११५

पञ्चदशाधिकशततमः सर्गः ११५

पार्श्वगा ऊचुः ।

अत्रोत्तमाशय लतावलयालयेषु लीलाविलोलललनाः कलयन्ति गीतम् ।
उद्दामभावरसविस्मृतवासरेहा विश्रम्य किन्नरगणाः कलकाकलीकम् ॥ १ ॥

वर्ण्यन्तेऽत्र चतुर्दिक्षु वनानि गिरयो नगाः ।
नद्यः समुद्राः पवनपक्षिग्रामघनादयः ॥

हे उत्तमाशय अत्रास्मिन् गिरौ लीलासु विलोला आसक्ता ललना येषां तथाविधाः
किन्नरगणा उद्दामैर्भावैः सञ्चारिभावैः रसैः सम्भोगशृङ्गाररसैश्च
विस्मृता वासरेहा दिनचेष्टालक्षणः कालो यैस्तथाविधाः सन्तो विश्रम्य कलाः
काकल्यो यस्मिस्तथाविधं गीतं कलयन्ति गायन्ति शृण्वन्ति च ॥ १ ॥

एते हिमाद्रिमलयाचलविन्ध्यसह्यक्रौञ्चा महेन्द्रमधुमन्दरदर्दुराद्याः ।
दूरस्थिता दृशि सिताभ्रपटा वहन्ति संशुष्कपर्णलवलाञ्छितलोष्टलीलाम् ॥ २

अत्युन्नता अपि गिरयो दूराद्दृश्यमाना अल्पवद्भान्तीत्याह - एते । एते
हिमाद्रिमलयाद्याः सिताभ्रपटाः शैला दूरस्थिताः सन्तो दृशि प्रेक्षकदृष्टौ
संशुष्कपर्णलवलाञ्छितानां लोष्टानां लीलां साम्यं वहन्ति पश्य ॥ २ ॥

अमी दूरालोकव्यवहितमहावर्त्मनिचयाः पुरःप्राकाराणां कुलशिखरिणो
बिभ्रति वपुः ।
विशन्तीरम्भोधिं कलय लुलिता भान्ति सरितः पटस्यान्तः सक्ताः
प्रतनुसितसूत्रा इव दशाः ॥ ३ ॥

किञ्चामी कुलशिखरिणो दूरादालोकनमालोकस्तस्मिन् अपारे परेषां व्यवहिता
अन्तरालदेशवर्त्मनिचया येषां तथाविधा सन्तः परस्परसंलग्नतया परितो
दृश्यमानाः पुरःप्राकाराणां वपुर्बिभ्रति । तथा अम्भोधि विशन्तीः
प्रवेशत्वरया च लुलिताः सरितः पटस्यान्तः सक्ताः प्रतनुसितसूत्रा दशा इव भान्ति ॥
३ ॥

दशाशाः शैलानामुपरि परितः प्रावृतघना घनश्यामाकाराः
खगकलकलालापलपिताः ।
लतामुक्तैः पुष्पैर्ललितवनलेखाभुजलता हसन्त्यस्ते राजन्भवनवनिता भान्ति
पुरतः ॥ ४ ॥

हे राजन् परितः शैलानामुपरि प्रावृता घना मेघा याभिस्ताः घना इव
श्यामाकाराः । खगानां कलकलालापा एव लपितानि यासां ताः । तथा लताभिर्मुक्तैः
पुष्पैरुपलक्षिताः । ललिताः शोभमाना वनलेखालक्षणा भुजलता यासां तथाविधा
दश आशा दिशस्ते भवनवनिता राज्ञीर्हसन्त्य इव पुरतो भान्ति ॥ ४ ॥

तालीतमालबकुलाकुलतुङ्गशृङ्गमेकीकृताकृति वनं तरलं विभाति ।
अभ्याहतं जलनिधेस्तरलैस्तरङ्गैस्तीरान्तलग्नघनशैवलजालकल्पम् ॥ ५ ॥

ताल्यादिभिराकुलानि तुङ्गानि गिरिशृङ्गाणि यस्मिंस्तथाविधम् ।
दूराद्वप्रवद्भासमानेषु शैलेष्वेकीकृताकृति । पवनतरलं वनं
जलनिधेस्तरलैस्तरङ्गैरभ्याहतं तीरान्तलग्नघनशैवलजालकल्पं विभाति ।
ईषदसमाप्तिद्योतकेन कल्पपा सादृश्यस्य गम्यमानत्वाद्गम्यमानोपमा ॥ ५ ॥

इतः स्वपिति केशवः कुलमितस्तदीयद्विषामितोऽपि शरणार्थिनः शिखरिपत्रिणः
शेरते ।
इतोऽपि वडवानलः सह समस्तसंवर्तकैरहो विततमूर्जितं भरसहं च
सिन्धोर्वपुः ॥ ६ ॥

शिखरिणः पर्वतास्तल्लक्षणाः पत्रिणः पक्षिणः शेरते स्वपन्ति । शीङो रुट् । सिन्धोः
समुद्रस्य वपुर्विततं विस्तीर्णं ऊर्जितं बलवद्भरसहन्न् बहुभारसहिष्णु अहो
आश्चर्यमनुपममित्यर्थः ॥ ६ ॥

एते जम्बुनदीतटा रविकरैराभान्ति
हेमाखिलग्रामारण्यपुरस्थलीगिरितरुस्थाण्वग्रहारोच्चयाः ।
ज्वालालीवलिताम्बरान्तरलिहो मुञ्चन्ति भासोभितस्सर्वा भूमिप
भूरिहैवममरासेव्यास्ति नो मानुषैः ॥ ७ ॥

कश्चिदुत्तरदिशि प्रस्थितं विपश्चितं प्रति मेरुमूले सौवर्णान्
जम्बुनदीतटान्प्रदर्शयन्नाह - एते इति । हेमभूताः अखिला ग्रामादयो येषु
तथाविधा एते जम्बूनदीतटा रविकरैर्व्याप्ताः सन्तः अभितः आभान्ति ।
ज्वालालीवलिताम्बरान्तरलिहः सन्तः अभितो भासो मुञ्चन्ति । हे भूमिप इह एवम्भूता
सर्वा भूः अमरैर्देवैरासेव्या उपभोक्तुं योग्यास्ति मानुषैर्नो आसेव्येत्यर्थः ॥ ७ ॥

एते कदम्बवनकम्बलमम्बुदाभमाभान्ति भास्करपथानुगता वहन्तः ।
अस्याचलस्य वसुधेव तटं तवास्तु मा सूर्यरोधकनभस्थघनौघशङ्का ॥
८ ॥

अस्याचलस्य अम्बुदाभं कदम्बवनकम्बलं वहन्तो भास्करपथानुगता एते
अधित्यकाप्रदेशा आभान्ति । अतः एषु प्रदेशेषु तव वसुधेव इदमपि तटमिति
बुद्धिरस्तु । सूर्यरोधका नभस्था घनौघा एते इति शङ्का मास्त्वित्यर्थः ॥ ८ ॥

एषोऽसौ मलयो लयोग्रलवलीवल्लीलसच्चन्दनस्फीतामोदमदाद्रसेन तरवो वक्त्रे
क्रियन्ते त्रिभिः ।
सज्वालोदहनाक्षसंस्थितकपोलोष्मोदयोत्ताण्डवे
अङ्गुष्ठाङ्गुलिभिर्यथोष्णककणास्तप्ता यथा योषिताम् ॥ ९ ॥

अपरो दक्षिणदिक्प्रस्थिताय विपश्चिते मलयाद्रिं वर्णयन्दर्शयति - एष इति । एष
समीपे दृश्यमानो मलयोऽसावेवम्प्रभावः । यस्य अग्राभिः
श्रेष्ठाभिर्लवलीवल्लीभिर्लसतां चन्दनानां स्फीतादामोदमदादन्येऽपि तरवो रसेन
चन्दनीभूतास्त्रिभिरपि देवैर्मनुष्यैरसुरैश्च वक्त्रे मुखपद्मे अलय इव
तिलकीक्रियन्ते । किञ्चास्मादामोदमदात्सज्वाल ऊर्ध्वो ज्वलनः अक्षे तृतीयनेत्रे
संस्थितो यस्य तथाविधस्य रुद्रस्य कपोलयोरुष्मोदयो यस्मिंस्तथाविधे उत्कृष्टे
ताण्डवे प्रसक्तास्तप्ताः यथोपपन्ना उष्णककणाः स्वेदबिन्दवो यथा योषितां
रतिश्रमजाः स्वेदबिन्दवः शिशिरतरास्तथा क्रियन्ते एवम्प्रभावोऽयमित्यर्थः ॥ ९ ॥

एषोऽब्धिधौतकलधौततटाधिरूढभोगीन्द्रभोगपरिवेष्टितचन्दनोऽगः ।
विद्याधरीवदनपङ्कजदीप्तिपुञ्जहेमीकृताखिलशिलो मलयाभिधानः ॥ १० ॥

अब्धितरङ्गैर्धौतेषु कलधौतं सुवर्णन्न् तन्मयेषु तटेष्वधिरूढाः
प्रादुर्भूता भोगीन्द्राणां भोगैः कायैः परिवेष्टिताश्चन्दनवृक्षा
यस्मिंस्तथाविधः । तथा विद्याधरीणां वदनपङ्कजदीप्तिपुञ्जैर्हेमीकृता अन्या
अप्यखिलाः शिला यस्य तथाविध एष पुरोव्र्ती अगो मलयाभिधानः । मा लक्ष्मीर्लीयते
अस्मिन्नित्यन्वर्थनामेत्यर्थः । ङ्यापोः इति ह्रस्वः ॥ १० ॥

कूजत्कुञ्जकठोरगह्वरनदीक्वत्कारवत्कीचकस्तम्भाडम्बर##-
एतस्मिन्प्रबलाकिनां प्रचलतामुद्वेजिताः कूजितैरुद्वेल्लन्ति
पुराणरोहणतरुस्तम्भेषु कुम्भीनसाः ॥ ११ ॥

कूजन्तः कुञ्जानां कठोराणां शिलाकटकादिप्रदेशानां गह्वराणां नदीनां
क्वत्कारास्तालध्वनिभेदास्तद्वन्तो ये कीचकस्तम्भास्तेषां गीताडम्बरेण
तच्छ्रवणासक्त्या मूकं निःशब्दं मौकुलिनां मुकुलनिवासिनां भ्रमराणां
कुलं यस्मिंस्तथाविधः क्रौञ्चाचलनामायं गिरिः । एतस्मिन् गिरौ प्रचलतां
प्रकृष्टाः कलाकिनो बलाकावन्तो नीलमेघाः प्रिया येषां मयूराणां तेषां
कूजितैरुद्वेजिताः कुम्भीनसाः सर्पजातिभेदाः पुराणं चिरन्तनं रोहणं
प्रादुर्भावो येषां तथाविधानां सकोटरजीर्णतरूणां स्तम्भेषु मध्यकाष्ठेषु
उद्वेल्लन्ति अधिरुह्य भोगसङ्कोचेन निलीयन्त इत्यर्थः ॥ ११ ॥

कोमलकनकलतालयविलसितललनाविलोलवलयकृतम् ।
श्रवणरसायनपानं विततमिहाकर्णयास्य तटे ॥ १२ ॥

हे राजन् इहास्य क्रौञ्चस्य तटे कोमलकनकलतारचिते आलये निकुञ्जे कान्तेन सह
विलसितानां ललनानां रतिविलोलैर्वलयैः कृतं रागि श्रवणयो रसायनपानप्रायं
विततं सिञ्जितमाकर्णय ॥ १२ ॥

करिकरटगलितमदजलवलितश्चलवीचिचञ्चरीकचयैः ।
चर्वित एष कदर्थित इव कणनिकरो विरौति वारिनिधौ ॥ १३ ॥

करिणां करटेभ्यो गण्डस्थलेभ्यो गलितैर्मदजलैर्वलितो मिश्रित इति हेतोश्चलवीचिषु
चञ्चरीकचयैर्भ्रमरसमूहैश्चर्वित इव वारिनिधौ कणनिकरो विरौति रोदितीत्युत्प्रेक्षा
॥ १३ ॥

पश्यामलेन्दुरामृतनवनीतशरीरसुन्दरीवलितः ।
पितुरुत्सङ्गे कुरुते जललीलां क्षीरवारिनिधौ ॥ १४ ॥

अब्धेश्चल प्रतिबिम्बचन्द्रं दर्शयन्नुत्प्रेक्षते - पश्येति । हे राजन् अमलेन्दुः
आमृतं अमृतमथनजं यन्नवनीतं
तादृशशरीरस्तादृशशरीराभिर्नक्षत्रसुन्दरीभिर्वलितः सन् क्षीरवारिनिधौ
प्रतिबिम्बितः पितुरुत्सङ्गे जललीलां जलक्रीडां कुरुते । पश्येदं कौतुकमित्यर्थः ॥ १४

नृत्यन्ति मत्तकलकोकिलकाकलीकाः पश्यामले मलयसानुनि बालवल्ल्यः ।
लोलालिजालनयनारुणपत्रपाणिपुष्पा [लोकालीति विशेषणोभयपदः
कर्मधारयोऽयम् ।] मधूत्सवविलासविशेषवत्यः ॥ १५ ॥

अपरः कश्चिन्मलये लतानृत्यं दर्शयति - नृत्यन्तीति । लोलालिजालनयना
[लोलालीति विशेषणोभयपदः कर्मधारयोऽयम् ।] अरुणपत्रपाणिषु पुष्पाणि
यासां ताः । मधूत्सवविलासैः परागैर्विशेषवत्यो विशेषकवत्यः ॥ १५ ॥

वंशानां हृदि पर्वतेषु जलधौ तोयार्थिनीनां तु ये शुक्तीनां हृदये
विशन्ति समये वर्षाम्भसां बिन्दवः ।
ते मुक्ताफलतां व्रजन्ति करिणां कुम्भेषु वान्यद्भवेत् शुद्धौ
मौक्तिकवत्स्युरुत्तमगुणा एतास्त्रिधा जातयः ॥ १६ ॥

कश्चित्त्रीनुत्तमान्मुक्ताकरांस्तेषूत्तमगुणमुक्ताफलोत्पत्तिं च वर्णयति -
वंशानामिति । पर्वतेषु वंशानां वेणुभेदानां हृदि काण्डच्छिद्रे । तथा
जलधौ तोयार्थिनीनां शुक्तीनां हृदये च स्वातिसमये ये वर्षाम्भसां बिन्दवो
विशन्ति ते मुक्ताफलतां व्रजन्ति । अन्यत्तृतीयं तु मुक्ताफलं करिणां
गन्धहस्तिनां कुम्भेषु भवेत् । एषामुक्तरूपाणां मुक्ताफलानां एतास्त्रिधा
प्रसिद्धा जातयः स्थानशुद्धौ मौक्तिकस्थौल्यप्रकर्षवद्गुणतोऽप्युत्तमगुणा
भवन्तीत्यर्थः ॥ १६ ॥

शैलेऽब्धौ पुरुषेऽवनौ जलधरे भेके शिलायां गजे नानाकारधरा भवन्ति
मणयः कर्माणि तेषां विभो ।
ह्लादोच्चाटनमारणज्वरभयभ्रान्तिप्रकाशान्धताखेदोत्तापनभून##-

एवं रत्नानामप्याकरभेदेनोत्पत्तिं गुणक्रियावैचित्र्यं च रत्नशास्त्रे
प्रसिद्धमित्याह - शैले इति । तेषां यथायोगं कर्माणि शृणु ।
ह्लादस्तापशान्तिः शत्रूणामुच्चाटनं मारणम् । ज्वरः भयं भ्रान्तिः अन्धता
खेदः उत्तापनं चेति । रत्नस्वामिनो व्यवहितविप्रकृष्टार्थप्रकाशो
भूगतिर्दूरगमनशक्तिर्भूमौ निमज्ज्य गमनशक्तिर्वा नभोगतिः प्रसिद्धा
अतीतानागतदर्शनं व्याधिदुर्भिक्षादिनाशः परप्रयुक्तविषकृत्या
यन्त्रादिप्रतिविधानं चेत्यर्थः । चार्थे तथाशब्दः ॥ १७ ॥

वातायनोदरगवाक्षकवाटकक्षाद्वाराननैरिह पुराण्युदिते पठन्ति ।
श्वभ्राभ्रकन्दरदरीवनवेणुरन्ध्रवर्गेण मन्दर इवामृतसिन्धुमिन्दुम्
॥ १८ ॥

अपरः कश्चिदिन्दूदये प्रहर्षप्रवृत्तं नगरे वातायनादिजनघोषं मन्दरे
श्वभ्रादिघोषं
चोपमेयोपमानभावेनोत्प्रेक्षमाणश्चन्द्रस्तवपाठत्वेनोत्प्रेक्षते - वातायनेति
। इहास्मिन्देशे पुराणि कर्तॄणि इन्दौ उदिते सति वातायनोदरादिलक्षणैराननैर्मन्दरो
गिरिः श्वभ्राभ्रकन्दरदरीवनवेणूनां रन्ध्रव्र्गेणेव
अमृतसमुद्रभूतमिन्दुं पठन्ति स्तुवन्तीत्युत्प्रेक्षा ॥ १८ ॥

एतच्छृङ्गं हरति पवनः
किंस्विदित्युन्मुखीभिर्दृष्टोत्साहश्चकितचकितं मुग्धसिद्धाङ्गनाभिः ।
प्रालेयाद्रेः प्रतितटवनं प्रोत्पतत्यभ्रमूर्ध्वं वज्रस्तम्भो
गगनसुतलोत्तोलनायेव भूमेः ॥ १९ ॥

हिमाद्रितटेभ्योऽभ्रोत्पतनं पवनकृतशृङ्गहरणत्वेन
भूम्युत्थिताकाशपातालोत्तोलमस्तम्भत्वेन चोत्प्रेक्षमाणः कश्चिदाह - एतदिति ।
गगनस्य सुतलस्य च गुरुत्वाधिक्यपरीक्षार्थमुत्तोलनायेव ॥ १९ ॥

गङ्गातरङ्गहिमसीकरशीतलानि विद्याधराध्युषितचारुशिलातलानि ।
पुष्पाभ्रसंवलितपुष्पितकाननानि राजन्विलोकय महेन्द्रगिरेस्तटानि ॥ २० ॥

देशान्तरेषु विततानि वनान्तराणि पुष्पस्थलान्युपवनान्यथ पत्तनानि ।
तीर्थेषु पूतभुवनानि जलानि दृष्ट्वा दौर्भाग्यभीतिरपयाति जवानुविद्धा ॥ २१

पुण्यतमदेशवनतीर्थादिदर्शनस्य दौर्भाग्यनिवृत्तिर्महाफलमस्तीत्याह -
देशान्तरेष्विति । जवेनानुविद्धा घटिता द्रुतमपयातीति यावत् ॥ २१ ॥

शृङ्गाणि पूरितदिगन्तरमण्डलानि श्वभ्राभ्रकन्दरनिकुञ्जकुलाकुलानि ।
व्योमोपमान्यपि च वारिधिकुण्डलानि दृष्ट्वा गलन्ति कुकृतानि बृहत्तराणि ॥
२२ ॥

श्रीशैलादि शृङ्गाणि । साधुजनपूरितानि दिगन्तराणि । तीर्थकूपवाप्यादिश्वभ्राणि ।
हिमवदादीनामभ्रयुक्तानि कन्दराणि चम्पकारण्यादीनि । निकुञ्जकुलैराकुलानि ।
व्योमोपमानि निर्मलानि वारिधिकुण्डलानि सेतुबन्धादितीर्थानि दृष्ट्वा प्राणिनां
कुकृतानि पापानि बृहत्तराणि ब्रह्महत्यादीन्यपि गलन्ति नश्यन्ति ॥ २२ ॥

रम्याश्चन्दनवीथयो हि मलये विन्ध्ये मदान्धा गजाः कैलासे नृप पादजाति
कनकं चन्द्रं महेन्द्राचले ।
दिव्याश्चौषधयस्तुषारशिखरे सर्वत्र रत्नानि वै सन्त्यन्धाखुवदेष
जीर्णसदने व्यर्थन्न् जनो जीर्यते ॥ २३ ॥

तत्तदुत्तमवस्तुशालिनां कुलशैलानामदर्शने नृणां नेत्राणां
वैयर्थ्यमेवेत्याशयेनाह - रम्या इति । हे नृप पादजाति श्रेष्ठं कनकम् ।
चन्द्रं गिरिधातुविशेषः । तुषारशिखरे हिमवति । सर्वत्रान्येष्वेतेषु च रत्नानि सन्ति ।
एवं सत्यप्येष भाग्यहीनो जनस्तान्यपश्यन्नन्धश्चासावास्तुर्मूषकश्च तद्वज्जीणे
सदने व्यर्थ जीर्यते । आश्चर्यमित्यर्थः ॥ २३ ॥

सोन्नतं जगदिवोरुतटाकं वारिणा विवलितं तिमिरेण ।
प्रस्फुरन्ति च युगान्त इवैता विद्युतः शफरिका इव लोलाः ॥ २४ ॥

सजलदास्तिमिरावृता दिशः कश्चिद्वर्णयति - सोन्नतमिति । मेघतिमिरेणावृता
एता दिशो युगान्ते वारिणा विवलितं सोन्नतमन्तरिक्षलोकपर्यन्तं पूर्ण जगदेव
एकतटाकभूतमिव प्रस्फुरन्ति । तत्र लोला विद्युतस्तस्मिंस्तटाके शफरिकाः
क्षुद्रमत्स्या इव प्रस्फुरन्ति ॥ २४ ॥

सावश्यायाश्याननीहारधारा धारोद्गारान्वारिदान्मादयन्तः ।
शीतानीतोद्दामरोमाञ्चचर्चाः प्रोद्यच्छब्दं वान्त्यहो वर्षवाताः ॥ २५ ॥

स्वयं सावश्यायाः सहिमाः भूम्यादौ च श्यानाः शोषणेन तनूकृता
नीहारधारा यैः धाराः उद्गिरन्तीति धारोद्गारास्तथाविधान्वारिदान्मादयन्तो
मत्तान्कुर्वाणाः । शीतस्पर्शेन आनीता जनानामुद्दामरोमाञ्चचर्चा यैस्तथाविधा
वर्षवाताः प्रोद्यच्छब्दं यथा स्यात्तथा वान्ति । अहो इत्याश्चर्ये ॥ २५ ॥

हा वाति नीलजलदप्रसरानुसारी वातः किरन्विटपिपल्लवपुष्पगुच्छान् ।
धीरोत्करद्रुमवनान्तरचारचारुरासारसीकरकदम्बकसारसारः ॥ २६ ॥

नीलजलदप्रसरानुसारी अङ्कुरद्रुमवनान्तरचारेण चारुः सौगन्ध्यादिगुणवान्
आसारसीकराणां कदम्बकैर्निकुरम्बैः सारादपि सारो धीरो वातो विटपिनां
पल्लवपुष्पगुच्छान्किरन्सन् वाति । हा इति शीतार्तस्य विरहिणो वा खेदोक्तिः ॥ २६ ॥

मारुताः सुरतक्रान्तकान्तानिःश्वसितैरिमे ।
वहन्ति वृद्धिं गन्धं च लवं स्वर्गादिव च्युताः ॥ २७ ॥

स्वर्गाच्युताः जीवाः पूर्वपुण्यवासनालवमिव ॥ २७ ॥

कुवलयकुवलयविकचनकुसुमलताविदलनोद्यता मृदवः ।
घनपटपाटनपटवो विधुतोपवना वहन्त्यमी पवनाः ॥ २८ ॥

कुवलये भूमण्डले यानि कुवलयान्युत्पलानि तेषां विकचने विकासे । तथा
कुसुमलतानां विदलने मुकुलपुटभेदने च उद्यता इति सुगन्धयः ।
घनलक्षणानान्न् पटानां पाटने पटव इति शीताः अमी पवना वहन्ति ॥ २८ ॥

सन्ध्याभ्रलेशानुपयन्ति वाता नभस्तले कोमलकम्पनेन ।
नृपाङ्गणे पुष्पविचित्रलेखानुवासिते भृत्यवरा इवैते ॥ २९ ॥

एते वाता नभस्तले सन्ध्याभ्रलेशान् कोमलकम्पनेन मन्दचालनेनोपयन्ति । यथा
पुष्पाणां विचित्रलेखाभिरनुवासिते नृपाङ्गणे भृत्यवराः
पुष्पाण्यनुपमृद्गन्तः सञ्चरन्ति तद्वदित्यर्थः ॥ २९ ॥

क्वचित्कुसुमगन्धयः कमलवर्गगन्धाः क्वचित्क्वचित्कुसुमवर्षिणो
ललितकेसरासारिणः ।
क्वचिच्च हिमपाण्डवो हरितपीतलश्यामला वहन्ति शिखरानिलाः
सुरतमन्दघर्मच्छिदः ॥ ३० ॥

कुसुमानामिव गन्धो येषाम् । उपमानपूर्वपदत्वादित् । क्वचित्कमलवर्गाणां गन्ध
इव गन्धो येषाम् । हिमैः पाण्डवः हरितपीतलश्यामलैर्गिरिधातुभिस्तद्वर्णाः
शिखरसम्बन्धिनोऽनिलाः सुरते मन्दानां श्रान्तानां धर्माम्बुच्छिदो वहन्ति ॥ ३०

क्वचिद्धुङ्कारकाङ्कारैरङ्गारनिकरान्करैः ।
किङ्करैर्विकिरत्यर्को मूर्खसंसर्गवानिव ॥ ३१ ॥

किङ्करैः सेवकवदाज्ञाकारिभिः सूर्यकान्तमणिभिर्गुहादौ दह्यमानानां
प्राणिनां हुङ्कारैः
काङ्कारैराक्रन्दनशब्दैश्चोपलक्षितानङ्गारनिकरान्करैर्विकिरति प्रक्षिपति ॥ ३१ ॥

नररसायनतृप्तिविमुक्तया प्रमदया मदयापितलज्जया ।
उपगते वपुषा न विषह्यते विषविमूर्च्छनयेव समायता ॥ ३२ ॥

नरः पुरुषस्तल्लक्षणं यत्सङ्गमास्वाद्यं रसायनं तद्विषये तृप्तिविमुक्तया
अतृप्तया अत एव मदेन यापितलज्जया अपनीतत्रपया प्रमदया वपुषा उपगते
आलिङ्गिते पुरुषे सुरतोपरमाय । आवश्यककार्यान्तरोपवर्णनलक्षणा समायता
वञ्चनोक्तिर्विषविमूर्च्छनया प्रयुक्ता स्वमृतिरिव न विषह्यते इत्यर्थः ॥ ३२ ॥

वलिततामरसा मृदुशीकराः शशिकरोत्करवीचिविभेदिनः ।
सदहना इव तापमयाः पुरो विरहिणीषु वनावनिवायवः ॥ ३३ ॥

तामरसवलनादिप्रयुक्तसर्वगुणसम्पन्ना अपि वनावनिवायवो विरहिणीषु सदहना इव
दाहकारिण इत्यर्थः ॥ ३३ ॥

इह हि पूर्वपयोधितटावटे विकटपत्रपटाः कटकीतटाः ।
नवमदासवयौवनसंश्रयाः कलय यान्ति कथं शवरस्त्रियः ॥ ३४ ॥

हे राजन् इह पूर्वपयोधितटलक्षणे अवटे निम्नदेशे कटक्यः
शबरजातिप्रसिद्धकांस्यादिकटकास्तदन्वितप्रकोष्ठतटाः । विकटानि
निर्गुण्डीपत्राण्येव परिधानपटो यासाम् । नवोमदासवो यस्मात्तथाविधस्य
यौवनस्य संश्रयाः शबरस्त्रियः कथं यान्ति तद्गमनविलासं कलय पश्य ॥ ३४ ॥

नवरसासवसारनिशागमक्षयभयातुरचित्ततयाङ्गना ।
त्यजति कान्तमियं न मनागपि द्रुतमितो वलितेव पुरोऽहिभिः ॥ ३५ ॥

इयमङ्गना नवः सुरतरसो यस्मात्तथाविध आसवसारः समदसम्भोगो
यस्मिंस्तथाविधस्य निशागमस्य क्षयाद्यद्भयन्न् तदातुरचित्ततया द्रुतं
सार्द्रभावं कान्तं मनागपि न त्यजति । इतः पुरो दृश्यमाना अहिमिर्वलिता
चन्दनलतेव सेत्यर्थः ॥ ३५ ॥

प्रभाततूर्यमुखरैर्दिवसैरिव तर्जिता ।
हृद्येव स्फुटा नारी निलीना दयितोरसि ॥ ३६ ॥

प्रोत्फुल्लकिंशुकैषा दक्षिणजलधेस्तटेऽत्र वनराजी ।
ज्वलितेव जलतरङ्गैः पौनःपुन्येन सिच्यतेऽम्बुधिना ॥ ३७ ॥

ज्वलितेवेति पुनः पुनः सेके हेतूत्प्रेक्षा ॥ ३७ ॥

अस्या निर्यान्त्यनिलैर्धूमा इव कृष्णकेसराम्बुधराः ।
अङ्गाका इव कुसुमान्युपशान्ताङ्गारवच्च खगभृङ्गाः ॥ ३८ ॥

अस्याः प्रफुल्लकिंशुकवनराजेः सकाशाद्धूमा इव कृष्णाः केसरा ऊर्ध्वभागा
येषां तथाविधा अम्बुधरा धूमा इव निर्यान्ति । एवं किंशुककुसुमान्यङ्गारा इव
निर्यान्ति खगाश्च भृङ्गाश्च उपशान्ताङ्गारवच्च निर्यान्ति । पश्येति पूर्वोक्तार्थे
उपपत्तिः ॥ ३८ ॥

ईदृश्येव विलोकय वनराजी सत्यवह्निना ज्वलिता ।
गिरिशिरसि तूत्तरस्यां दिशि दूरे धूयते च खे पवनैः ॥ ३९ ॥

कल्पितज्वलनां वनराजिं दर्शयित्वा यथार्थज्वलनां तामुत्तरतो दर्शयति -
ईदृश्येवेति । पवनैः खे धूयते कम्प्यते च ॥ ३९ ॥

क्रौञ्चाचलस्य भुवि मन्थरमेघचक्रगम्भीरताररवनर्तितबर्हिणीयम् ।
पश्योत्थितं तुमुलमाकुलवर्षवातव्याधूतपुष्पफलपल्लवकाननीयम् ॥ ४० ॥

हे राजन् क्रौञ्चाचलस्य भुवि मन्थरस्य मन्दगतेर्मेघचक्रस्य
गम्भीरैस्ताररवैर्नर्तितं बर्हिणीयं बर्हिसमूहो
यस्मिंस्तथाविधमाकुलवर्षवातव्याधूतपुष्पफलपल्लवमुत्थितमुन्नतं
काननीयं वनसमूहं पश्य ॥ ४० ॥

अस्ताचले विकटकाञ्चनकूटकोटिसङ्घट्टनस्फुटितजर्जरचारुसन्धिः ।
खर्वं रथः पतति स स्म रवेः सचक्रचीत्कारतारतरकूबररास एषः ॥ ४१ ॥

स एष रवेः रथः अस्ताचले विकटो विषमो यः काञ्चनमयः कूटः शृङ्गं
तत्कोटौ सङ्घट्टनेन स्फुटिता जर्जराश्चारुसन्धयो यस्य तथाविधः सन्
सचक्रचीत्कारस्तारतरः कूबरस्य रासो ध्वनिर्यस्य तथाविधः सन् खर्व निम्नदेशं
पतति स्म अवतरति किलेत्यौन्नत्यातिशयोक्तिः ॥ ४१ ॥

भुवनभवनप्राकारेऽद्रौ निशाकरभेरुकं परिविकसितं मीतं भासा
मलालिरुपाश्रितः ।
तदिह जगतां वस्तु श्रेष्ठं न किञ्चन विद्यते विधिरुपहतः कुर्यान्नो
यत्क्षणेन कलङ्कितम् ॥ ४२ ॥

भुवनलक्षणस्य भवनस्य गृहस्य प्राकारभूते अद्रौ मानसोत्तरपर्वते
उदयगिरिशिखरे निशाकरश्चन्द्रस्तल्लक्षणं मेरुकं माङ्गलिकं तरुविशेषजं
पुष्पं देशविशेषे प्रसिद्धं तच्च मङ्गलसूचकत्वादमङ्गलान्मालिन्याद्भीतं
परितो भासा विकसितमभूत् । तथाविधमप्यदःपुष्पममङ्गलकारिणा विधिना प्रेरितो
मलं कलङ्कस्तल्लक्षणः अलिरुपस्थित एव । तदेवं सति इह भुवने तत्तादृशं
जगतां मध्ये श्रेष्ठन्न् वस्तु किञ्चन न विद्यते यद्वस्तु उपहतो विधिः क्षणेन
कलङ्कितं न कुर्यात् । भुवमस्पृशतो गिरिशिखरनभःस्थस्य चन्द्रस्यापि
यत्रेदृशी दशा तत्र किं वाच्यमन्यस्येत्यर्थः ॥ ४२ ॥

त्रिभुवनहराट्टहासो भुवनमहाभवन एष मङ्कोलः ।
क्षीरसलिलावपूरो गगनाब्धेश्चान्द्र आलोकः ॥ ४३ ॥

चन्द्रप्रकाशं सर्वतः प्रसृतं त्रेधा उत्प्रेक्षते - त्रिभुवनेति । एष
गगनाब्धेश्चान्द्र आलोकः प्रदोषकाले नृत्यतस्त्रिभुवनहरस्य त्रैलोक्यसंहारिणो
रुद्रस्याट्टहासः । अथवा भुवनलक्षणे महाभवने मङ्कोलः सुधालेपः । अथवा
क्षीरलक्षणस्य सलिलस्यावदातः पुरोऽवपूरः ॥ ४३ ॥

स्पृष्टप्रदोषमयमन्दरमथ्यमानचन्द्रार्णवोल्लसितदुग्धतरङ्ग##-
पश्य प्रभापटलकैः परिपूरिताङ्गीः पूरैरिवोग्रसरितः प्रसरद्भिराशाः ॥
४४ ॥

सन्ध्याधातुरागैः स्पृष्टेन प्रदोषमयेन मन्दरेण मथ्यमानो
यश्रन्द्रलक्षणः क्षीरार्णवस्तदुल्लसितैर्दुग्धतरङ्गभङ्गप्रायैः प्रसरद्भिः
प्रभापटलकैः उग्रः शिवस्तद्विसृष्टाया गङ्गासरितः प्रसरद्भिः पूरैरिव
परिपूरिताङ्गीः आशा दिशः पश्य ॥ ४४ ॥

एते पतन्त्यतुल तालकराललोलवेतालबालवलिता निशि गुह्यकौघाः ।
हूणेश्वरस्य नगराणि निरस्तशान्ति स्वस्तिश्रवादिविकलानि बलेन भोक्तुम् ॥ ४५ ॥

हे अतुल निरुपम तालवत्करालैर्वेतालबालैर्वलिताः सहिता एते गुह्यकौघा निशि
निरस्तशान्तिकर्मस्वस्तिवाचनमङ्गलाचरणानि अत एवोत्पातैर्विकलानि हूणेश्वरस्य
त्वद्रिपोर्नगराणि तत्स्थान् जनान् भोक्तुं पतन्ति गच्छन्ति ॥ ४५ ॥

तावद्विभाति गगने परिपूर्णचन्द्रो यावद्वधूवदनमेति न सद्म बाह्यम् ।
अभ्युद्गतेऽङ्गणनभस्यबलाननेन्दाविन्दोः सिताभ्रशकलस्य च को विशेषः ॥
४६ ॥

सद्मनो बाह्यमनावरणमङ्गणदेशं वधूवदनं न एति । बाह्याङ्गणनभसि
अबलाननेन्दौ निर्गमनेनाभ्युद्यते सति तत्सौन्दर्यनिरस्तशोभस्येन्दोः
सिताभ्रशकलस्य च को विशेषः । न कश्चिदिति कामुकोक्तिः ॥ ४६ ॥

वृद्धानि चन्द्रांशुनवाम्बराणि गङ्गौघनिर्धूतशिलान्यमूनि ।
हिमाततान्युग्रलताजटानि तुषारशैलेश्वरमस्तकानि ॥ ४७ ॥

चन्द्रकरव्याप्तानि हिमवच्छिखराणि कश्चिद्वर्णयति - वृद्धानीति । वृद्धिरत्र
दैर्घ्यम् । तुषारशैलेश्वरो हिमवांस्तस्य मस्तकानि शिखराणि ॥ ४७ ॥

स एष मन्दारवनावतंसो दोलाप्सरोगेयविसारिवातः ।
क्वचिन्मणिद्योतविचित्रचित्रः सन्दृश्यते व्योमनि मन्दराद्रिः । ४८ ॥

दोलाः प्रेङ्खास्तदारूढानामप्सरसां गीतानि विसारयति तच्छीलो वातो यस्य ।
अत्युन्नतत्वाद्व्योमनि सन्दृश्यते ॥ ४८ ॥

प्रोन्निद्रनीरन्ध्रशिलीन्ध्रसान्द्रपुष्पार्घ्यपात्रध्रमहामहीध्राः ।
सान्द्राभ्रनिर्ह्रादगभीरकुक्षौ सर्क्षान्तरिक्षश्रियमुद्वहन्ति ॥ ४९ ॥

प्रोन्निद्राणि नीरन्ध्राणि पुष्पभरितानि यानि शिलीन्ध्राणि तान्येव
सान्द्रपुष्पाण्यर्घ्यपात्राणि धारयन्ति तथाविधा ये महान्तो महीध्राः पर्वताः
सान्द्रैरभ्रनिर्ह्रादैर्गभीरायां कुक्षौ द्रोणीप्रदेशे सर्क्षं ऋक्षैर्नक्षत्रैः सह
वर्तमानं यदन्तरिक्षं तच्छ्रियमुद्वहन्ति धारयन्ति ॥ ४९ ॥

इतः स कैलासगिरिर्गरीयसा प्रभाप्रवाहेण मितेन यस्य खम् ।
शम्भोरिवाभाति सुतस्य कुट्टिमं चन्द्रोऽपि च क्षीरसमुद्रगो यथा ॥ ५० ॥

इत उत्तरतः स प्रसिद्धः कैलासगिरिर्दृश्यताम् । कीदृशः । यस्य गरीयसा
प्रभाप्रवाहेण मितेन व्य्पाप्तेन खमाकाशमधोभागे शम्भोः सुतस्य स्कन्दस्य
मुक्ताचूर्णनिर्मितं क्रीडागृहकुट्टिममिव आभाति । ऊर्ध्वभागे तु चन्द्रोऽपि
क्षीरसमुद्रगस्तन्मग्नो यथा तथा आभाति ॥ ५० ॥

स्थाणूनां छिन्नशाखानां मृन्मयानां च वासवः ।
सन्धत्ते पश्य दूराणां वातैर्मुक्तशिखा इव ॥ ५१ ॥

हे राजन् कौतुकी वासवः कुठारैश्छिन्नशाखानां स्थाणूनामग्निना
छिन्नच्छद्यादिशाखानां मृन्मयानां कुड्यादीनां च परस्परदूराणामपि
वृष्टिकेनोभयत्राप्यङ्कुरोपजननान्मुक्तशिखा इव निर्माय वातैः
परस्परग्रथनायेव सन्धत्ते पश्य ॥ ५१ ॥

एते कदम्बकुलकुन्दसुगन्धिवाता लिम्पन्ति मांसलतया मकरन्दवृष्टेः ।
घ्राणं घनैः परिमलैरलिजालनीला व्यालोड्य मेघपटलैः
खमिवाभ्रकायाः ॥ ५२ ॥

तथा एते कदम्बकुलैः कुन्दैश्च सुगन्धयो वाता मकरन्दवृष्टेर्हेतोस्तत्पानेन
मांसलतया अलिजालनीला अभ्रकायाश्च भूत्वा सर्वाणि परिमलानि व्यालोड्य
मेघपटललक्षणैः खमिव घनैः परिमलैर्जनानां घ्राणच्छिद्रमपि लिम्पन्ति
पश्येत्यर्थः ॥ ५२ ॥

उन्निद्रकुड्मलदलासु वनस्थलीषु सच्छायशाद्वलघनेषु च जङ्गलेषु ।
ग्रामेषु सन्ततफलद्रुमसङ्कुलेषु लक्ष्मीः स्वयं निवसतीव निवासहेतोः ॥ ५३ ॥

वर्षर्तौ वनस्थल्यादिषु चतुर्षु स्थानेषु स्वनिवासहेतोः शोभातिशयस्य दर्शनादिव
निवसति ॥ ५३ ॥

वातायनागतलतावृतसौधकोशकोशातकीकुसुमकेसरमाहरद्भिः ।
आगुल्फकीर्णमुकुलाजिर एष वातैर्ग्रामो विभाति नगरं वनदेवतानाम् ॥ ५४ ॥

एष पुरोवर्ती ग्रामो वातायनद्वारा
आगताभिरन्तःप्रविष्टाभिरर्थात्कोशातकीलतामिरावृतेषु सौधकोशेषु
कोशातकीकुसुमानि तत्केसरांश्चाहरद्भिर्वातैः आगुल्फं कीर्णानि कुसुमानि यत्र
तथाविधान्यजिराण्यङ्गणानि यस्मिंस्तथाविधः सन् वनदेवतानां नगरं विभाति
॥ ५४ ॥

उन्निद्रामलचम्पकद्रुमलतादोलाविलोलाङ्गनाः कूजन्निर्झरवारयः
परिसरप्रोन्निद्रतालद्रुमाः ।
उत्फुल्लोज्ज्वलमञ्जरीसितलतागेहोल्लसद्बर्हिणः पर्यन्तोन्नतसाललम्बजलदा
रम्या गिरिग्रामकाः ॥ ५५ ॥

उन्निद्राणां पुष्पितानाममलचम्पकद्रुमाणां लतादोलासु विलोलाः क्रीडन्त्यः
अङ्गना येषु । तथा कूजन्ति निर्झरवारीणि येषु । परिसरेषु परितः प्रोन्निद्राः
पुष्पितास्तालद्रुमा येषु । उत्फुल्लाभिरुज्ज्वलमञ्जरीभिः सितेष्वलङ्कृतेषु लतागेहेषु
उल्लसन्तो नृत्यन्तो बर्हिणो मयूरा येषु । पर्यन्तेषून्नतेषु सालेषु प्राकारेषु
वृक्षेषु वा लम्बा जलदा मेघा येषु । सालवृक्षा एव लम्बा लोला जलदा येष्विति वा ।
ईदृशा गिरिग्रामका रम्याः ॥ ५५ ॥

वातालोलविचित्रपत्रलतिकासम्पूर्णनीलस्थलाः
कूजल्लावककोककुक्कुटघटागायत्पुलिन्दाङ्गनाः ।
बालाव्याकुलतर्णका दधिमधुक्षीराज्यपानोज्ज्वलाः कस्येवामृतमण्डपा
विरचिता रम्या गिरिग्रामकाः ॥ ५६ ॥

तथा वातैरालोलाभिः पल्लवादिदशाविचित्रपत्रामिर्लतिकाभिः सम्पूर्णानि
शाद्वलनीलानि स्थलानि येषाम् । लावका मधुरस्वराः क्षुद्रपक्षिभेदाः । गायन्त्यः
पुलिन्दानां म्लेच्छजातिभेदानामङ्गना येषु । बालैः पालनादव्याकुलास्तर्णका
वत्सा येषु । तथा त एव बाला अव्याकुलास्तर्णकाश्च यथायोगं
दधिमधुक्षीराज्यानां पानेन उज्ज्वलाः पुष्पा येषु । ईदृशा गिरिग्रामकाः कस्य
धातिर्विश्रान्तये रम्या अमृतपूर्णा विरचिता मण्डपा इव भान्तीत्यर्थः ॥ ५६ ॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वा० दे० मो० नि० उ० अवि० वि०
विपश्चिदनुकृतपदार्थवर्णनं नाम पञ्चदशाधिकशततमः सर्गः ॥ ११५ ॥

इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे निर्वाणप्रकरणे उत्तरार्धे
विपश्चिदनुकृतपदार्थवर्णनं नाम पञ्चदशाधिकशततमः सर्गः ॥ ११५ ॥