१११

एकादशाधिकशततमः सर्गः १११

श्रीवसिष्ठ उवाच ।

इति कल्पान्तसदृशे यत्ते समरसम्भ्रमे ।
पतन्तीषूत्पतन्तीषु सेनासु समरेजिरे ॥ १ ॥

स्वसैन्ये हीयमानेऽत्र निर्गतेन महीभृता ।
वायव्यास्त्रैश्चतुर्दिक्षु वर्ण्यते द्विषतां क्षयः ॥

यत्ते प्रवृत्ते । सर्वेषां भावलक्षणसप्तम्यन्तानां पञ्चमश्लोके
उदभूदित्यत्रान्वयः ॥ १ ॥

तूर्यभेरीमहाशङ्खखड्गेषु खे नदत्सु च ।
धनुर्ध्वनिषु वीराणां तारक्रेङ्कारकारिषु ॥ २ ॥

तूर्यादिषु त्रिषु प्रतिध्वनिभिः खे तत्र खड्गेषु च नदत्सु । वीराणां
तारक्रेङ्कारानुकारिषु ॥ २ ॥

अन्योन्यकठिनास्फोटविकटे भटपेटके ।
कवत्कटकटाटोपे कटुकुट्टितकङ्कटे ॥ ३ ॥

भटपेटके योधकदम्बे कटु यथा स्यात्तथा कुट्टितकङ्कटे कवत्कटकटाटोपे
सति । कुशब्दे शतृप्रत्ययः ॥ ३ ॥

किञ्चित्प्रभज्यमानासु विशत्कश्मासु सङ्गरे ।
विपश्चित्पक्षसेनासु लूयमानलतास्विव ॥ ४ ॥

विशन्ती कश्मा मूर्च्छा यासु ॥ ४ ॥

उदभूत्पूरयन्नाशा नृपनिर्याणदुन्दुभिः ।
चतुर्धाशनिसम्पूर्णकल्पाभ्ररवमांसलः ॥ ५ ॥

स्फुटतां कुलशैलानां तुल्यकालमिवोत्कटः ।
स्फुटच्चटचटास्फोटैर्जडिताखिलदिक्तटः ॥ ६ ॥

तुल्यकालं स्फुटताम् । जडितानि जडीकृतानि ॥ ६ ॥

लोकपालैरिवाकारैर्नारायणभुजैरिव ।
स चतुर्भिश्चतुर्दिक्कं निर्जगाम महीपतिः ॥ ७ ॥

आकारैर्मूर्तिधरैर्नारायणभुजैरिव चतुर्भिर्देहैः ॥ ७ ॥

चतुरङ्गेण महता सैन्येन परिवारितः ।
अट्टालवलयात्कृच्छ्रान्निर्गत्य नगराद्बहिः ॥ ८ ॥

ददर्शात्मबलं रिक्तं बलवद्रिपुमण्डलम् ।
गर्जन्तं च लयाकृत्या भीमं युद्धोद्धतार्णवम् ॥ ९ ॥

आत्मबलं रिक्तं ददर्श । रिपुमण्डलं तु बलवत् ऊर्जितं ददर्श । तदेव
रिपुमण्डलमर्णवत्वेन वर्णयति - गर्जन्तमित्यादिना ॥ ९ ॥

शरसीकरनीरन्ध्रं मकरव्यूहसङ्कुलम् ।
वारणव्यूहवलितं तरङ्गव्यूहविस्तृतम् ॥ १० ॥

प्रायेण रूपकाणि सर्वत्र ॥ १० ॥

चक्रावर्तवहद्व्यूहकल्लोलकलितान्तरम् ।
चलद्रथशतावर्तं पताकालहरीगणम् ॥ ११ ॥

चक्रावर्तवद्वहद्भिर्व्यूहैः सेनारचनाभेदैर्जनकल्लोलैश्च कलितान्तरम् ॥ ११ ॥

प्रस्फुरच्छत्रफेनाढ्यन्न् हयहेषितफीत्कृतम् ।
समुल्लसद्धेतिजलं कचद्धाराकरं परम् ॥ १२ ॥

हयानां हेषितमेव यादसां फीत्कारशब्दो यत्र । कचन्तीनां धाराणामाकरम् ॥ १२

तरत्तरलमातङ्गतुरङ्गौघतरङ्गकम् ।
हेत्यम्भसि कचत्पापमुद्यद्गुलुगुलोदरम् ॥ १३ ॥

हेतिलक्षणे अम्भसि कचन्तः प्रकाशमानाः पापाः कृष्णसर्पायमाणा म्लेच्छा
यत्र । द्रविडादिभटवार्ताभिरुद्यद्गुलुगुलोदरम् ॥ १३ ॥

दरीदलनसङ्क्षुब्धमरुज्जनितघुङ्घुमम् ।
नतोन्नतकृताद्रीन्द्रमहास्पन्दशरीरकम् ॥ १४ ॥

नतैरुन्नतैश्च मातङ्गैः कृता अद्रीन्द्राणां मज्जनोन्मज्जनलक्षणमहास्पन्दा
यस्मिंस्तथाविधविपुलशरीरकम् ॥ १४ ॥

मज्जन्मातङ्गतुरगहेलाहतमहीधरम् ।
अपारविचरत्पूरकल्लोलालमहाजलम् ॥ १५ ॥

अपारं विकचन् यः सेनापूरस्तदेव कल्लोलैरलं भूषितं महाजलं यस्य ॥ १५ ॥

अकालकल्पान्तदशासमुत्थानघनाकृतिम् ।
आक्रान्तरोदसीरन्ध्ररुधिरैकमहार्णवम् ॥ १६ ॥

अकाले कल्पान्तदशासमुत्थानमिव घना आकृतिर्यस्य । रोदसीरन्ध्रेत्यलुक् छान्दसः
॥ १६ ॥

कचदायुधखण्डौघडीनरत्नावृतोदरम् ।
चलद्व्यूहचलद्व्यस्तयन्त्राश्मक्षेपणाश्मकम् ॥ १७ ॥

कचद्भिरायुधखण्डौघलक्षणैर्डीनैरुच्छलद्भी रत्नैरावृतोदरम् । चलत्सु
सेनाव्यूहेषु चलन्तो व्यस्ता यन्त्राश्मक्षेपणाश्मका यन्त्र । समुद्रेऽपि पोतेषु
सामुद्रजनानां यन्त्राश्मक्षेपणाश्मनां प्रसिद्धेरिति भावः ॥ १७ ॥

रत्नसीकरनीहारसन्ध्याभ्रपटलानतम् ।
क्वचित्पांसुपयोवाहपीतहेतिपयोधरम् ॥ १८ ॥

तमालोक्य रणाम्भोधिमगस्त्योऽस्य भवाम्यहम् ।
इति सञ्चिन्त्य मन्सा स पातुं तं प्रणार्णवम् ॥ १९ ॥

तं वर्णितप्रकारं रणेहेतुं रिपुबलाम्भो धिमालोक्यास्य पाने अहमगस्त्यो
भवामीति सञ्चिन्त्य स विपश्चित्तं बलार्णवं पातुं वायव्यमस्त्रं सस्मार ॥ १९ ॥

अस्त्रं सस्मार वायव्यं चतुर्दिक्कं च सन्दधे ।
धनुषि शिखराधारे त्रिपुरान्त इवोद्यतः ॥ २० ॥

यथा शिखराणामाधारे मेरुलक्षणे धनुषि त्रिपुराणां अन्ते वधे उद्यतः शिवः
अस्त्रं सन्दधे तद्वत् ॥ २० ॥

आत्मीयदेशसैन्यानां श्रेयोर्थं शान्तयेऽनलम् ।
नमस्कृत्याथ जप्त्वाशु स तत्तत्याज दारुणम् ॥ २१ ॥

शत्रुशान्तये इति पाठे नमस्कृत्य अनलमिति शेषः । सः तदस्त्रं तत्याज ॥ २१ ॥

यथा तत्रैव तत्याज तस्य साहायकाय सः ।
पर्जन्यास्त्रं महास्त्रेशं द्विषदातपशान्तये ॥ २२ ॥

यथा वायव्यमस्त्रं तत्याज तथैव तस्य साहायकाय पर्जन्यास्त्रमपि तत्याजेत्यर्थः
॥ २२ ॥

तस्मादस्त्रजुषो घोराद्धनुषः परिनिर्गताः ।
अष्टमूर्तेश्चतुर्दिक्कमाशाकुहरपूरकाः ॥ २३ ॥

चतुर्दिक्कां अस्त्रद्वयजुषः अत एवाष्टमूर्तेस्तस्माद्धनुषो बाणादिसरितो निर्ययुरिति
परेणान्वयः ॥ २३ ॥

निर्ययुर्बाणसरितस्त्रिशूलसरितस्तथा ।
शक्तीनामुग्रसरितो भुशुण्डीसरितस्तथा ॥ २४ ॥

मुद्गराणां च सरितः प्रासानां सरितो रयात् ।
चक्राणां चैव सरितः परश्वधनदीरयाः ॥ २५ ॥

तोमराणां च सरितो भिन्दिपालमहापगाः ।
पाषाणानां च सरितो वाताः कल्पान्तशंसिनः ॥ २६ ॥

वाताश्चण्डवायवः ॥ २६ ॥

अशनीनां च सरितो विद्युतां सरितस्तथा ।
जलधारासरित्पूराः खड्गवर्षसमन्विताः ॥ २७ ॥

सनाराचा महावर्षहर्षलोत्पातपीवराः ।
नागाश्च युगपर्यन्तस्फुटिताद्रीन्द्रजा इव ॥ २८ ॥

महावातैर्हर्षलाः प्रवृद्धा उत्पाता इव पीवराः पुष्टा नागाः सर्पाश्च निर्ययुः ।
युगपर्यन्ते स्फुटितेभ्योऽद्रीन्द्रेभ्यो जाता इव ॥ २८ ॥

तेनास्त्रवर्षवेगेन धुतः सोऽरिबलार्णवः ।
झटित्येव न कालेन पांसुराशिरिवाभितः ॥ २९ ॥

तेज अस्त्रवर्षवेगेन सः अरिबलार्णवः कालेन विलम्बेन न किन्तुझटित्येव
पांसुराशिरिवामितो धुत उड्डायितः ॥ २९ ॥

सलिलाशनिशस्त्राणामासारैश्चण्डमारुतैः ।
सरांसीव विसेतूनि सैन्यानि परिदुद्रुवुः ॥ ३० ॥

चतुरङ्गश्चतुर्दिक्कं बलौघः स पराङ्मुखः ।
ययौ प्रावृङ्गिरिणदीमहावाह इव द्रुतः ॥ ३१ ॥

द्रुतः पलायमानः संश्चतुर्दिक्कं ययौ ॥ ३१ ॥

वहत्स्विन्नबृहच्छिन्नपताकाकेतुपादपः ।
मरीचिपुष्पशबलविलोलासिलतावनः ॥ ३२ ॥

तमेव पलायमानं बलौघं गिरिणदीसाम्योपपादनादिना वर्णयति -
वहदित्यादिना । वायुप्रवाहेण वहन्तः स्विन्नाः स्वेदार्द्रा बृहन्तश्छिन्नाश्च
पताका केतव एव पादपा यत्र । मरीचिपुष्पैः शबलानि विलोलान्यसिलतावनानि येन ॥ ३२ ॥

विलुठत्पुष्टपाषाणपृषद्रक्तद्रवावचः ।
घोरैर्घुरघुरारावैरलं हृदयभङ्गदः ॥ ३३ ॥

पलायनाशक्त्या विलुठन्तः पुष्टजनलक्षणा ये पाषाणास्तेषां
पृषद्भिर्बिन्दुभूतै रक्तद्रवैरवचो दुर्वचः । तत्र पातमूर्च्छितानां
घोरैर्घुरघुरारावैर्हृदयभङ्गदो भीषण इति यावत् ॥ ३३ ॥

उह्यमानबृहद्दन्तिदन्तद्रुमविघट्टनैः ।
स्फूर्जच्चटचटारावतर्जितोद्गर्जिताम्बुदः ॥ ३४ ॥

गिरिणद्याः प्रावृड्विशेषणमम्बुदकल्पनेनोपपादयति - उह्यमानेति ॥ ३४ ॥

हेतिवृत्तोग्रसङ्घट्टपुष्पजातझणज्झणः ।
तरत्तरलसारावतुरङ्गमतरङ्गकः ॥ ३५ ॥

हेतिषु वृत्तो य उग्रः शिलादिसङ्घट्टः स एव नदीतीरतरुपुष्पेषु जातो
भ्रमरझणज्झणध्वनिर्यत्र ॥ ३५ ॥

रथादिभटचक्रौघशिलार्क्रेकारपीवरः ।
पदातिरथहस्त्यश्वशिलासङ्घट्टसङ्कटः ॥ ३६ ॥

रथादीनां भटचक्रौघानां च यच्छिलासङ्कटे कूजितं तल्लक्षणेन
मेकपक्ष्यादिक्रेङ्कारेण पीवरः पुष्टः ॥ ३६ ॥

कटुचङ्कारचीत्कारक्रेङ्कारपरिपीवरः [टङ्कारेत्यपि पाठः ।] ।
मृता मृता वयमिति घनकोलाहलाकुलः ॥ ३७ ॥

तदेवाह - कट्विति ॥ ३७ ॥

सेनावारिमहावर्तचलद्गुलुगुलारवः ।
रक्तसीकरनीहारसन्ध्याम्बुदवितानकः ॥ ३८ ॥

हेतिवीचिवटाच्छिन्नवारिवामनवारिदः ।
वर्षपङ्किलभूपीठतटखण्डनमण्डितः ॥ ३९ ॥

हेतिभिर्वीचिभिर्वटा इव आच्छिन्ना वारिणा वामना नम्रा वारिदा यत्र । पङ्किलस्य
भूपीठतटस्य मार्गनिष्पादनाय खण्डनेन मण्डितः ॥ ३९ ॥

कुन्तशूलगदाप्रासवहत्तालतलाद्भुतः ।
साक्रन्दभीरुजनताप्रतपन्मृगपोतकः ॥ ४० ॥

पलायमानैः कुन्तादिधरैर्वहत्तालतलं तालवनमिवाद्भुतः ॥ ४० ॥

मृतहस्त्यश्वयोधौघजीर्णपर्णनिरन्तरः ।
पिष्टदेहवसामांसपङ्कसञ्जातकर्दमः ॥ ४१ ॥

चूर्णीकृतखुरापिष्टमहास्थिघनसैकतः ।
उह्यमानशिलापूरकाष्ठकोटिकटङ्कटः ॥ ४२ ॥

चूर्णीकृतान्यस्थीनि ईषत्स्थूलसैकतानि खुरैरापिष्टानि तु सूक्ष्मतमसैकतानीति
भेदः । उह्यमानैः शिलापूरैः काष्ठकोटिभिश्च परस्परघट्टनात्कटङ्कट इति
ध्वन्यभेदारोपोक्तिः ॥ ४२ ॥

उद्गर्जत्प्रलयाम्भोदैर्वहत्प्रलयवायुभिः ।
प्रपतत्प्रलयासारैः प्रलयाशनिसङ्कटैः ॥ ४३ ॥

उद्गर्जत्प्रलयाम्भोदैरित्यादीनां तृतीयान्तानां पञ्चमश्लोके इत्थं विद्रवन्ति
भूभृतां बलानि मशकौघवद्विनेशुरित्यत्रान्वयः ॥ ४३ ॥

पङ्किलाखिलभूपीठैः सलिलोपप्लुतस्थलैः ।
सितशैत्यवशाश्यानधाराकृतखपञ्जरैः ॥ ४४ ॥

सितं तीक्ष्णं यच्छैत्यं तद्वशादश्यानैरशुष्यद्भिर्जलधाराकृतैः खे
पञ्जरैः ॥ ४४ ॥

समग्रनगरग्रामगृहज्वलितवह्निभिः ।
प्रजाश्वेभपदातीनामाक्रन्देनापि घर्घरैः ॥ ४५ ॥

रथाम्ब्भोधरनिर्ह्रादैर्दिवि भूमौ घनारवैः ।
चतुर्दिक्कं घनं तारक्रेङ्कारस्य चतुष्टयैः ॥ ४६ ॥

भुवि रथनिर्द्रादैः दिवि अम्भोधरनिर्ह्रादैः । चतुर्दिक्कं तारस्य
विपश्चिद्धनुःक्रेङ्कारस्य चतुष्टयैः ॥ ४६ ॥

विद्युद्वलयविस्तारकारिसङ्घट्टघर्षणैः ।
शरशक्तिगदाप्रासभिन्दिपालादिवर्षणैः ॥ ४७ ॥

विद्युद्वलयविस्तारकारिणां मेघानां सङ्घट्टैर्घर्षणैश्च ॥ ४७ ॥

सर्वदिक्कमसङ्ख्यानि बलानि वलशालिनाम् ।
भूभृतां विद्रवन्त्याशु विनेशुर्मशकौघवत् ॥ ४८ ॥

उद्दामपावकवनोपमहेतिसार्थमेघानलाकुलजनाशनिवर्षपातैः ।
आसन्बलानि चपलाब्धिजलाबलानि पर्याकुलानि वडवाग्निमिवाविशन्ति ॥ ४९ ॥

प्रत्यन्तभूभृतां बलानि उद्दामपावकवनोपमहेतिसार्थैर्मेघानामनलैराकुला
जना यैस्तथाविधैरशनिवर्षपातैश्च पर्याकुलानि सन्ति वडवाग्निमाविशन्ति चपले
अब्धिजले क्वथ्यमानान्यबलानि यादांसीव आसन् ॥ ४९ ॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मी० दे० मो० निर्वा० उ० वि०
चतुर्दिग्गतबलद्रवणं नामैकादशाधिकशततमः सर्गः ॥ १११ ॥

इति श्रीवासिष्ठमहारामायणे तात्पर्यप्रकाशे निर्वाणप्रकरणे उत्तरार्धे
चतुर्दिग्गतबलद्रवणं नामैकादशाधिकशततमः सर्गः ॥ १११ ॥