११४

चतुर्दशाधिकशततमः सर्गः ११४

श्रीवसिष्ठ उवाच ।

अथ तेषां तदा तत्र ततस्तांस्तानदर्शयन् ।
पार्श्वगा वनवृक्षाब्धिशैलमेघवनेचरान् ॥ १ ॥

इत आरभ्य वर्ण्यन्ते विपश्चिद्भ्यः प्रदर्शिताः ।
पार्श्वगैर्वनवृक्षाब्धिशैलमेघवनेचराः ॥

अथेति वनादिवर्णनविस्तारारम्भद्योतनाय । तेषां विपश्चितां पार्श्वगा
मन्त्र्यादयस्ततः समुद्रसन्निधिप्राप्त्यनन्तरं तांस्तान्विचित्रान् वनवृक्षादीन्
अदर्शयन् । कौतुकार्थमित्यर्थः ॥ १ ॥

देव पश्यास्य शैलस्य येयमभ्रङ्कषाग्रभूः ।
समरुन्मध्यदेशादेरश्मदेशमुपेयुषः ॥ २ ॥

हे देव मध्यदेशादेरुपत्यकाधित्यकाप्रस्थादिप्रदेशात्क्रमेणाग्रे अश्मदेशं
शिलाप्रचुरभागतामुपेयुषः अस्य शैलस्य येयमभ्रङ्कषा अत्युन्नता अत एव समरुत्
प्रचुरवायुयुक्ता विहरद्देवगन्धर्वादियुक्ता वा अग्रभूः शिखरभूमिस्तां
पश्येत्यर्थः ॥ २ ॥

इमा बकुलपुन्नागनालिकेरकुलाकुलाः ।
विपिनावलयो वान्तविविधामोदमारुताः ॥ ३ ॥

वान्तः उद्गीर्णो विविधामोदो मारुतो याभिः । या इमा विपिनावलयस्ता अपि पश्य ॥ ३ ॥

लुनात्युपत्यकां वार्धिः शैलशालिशिलावलीः ।
वनालीर्लहरीदात्रैरापादफलपल्लवाः ॥ ४ ॥

वार्धिर्लहरीलक्षणैर्दात्रैरुपत्यकामद्रेरासन्नां भूमिं लुनाति । तथा शैले शान्ते
शोभन्ते याः शिलावलयस्ताश्च लुनाति । तथा आपादं फलपल्लवव्याप्ता वनालीश्च
लुनाति पश्येत्यर्थः ॥ ४ ॥

अधित्यकासु मेघालीर्नृत्यतां स्वाम्बुभूभृताम् ।
धुनोति जलधिर्बालो गृहधूमावलीमिव ॥ ५ ॥

जलधिः पवनकम्पिततरुलताभुजाद्यभिनयैर्नृत्यतां
स्वेदबिन्दुप्रायस्वाम्बुकणाञ्चितानां भूभृतामधित्यकासु विश्रान्ता मेघालीः
पवनेन धुनोति । यथा बालः स्वगृहधूमावलीं व्यजनपवनेन धुनोति
तद्वत्पश्य ॥ ५ ॥

राकाब्धिपूरसम्प्रोतशङ्खशाखास्तटद्रुमाः ।
चन्द्रबिम्बफलाः कल्पवृक्षा इव विभान्त्यमी ॥ ६ ॥

राकासु पूर्णेन्दूदयकाले प्रवृद्धस्याब्धेः पूरैः सम्प्रोतशङ्खा शाखा
येषां तथाविधा अमी तटद्रुमाश्चन्द्रबिम्बानीवामृतरसपूर्णानि शुभ्राणि च
फलानि येषां तथाविधाः कल्पवृक्षा इव विभान्ति । पश्येति सर्वत्रानुषङ्गः ॥ ६ ॥

रत्नपुष्पभरापूर्णरक्तपल्लवपाणयः ।
भवन्तं पूजयन्तीव लतादारान्विता द्रुमाः ॥ ७ ॥

लतारूपैर्दारैरन्विता द्रुमा रत्नसदृशैः पुष्पभरैः आपूर्णा
रक्तपल्लवलक्षणाः पाणयो येषां तथाविधाः सन्तः स्वगृहं प्राप्तमतिथिं
भवन्तं पूजयन्तीव किरन्तीत्यर्थः ॥ ७ ॥

प्रोतोर्मिमकरग्रासैर्दृषद्दन्तैर्गुहामुखैः ।
ऋक्षवानृक्षवद्भूभृद्धत्ते घुरघुरारवम् ॥ ८ ॥

प्रोतोर्मीन्मकरान्ग्रसन्ति तथाविधैः
शुक्लादिवर्णदृषद्दन्तैर्गुहालक्षणैर्मुखैः ऋक्षवान्नाम भूभृत्
ऋक्षवद्भल्लूकवद्घुरघुरारवं धत्ते ॥ ८ ॥

महेन्द्रो मन्द्रगर्जाभिरभिक्षिपति गर्जतः ।
पर्जन्यानूर्जितो जन्यः प्रतिजन्यान्यथा जडैः ॥ ९ ॥

अयं महेन्द्रो गिरिरूर्ध्व गर्जतः पर्जन्यानधो मन्द्रगर्जाभिरभिमुखं क्षिपति
भर्त्सयति । यथा ऊर्जितो जन्यो युद्धकुशलः प्रतिजन्यान्रिपूञ्जडैर्वाक्यैः क्षिपति
तद्वत् ॥ ९ ॥

चन्दनारूषितः श्रीमाञ्जेतुं जलधिवेल्लनाः ।
समुद्यत इवोच्चोऽसौ मल्लो मलयपर्वतः ॥ १० ॥

असौ मलयपर्वतलक्षणो मल्लो जलधेः प्रतिमल्लस्य लहरीभुजवेल्लनाः जेतुं
समुद्यत इव ॥ १० ॥

सर्वतः कचितोऽजस्रं रत्नवीचिभिरम्बुधिः ।
भूरत्नवलयभ्रान्त्या प्रेक्ष्यते सूर्यमार्गगैः ॥ ११ ॥

सर्वतो रत्नयुक्तवीचिभिः कचितोऽयमम्बुधिः सूर्यमार्गगैर्नभश्चरैरजस्रं
भूरत्नवलयभ्रान्त्या प्रेक्ष्यते । कचितौजस्कम् इति पाठे ऐकपद्ये क्रियाविशेषणं
योज्यम् ॥ ११ ॥

सरन्ति रत्नमूर्धानश्चलकानिलपायिनः [चलकानिलेति सन्धिरार्षः ।] ।
वानपूराः पर्वतकाः सर्पा इव नतोन्नतैः ॥ १२ ॥

वानं वनसमूहास्तैः पूर्यन्त इति वानपूराः पर्वतकाः सूक्ष्माः पर्वताः वायुना
वने कम्प्यमाने चलकाः सन्तः सर्पा इव सरन्ति । रत्नमूर्धानः अनिलपायिन इति
साधारणे विशेषणे । नतोन्नतैर्गतिभेदैः ॥ १२ ॥

भ्रमन्तो वीचिशृङ्गेषु मकरेभाः करोत्कटैः ।
हरन्ति सीकराम्भोदा मेघानुद्राविता इव ॥ १३ ॥

वीचिशृङ्गेषु भ्रमन्तः सामुद्रा मकरा आरण्या इभाश्च वीचिशृङ्गेषु
निर्गच्छत्सु प्रविशत्सु च परस्परग्रहणाय करैरुत्कटैर्व्यात्तैर्मुखैश्च भ्रमन्तो
मेघैरनुद्राविता अनुद्रुताः सीकरमुचोऽम्भोदा इव हरन्ति कौतुकदर्शिनां मन इति
शेषः ॥ १३ ॥

आवर्तवलिताकारः सीकरोत्करकीर्णदिक् ।
पूर्णत्वात्तु शिरोऽशक्तो म्रियतेऽत्युत्करः करी ॥ १४ ॥

तत्रैकः करी दैवादगाधे जले आवर्तेन कलितः परिवर्तित आकारो यस्य तथाविधः सन्
सीकरोत्करैः कीर्णा दिशो येन तथाविधो भूत्वा मज्जनजलपूर्णत्वात्तु शिर
उन्नेतुमशक्त ऊर्ध्वीकृतकरः सन् म्रियते पश्य ॥ १४ ॥

विविधप्राणिसम्पूर्णाः सजलाद्रिनतोन्नताः ।
यथैवाम्भोधयः सर्वास्तथैव द्वीपभूमयः ॥ १५ ॥

सजलाश्च ते अद्रिभिर्नतोन्नता विषमाश्च अम्भोधयो यथा सन्ति तथा सर्वा
द्वीपभूमयोऽपि सन्तीति बोध्यमित्यर्थः ॥ १५ ॥

आवर्तानात्मनोऽनन्यानप्यन्यानिव भास्वरान् ।
गृह्यमाणानसद्रूपान्दृश्यमानानपि स्फुटान् ॥ १६ ॥

अम्बुधिर्ब्रह्मजगन्तीव आवर्तान् धत्ते इति द्वयोरन्वयः ।
आत्मनोऽनन्यानप्यन्यानिवेत्यादिविशेषणानि आवर्तजगतोः साधारण्येन योज्यानि ॥ १६ ॥

तरङ्गतरलानन्तर्जडानप्यम्बुधिश्चलान् ।
धत्ते ब्रह्मजगन्तीव सान्तानप्यन्तवर्जितान् ॥ १७ ॥

यानन्तरिन्द्रवद्भानुमणीन्धत्तेऽम्बुधिर्बहून् ।
मन्थापहृतसर्वस्वो देवेभ्यः परिरक्षितान् ॥ १८ ॥

मन्थने देवासुरैरपहृतसर्वस्वोऽम्बुधिस्तस्मिन्काले देवेभ्यः परिरक्षितान्गोपितान्
यान् बहून्भानुमणीनन्तर्धत्ते । इन्द्रवत् यथा इन्द्रः असुरेभ्यो
गोपयन्मणीनन्तर्धत्ते तद्वत् ॥ १८ ॥

दृश्यमानान्महातेजस्तथा पातालतोऽप्यलम् ।
प्रतिबिम्बविभङ्ग्यान्तरसत्यानिव गोपितान् ॥ १९ ॥

तथा महातेजोरूपानत एव पातालतोऽपि अलं दृश्यमानान् यन्मणीन्
प्रतिबिम्बविभङ्ग्या असत्यानिव कृत्वा अन्तर्गोपितान्धत्ते ॥ १९ ॥

तेषां मध्यादेकमेहं प्रत्यहं पश्चिमार्णवे ।
निक्षेपाय क्षिपति यं तेन मन्ये दिनं भवेत् ॥ २० ॥

तेषां मणीनां मध्यात्प्रत्यहमेकं यं मणिं पश्चिमार्णवे निक्षेपायान्तरिक्षे
क्षिपति तेन तद्दिनं भवेदिति मन्ये इत्युत्प्रेक्षा ॥ २० ॥

नानदिग्देशपयसामब्धौ साधुसमागमः ।
यात्रायामिव लोकानां मिथः कलकलान्वितः ॥ २१ ॥

अब्धिकलकले हेतुमुत्प्रेक्षमाण आह - नानेति ॥ २१ ॥

जलेचरावरा नूनं सागरार्णवसङ्गमे ।
अन्योन्यवेल्लनाद्युद्धं न कदाचन शाम्यति ॥ २२ ॥

युद्धोत्साहवतां मध्ये जलेचरा एव वराः । नूनमिति वितर्के । कुतः । यतः
सागरार्णवयोः पूर्वापरसमुद्रयोः सङ्गमे येषां सदैवान्योन्यवेल्लनान्न
कदाचन युद्धं शाम्यति ॥ २२ ॥

ताम्यत्तिमितरङ्गाग्रनर्तनावर्तविभ्रमम् ।
वलयन्वायुरायाति वान्तसीकरमौक्तिकैः ॥ २३ ॥

ताम्यतां ग्लायतां तिमीनां मत्स्यभेदानां तरङ्गाग्रेषु नर्तने य
आवर्तविभ्रमस्तं वान्तैरुद्गीर्णैः सीकरलक्षणैः सीकरसहितैर्वा मौक्तिकैः
पारितोषिकैर्वलयन्वेष्टयन्प्रभुरिव वायुरायाति पश्य ॥ २३ ॥

सरिन्मुक्तालतामध्यमध्यस्थाब्दमणीश्वराः ।
दीर्घाः खणखणायन्ते चञ्चलाः सर्वतोऽम्बुधेः ॥ २४ ॥

सरिल्लक्षणानां मुक्तालतानां मध्ये मध्ये स्थिता अब्दलक्षणा मणीश्वरा
मणिश्रेष्ठा अम्बुधेः कण्ठे सर्वतो दीर्घा लम्बमानाः
परस्पराभिघातात्खणखणायन्त इत्युत्प्रेक्षा ॥ २४ ॥

महेन्द्राद्रेर्गुहागेहपरावृत्तार्णवाध्वनाम् ।
भाङ्कारिण्यो भुवः सिद्धसाध्यानां सुसुखावहः ॥ २५ ॥

पुनः कीदृशो वायुः । महेन्द्राद्रेर्भाकारिण्यः अरतिकारिणीः ।
विभक्तिव्यत्ययश्छान्दसः । भुवः प्राप्य तत्रारुच्या गुहागेहेषु रत्यर्थं
परावृत्तार्णवाध्वनां सिद्धानां साध्यानां च देवयोनिभेदानां
रतिश्रमापनोदेन सुसुखावहः ॥ २५ ॥

मन्दरः कन्दरोद्गीर्णैः प्रसरैर्मातरिश्वनः ।
कम्पाकुलवनाभोगः पुष्पमेघांस्तनोति खे ॥ २६ ॥

अपरो मन्दरं वर्णयन्दर्शयति - मन्दर इति । कन्दरेभ्य उद्गीर्णैर्मातरिश्वनो
वायोः प्रसरैः खे पुष्पवर्षिणो मेघांस्तनोति विस्तारयति । प्रस्थारूढान् मेघान्
पुष्पैः पूरयतीति यावत् ॥ २६ ॥

चूतनीपकदम्बाढ्यगन्धमादनकन्दरान् ।
विशन्ति मेघहरिणास्तडित्तरललोचनाः ॥ २७ ॥

हिमवत्कन्दरोद्गीर्णा वल्लीवलयताण्डवम् ।
तन्वाया वायवो यान्ति विभिन्नाब्दाब्धिवीचयः ॥ २८ ॥

विभिन्ना अब्दाः अब्धिवीचयश्चयैः । शैत्यमान्द्यसौरभ्योपपादकानि विशेषणानि ॥
२८ ॥

तात चूतकदम्बाग्रपरामर्शसुगन्धयः ।
वलयन्त्यब्धिकल्लोलान्गन्धमादनवायवः ॥ २९ ॥

जलदान्वलयन्वायुरलकालकतां गतान् ।
इत आयाति पुष्पाभ्रं रचयन्वनवीथिषु ॥ ३० ॥

अलकायाः कुबेरपुर्या अलकतां कुन्तलतां गतान्प्राप्तान् ॥ ३० ॥

कुन्दमन्दारसन्दोहमधुरामोदमन्थरान् ।
तुषारसीकरोन्मिश्रानिवात्र कलयानिलान् ॥ ३१ ॥

अत्रास्मिन्गन्धमादने अनिलान्कलय स्पृश ॥ ३१ ॥

नालिकेरलतालास्यलब्धतिक्तसुगन्धयः ।
पतन्ति पवनाः पश्य पारसीकपुरीः पुरा ॥ ३२ ॥

नालिकेरतरूणां मल्लिकादिलतानां च लास्येन क्रमाल्लब्धस्तन्मद्यतिक्तगन्धः
सुगन्धश्च यैः । पुरा पश्य ॥ ३२ ॥

धुन्वानाः पुष्पितेशानवनकर्पूरवारिदान् ।
चालयन्तोऽनिला वान्ति कैलासकमलाकरान् ॥ ३३ ॥

पुष्पितं यदीशानस्य प्रमदवनं तत्रत्यकदलीकर्पूरसुरभीन्वारिदान्धुन्वानाः ॥
३३ ॥

करीन्द्रकुम्भनिष्क्रान्तमदमन्थरमूर्तयः ।
इमे शुकशुकायन्ते विन्ध्यकन्दरवायवः ॥ ३४ ॥

शुकशुकायन्ते इति वीरणस्तम्बोद्भूताव्यक्तध्वन्यनुकरणम् । अथवा विन्ध्यशुकैः
सह निर्गमनात्तद्वर्णैः शुकायन्ते हरितायन्ते ॥ ३४ ॥

शबरीणां शरीरेषु शीर्णपर्णोत्करे गिरौ ।
नाराचैः पर्णशबरैर्वनाली नगरायते ॥ ३५ ॥

शबरीणां शरीरेषु परिधानकल्पनया शीर्णपर्णोत्करे मलयगिरौ पर्णपरिधानैः
शबरैस्तन्नाराचैश्च पूर्णा अल्पावशेषमृगपक्षिगणा मलयवनाली
नगरमिवाचरति नगरायते ॥ ३५ ॥

अब्ध्यद्रिसरिदम्भोदवनलेखाङ्गिका दिशः ।
त्वत्प्रतापबलैरेता हसन्तीवार्करश्मिभिः ॥ ३६ ॥

अत्रोपशैलवनवीथिषु पुष्पशय्या विद्याधरीविरचिताः परिवर्णयन्ति ।
पार्श्वद्वयस्थपरिवृत्तपदात्समुद्राद्व्यावृत्तमुग्धवनितापुरुषायितानि ॥
३७ ॥

अत्रास्मिन्प्रदेशे उपशैलवनवीथिषु रत्यर्थ विद्याधरीभिर्विरचिताः पुष्पशय्याः
परिवर्णयन्ति सूचयन्ति । कस्माल्लिङ्गात्किं सूचयन्ति तदाह - पार्श्वेति । समुद्रात्
अलक्तकमुद्रासहितात्पार्श्वद्वयस्थात्परिवृत्तात्सम्यङ्निष्पन्नात्पदालिङ्गात् । पुंसि
रतिश्रान्ते सति अधोदेशाद्व्यावृत्तायाः मुग्धवनितायाः उपरि सुरतलक्षणानि
पुरुषायितानि पुरुषवदाचरणानि सूचयन्तीत्यर्थः ॥ ३७ ॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वा० दे० मो० निर्वा० उ० अवि० विप० दिग्दर्शनं
नाम चतुर्दशाधिकशततमः सर्गः ॥ ११४ ॥

इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे निर्वाणप्रकरणे उत्तरार्धे
दिग्दर्शनं नाम चतुर्दशाधिकशततमः सर्गः ॥ ११४ ॥