं येषाम् । एकपार्श्वे च
विश्रान्ता वारिगुरवो वारिदवारणा येषु तथाविधेषु गिरितटेषु स्थितेषु ग्रामेषु या
विलासलक्ष्मीः सा विभववत्सु विरिञ्चेः राज्येष्वपि कुतः । दुर्लभेत्यर्थः ॥ ४४ ॥
स्वामोदनन्दनवनान्तरसुन्दरेषु सन्तानकस्तबकहासिनिकुञ्जकेषु ।
उन्निद्रमन्द्रमधुपाकुलपारिभद्रसान्द्रद्रुमेष्वभिरमे गिरिगह्वरेषु ॥ ४५ ॥
स्वामोदनन्दनवनान्तरमिव सुन्दरेषु । सन्तानकस्य कल्पवृक्षभेदस्य
स्तबकान्हसन्ति तच्छीला निकुञ्जका येषु। उन्निद्रा। पुष्पिता मन्द्रध्वनिमधुपाकुलाः
पारिभद्र निम्बतरुरूपाः सान्द्रा द्रुमाः येषु तथाविधेषु गिरिगह्वरेष्वहन्न्
अभिरमे ॥ ४५ ॥
हरिणीरावरम्येषु हारिहारीतहारिषु ।
गिरिग्रामेषु पुष्पेषुपुरेष्विव रतिर्नृणाम् ॥ ४६ ॥
पुष्पेषुर्मन्मथस्तत्पुरेष्विव ॥ ४६ ॥
स्फाटिकस्तम्भसम्भाररम्यनिर्झरवारिणि ।
नृत्यन्त्येताः शिखण्डिन्यः पश्यास्मिन्ग्रामगह्वरे ॥ ४७ ॥
स्फाटिकस्तम्भानां सम्भारा इव रम्याणि धारापातीनि निर्झरवारीणि येषु ॥ ४७ ॥
शिखण्डिन्यो विलासिन्यः पुष्पभारनता लताः ।
अत्र नृत्यन्ति कुञ्जेषु रणनिर्झरपुष्करे ॥ ४८ ॥
रणन्ति ध्वनन्ति निर्झरपुष्कराणि निर्झरजलानि यस्मिंस्तथाविधे अत्र ग्रामगह्वरे ॥
४८ ॥
हारीतहारिहरितोपवनद्रुमासु वापीप्रमाणरणितामलकाकलीषु ।
ग्रामस्थलीषु गिरिगह्वरगोपितासु मन्ये मुदैष रमते स्वरसेन कामः ॥ ४९ ॥
हारीतैः पक्षिभेदैर्हारिणो मनोहरा हरिता उपवनद्रुमा यासु । तथा वापीप्रमाणेन
हंससारसादिरणितलक्षणा अमलाः काकल्यो यासु । गिरिगह्वरैर्गोपितासु व्यवहितासु
ग्रामस्थलीषु एष सर्वजगत्प्रसिद्धः कामो मुदा स्वरसेन रमते इति मन्ये ॥ ४९ ॥
श्रीमद्वृत्तमहाशयातपहरप्रोच्चैर्गभीराकृते भूभृन्मूर्धसु
भूषणं भवसि भो भूमे रसैकास्पदम् ।
एतत्तु क्षपयेन्मनांसि यदिदं मेघ त्वया वर्षता
हर्षादूषरपल्वलस्थलतरुष्वम्भोविभागक्रमः ॥ ५० ॥
आसर्गसमाप्तेरित आरभ्य प्रायेणान्यापदेशा बोध्याः । हे श्रीमतां वृत्तमिव
वृत्तं महौदार्यं यस्य तथाविध जगत्परिपालनेप्सुत्वान्महाशय आतपहरा
प्रोच्चैरुन्नता गभीरा च आकृतिः शरीरं यस्य तथाविध भो मेघ त्वं
भूभृतां पर्वतानां मूर्धसु भूषणं भवसि । तथा भूमेः
क्षेत्रारामादिसम्पत्तिहेतोः रसस्य जलस्यैकास्पदमसि । एवं सद्गुणंसहस्रवतापि
हर्षाद्वर्षता त्वया यदपात्रभूतेषु ऊषरस्थलेषु पल्वलस्थलेषु
तत्रत्यकण्टकादितरुषु च सुक्षेत्रसाम्येन अम्भोविभागक्रम आस्थित एतत्ते
सदसत्पात्रविभागापरिज्ञानं तु सतां मनः क्षपयेत्पीडयेत् । यदि भवादृशा
महान्तोऽपि सुपात्रगुणोत्कर्ष न मानयन्ति तर्ह्यन्ये के मानयिष्यन्तीति भावः ॥ ५० ॥
नित्यं स्नासि सुतीर्थवारिविसरैरुच्चैःपदस्थोऽम्बुदः
शुद्धः सन्विपिनावनौ निवससि प्रारब्धमौनव्रतः ।
रिक्तस्याप्यतिकान्तिरेव भवतः कायाश्रया लक्ष्यते प्रोत्थायाशनिमातनोषि
किमिदं तुच्छन्न् तवाचेष्टितम् ॥ ५१ ॥
दानप्रारम्भादिकाले रुक्षकटु कर्णकठोरजल्पनं तु दातॄणां महान्दुःसहो
दोष इत्याशयेनाह - नित्यमिति । हे मेघ त्वं सुतीर्थानां समुद्रगङ्गादीनां
वारिविसरैर्नित्यं स्नासि । तथा उच्चैःपदस्थः सर्वप्राणिनामम्बु ददासित्यम्बुदः ।
किं च शुद्धः सन् विपिनावनौ प्रारभौ मौनं मुनिसम्बन्धि व्रतं येन
तथाविधो निवससि । किं च शरदि रिक्तस्यापि भवतः अतिशयिता धवलकान्तिरेव
कायाश्रया दृश्यते । ईदृशोऽपि त्वं दानार्थमुत्थाय अशनिं
विद्युदग्निपुरःसरं कटुध्वनिमातनोषि । इदं तुच्छं क्षुद्रोचितं तव आचेष्टितं
किम् । सर्वथा अनुचितमेवेत्यर्थः ॥ ५१ ॥
वस्त्वस्थानगतं सर्वं शुभमप्यशुभं भवेत् ।
दुर्मेघं स्थानमासाद्य वारि त्वसिततां गतम् ॥ ५२ ॥
तटस्थ आह - वस्त्विति । शुभमपि वस्तु अयोग्यस्थानगतं सदशुभं भवेत् । वारि
तु इति च्छेदः ॥ ५२ ॥
अहो नु मेघेन जलं विमुक्तमहो नु तोयेन विपूरिता भूः ।
अहो नु भूमौ परिपोषितश्च जलैर्धनाढ्यैः प्रणयीव दीनः ॥ ५३ ॥
दीनो दरिद्रः प्रणयी सुहृदिव भूमौ म्लानसस्यादिः परितोषितश्च ॥ ५३ ॥
नैर्घृण्यमस्थैर्यमथाशुचित्वं रथ्याचरत्वं परिकुत्सितत्वम् ।
श्वभ्यो गृहीतं किमु नाम मूर्खैर्मूर्खेभ्य एवाथ शुना न जाने ॥ ५४ ॥
दयौदार्यादिगुणवर्णनप्रसङ्गात्तद्विपरीतनैर्घृण्यादिशालिनो मूर्खान्
कश्चिच्छ्वगुणविनिमयसन्देहप्रदर्शनेन निन्दति - निर्घृण्यमिति ॥ ५४ ॥
गुणैः कतिपयैरेव बहुदोषोऽपि कस्यचित् ।
उपादेयो भवत्येव शौर्यसन्तोषभक्तिभिः ॥ ५५ ॥
यदि मूर्खो निन्द्य एव तर्हि कथं महीपास्तं सङ्गृह्णन्ति तत्राह - गुणैरिति ।
श्वेव मूर्खोऽपि शौर्यादिगुणैः कस्यचित्कुनृपादेरुपादेयो भवति ॥ ५५ ॥
उन्मत्तमत्तपतनोन्मुखधावमानमानाधिकान्विषयवीथिषु दत्तमूर्तिः
[अत्र मुक्तमूर्तिः इति पाठः ।] ।
यन्मन्यते तृणलवाग्र विलोकयेच्छासत्त्वं जडत्वमुत वास्य विचार्यतां तत् ॥
५६ ॥
विषयवीथिषु भोगपरम्परासु दत्तमूर्तिः प्रसञ्जितशरीरो विषयलम्पटो मूर्खो
धत्तूरादिभक्षणेनोन्मत्तान्मदिरादिना मत्तान्प्रमादक्रोधावेशादिना
कूपादिपतनोन्मुखान्पिशाचाद्यावेशेन धावमानांस्तत्त्वज्ञानप्रकर्षेण
देहादिपरिच्छेदविस्मरणादहं ब्रह्मेति सर्वोत्कृष्टप्रमाणप्रतिष्ठानाच्च
मानाधिकान्षष्ठादिभूमिकारूढांश्च स्वाभिज्ञतारोपेण यत्तृणं मन्यते । हे
तृणलवाग्र तत् त्वमेव विलोकय । अस्य विषयलम्पटस्य इच्छासत्त्वमुत वा जडत्वमिति
तद्रहस्यं विचार्यताम् । यदीच्छासत्त्वं तर्हि स एव श्वभिस्तुल्यः । यदि जडत्वं तर्हि
तृणलवाग्रादपि विषयलाम्पट्यादिदोषाधिक्यात्ततोऽपि स्वयं नीच इति तृणसाम्यमपि
तस्य दुर्लभतरमिति विचारे फलिष्यतीति उन्मत्तादिभ्यो नीचत्वं तस्य किं
वाच्यमित्यर्थः ॥ ५६ ॥
कोलाहलः समानेऽपि तिर्यक्त्वे क्षुब्धमानसैः ।
अन्यथा सह्यते सिंहैर्मीलितैरन्यथा श्वभिः ॥ ५७ ॥
घनगर्जितादिकोलाहलः सिंहैरक्षुब्धमानसैरनादरान्मीलिताक्षैः सह्यते श्वभिस्तु
क्षुब्धमानसैर्भयान्मीलिताक्षैः सह्यत इत्युभयत्रान्यथात्वमिति भावः ॥ ५७ ॥
नित्याशुचे प्रियजने भषणैकनिष्ठ रथ्यान्तरभ्रमणनीतसमस्तकाल ।
कौलेयकाशयसमानतयैव मन्ये मूर्खेण केनचिदहो बत शिक्षितोसि ॥ ५८ ॥
हे कौलेयक श्वन् आशयश्चित्तवृत्तिस्तेन समानतया स्वगुणशिक्षायोग्यं त्वां
मन्यमानेन केनचिन्मूर्खेण नित्याशुचित्वादीन्स्वगुणांस्त्वं शिक्षितोऽसि । मन्ये इति
पूर्वोक्ते सन्देहे निर्णयः । तथा हि सति शिष्याद्गुरोर्गुणाधिक्यदर्शनमुपपद्यत इति
भावः ॥ ५८ ॥
नित्यं सर्वं जगदसदृशं कुर्वतोच्चैर्विधात्रा दौहित्रेऽस्मिञ्छुनि
समदृशे निर्मितं सर्वमेव ।
वासोऽमेध्यावकरकुहरे भोजनं गूथपूयं सर्वालोके कुरतिकुरतिः
सर्वनिन्द्यं शरीरम् ॥ ५९ ॥
असदृशं कर्म वैषम्याद्विषमं जगत्कुर्वता विधात्रा दौहित्रे दुहितुः
सरमाख्याया देवशुन्या अपत्यभूतेऽस्मिन्शुनि समानामनुरूपाणां
सर्वधर्माणां दृशे दर्शनाय सर्वमेव वक्ष्यमाणं समं निर्मितम् । किं
तत्सर्व तदाह - वास इति । अमेध्ये अवकरस्य स्वनिर्मिते कुहरे गर्तकुलाये । गूथं
पुरीषं पूयं च भोजनम् । सर्वैर्जनैरालोक्यत इति सर्वलोको रथ्यामार्गस्तस्मिन्कुत्सिता
चिरग्रन्थिला या रतिर्मैथुनं तद्विषये कुरतिर्दुरिच्छा तथा सर्वैर्निन्द्यं शरीरं
चेति सर्वमित्यर्थः ॥ ५९ ॥
त्वत्तः कोऽधम इत्युदीरितवते श्वोवाच हासान्वितं मत्तो
मौर्ख्यममेध्यमान्ध्यमशुभं यः सेवते सोधिकः ।
शौर्यं भक्तिरकृत्रिमा धृतिरिति श्रीमान्गुणो योस्ति मे मूर्खादेष गुणः
प्रयत्ननिचयैरन्विष्य नो लभ्यते ॥ ६० ॥
उदीरितवते पृष्टवते पुरुषाय श्वा हासान्वितं यथा स्यात्तथा उवाच ।
मौर्ख्यमज्ञानम् । अमेध्यमपवित्रं देहाद्यभिमानम् । आन्ध्यं
विचारनेत्रराहित्यम् । तर्हि तव मूर्खापेक्षया कैर्गुणैराधिक्यं तानाह -
शौर्यमिति । धृतिरल्पसन्तोषः । एष गुणकदम्बश्चिरमन्विष्यापि दर्शने
मूर्खान्नो लभ्यते अतः स मत्तोऽधम इत्यर्थः ॥ ६० ॥
भुङ्क्तेऽमेध्यममेध्य एव रमते नित्यं महावस्करे तूष्णीमत्ति सचेतनं
कृतरतिर्निश्चेतनं कृन्तति ।
सर्वैरेत्य रते शुनीविवलिते लोष्टैर्जनैस्ताड्यते धात्रा खेलसमन्वितस्थितिरलं
लोके कृतो नेश्वरः ॥ ६१ ॥
अवस्करे पुरीषे । वर्चस्केऽवस्करः इति सुट् । सचेतनं सजीवमपि नकुलमूषकादि
दैवाल्लब्ध्वा तूष्णीं निरपराधमेवात्ति । निश्चेतनं निर्बलं च छागवत्सादि तूष्णी
निरपराधमेव कृन्तति दशति । शुनीविवलिते रते प्रसक्तः सर्वैर्जनैरेत्य
लोष्टैस्ताड्यते । एवमलमत्यन्तं नेश्वरः असमर्थः श्वा धात्रा खेलनं खेलो
दुर्विलासकौतुकं तेन समन्विता यावदायुःस्थितिर्यस्य तथाविधः कृत इत्यर्थः ।
श्वेव समन्वितस्थितिः इति पाठे नेश्वरः सेवकः ॥ ६१ ॥
लिङ्गस्योर्ध्वं रटत्काक आत्मानं दर्शयत्ययम् ।
सर्वाधःपातकोत्तुङ्गगतं पश्यत मामिति ॥ ६२ ॥
क्वचिन्नदीतीरे निर्माल्याक्षतभक्षणाय शिवलिङ्गस्योर्ध्व रटन्तं काकं दृष्ट्वा
कश्चित्तद्रटनतात्पर्यमुत्प्रेक्षते - लिङ्गस्येति । आत्मानं स्वं दर्शयति
निदर्शयति । किमिति निदर्शयति तदाह - सर्वेषामध पातकानामधोगतिहेतूनां
मध्ये यदुत्तुङ्गं शिवस्वभक्षणाय शिवलिङ्गाश्रयणं तद्गतं मां
प्रत्यक्षं काकभूतं पश्यतेति ॥ ६२ ॥
काकक कटुकल्कारव कबलितगुणकर्दमे भ्रमन्सरसि ।
अन्तरयसि मधुपरवं यदतो मे शिरसि फलभूतः ॥ ६३ ॥
अपरः सरसि रटन्तं भ्रमन्तं काकमपदिश्याह - काककेति । हे कुत्सितकाक
काकक कटुभिः कल्कारवैर्दम्भध्वनिभिः कवलिता हंससारसादिगुणा येन
तथाविध त्वं सरसि कर्दभे भ्रमन्सन् मधुपानां रवमन्तरयसि
स्वकटुकरवैर्यदन्तर्धत्से अतो हेतोर्मे शिरसि वेदनाहेतुत्वात्फलभूतः शल्यभूतोऽसि
॥ ६३ ॥
कवलयति नरकनिकरं परिहरति मृणालिकां ध्वाङ्क्षः ।
यदतोऽस्तु मा स्मयस्ते स्वभ्यस्तं सर्वदा स्वदते ॥ ६४ ॥
सखायं प्रति कश्चिदाह - कवलयतीति । ध्वाङ्क्षः काको नरकनिकरं
नानाविधममेध्यं कवलयति मृणालिकां प्राप्तामपि परिहरतीति यत् अतस्ते स्मयो
विस्मयो मास्तु । यतः कुत्सितमपि खाद्यं व्यसनितया स्वभ्यस्तं चेत्तदेव सर्वदा
स्वदते । यथा लशुनोपस्कृतं व्यञ्जनं तद्भुजामित्यर्थः ॥ ६४ ॥
विविधवनकुसुमकेसरध्वलवपुर्हम्स इव दृष्टः ।
काकः कृमिकुलकवलं क्लिन्नमथो कवलयन् ज्ञातः ॥ ६५ ॥
विविधानां वनकुसुमानां केसरैः केसरस्थैः परागैर्ध्वलवपुः काको भ्रान्त्या
हम्स इति दृष्टः । इत्यर्थे इवशब्दः । अथो अनन्तरं क्लिन्नं कृमिकुलकवलं
कवलयन् काको ज्ञातं ॥ ६५ ॥
तुल्यवर्णच्छदैः कृष्णः सङ्गतैः किल कोकिलैः ।
केन विज्ञायते काकः स्वयं यदि न भाषते ॥ ६६ ॥
अरण्यान्या मृदः स्थाणौ स्थितः काको निरीक्षते ।
चैत्याद्दशदिशश्चोरो निशि सुप्ते जने यथा ॥ ६७ ॥
अरण्यान्या महारण्यस्य मृदः स्थाणौ मृन्मयजीर्णभित्तिस्तम्भे स्थितोऽयं काको
यथा निशि सुप्ते जने चोरश्चैत्यवृक्षमारुह्य दशदिशो निरीक्षते तद्वन्निरीक्षत
इत्यर्थः ॥ ६७ ॥
सरभससारसविदलत्पुष्करमकरन्दसुन्दरे सरसि ।
कथमिह विहरति काकः स्फुरदवकरनिकरधूसरस्कन्धः ॥ ६८ ॥
सरभसैः सारसैर्विदलतां पुष्कराणां पद्मानां मकरन्दैश्च सुन्दरे इह सरसि
स्फुरता वायुनोद्धूयमानधूलिना अवकरेण धूसरः स्कन्धो यस्य तथाविधः
काकः कथं विहरति । अनुचितमिदमित्यर्थः ॥ ६८ ॥
हा कष्टमिष्टवपुषि स्फुटपुण्डरीककोशे कषाहननयोग्यमुखः पिशाचः ।
पश्यैष काक उपविश्य कुपल्वलेऽस्मिन् लीलाः करोति विदिधाः सह राजहंसैः ॥ ६९
॥
स्फुटानां विकसितानां पुण्डरीकणां कोशे इष्टवपुषि अभिमतस्वरूपे सरसि स्थितै
राजहंसैः सह एषः कषन्तीति कषाः शिलास्ताभिराहननयोग्यं मुखं यस्य
तथाविधः काकः पिशाचः अस्मिन् कुपल्वले उपविश्य राजहंसविडम्बनाय विविधा
लीलाः करोति हा कष्टं हे राजन् त्वं पश्य ॥ ६९ ॥
हे काक कर्कशरव क्रकचैकचिह्न तादृक्स्वशङ्कनमपि क्व नु तेऽद्य यातम्
।
कस्मादनर्थकमिदं पिकपाकमेकपुत्राशया तदपि ते ह्युपहाससिद्ध्यै ॥ ७० ॥
वञ्चनापहारादिना स्वलभ्यधनादिभागं न्याय्येनोपायेन साधुर्मा प्रापदिति
शङ्कया तन्निरासाय राजसभासु कटु रटन्तं खलं प्रत्यन्यापदेशेन कश्चिदाह
- हे काकेति । कर्कशरवलक्षणो यः श्रोतृकर्णविदारणः क्रकचः स एवैकं
चिह्नं यस्य तथाविध हे काकस्वभागमकाको मा भुङ्क्तामिति शङ्कया सदा
काकानेवाह्वयंस्त्वं रटसि तत्ते तादृक् स्वशङ्कनमद्य क्व नु यातम् । त्वमेकः
पुत्रो मे जीवत्वित्याशया पिकस्य कोकिलस्य पाकमर्भकं कस्मादनर्थकं व्यर्थ
पुष्णासि । हि यस्माद्धेतोः कटुभाषणैकशीलस्य तद्भ्रान्त्या क्रियमाणमपि
सुस्वरपिकपोषणं न मनोरथसिद्ध्यै किन्तु उपहाससिद्ध्यै भविष्यतीत्यर्थः ॥ ७० ॥
आलोक्य पङ्कजवने सविलासवन्तं काकं कलङ्कसदृशं
भृशमारटन्तम् ।
हा कष्टशब्दशतनष्टविचेष्टितो यो नो रोदिति क्रकचकेन विदार्यतां सः ॥ ७१ ॥
काकमालोक्य कश्चिदाहेति शेषः । किमाह तदाह - हा इति । हे काक यः पुरुषस्तव
खलानां वा कष्टैः क्रूरैः शब्दशतैः श्रुतैः खेदान्नष्टविचेष्टितः सन् नो रोदिति
स पुरुषस्त्वया कटुरवक्रकचकेन विदार्यताम् । अहं तु न तथेति किमर्थ
रटसीत्यर्थः ॥ ७१ ॥
विशरारुशरारुमये बकमद्गुघने च पल्वले चपलाः ।
स्युर्यदि कौशिककाकास्तत्स्यादेषा समन्विता गोष्ठी ॥ ७२ ॥
खलसभायामन्येऽपि खला एव योग्या नैकोऽपि साधुरित्यन्यापदेशेनाह -
विशरार्विति । विशरारुभिः सञ्चरद्भिः शरारुभिर्हिस्रैः प्रचुरे
बकैर्मद्गुभिर्जलकाकैश्च घने पल्वले यदि चपलाः कौशिका उलूकाः काकाश्च
स्युस्तत्तर्हि एषा पल्वलरूपा गोष्ठी सभातद्योग्यैः समन्विता स्यात् । कौशिककाका इत्यत्र
सतोपि विरोधस्याविवक्षितत्वात् येषां च विरोधः शाश्वतिकः इति द्वन्द्वैकवद्भावो न
कृतः । शकुनिद्वन्द्वैकवद्भावस्तु वैकल्पितः ॥ ७२ ॥
कोकिलः काकसङ्घातैः समसंवरणाकृतिः [समवर्णाननाकृतिः इति
पाठः ।] ।
गदितैर्व्यक्ततामेति सभायामिव पण्डितः ॥ ७३ ॥
वर्णतः समाः संवरणाः शरीराच्छादकाः पक्षा आकृतिः संस्थानं च यस्य ।
गदितैर्व्यक्तवाग्भिः ॥ ७३ ॥
मृदुकुसुमाङ्कुरदलनं सोढुमलं कोकिलस्य कुसुमलता ।
न तु कङ्कगृध्रमद्गुकबककुक्कुटवायसादीनाम् ॥ ७४ ॥
साधूनामपराधोऽपि सोढुं शक्यः खलानां तु सम्बन्ध एव दुःसह
इत्याशयेनाह - मृद्विति । वायसादीनां संस्पर्शमपीति शेषः ॥ ७४ ॥
श्रोत्रोत्सवं तव कलं कलकण्ठ कोऽत्र नादं शृणोति
रतिविग्रहसन्धिदूतम् ।
काकैरुलूककलहैरिह गुल्मकेषु क्रेङ्कारघर्घररवैः श्रुतिरागतास्तम् ॥ ७५ ॥
खलसभायां सद्विद्योपन्यासोत्सुकं जनं प्रति कश्चिदाह - श्रोत्रेति । हे
कलकण्ठ कोकिल अत्र दम्पत्योः रतिविग्रहे मानादिनिमित्ते प्रणयकलहे सन्धौ
सन्धाने दूतभूतं कलं मधुरमत एव श्रोत्रोत्सवभूतं तव नादं कः
शृणोति । यतः इह पिचुमन्दगुल्मकेषु उलूकैः सह सदैव कलहो येषां तथाविधैः
काकैः क्रेङ्कारघर्घररवैः सर्वेषां श्रुतिः श्रोत्रेन्द्रियमस्तमागतां
बहिरतां गतेति यावत् ॥ ७५ ॥
वाचाकोमलया सुकोकिलशिशुः कल्याणकल्पां कथां सर्वावर्जनमार्जवेन
कुरुते यावत्पुरो रागिणाम् ।
तावन्मत्तनयोऽयमित्यविरतं द्राङ्कारभीमारवैर्ध्वाङ्क्षेणोपवने निपत्य
नभसः सर्वे कृता नीरसाः ॥ ७६ ॥
उपवने रागिणां श्रवणानुरागवतां पुरःसु कोकिलशिशुः कोमलया वाचा
कल्याणं महोत्सवस्तत्कल्पां कथां कृत्वा यावदार्जवेन सर्वेषां
श्रोतॄणामावर्जनं मनोरञ्जनं कुरुते तावद्ध्वाङ्क्षेणोपनिपत्य अयं
कोकिलशिशुर्मत्तनयो मम पुत्रो मया पुष्टो मयोज्जीवित इत्यादिभिर्द्राङ्कारो
न्यक्कारस्तद्रूपैर्भीमैरारवैः सर्वे श्रोतारो नीरसा निरुत्साहाः कृताः ॥ ७६ ॥
किं किं कोकिल कूजसि द्रुतरवं हर्षात्समुल्लासितं ग्रीवाकोटरतः प्रवेशय
पुनर्मा भूच्चिरं ते भ्रमः ।
उहामैः कुसुमैर्निरन्तरतरं नेदं मधोर्जृम्भितं हेमन्तेन
कृतास्तुषारनिकरैः शुष्का अमी पादपाः ॥ ७७ ॥
आयोग्येषु श्रोतृष्वसमये योग्यतादिभमेण स्वगुणप्रदर्शनोत्सुकं
कञ्चित्प्रत्यपर आह किं किमिति । हे कोकिल त्वं श्रोतॄणां योग्यतादिकमविचार्यैव
स्वगुणप्रख्यापनौत्सुक्यप्रयुक्ताद्धर्षात् द्रुतरवं किं किं कूजसि । अबाधे
द्विर्वचनम् । ग्रीवाकोटरतो हर्षात्प्रवृत्तं समुल्लासितं कूजनसमुल्लासं
पुनरन्तः प्रवेशय । ते चिरमयं गुणोपन्या सकाल एते च श्रवणयोग्या इति भ्रमो
मा भूत् । इदं उद्दामैः कुसुमैर्निरन्तरतरं मधोर्वसन्तस्य जृम्भितं न किन्तु
हेमन्तेन अमी पादपास्तुषारनिकरैः शुष्काः कृताः । तथा च नैतेषु त्वद्गिरां
साफल्यमित्यर्थः ॥ ७७ ॥
कूजत्कोकिल कोमलं कलरवैर्नित्यं प्रशस्ताकृते केनेदं बत शिक्षितोसि
वचनं दुःखप्रदं दुर्भगम् ।
चैत्रे चित्रनवाङ्कुरे विरहिणी वक्ति त्वया यात्मनः कस्यायं मधुरित्यतस्तव
तवेत्युक्तं त्वरोच्चैस्तरोः ॥ ७८ ॥
चित्रा नव अङ्कुरा यस्मिंस्तथाविधे चैत्रे मासि या विरहिणी सा वक्ति । किं वक्ति । नित्यं
प्रशस्ता कृते हे कूजत्कोकिल अयं मधुश्चैत्रो मासः कस्येत्यतः
अस्मान्मत्प्रश्नात्त्वया आत्मनः स्वस्य मधुस्तरोः सकाशात्त्वरोच्चैस्तव तवेति
कलरवैः कोमलं यदुक्तमिदं दुःखप्रदं दुर्भगमनृतं वचनं केन
शिक्षितोऽसि । बतेति खेदे । न हि विरहदुःखिताया मम मधुः किन्तु प्रियया सह कलं
गायतस्तवैव एवं च मम ममेति वक्तव्ये तव तवेत्यनृतोक्तिर्मत्पीडनायैव
तवेत्यर्थः ॥ ७८ ॥
मौनस्पन्दविहारवर्णवपुषां साम्येऽपि काकव्रजेऽकाकः कोकिल एष कान्तिरुचिरो
दूरात्परिज्ञायते ।
मध्ये मूर्खजनस्य पण्डित इव स्वाकारभव्यक्रियः सर्वो हि प्रथिमानमेति
सदृशस्वान्तश्चमत्कारतः ॥ ७९ ॥
काकव्रजे काकसमूहे मौनस्पन्दस्य पक्षादिचलनस्य विहारस्य वर्णस्य वपुषो
गात्रस्य च साम्येऽपि कान्तिरुचिर एष कोकिलो मूर्खजनस्य मध्ये पण्डित इव दूरादेव
अकाकः परिज्ञायते परिचीयते । तथा हि । सर्वोऽपि स्वाकारसूचितभव्यक्रियः पुरुषः
सदृशाद्युक्तात्स्वान्तश्चमत्कारतो निगूढोऽपि प्रथिमानं प्रख्यातिं एति ॥ ७९ ॥
भ्रातः कोकिल कूजितैरलमलं नायात्यनर्घ्यो गुणस्तूष्णीमास्व
विशीर्णपर्णपटलच्छन्ने क्वचित्कोटरे ।
उद्दामद्रुमकन्दरे कटुरटत्काकावलीसङ्कुलः कालोयं शिशिरस्य सम्प्रति
सखेनायं वसन्तोत्सवः ॥ ८० ॥
हे सखे भ्रातः कोकिल अयं कटुरटत्काकावलीसङ्कुलः शिशिरस्य कालो वसन्तोत्सवो न
। सम्प्रति कूजितैरनर्घ्यो गुणो नायाति अतः कूजितैरलमलम् । क्वचिदुद्दामद्रुमकन्दरे
विशीर्णैः पर्णपटलैश्छन्ने कोटरे तूष्णीमास्व ॥ ८० ॥
चित्रं मातरमेष कोकिलशिशुः सन्त्यज्य काकीं गतः सैषेनं तुदतीति
यावदहमप्याचिन्तयामि क्षणम् ।
तावत्सोऽपि तथाशु मातृसदृशं श्लिष्टो रसाद्वर्धितुं यामायाति दिशं
स्वभावसुभगः सैवास्य माहात्म्यदा ॥ ८१ ॥
तत्राश्चर्याणि दर्शयति - चित्रमिति । एष कोकिलशिशुः काकीं मातरं सन्त्यज्य
यद्गतस्तदेकं चित्रम् । तदुत्तरं सैषा काकी माता एनं कोकिलशिशुं चञ्चुचरणेन
तुदति इत्यपरं चित्रमित्यहं क्षणं यावदाचिन्तयामि तावत्स कोकिलशुशुरपि
रसादुत्साहान्मातृसदृशं वर्धितुं श्लिष्ट उद्युक्तोऽभूदित्यपरं चित्रम् । तथा हि
। स्वभावसुभगो भाग्यवान् जनो यां दिशमायाति सैव दिगस्य माहात्म्यदा
सम्पद्यत इत्यर्थः ॥ ८१ ॥
इत्यार्षे श्रीवा० वा० दे० मो० निर्वा० उ० अवि० विपश्चि० श्वकाककोकिलान्योक्तिवर्णनं
नाम षोडशाधिकशततमः सर्गः ॥ ११६ ॥
इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे निर्वाणप्रकरणे उत्तरार्धे
श्वकाककोकिलान्योक्तिवर्णनं नाम षोडशाधिकशततमः सर्गः ॥ ११६ ॥