द्वादशाधिकशततमः सर्गः ११२
श्रीवसिष्ठ उवाच ।
लोकहाराम्बरव्यालं चेदिचन्दनकाननम् ।
छिन्नं परशुधाराभिः पतितं दक्षिणार्णवे ॥ १ ॥
यत्र यत्र यथा नष्टा यद्यद्देश्याः पलायिताः ।
वर्ण्यन्तेऽत्र तथा सर्वे चतुर्दिक्षु द्विषद्भटाः ॥
तत्र प्रथमं चेदिदेशभटानां नाशप्रकारमाह - लोकेति । चेदिभटलक्षणं
चन्दनकाननं परशुभिश्छिन्नं सद्दक्षिणार्णवे पतितम् । तत्र
चन्दनवृक्षाणां व्यालवेष्टितत्वप्रसिद्धिसमर्थनाय विशिनष्टि - लोकेति ।
लोक्यन्त इति लोका दर्शनीया हारा अम्बराणि च व्याला यस्मिन् । अत्र सर्वत्र देशनाम्नैव
भटनिर्देशो बोध्यः ॥ १ ॥
पर्णवत्प्रोह्य [मूलस्थप्रोह्येति ल्यबन्तस्य प्रवहणं प्राप्येत्यर्थकरणे
फलितमिदम् ।] पूरेण पारसीकाः परस्परम् ।
प्रहरन्तो विमोहेन विनष्टा वञ्जुलावने ॥ २ ॥
पारसीका भटा अस्त्रपूरेण पर्णवत्प्रोह्यमाणा [मूलस्थप्रोह्येति ल्यबन्तस्य
प्रवहणं प्राप्येत्यर्थकरणे फलितमिदम् ।] विमोहेन परस्परं प्रहरन्तः
सन्तो वञ्जुलावने देशे विनष्टाः ॥ २ ॥
दर्दुराद्रौ दुरन्तेषु दरदीर्णहृदन्तराः ।
दरीरन्ध्रेषु संलीना दरदा दानवा इव ॥ ३ ॥
तथा दरदा भटा दर्दुराद्रौ दुरन्तेषु दरीरन्ध्रेषु संलीनाः ॥ ३ ॥
चतुरायुधधाराग्रचूर्णनीहारधारिणः ।
विद्युद्वलयिनो वाता वेल्लितायुधवारिदाः ॥ ४ ॥
शरप्रासासिपरशुलक्षणानां चतुर्णामायुधानां
धाराग्रप्रयुक्तशिलाकवचादिचूर्णलक्षणनीहारधारिणो विद्युद्भिर्वलयिनो वेष्टिता
वेल्लितायुधा वारुणास्त्रप्रयुक्ता वारिदा वाताश्चलिताः ॥ ४ ॥
दन्तिनोऽन्योन्यमाभग्नदन्तदेहौघपीडिताः ।
मृत्यूदरोम्भकग्रासपिण्डपिण्डा इवाभवन् ॥ ५ ॥
तेषु चलितेषु किमासीत्तदाह - दन्तिन इति । अन्योन्यं प्रहारैराभग्नदन्ता देहेषु
रुधिरौघेण पीडिताश्च दन्तिनो मृत्योरुदरस्य उम्भकाः पूरका ग्रासपरिमिताः
पिण्डपिण्डा इव अभवन् । द्विरुक्तिरनेकत्वद्योतनाय ॥ ५ ॥
तज्जा रैवतिका रात्रौ रौद्रतोमरताडिताः ।
रूपिकाभिः पिशाचीभिर्भुक्ता भागीकृताङ्गकाः ॥ ६ ॥
तज्जा दरददेशजा एव केचिद्रैवतिका रैवतकपर्वते निलीनाः । रूपिकाभिः स्वरूपेण
पुरुषवञ्चिकाभिः पिशाचीभिः ॥ ६ ॥
तालीतमालगहने दशार्णा जीर्णजङ्गले ।
गले पादं निधायान्तः कृत्ताः सिंहैर्गतासवः ॥ ७ ॥
दशार्णास्तद्देशजा भटाः ॥ ७ ॥
पश्चिमार्णवतीरस्था नालिकेरधरावनौ ।
यवना विगतप्राणा निगीर्णा मकरोत्करैः ॥ ८ ॥
नालिकेरधरायां वेलावनौ ॥ ८ ॥
नाराचनिकरं नीलं निमेषं नासहञ्छकाः ।
रमठा नलिनीषण्डा इव ताण्डवितासवः ॥ ९ ॥
नीलं कार्ष्णायसं नाराचनिकरं शका नासहन् । एवं रमठा अपि वाताहता
नलिनीषण्डा इव ताण्डवितासव आसन् ॥ ९ ॥
श्रवणाभोगशृङ्गाग्रो महेन्द्रोऽद्रिर्दिवि व्रजैः ।
विद्रुतैर्वलितो नीलैर्जालैर्जलमुचामिव ॥ १० ॥
श्रवणनक्षत्रस्याभोगः संस्थानमिव त्रीणि शृङ्गाग्राणि यस्य तथाविधो
महेन्द्रोऽद्रिर्विद्रुतैर्नीलैर्दिवि व्रजैर्भटैर्वलितः सन् जलमुचां जालैर्वलित इवासीत् ॥ १० ॥
चामीकरवराकारा भग्ना तङ्गणवाहिनी ।
मृता हृताम्बरा चोरैर्भुक्तैकान्ते निशाचरैः ॥ ११ ॥
तङ्गणानां भटानां वाहिनी पूर्वं चोरैर्हृताम्बरा पश्चादेकान्ते
निशाचरैर्भुक्ता सती मृता ॥ ११ ॥
द्यौरिवर्क्षभरैरासीत्तदासारं भुवस्तलम् ।
विवर्तमानैरभितः कचद्भिर्ज्वलनायुधैः ॥ १२ ॥
तदा तङ्गणसेनाभक्षणकाले तत्रत्यं भुवस्तलमभितो विवर्तमानैः
सञ्चरद्भिर्ज्वलनायुधैरुल्मुकधरैरत एव कचद्भिर्निशाचरैः
ऋक्षभरैर्नक्षत्रसमूहैर्द्योरिव सारं शोभमानमासीत् ॥ १२ ॥
धाराधरधरारन्ध्रप्रतिश्रुद्धनघुङ्घुमा ।
जगद्गेहगुहासीद्द्योर्घनं गातुमिवोद्यता ॥ १३ ॥
किं च तस्मिन्विपश्चिद्विजये जगदेव गेहगुहा यस्यास्तथाविधा द्यौर्धाराधराणां
धरारन्ध्रेषु गर्जनप्रतिध्वनिमिर्घनघुङ्घुमा बहलमृदङ्गध्वनिः सती
घनं तद्यशो गातुमुद्यतेवासीत् ॥ १३ ॥
द्विपान्तरजनाश्चक्रैर्जर्जरा जीवितं जहुः ।
मीनजङ्गलजम्बाले जीर्णमत्स्या इवाजले ॥ १४ ॥
मीनविहारजङ्गलभूते जम्बाले शैवलपल्वले दैवादजले सति मत्स्या इव अशरणाः ॥
१४ ॥
यावद्द्वीपा जिताः कुक्षौ सह्याद्रौ सममूर्तयः ।
आश्वस्य दिवसान्सप्त ययुरायासमन्थरम् ॥ १५ ॥
यावद्द्वीपाः यावद्द्वीपाभिजना भटाः सह्याद्रौ निलीय सप्तरात्रमाश्वस्य
चिकित्सादिना व्रणोपशमात्सममूर्तयः सन्त आसारैः क्लिद्यमाना आयासेन मन्थरं
मन्दं स्वदेशं ययुः ॥ १५ ॥
गन्धमादनपुन्नागवनकुञ्जेषु पुञ्जिताः ।
विद्याधरकुमारीभिर्गान्धाराः परिरक्षिताः ॥ १६ ॥
हूउणचीनकिरातानां मुक्तैस्तैश्चक्रवर्षणैः ।
कमलानीव लूनानि शिरांस्यभिमुखानिलैः ॥ १७ ॥
हूणानां चीनानां किरातानां च शिरांसि अभिमुखानिलैरत एव
वेगवद्भिर्विपश्चिन्मुक्तैश्चक्रवर्षणैः कमलानीव लूनानि ॥ १७ ॥
निलीपा नलिनीनाले कण्टका इव निश्चलाः ।
द्रुमे द्रुमे द्रुममया भयात्त्वस्यावसंश्चिरम् ॥ १८ ॥
निलीपास्तन्नामकदेशजा भटा द्रुममया वृक्षप्रायाः सन्तोऽवसन् ॥ १८ ॥
चारुसारङ्गरङ्गासु शैलकाननभूमिषु ।
चतुर्दिक्कं तदापातैः सम्पन्नं क्षोभणं घनम् ॥ १९ ॥
सारङ्गाणां मृगाणां पक्षिणां च विहारे रङ्गभूमिभूतासु
शैलकाननभूमिषु तस्य विपश्चित आपातैर्घनमतिशयितं क्षोभणं सम्पन्नम् ॥
१९ ॥
कण्टकस्थलनामानः कण्टकस्थलकर्कशाः ।
कण्टकस्थलगा आसन्कण्टकस्थलमण्डले ॥ २० ॥
कण्टकस्थलं करञ्जवनमिव कर्कशाः कण्टकानां दस्यूनां स्थले मण्डले
देशे कण्टकस्थलगाः करञ्जादिवननिलीना आसन् ॥ २० ॥
पारसीकाः परं पूरैः पारं प्राप्य पयोनिधेः ।
निपेतुः पवनैः पूताः प्रलये तारका इव ॥ २१ ॥
ववुरम्भोधिकुट्टाका दृषदां कटकाङ्किताः ।
सर्वदिग्वनलुण्टाका वाताः प्रलयशङ्किताः ॥ २२ ॥
दृषदां प्रहारैः पर्वतकटकेषु अङ्किताः कृतचिह्नाः । प्रलयशङ्किताः
प्रलयशङ्काविषयीकृताः ॥ २२ ॥
आसारसाराः पङ्काम्बुप्लुताः सघनघुङ्घुमाः ।
आसन्दशदिशोऽदृश्या बहुक्षुब्धायुधानिलैः ॥ २३ ॥
दशदिशो बहुक्षुब्धैरायुधैरनिलैश्च आसारसारा भूत्वा पङ्काम्बुप्लुता
अदृश्या आसन् ॥ २३ ॥
निर्ह्रादकारिभिर्वातैर्वहच्छपछपारवम् ।
प्रसस्रुर्भुवि नीहारा महार्णवरया इव ॥ २४ ॥
वातैर्नीहारा वहच्छपछपारवं यथा स्यात्तथा प्रसस्रुः ।
छपछपेत्यव्यक्तनीहाराभिघातध्वन्यनुकरणम् । महार्णवरया अपि वातप्रयुक्ता
वहच्छपछपारवाश्च तदनुभविनां प्रसिद्धाः ॥ २४ ॥
विदूरस्था रथेभ्यश्च वीचिचीत्कारकारिणः ।
सरोम्भस्यनिलैः पेतुः पद्मेभ्य इव षट्पदाः ॥ २५ ॥
अनिलैः प्रोह्यमाणा विदूरदेशस्था रथिका वीचय इव चीत्कारकारिणः सन्तः सरोम्भसि
पेतुः ॥ २५ ॥
आयुधौघेऽपि चक्रौघात्पादातं बलमाविलम् ।
रजोराशिरिवासारे न समर्थं पलायते ॥ २६ ॥
तेषां पादातं बलं तु आयुधौघे सत्यपि विपश्चिच्चक्रौघादाविलमश्रुकलुषाक्षं
सत् आसारे धारासम्पाते रजोराशिः पांसुजालमिव पलायने न समर्थमभूत् ॥ २६ ॥
हूणा आमस्तकं मग्ना उत्तरार्णवसैकते ।
क्लिन्नास्तत्रैव पङ्कान्तः पूरणाविलशूलवत् ॥ २७ ॥
भुवि पूरणेन आविलं मृन्मालिन्यमापद्यमानं लोहशूलं यथा क्लिद्यते
तद्वत्क्लिन्नाः ॥ २७ ॥
तीरैलावनलेखासु शकाः पूर्वपयोनिधेः ।
नीता बद्ध्वा दिनं मुक्ता न गता यमसादनम् ॥ २८ ॥
शका भटाः पूर्वपयोनिधेस्तीरैलावनलेखासु नीताः सन्तो दिनमात्रं विपश्चिता
बद्ध्वा पश्चाद्दययामुक्ता यमसादनं न गताः । न मृता इत्यर्थः ॥ २८ ॥
मन्दं मन्द्रा महेन्द्राद्रौ क्रन्दन्तः पतिता दिवः ।
आश्वासिता मुनिवरैर्निजाश्रममृगा इव ॥ २९ ॥
दिवो द्युवदुन्नताद्गिरिशिखरात् ॥ २९ ॥
प्रविष्टा याचनं सह्ये लब्धाः सुरबिलाद्द्वयम् ।
अनर्थेनाऽर्थ आयाति काकतालीयतः क्वचित् ॥ ३० ॥
सह्ये गिरौ प्रविष्टा भटास्तु मूकाम्बिकासन्निधौ कुटजाढ्याख्ये तच्छिखरे
दैवात्प्रविष्टात्सुरबिलात् द्वयं ऐहिकामुष्मिकं याचनं अभिलषितसिद्धिफलं
लब्धाः प्राप्तवन्तः । तथा हि । भाग्योदयकाले क्वचित्काकतालीयन्यायतः अनर्थेनापि
अर्थः पुरुषार्थ आयाति । यतो मरणार्हं सुरबिलं प्रविष्टैः सिद्धयो लब्धा इत्यर्थः
॥ ३० ॥
पतिता दर्दुरारण्ये दशार्णा जीर्णपर्णवत् ।
भुक्त्वा विषफलान्यज्ञा मृतास्तत्रैव ते स्वयम् ॥ ३१ ॥
दशार्णा भटा दर्दुरगिरेररण्ये पतिताः प्रविष्टाः सन्तः ॥ ३१ ॥
विशल्यकरणीं भुक्त्वा काकतालीययोगतः ।
हिमाद्रौ हैहया याता गृहं विद्याधरा इव ॥ ३२ ॥
हैहयदेशीया भटा हिमाद्रौ विशल्यकरणीमोषधिं भुक्त्वा विद्याधरा इव
खेचराः सन्तो गृहन्न् याताः ॥ ३२ ॥
पृष्ठनृम्लानकुसुमा धनुर्भिर्गृहमागताः ।
वङ्गा नाद्यापि दृश्यन्ते पिशाचत्वमिवागताः ॥ ३३ ॥
एवं वङ्गा अपि हैमवतीरोषधीर्भुक्त्वा पृष्ठलग्ना नरा इव म्लानानि
उत्तंसकुसुमानि येषां तथाविधाः सन्तः शरव्ययात्केवलं धनुर्भिरुपलक्षिता
गृहमागताः सन्तो भयादद्यापि बहिर्निःसरणाभावान्न दृश्यन्ते ॥ ३३ ॥
अङ्गा वनफलैर्भुक्तैर्विद्याधरपदप्रदैः ।
विद्याधरीभिः क्रीडन्ति दिवि विद्याधराः स्थिताः ॥ ३४ ॥
दिवि विद्याधरा भूत्वा स्थिताः ॥ ३४ ॥
तालीतमालखण्डेषु पतिताः पातिताङ्गकाः ।
पारसीका गता मोहं भ्रमाद्वैमानिका इव ॥ ३५ ॥
पारसीकास्तालीतमालखण्डेषु पतिताः प्रविष्टमात्राः शत्रुभिः पातिताङ्गकाः सन्तो
मोहन्न् मूर्च्छां गताः । तत्र च भ्रमाद्वैमानिका इवाभवन् ॥ ३५ ॥
तरलासारमातङ्गं पतितं तङ्गणाङ्गणे ।
अङ्गैरङ्ग कलिङ्गानां चतुरङ्गं बलं हतम् ॥ ३६ ॥
हे अङ्ग कलिङ्गानां तरलासारमातङ्गं चतुरङ्गं बलं अङ्गैर्हतं सत्
पलायमानं तङ्गणाङ्गणे पतितम् ॥ ३६ ॥
क्रमत्यरिबले साल्वाः शरशैलोदकोदरे ।
पतिताः प्रभुणा सार्धमद्याप्येवोपलाः स्थिताः ॥ ३७ ॥
साल्वा भटाः शराः शैलाः शिलासमूहा उदकानि चोदरे यस्य तथाविधे अरिबले
क्रमति आक्रमति सति प्रभुणा सार्ध पतितास्ते चाद्यापि तद्देशग्रामदेवताभूता
उपलाः प्रतिमा भूत्वा स्थिताः ॥ ३७ ॥
असङ्ख्याः प्रपलायन्तः ककुभं ककुभन्न् प्रति ।
नराः सरत्तरङ्गेषु सागरेषु लयं गताः ॥ ३८ ॥
क्षेत्राटवीपुरजलस्थलशैलकूलकुल्याग्रहारसरिदब्धिभृगुद्रुमेषु ।
ग्रामारपट्टिगिरिकूपगुहागृहेषु भ्रष्टानि कः कलयितुं कुबलानि शक्तः ॥
३९ ॥
न केवलं सागरेष्वेव किन्तु क्षेत्रेष्वटवीषु पुरेषु जलेषु स्थलेषु शैलेषु कूलेषु
कुल्यासु अग्रहारेषु सरित्सु अब्धिषु भृगुषु द्रुमेषु तथा ग्रामेषु आरपट्टिषु
शुल्कस्थानेषु गिरिषु कूपेषु गुहासु गृहेषु च भ्रष्टानि मृतानि तेषां कुबलानि
कलयितुं गणयितुं कः शक्तः । न कश्चिदपीत्यर्थः ॥ ३९ ॥
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मो० नि० उ० अवि० वि० बलपरिभ्रंशो
नाम द्वादशाधिकशततमः सर्गः ॥ ११२ ॥
इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे निर्वाणप्रकरणे उत्तरार्धे
बलपरिभ्रंशो नाम द्वादशाधिकशततमः सर्गः ॥ ११२ ॥