दशाधिकशततमः सर्गः ११०
श्रीवसिष्ठ उवाच ।
पुरोपकण्ठसम्प्राप्तैश्चतुर्दिक्कं सहारिभिः ।
एतस्मिन्नन्तरे तत्र प्रवृत्तं दारुणन्न् रणम् ॥ १ ॥
पुरोपकण्ठं सम्प्राप्तैश्चतुर्दिक्षु सहारिभिः ।
प्रवृत्तं दारुणं युद्धं विस्तरेणात्र वर्ण्यते ॥
पुरस्योपकण्ठे समीपे सम्प्राप्तैररिभिः सह रणं युद्धं प्रवृत्तम् ॥ १ ॥
लुण्ठितग्रामनगरं प्रजाकुलमहाकुलम् ।
अग्निदाहज्वलद्देहं धूमाभ्रपटलावृतम् ॥ २ ॥
प्रजानां कुलं महाव्याकुलं यत्र ॥ २ ॥
शरजालमहाधूमच्छन्नार्कविलसत्तमः ।
क्षिप्रदृष्टरवि क्षिप्रमदृष्टरविमण्डलम् ॥ ३ ॥
शरजालैर्महाधूमैश्च च्छन्नेनार्केण विलसत्तमो यत्र ॥ ३ ॥
अग्निदाहमहातापप्रतपत्पर्णकाननम् ।
लोलालातलताशूलमुसलोपलपूर्णखम् ॥ ४ ॥
प्रतपत्पर्णानि शुष्यत्पत्राणि काननानि यत्र । लोलैरलातलतादिभिः पूर्णं खं यत्र ॥
४ ॥
अनलप्रतिबिम्बौघौर्द्विगुणज्वलनायुधम् ।
रणभग्नमहाशूरप्राप्तेन्द्रवनितासुधम् ॥ ५ ॥
द्विगुणज्वलनानि द्विगुणदीप्तानि आयुधानि यत्र । रणभग्नैर्महाशूरैः प्राप्ता
इन्द्रवनिता अप्सरसः सुधा च यत्र ॥ ५ ॥
उद्दामवारणारावै रणलम्पटहर्षदम् ।
भुशुण्डीमण्डलप्रासशूलतोमरवर्षदम् ॥ ६ ॥
रणलम्पटानां रणोत्सुकानां शूराणां हर्षदम् ॥ ६ ॥
भटकोलाहलोल्लासहृद्भङ्गमृतपामरम् ।
रजःपटलशुभ्राभ्रकृतद्युपथवारणम् ॥ ७ ॥
भटानां कोलाहलोल्लासश्रवणमात्रेण हृद्भङ्गान्मृताः पामराः कातरा
यत्र । द्युपथवारणं अन्तरिक्षमार्गनिरोधः ॥ ७ ॥
मरणव्यग्रसामन्तमुक्तनादव्रजद्व्रजम् ।
इतश्चेतश्च निपतद्वैद्युतोपहतप्रजम् ॥ ८ ॥
मरणे व्यग्राणां सामन्तानां मुक्तनादं यथा स्यात्तथा व्रजन्तो व्रजाः स्तोमा
यत्र । वैद्युतेनोत्पाताग्निना उपहताः प्रजा यत्र ॥ ८ ॥
अग्निदग्धपतद्गेहप्रोज्झिताग्निमयाम्बुदम् ।
मरणाह्लाददासङ्ख्यशरधारामयाम्बुदम् ॥ ९ ॥
अग्निदग्धैः पतद्भिर्गेहैः प्रोज्झिता निर्मुक्ता अग्निमया अग्निवर्षिणो धूमाम्बुदा
यत्र ॥ ९ ॥
जितसागरकल्लोलं तुरङ्गमतरङ्गकैः ।
दन्तिदन्तविनिष्पेषतारक्रेङ्कारकर्कशम् ॥ १० ॥
कोटकोटिकुटीकुड्यकण्टकोद्भटसद्भटम् ।
चटत्कुण्ठितकोटाट्टकूटाटननटच्छटम् ॥ ११ ॥
कोटानां दुर्गाणां कोटिषु सङ्क्रमेषु याः कुट्यस्तदीयकुड्येषु
कण्टकवच्छरावापे उद्भटाः सद्भटा यत्र । कङ्कटोद्भट इति पाठे
वारबाणैरुद्भासमानाः सद्भटा यत्र । चटत्सु वह्निना वेष्ट्यमानेष्वत एव
कुण्ठितेषु कोटाट्टकूटेषु सङ्क्रमाट्टालशिखरेषु अटनैर्नटन्तो वह्निच्छटा
यत्र ॥ ११ ॥
लुठत्पटनकुट्टाकसाटोपस्फुटपट्टिशम् ।
खे वटत्केतुपट्टाट्टपटत्पटपटारवम् ॥ १२ ॥
लुठन्ति पटनकुट्टाकानि गमनविच्छेदकानि साटोपस्फुटानि पट्टिशानि यत्र । खे
वटन्तो वेष्टन्तः केतुपट्टा येषु तथाविधेष्वट्टेषु पटत्पटपटारवा यत्र ॥ १२ ॥
दन्तिदन्तगुणोद्गीर्णैर्हेतिपाषाणघर्षणैः ।
तारक्रेङ्कारहुङ्कारैराहूतसुरवारणम् ॥ १३ ॥
दन्तिनां दन्तगुणानां शौक्ल्यादीनामुद्गीर्णैरुद्गीरणैर्हेतीनामायुधानान्न्
पाषाणेषु घर्षणैर्घट्टनैस्तारैः क्रेङ्कारैर्हुङ्कारैश्च
युद्धोत्साहजननादाहूता इव सुरवारणा दिग्गजा यत्र ॥ १३ ॥
वहच्छरनदीपूरपूर्णाम्बरमहार्णवम् ।
विचलच्चक्रकुन्तासिधारामकरकर्कशम् ॥ १४ ॥
वहद्भिः शरनदीपूरैः पूर्णः अम्बरलक्षणो महार्णवो यत्र ॥ १४ ॥
उन्नादयोधसङ्घट्टकङ्कटोत्कटटाङ्कृतैः ।
लसज्झणझणारावैर्घटितद्वीपमण्डलम् ॥ १५ ॥
उन्नादानां योधानां सङ्घट्टेषु कङ्कटानां
वारबाणानामुत्कटैष्टाङ्कृतैर्लसद्भिर्झणझणारावैश्च घटितानि व्याप्तानि
द्वीपमण्डलानि यत्र ॥ १५ ॥
पादपातपरापिष्टशरसञ्जातकर्दमम् ।
वहद्रक्तनदीरंहःप्रोह्यमाणरथद्विपम् ॥ १६ ॥
सुपर्णहेलानिपतत्प्रोत्पतत्पट्टपट्टिशम् ।
शरवारितरङ्गार्तभग्नायुधजलेचरम् ॥ १७ ॥
शरलक्षणैर्वारितरङ्गैरार्तानां भग्ना आयुधजलेचरा यत्र ॥ १७ ॥
हेतिसङ्घट्टनिष्क्रान्तज्वालाप्रज्वलिताम्बरम् ।
वलीपलितनिर्मुक्तशूराक्रान्तत्रिविष्टपम् ॥ १८ ॥
देवभावप्राप्त्या वलीपलितनिर्मुक्तैः शूरैराक्रान्तं त्रिविष्टपं यत्र ॥ १८ ॥
पाण्डुपांसुपयोवाहकचच्चक्राचिरद्युति ।
हेतिनिर्विवराकाशयुधानाधारभूतलम् ॥ १९ ॥
पाण्डुषु पांसुलक्षणेषु पयोवाहेषु कचच्चक्रलक्षणा अचिरद्युतयो विद्युतो यत्र ।
हेतिभिर्निर्विवरं निरवकाशं युधानां सम्प्रहाराणामनाधारं भूतलं यत्र ॥
१९ ॥
कटद्भटभटाटोपरटत्प्रतिभटोत्कटम् ।
चटच्छकटसङ्घट्टपिष्टकाष्ठलुठद्रथम् ॥ २० ॥
कटन्तः शरान्वर्षन्तो ये भटेभ्योऽपि भटास्तेषामाटोपैः
रटद्भिस्तत्प्रतिभटैरुत्कटम् । तथा चटतां भुवमाबृण्वानानां शकटानां
सङ्घट्टैः पिष्टेषु रथान्तरकाष्ठेषु लुठन्तो रथा यत्र ॥ २० ॥
कबन्धभटवेतालमिश्रकण्टकसङ्कटम् ।
वेतालभुज्यमानाग्र्यशवमांसहृदम्बुजम् ॥ २१ ॥
कबन्धादिभिर्मिश्रा ये कण्टकाः शत्रवस्तैः सङ्कटं दुरवगाहम् ॥ २१ ॥
शूरशातितशीरार्धशिरःकरखुरोरुकम् ।
कबन्धदोर्द्रुमस्पन्दवनीकृतनभस्तलम् ॥ २२ ॥
शूरैःशातितं शीरार्ध शिरार्धम् । छान्दसो दीर्घः । शिरांसि करादिकं च यत्र ॥
२२ ॥
तरल्लोलास्यवेतालहासघट्टितपेटकम् ।
कङ्कटोत्कटसाटोपभटभ्रुकुटिभीषणम् ॥ २३ ॥
तरद्भिः प्लवद्भिर्लोलास्यैर्वेतालैः प्रहर्षाद्धासैर्घट्टितानि शवैः पूरितानि
पेटकानि स्वकरण्डानि यत्र कङ्कटैरुत्कटानां साटोपानां भटानां
भ्रुकुटिभिर्भीषणम् ॥ २३ ॥
एकान्तमारणैकान्तमरणैकान्तभूषणम् ।
प्रहारदानग्रहणकार्पण्यापारदूषणम् ॥ २४ ॥
एकान्तेन नियमेन मारणं मरणं चेत्युभयमपि शूराणामेकान्तभूषणं यत्र
। प्रहाराणां दाने ग्रहणे च कार्पण्यमसामर्थ्यमेवापारं दूषणं निन्दा यत्र
॥ २४ ॥
शूरवारणसामन्तमदवारिविशोषणम् ।
मारणैकान्तरसिककृतान्तानन्दपोषणम् ॥ २५ ॥
अविकत्थनगुप्तानां शूराणां जयघोषणम् ।
अशूराणां च गुप्तानां प्रभावुद्घोषणन्न् परम् ॥ २६ ॥
अविकत्थनेन स्वमुखेन स्वशौर्यानभिलापेन गुप्तानां प्रच्छन्नानां शूराणां
कियवैव रणे तच्छौर्यदर्शिजनमुखेन प्रभौ जयघोषणं तथा
गुप्तानामशूराणां च प्रभौ अशौर्योद्घोषणं यत्र ॥ २६ ॥
शौर्यादीनां प्रसुप्तानां स्वगुणानां प्रबोधनम् ।
धनमाधारभूतानां राष्ट्रेषु भुजशालिनाम् ॥ २७ ॥
भुजशालिनामत एव राष्ट्रेषु दुर्बलानामाधारभूतानां शूराणाम् । धनं
धनवत्प्रियम् ॥ २७ ॥
दन्त्यारूढरथास्फोटप्रभग्नकटवारणम् ।
समस्तमत्तगन्धेभदानवारिनिवारणम् ॥ २८ ॥
दन्त्यारूढानां रथानां च परस्परमास्फोटे युद्धे प्रभग्नकटा वारणा यत्र ।
समस्तानां मत्तगन्धेभानां दानवारिणां मदजलानां निवारणं विशोषणम् ॥
२८ ॥
सारसारवसामन्तमुक्तमत्तमतङ्गजम् ।
जरज्जितकरानीककल्पितासीकवेदनम् ॥ २९ ॥
मत्तमतङ्गजेषु सरसि प्रविष्टेषु सारसैरिव आरवेणाक्रोशेन सामन्तैस्तरुणैरपि
पलायमानैर्मुक्ता मत्तमतङ्गजा यत्र । ततो जरद्भिरपि खड्गविद्यायां
जितकराणामनीकैः कल्पितं समर्थितं असिः प्रहरणं येषां ते आसीकास्तद्वेदनं
तद्भावप्रकटनं यत्र [जरद्भिरपि
खड्गविशारदैरावेशवशात्स्वविद्याकौशलं प्रकटितमित्यर्थः ।] ।
शक्तियष्ट्योर्विहित ईकक् छान्दसत्वादसेः कृतः ॥ २९ ॥
दिनं दिनकरस्येव नृपस्य शरणं गतम् ।
अनागतभटव्रातपिष्टार्धमृतमानवम् ॥ ३० ॥
क्वचित् अनागतेष्वेव भटव्रातेषु तदागमनभ्रान्त्या पलायने परस्परपादतलपिष्टा
अर्धमृतप्राया मानवा यत्र । अत एव दिनं दिनकरस्येव नृपस्य पादौ शरणं
गतम् ॥ ३० ॥
मानवायुबलोन्मत्तनतप्रारब्धकुट्टनम् ।
धनानां प्राणपण्यानां नवमापणपत्तनम् ॥ ३१ ॥
मानोऽभिमानस्तल्लक्षणोन्मादवायुबलेनोन्मत्तैर्नतेष्वपि प्रारब्धं कुट्टनं यत्र
। प्राणैः पण्यानां धनानां नवमापणस्थानभूतं पत्तनम् ॥ ३१ ॥
पटनद्धपताकौघजातसञ्चारिदोर्द्रुमम् [पटनद्धाः पताकौघा एव
सञ्चारिणो दोर्द्रुमा अभूवन् ।] ।
रक्तोज्ज्वलत्वात्त्रैलोक्यलक्ष्म्या भूषणविद्रुमम् ॥ ३२ ॥
मन्दराहननोद्भूतक्षीरोदजलसुन्दरैः ।
छत्रैश्छादितहेत्योघपुष्पाढ्यगगनाङ्गनम् ॥ ३३ ॥
गणगीर्वाणगन्धर्वगीतशूराशयं कृतम् ।
तद्भातरलतालाग्रहेतिहालाहलायुधम् ॥ ३४ ॥
गणैः प्रमथैर्गन्धर्वैर्गीर्वाणैश्च गीताः शूराणामाशया उत्साहादयो यत्र ।
तेषां गणानां गन्धर्वादीनां भाभिस्तरलैस्तालाग्रैर्ध्वजाग्रैर्हेतिहालाभिश्च
सोन्मादत्वाद्धलायुधभूता [हलायुधो बलरामः ।] भटा यत्र ॥ ३४ ॥
सङ्घप्रहरणासङ्ख्ययातुधानाझणज्झणम् ।
भुक्त्वा चाद्रिगुहागेहपूरितापूर्वदुर्द्रुमम् ॥ ३५ ॥
सङ्घं सम्भूय लीलया प्रहरणं येषां
तथाविधैरसङ्ख्यैर्यातुधानैरझणज्झणं निःशब्दं स्वयं भुक्त्वा
चकाराच्छवादिभारान्नीत्वा अद्रिगुहालक्षणे स्वगेहे पूरिता भोजिता अन्येऽप्यशेषा
दुर्द्रुमा विषवृक्षप्राया यातुधाना यत्र ॥ ३५ ॥
कचत्कुन्तवनव्यस्तशिरःकरवृताम्बरम् ।
क्षेपणोन्मुक्तपाषाणपूरप्लुतककुब्लतम् ॥ ३६ ॥
कचद्भिः कुन्तवनैः कुन्तारण्यप्रायैः कुन्तधरैर्व्यस्तैश्छित्त्वा क्षिप्तैः शिरोभिः
करैश्च वृताम्बरम् ॥ ३६ ॥
महाचटचटाशब्दस्फुटद्रवबृहद्द्रुमम् ।
नारीहलहलारावरणन्नगरमन्दिरम् ॥ ३७ ॥
भुजास्फोटनजैर्महाचटचटाशब्दैः स्फुटतामिव रवो येषां तथाविधा
बहुद्द्रुमा यत्र ॥ ३७ ॥
मन्दरावानलाकारनभोभातायुधव्रजम् ।
परित्यज्य धनं गेहं दूरोर्वीविद्रुतप्रजम् ॥ ३८ ॥
सर्वतोहेतिवहनात्समक्षप्रेक्षकोज्झितम् ।
वर्जितं भीरुभिः पक्षिराजवृन्दमिवाहिभिः ॥ ३९ ॥
हेतीनामायुधानां सर्वतोवहनात्प्रवहणात्सर्वतः प्रेक्षकैर्भयादुज्झितम् ॥ ३९ ॥
दन्तिदन्तविनिष्पिष्टशिष्टसद्भटसङ्कटम् ।
कटे मृत्योरिव नरद्राक्षापीडनयन्त्रके ॥ ४० ॥
मृत्योर्नरलक्षणानां द्राक्षाणां निष्पीडनयन्त्रमिव विद्यमाने कटे गण्डस्थले
दन्तिभिर्दन्तैर्विनिष्पिष्टशिष्टानां सद्भटानां सङ्कटं यत्र ॥ ४० ॥
यन्त्रपाषाणसङ्घट्टपिष्टाम्बरगतायुधम् ।
योधनादनदद्दन्तिवृन्दबन्धुरकन्दरम् ॥ ४१ ॥
धराधरदरीरन्तःप्रतिश्रुत्प्रोतगर्जितम् ।
अर्जितं प्राणसर्वस्वमर्जयद्भिरुपार्जितम् ॥ ४२ ॥
धराधरदरीः प्राप्य प्रतिश्रुद्भिः प्रतिध्वनिभिः प्रोतानि गर्जितानि यत्र । तथा
महता यत्नेन जन्मप्रभृत्यर्जितं प्राणसर्वस्वं बलसर्वस्वं
अर्जयद्भिर्गमयद्भिः [ऋजेर्गत्यर्थस्येदं रूपम् ।] प्रकटयद्भिः
शूरैरुपार्जितं रणं प्रवृत्तमित्यत्रान्वयः ॥ ४२ ॥
भर्जितं हेतिदहनैरग्निदाहैश्च सन्ततैः ।
तैरेवान्यैरथान्यैश्च द्वन्द्वयुद्धैरनिष्ठितम् ॥ ४३ ॥
पुनः कीदृशं तद्रणं प्रवृत्तं तदाह - भर्जितमित्यादि । निष्ठां
समाप्तिमप्राप्तमनिष्ठितम् ॥ ४३ ॥
वेष्टितं मृतशिष्टैश्च सारैः सुभटपेटकैः ।
कैलासैरिव संशुद्धैरीश्वराधारतां गतैः ॥ ४४ ॥
सारतामेव दृष्टान्तेन व्यनक्ति - कैलासैरिवेति । संशुद्धैः स्वाम्यवञ्चकैः
अत एव हृदि ईश्वराधारतां गतैः सुभटपेटकैः । कैलासपक्षे स्पष्टे द्वे ॥ ४४ ॥
तैरुदारैः समाक्रान्तं ये मृत्योरपि मृत्यवः ।
मरणं जीवितं येषां जीवितं मरणं रणे ॥ ४५ ॥
येषां भटानां रणे मरणं जीवितमिव प्रियं पलायनेन जीवितं जीवनं तु
मरणमिव द्वेष्यम् । उदारैस्तैः पुरुषैस्त्रैलोक्यमपि समाक्रान्तं जितमित्यर्थः । ये
मृत्योरपि मृत्यवः परमपदप्राप्ताः सम्पद्यन्ते । यथाहुः द्वावेतौ पुरुषौ
लोके सूर्यमण्डलभेदिनौ । परिव्राड् योगयुक्तश्च रणे चाभिमुखो हतः ॥ इति ॥ ४५ ॥
रणे नभसि निर्लूनवरवारणवारिजे ।
सारसाः सरसीवात्र रेजुरत्युद्भटा भटाः ॥ ४६ ॥
यन्त्राश्मक्षेपणानां प्रसरणसरितां घूकृतैः फूत्कृतैर्द्राक्
क्रान्तानां व्योम्नि मूर्ध्नां शरसलिलमुचां सैनिकानां च नादैः ।
टाङ्कारैरायुधानां नभसि
विसरतामश्वचक्रेभशब्दैरासीन्निःसन्धिबन्धोपलजठरजडं
जीर्णकर्णं गतं तत् ॥ ४७ ॥
तदेव युद्धन्न् वर्णयन्नुपसंहरति - यन्त्रेति । यन्त्राश्मनां क्षेपणानान्न्
यानि प्रसरणानि प्रवाहास्तल्लक्षणानां सरितां घूकृतैर्ध्वनिविशेषैस्तथा द्राक्
सद्य एव छिन्नोड्डीनानां व्योम्नि क्रान्तानां चलितानां मूर्ध्नां फूत्कृतैः
फूत्कारशब्दैस्तथा शरसलिलमुचां सैनिकानां च नादैस्तथा नभसि
विसरतामायुधानां नादैस्तथाऽश्वचक्राणामिभानां च हेषाबृंहितशब्दैश्च
गतं व्याप्तं तद्युद्धं जीर्णा बधिरीकृताः कर्णा यस्मिंस्तथाविधं
सन्निःसन्धिबन्धमुपलजठरमिव जडमासीत् ॥ ४७ ॥
इत्यार्षे श्रीवासिष्ठमहारामायणे वा० दे० मो० निर्वा० उ० अविद्यो० विप०
सङ्ग्रामवर्णनं नाम दशाधिकशततमः सर्गः ॥ ११० ॥
इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे निर्वाणप्रकरणे उत्तरार्धे
सङ्ग्रामवर्णनं नाम दशाधिकशततमः सर्गः ॥ ११० ॥