त्रयोदशाधिकशततमः सर्गः ११३
श्रीवसिष्ठ उवाच ।
बलान्यनुतरन्तोऽथ तदित्थं द्रवतां द्विषाम् ।
दूराद्दूरतरं प्राप्ताश्चत्वारस्ते विपश्चितः ॥ १ ॥
अस्त्राणामरिसंशान्त्या साधनानां च सङ्क्षयः ।
अर्णवानां च विभवो वर्ण्यते विस्तरादिह ॥
दवतां द्विषां बलान्यनुतरन्तोऽनुधावमानाः ॥ १ ॥
सर्वशक्तिमयैकेन चेतनेनेश्वरेण ते ।
प्रहिता दिग्जयं चक्रुः सर्व एव समाशयाः ॥ २ ॥
सर्वशक्तिमयेन सर्वऽसक्तिसम्भृतेन सर्वदेहेष्वेकेन चेतनेनेश्वरेण प्रहिता
दिग्विजयाय प्रवर्तिताः । समाशयास्तुल्याभिप्रायाः ॥ २ ॥
दूरात्तावदविच्छिन्नमनुसस्रुर्बलानि ते ।
यावत्तीरं समुद्राणां प्रवाहाः सरितामिव ॥ ३ ॥
अविच्छिन्नमरिबलैरनुस्यूतं यथा स्यात्तथा अनुसस्रुः ॥ ३ ॥
दूराविश्रान्तयानेन तेषां तत्सर्वसाधनम् ।
आत्मीयं परकीयं च क्षीणं कुसरिदम्बुवत् ॥ ४ ॥
दूरमविश्रान्तेन यानेन गमनेन तेषां विपश्चित्सैन्यानां तत्प्रसिद्धं सर्व
जीवनयुद्धादिसाधनं धनास्त्रशस्त्रादि प्रत्यहं व्ययेन क्षीणम् । कुसरितां
कुल्यानामम्बुवत् ॥ ४ ॥
आत्मीयान्यन्यदीयानि तेषां वीक्ष्यबलान्यलम् ।
क्षीणादीव मुमुक्षूणां पुण्यपापानि धावताम् ॥ ५ ॥
धावतां तेषां विपश्चितामात्मीयान्यन्यदीयानि च वीक्षणार्हाणि बलानि सैन्यानि
मुमुक्षूणां पुण्यपापानीव अलं निःशेषं क्षीणानि ॥ ५ ॥
स्वयमस्त्राणि शान्तानि कृतकृत्यान्यथाम्बरे ।
ज्वालाजालानि वह्नीनां दाह्यस्यासम्भवादिव ॥ ६ ॥
आलयेषु रथाश्वेभवृक्षौघादिषु हेतयः ।
आसन्निद्रालवो लीना दिनान्ते विहगा इव ॥ ७ ॥
आलयेषु निषङ्गकोशादिस्वस्थानेषु रथादिषु च लीनाः सन्तो निद्रालव इव निश्चेष्टा
आसन् ॥ ७ ॥
तरङ्गा इव तोयेऽन्तर्नीहारा इव वारिदे ।
मेघा वायाविवामोदा व्योमनीव निलिल्यिरे ॥ ८ ॥
धारापङ्कतलालीनशान्तहेतिजलेचरः ।
नाराचसीकरासारनीहारपरिवर्जितः ॥ ९ ॥
वर्षधाराप्रयुक्ते पङ्कतले आलीना अत एव शान्ता हेतिलक्षणा जलेचरा
मीनमकरादयो यस्य । तथा नाराचलक्षणैः सीकरासारनीहारैः परिवर्जित
इत्याद्यब्धिरूपकोपपादकविशेषणानां चतुर्थश्लोकस्थे
व्योमैकाब्धिरभूदित्यत्रान्वयः ॥ ९ ॥
चक्रावर्तशतोन्मुक्तो युक्तः सौम्यतयाच्छया ।
प्रशान्तमेघसंरम्भतरङ्गोत्तुङ्गवर्षणः ॥ १० ॥
प्रशान्तानि मेघसंरम्भप्रयुक्तानि तरङ्गेभ्योऽप्युत्तुङ्गानि वर्षणानि यस्मिन् ॥ १०
॥
अन्तर्लीनर्क्षरत्नौघकोणसंस्थार्कवाडवः ।
शून्यतावारिरमलो व्योमैकाब्धिरभूत्पृथुः ॥ ११ ॥
अन्तर्लीना ऋक्षलक्षणा रत्नौघा यस्मिन् । कोणे एकदेशे संस्थः अर्कलक्षणो वाडवो
वडवानलो यस्मिन् । शून्यतैव वारि यस्मिन् । ईदृशो व्योमलक्षण एकाब्धिः प्रलये
प्रसिद्ध एकार्णवः पृथुर्विस्तृतः अभूत् ॥ ११ ॥
लम्बप्रकाशगम्भीरं प्रसन्नं कान्तिमत्ततम् ।
रजोविरहितं रेजे खं मनो महतामिव ॥ १२ ॥
खं महतां मन इव रेजे । लम्बेन विस्तीर्णेनात्मप्रकाशेन सूर्यालोकेन च गम्भीरम्
। रजोगुणैर्धूलिभिश्च विरहितम् ॥ १२ ॥
अथार्णवांस्ते ददृशुराकाशस्यानुजानिव ।
विस्तीर्णान्विमलाकारान्पूरिताखिलदिक्तटान् ॥ १३ ॥
आसर्गसमाप्तेरर्णवान्वर्णयितुमुपक्रमते - अथेति ॥ १३ ॥
तरङ्गकणकल्लोलमहागुलुगुलाकुलान् ।
भूरिसीकरनीहारहारिहारिशरीरिणः ॥ १४ ॥
भूरिभिः सीकरनीहारहारिभिर्मेघैर्हारि मनोहरं शरीरं येषाम् ।
नित्ययोगाद्यर्थाधिक्यविवक्षया कर्मधारयादपि मत्वर्थीयः समर्थनीयः ॥ १४ ॥
स्थितानात्मानमास्तीर्य भूमौ व्याध्यातुरानिव ।
श्वसनार्तांश्चलद्देहान्विवर्तोर्मिमहाभुजान् ॥ १५ ॥
आत्मानं स्वदेहं भूमौ आस्तीर्य प्रसार्य । विवर्त्यन्त इति विवर्ता उत्क्षिप्यमाणा
ऊर्मिमहाभुजा येषाम् ॥ १५ ॥
जडानपि स्पन्दमयान्कल्लोलाकोटकोटरान् ।
संसारानिव विस्तीर्णांश्चक्रावर्तदशाकुलान् ॥ १६ ॥
संसारपक्षे कल्लोलाः षडूर्मयस्तैराकोटाः कुटिलाः कोटरा जलाशया येषु ॥ १६ ॥
रत्नराशितटोद्द्योतपीवरीकृतभास्करान् ।
शङ्खराशिविशद्वातशब्दतर्जितघुङ्घुमान् [वर्धितेत्यपि क्वचित्पाठः
स न व्याख्यानुगुणः ।] ॥ १७ ॥
रत्नराशिधरैस्तटोद्द्योतैरुदयकाले पीवरीकृतः स्थूलीकृत इव भास्करो यैः ।
शङ्खराशिषु विशतो वातस्य शब्द एव तर्जितघुङ्घुमस्तर्जनध्वनिर्येषाम् ॥ १७ ॥
मांसलोर्मिघटाघोषघर्घराम्बरडम्बरान् ।
वर्तुलावर्तविस्तारप्रभ्रमद्विद्रुमद्रुमान् ॥ १८ ॥
मांसलानां पुष्टानामूर्मिघटानां घोषैर्मेघघर्घराम्बरडम्बरयुक्तान् ॥
१८ ॥
मकरव्यूहनिर्ह्रादघर्घरोदरघुङ्घुमान् ।
मत्स्यपुच्छच्छटाच्छिन्नमज्जत्पोतकृतारवान् ॥ १९ ॥
पुच्छच्छटा पुच्छाग्रं तेन छिन्नैर्द्विधाकृतैरत एव मज्जद्भिः पोतैः
कृतारवान् ॥ १९ ॥
उद्ग्रीवकूर्ममकरनिगीर्णैर्णनरोत्करान् ।
ऊर्मिबिम्बितसप्ताश्वसहस्नार्कनभोनिभान् ॥ २० ॥
उद्भीवैः कूर्मैर्मकरैश्च निगीर्णा और्णा ऊर्णाम्बरा नरोत्करा येषु । सामुद्राणां
नराणां प्रायेणौर्णाम्बरत्वद्योतनायौर्णेति विशेषणम् ॥ २० ॥
भाङ्कारकारिपवनपतद्भूत्यततोद्घटान् ।
ऊर्म्युदस्तमणिव्रातबलाज्झणझणध्वनीन् ॥ २१ ॥
विस्तीर्णपटे भाङ्कारकारिभिः पवनैः पतन्तो गच्छन्तो भूत्याः
भूतिसम्भृतास्तताः उत् ऊर्ध्वं घटन्ते चेष्टन्त इत्युद्घटाः पोता येषु । बलात्
पतनाभिघातबलात् ॥ २१ ॥
नानाजालैर्बलभुजैर्हेलास्पृष्टार्कमण्डलान्
नमदुन्नमदुद्रश्मिरत्नमाणिक्यमण्डलान् ॥ २२ ॥
उत्फालफेनिलावर्तविवर्तमकरोत्करान् ।
क्वचित्करिकरोन्नामैः क्षणं वंशवनीकृतान् ॥ २३ ॥
करिणां कराणां शुण्डानामुन्नामैरुन्नमनैर्वंशवनमिव कृतान् ॥ २३ ॥
तहरीवल्लरीवालान्पृष्ठतालिषु माध्वान् ।
क्वचिदन्तरविश्रान्तसपरिच्छदमाधवान् ॥ २४ ॥
लहरीषु वल्लर्य इव करिणां वालाः पुच्छानि येषु तान् । करिणां पृष्ठसमूहः
पृष्ठता तल्लक्षणास्वालिषु पङ्क्तिषु माधवान्वसन्तानिव फेनपुञ्जैः पुष्पितान् ।
क्वचित् श्वेतद्वीपादौ ॥ २४ ॥
एकदेशस्थितासङ्ख्यनानासुरसुरालयान् ।
तारानवतरङ्गौघपरिदन्तुरिताम्बरान् ॥ २५ ॥
नानाविधानामसुराणां सुराणां चालयभूतान् ।
द्वन्द्वगर्भषष्ठीतत्पुरुषान्तचतुष्पदबहुव्रीहिर्वा ।
प्रतिबिम्बफेनादितारावद्भिर्नवतरङ्गौघैः परिदन्तुरितं परिहसितमम्बरं यैः
॥ २५ ॥
गुहामशकवद्गर्तभीतशाखायिताचलान् ।
नयतोम्बुतरङ्गौघैर्वेलाद्रीनतिखर्वताम् ॥ २६ ॥
गुहास्थमशकवत्पातालगर्ते निविष्टा बहिर्निर्गमनभीता अत एव मूलस्थशाखायिता
अचला येषाम् । खर्वतां नयत इति वेलाद्यपेक्षया ।
तरङ्गौघाणामौन्नत्यसम्पादनादिति भावः ॥ २६ ॥
खक्षेत्रारोपितानल्परत्नरश्मिपथाङ्कुरान् ।
शुद्धशुक्तिमुखोन्मुक्तमुक्तान्तरितसैकतान् ॥ २७ ॥
रश्मिपथाः रश्मिप्रसराः । खक्षेत्रे आरोपितास्तल्लक्षणा अङ्कुरा यैस्तान् ॥ २७ ॥
नानारत्नांशुकौशेयसूत्रचित्रांस्तरङ्गितान् ।
विशन्नदीन्दशादिग्भिः समाकीर्णान्पटानिव ॥ २८ ॥
नानारत्नांशुलक्षणैः कौशेयसूत्रैश्चित्रान् । विशन्त्यो नद्य एव
तुरीप्रवेश्यमानतन्तवो येषां तान् । दशाभूताभिर्दिग्भिः परितः समाकीर्णान् अत एव
ऊयमानपटानिव स्थितान् ॥ २८ ॥
इन्द्रनीलतटैर्व्युप्तमुक्ताशुक्तिशताङ्कितैः ।
क्वचिद्दर्शयतः कान्तशतेन्दुकनखश्रियम् ॥ २९ ॥
कान्तशतेन्दुकामिव नखश्रियं क्वचिद्दर्शयतः ॥ २९ ॥
रत्नांशुजालसन्दिग्धास्तरङ्गादेशबिम्बिताः ।
परिवर्तयतः फुल्लास्तीरतालीवनावलीः ॥ ३० ॥
तरङ्गाणामादेशेषु प्रदेशेषु प्रतिबिम्बितास्तीरतालीवनावलीस्तरङ्गपरिवृत्त्या
परिवर्तयतः ॥ ३० ॥
एलालवङ्गकङ्कोलफलमालां जिघृक्षुभिः ।
वेलावनलताभ्रष्टामात्तावृत्तीञ्जलेचरैः ॥ ३१ ॥
वेलावनलताभ्यो भ्रष्टामेलादिफलमालां जिघृक्षुभिर्जलेचरैः आत्ता
आवृत्तयस्तीरे सञ्चारा येषु तान् ॥ ३१ ॥
चूतनीपकदम्बाग्रविहगान्प्रतिबिम्बितान् ।
भुञ्जानैर्विप्रलम्भेन कृताच्छोटाञ्जलेचरैः ॥ ३२ ॥
भक्ष्योपदर्शनादिच्छद्मना तरङ्गसन्निधावाकृष्य भुञ्जानैर्जलचरैः
कृता आच्छोटा अङ्गुलीध्वनयस्तत्प्राया ध्वनयो येषु ॥ ३२ ॥
खेचरप्रतिबिम्बेन विद्रवद्भिरितस्ततः ।
भग्नबन्धबृहत्सेतून्क्षणः प्रति जलेचरैः ॥ ३३ ॥
अमूर्तान्प्रतिबिम्बेन हृदयस्थजगत्त्रयान् ।
चतुरो व्योमविपुलान्दिक्षु नारायणानिव ॥ ३४ ॥
अमूर्तत्वादिसाधर्म्येण दिक्षु चतुरो नारायणानिव स्थितान् ॥ ३४ ॥
अतिगाम्भीर्यनैर्मल्यविस्तारविभवैर्नभः ।
निगीर्य सन्दर्शयतो हृदयादिव बिम्बितम् ॥ ३५ ॥
जलचारिविहङ्गानां साकाशं प्रतिबिम्बितम् ।
आशयैर्दधतः सारैः पद्मान्भृङ्गमिवात्मगम् ॥ ३६ ॥
आशयैर्हृदयैर्दधतः । आत्मगं कोशगर्भस्थम् ॥ ३६ ॥
तरङ्गतरलास्फालमारुतैराहताम्बरान् ।
कन्दरोद्गारगम्भीरैः कल्पान्तजलदालयान् ॥ ३७ ॥
गम्भीरैरिति भावप्रधानो निर्देशः । अन्तर्गतगिरिकन्दरासु
पवनप्रवेशनिर्गमलक्षणो य उद्गारस्तदनुमेयकन्दरागाम्भीर्यैः
कल्पान्तजलदानामालयभूतान् ॥ ३७ ॥
गुहागुलुगुलावर्तनिर्घोषाशनिभीषणान् ।
भृशं भावयतो ग्रस्तानगस्त्यौर्वानलानिव ॥ ३८ ॥
गुहासु गुलुगुलारूपैरावर्तनिर्घोषैः अशनय इव भीषणान् । स्वग्रासिनः
अगस्त्यानौर्वानलांश्च गुहोदरेषु भृशं ग्रस्तान्सम्भावयत इव ॥ ३८ ॥
भूरिसीकरपुष्पाणि तरङ्गौघतरूणि च ।
प्राप्तान्यम्बुवनानीव लहरीमञ्जरीणि खम् ॥ ३९ ॥
तथा खं प्राप्तान्यम्बुवनानि भावयत इव स्थितान् । कीदृशान्यम्बुवनानि ।
भूरिसीकरा एव पुष्पाणि येषु तानि । तरङ्गौघास्तरवो येषु । लहर्यो मञ्जर्यो येषु ॥
३९ ॥
सरत्तरङ्गजालानि प्रोड्डीनप्राणिमन्त्यधः ।
आकाशखण्डखण्डत्वात्पतितानीव विभ्रमात् ॥ ४० ॥
तथा प्रोड्डीनप्राणिमन्ति मत्स्यादियुक्तानि सरन्ति तरङ्गजालानि आकाशस्य खण्डे
शस्त्रैः खण्डने कृते खण्डत्वादेव अधः पतितानीव
विभ्रमाद्भावयतश्चतुरोऽर्णवांस्ते ददृशुरिति पूर्वत्रान्वयः ॥ ४० ॥
एलालवङ्गबकुलामलकीतमालहिन्तालतालदलताण्डवखण्डिताग्रे ।
प्राप्ते पतल्लवणवारिधिदीर्घतीरं रेखा बभावलिनिभाम्बरशैलमूर्ध्नि ॥ ४१
॥
वर्णितप्रकारैः पततां तरङ्गैः प्रत्युद्गच्छतां लवणवारिधीनां दीर्घतीरं
विपश्चित्सैन्ये प्राप्ते सति परितो दीर्घे तीराग्रे अम्बरसम्पृक्तानां शैलानां मूर्ध्नि
एलालवङ्गादिवृक्षाणां दलताण्डवैः खण्डिता विभक्ता अलिनिभा श्यामला
वनरेखा बभौ अशोभतेत्यर्थः ॥ ४१ ॥
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मो० निर्वा० उ० अवि० विप०
समुद्रवर्णनं नाम त्रयोदशाधिकशततमः सर्गः ॥ ११३ ॥
इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे निर्वाणप्रकरणे उत्तरार्धे
समुद्रवर्णनं नाम त्रयोदशाधिकशततमः सर्गः ॥ ११३ ॥