नवाधिकशततमः सर्गः १०९
श्रीवसिष्ठ उवाच ।
एतस्मिन्नन्तरे सर्वे मन्त्रिणो नृपमाययुः ।
मुनयो वासवमिव दैत्याक्रान्तनभोभुवम् ॥ १ ॥
इह मन्त्रिवचः श्रुत्वा हुतदेहस्य पावकात् ।
राज्ञश्चतुर्भिर्देहैर्द्राक्समुत्थानमुदीर्यते ॥
दैत्यैराक्रान्ते नभश्च भूश्चेत्येते यस्य । नभसि भवतीति नभोभूः स्वर्गलोको
यस्य तथाविधं वासवं मुनय इव ॥ १ ॥
मन्त्रिण ऊचुः ।
देव निर्णीतमस्माभिर्यावन्न विषयोऽरयः ।
त्रयाणामप्युपायानां दण्डस्तेषु विधीयताम् ॥ २ ॥
यावदिति साकल्ये । विचार्य सकलं निर्णीतमित्यर्थः । किं निर्णीतम् ।
अरयस्त्रयाणामप्युपायानां सामदानभेदानां विषयो न ॥ २ ॥
प्रणयोऽनुप्रवेशो वा न कदाचन यः कृतः ।
अधुना तेषु तं देव कुर्यात्तेषु कथैव का ॥ ३ ॥
प्रणयो दानमानादिना स्नेहः । अनुप्रवेशः स्वपक्षीयाणामेव
केषाञ्चिच्छरणागतिच्छलेन काकोलूकन्यायेन तद्वधायान्तःप्रवेशः । तेषु
शत्रुषु तेषु तादृशेषु यशोहरेषूपायेषु कर्तव्यताकथैव का ॥ ३ ॥
पापा म्लेच्छा धनाढ्याश्च नानादेश्याः सुसंहताः ।
बहवो लब्धरन्ध्राश्च सामादेर्नास्पदं द्विषः ॥ ४ ॥
किञ्चिद्विश्वासार्हेषु अनाढ्येषु सामदानोपायप्रवृत्तिरेते तु न तादृशा इत्याह ##-
तत्सुसाहसमेवेदं वर्जयित्वा प्रतिक्रिया ।
नान्यास्ति शीघ्रमेवातो रणोद्योगो विधीयताम् ॥ ५ ॥
वीराणां दीयतामाज्ञा पूज्यन्तामिष्टदेवताः ।
आहूयन्तां च सामन्ता हन्यतां रणदुन्दुभिः ॥ ६ ॥
सन्नह्यन्तामशेषेण निर्गच्छन्तु रणे भटाः ।
क्रियन्तां कालकम्पाभ्रमेदुरा राजिता दिशः ॥ ७ ॥
भटाः सन्नह्यन्ताम् । ततो रणे निर्गच्छन्तु । दिशः अर्थाद्गजघटाभिः कालवर्णैः
कल्पाभ्रैरिव राजिताः क्रियन्ताम् ॥ ७ ॥
आस्फाल्यन्तां धनूंष्युच्चैः क्वणन्तु गुणपङ्क्तयः ।
भवन्तु जलदश्यामाः ककुभः खण्डमण्डलैः ॥ ८ ॥
गुणपङ्क्तयो मौर्वीश्रेणयः । खण्डमण्डलैरर्धमण्डलसदृशैर्धनुर्भिः ॥
८ ॥
स्फुरज्ज्याविद्युतः शूरवारिदा घनगर्जिताः ।
नाराचधारा मुञ्चन्तु कचत्कोदण्डकुण्डलाः ॥ ९ ॥
घनं गर्जितं सिंहनादो येषां तथाविधाः शूरवारिदा नाराचलक्षणा जलधारा
मुञ्चन्तु । कचन्ति कोदण्डकुण्डलानि येषाम् ॥ ९ ॥
राजोवाच ।
गम्यतां सङ्गरायाशु संविधानं विधीयताम् ।
स्नात्वाहं पूजयित्वाग्निं निर्गच्छामि रणाजिरम् ॥ १० ॥
संविधानं नगरगुप्तिव्यूहरचनादि ॥ १० ॥
इत्युक्त्वा नृपतिः स्नातो महारम्भोऽपि स क्षणात् ।
प्रावृषीव नवोद्यानं गङ्गाजलधरैर्घटैः ॥ ११ ॥
प्रावृषि नवोद्यानमिव क्षणात्स्नातः । महारम्भोऽपीत्यनेनावश्यकान्यप्यन्यानि
कार्याणि त्यक्त्वेति गम्यते ॥ ११ ॥
अथ प्रविष्टोऽग्निगृहं पूजयित्वा हुताशनम् ।
आदरेण यथाशास्त्रं चिन्तयामास भूमिपः ॥ १२ ॥
चिन्तयामास वक्ष्यमाणार्थमित्यर्थः ॥ १२ ॥
नीतमायुरनायासविलासविभवश्रिया ।
प्रजाभ्यो दत्तमभयमासमुद्रसमुद्रितम् ॥ १३ ॥
समुद्रितं शासनमुद्रासहितम् ॥ १३ ॥
आक्रान्तवसुधापीठाः पादपीठे कृता द्विषः ।
लताः फलभरेणेव नमिताः ककुभो दश ॥ १४ ॥
दशापि ककुभो दिशः करादिफलभ्ररेण लता इव वमिताः कृताः ॥ १४ ॥
प्रजाचित्तेन्दुबिम्बेषु लिखितं धवलं यशः ।
भूमावारोपिता कीर्तिलता त्रिपथगामिनी ॥ १५ ॥
प्रजाचित्तलक्षणेष्विन्दुबिम्बेषु लिखितं विन्यस्तम् । पूरितमिति यावत् । यशसः
कलासाम्यमनुक्तमपि गम्यते । कीर्तिलतालक्षणा त्रिपथगामिनी गङ्गा ।
त्रिपथगामिनीति रूपणात्कीर्तिलताया ऊर्ध्वाधोलोकयोरपि वृद्ध्या
प्रतानव्याप्तिर्गम्यते ॥ १५ ॥
कोशवद्भरिता रत्नैः सुहृन्मित्रार्यबन्धवः ।
निपीतोऽर्णवतीरेषु नालिकेररसासवः ॥ १६ ॥
आर्याः पूज्या ब्राह्मणाः । अर्णवतीरेष्वित्युक्त्या चतुःसमुद्रान्तं दिग्विजयो गम्यते ॥
१६ ॥
द्विषामाकम्पिता भेकगलाङ्गत्वगिवासवः ।
मच्छासनाङ्किता जाता द्वीपान्तरकुलाचलाः ॥ १७ ॥
द्विषां असवः प्राणाः भेकानां रटनकाले गललक्षणे अङ्गे प्रसिद्धा त्वगिव
आकम्पिताः ॥ १७ ॥
विहृतं सिद्धसेनासु दिगन्तनवभूमिषु ।
भूम्यन्तभूभृतां मूर्ध्नि विश्रान्तं मेघलीलया ॥ १८ ॥
दिगन्ते प्रसिद्धसु नवासु अपूर्वासु काञ्चनादिभूमिषु । भूम्यन्तभूभृतां
लोकालोकान्तानां प्रत्यन्तदेशराजानां च ॥ १८ ॥
धियेवोच्चैःपदे ज्ञानपूर्णयैकान्तशीलया ।
विलब्धान्यविनष्टानि राष्ट्रानीष्टार्थकारिणा ॥ १९ ॥
दृष्टान्तान्तरमाह - धियेवेति । यथा ज्ञानपूर्णया धिया
एकान्तसमाधिशीलया उच्चैःपदे ब्रह्मणि विश्रान्तं तद्वत् प्रजानामिष्टार्थकारिणा
मया राष्ट्राण्यविनष्टानि विवृद्धानि लब्धानि ॥ १९ ॥
रक्षांस्यप्यविनीतानि बद्धानि निगडैर्घनैः ।
धर्मार्थकामैरन्योन्यं चयापचयवर्जितैः ॥ २० ॥
अविनीतान्यविनययुक्तानि लङ्कादिनिलयानि रक्षांस्यपि घनिर्निगडैर्बद्धानि ॥ २० ॥
अखण्डितैर्मया नीतं पीतातियशसा वयः ।
इदानीं शष्पविश्रान्तप्रालेयभरभासुरम् ॥ २१ ॥
अन्योन्यमखण्डितैः चयेन उपचयेन अपचयेन च वर्जितैः । समसञ्चितैरिति यावत् ।
धर्मार्थकामैर्वयो नीतम् । पीतातियशसेव साम्प्रतं जराधवलेन मया शष्पेषु
तृणाङ्कुरेषु विश्रान्तप्रालेयातिशय इव भासुरं धवलं वार्धकमागतमिति
परेणान्वयः । शक्यविश्रान्त इति पाठे घनीभवितुं शक्येषु पलालादिषु विश्रान्तेति
व्याख्येयम् ॥ २१ ॥
आगतं वार्धकं सर्वभोगसंरम्भमार्जनम् ।
तस्योपर्यरयो रौद्रा बलवन्तो रणैषिणः ॥ २२ ॥
तस्य वार्धकस्योपरि । तस्मिन्सतीति यावत् ॥ २२ ॥
सम्भूय सर्वतः प्राप्ताः सन्दिग्धो वर्तते जयः ।
तदिहैवानलायास्मै देवाय जयदायिने ॥ २३ ॥
मस्तकाहुतिमेवेमां समुद्यम्य ददामि वै ।
राजोवाच ।
कृशानो देव मूर्धाऽयं तुभ्यमाहुतितां गतः ॥ २४ ॥
मया पूर्वं पुरोडाश इव देवेश दीयते ।
यदि तुष्टोऽसि भगवंस्तदनेन कृतेन मे ॥ २५ ॥
पूर्वमिष्टिषु पुरोडाश इव इदानीमयं मूर्धा दीयते । यदि मे तुष्टोऽसि तत्तर्हि अनेन
कृतेन कर्मणा ॥ २५ ॥
चत्वारो भवतः कुण्डात्स्वदेहाः प्रोद्भवन्तु मे ।
बलवन्तः श्रिया दीप्ता नारायणभुजा इव ॥ २६ ॥
चत्वारो भवतः कुण्डात्स्वदेहा मे प्रोद्भवन्तु ॥ २६ ॥
तैश्चतुर्दिक्कमेवारीन्वध्यामहमविघ्नतः ।
त्वया च दर्शनं देयं मह्यं मतिमते विभो ॥ २७ ॥
वध्यां वध्यासम् । सलोपश्छान्दसः । मतिमते त्वद्दर्शनेच्छया त्वत्स्मृतिमते ॥
२७ ॥
श्रीवसिष्ठ उवाच ।
इत्युक्त्वा स महीपालः खड्गमादाय चिच्छिदे ।
शिरः कमलमालोलं लीलयेवाशु बालकः ॥ २८ ॥
लीलया बालकः कमलमिव स महीपालः शिरश्चिच्छिदे ॥ २८ ॥
छिन्नमेष शिरो यावज्जुहोत्यसितवर्त्मने ।
तावच्छरीरेण सह पपाताग्नौ स पार्थिवः ॥ २९ ॥
असितवर्त्मने कृष्णवर्त्मने । शरीरेण कबन्धेन सह ॥ २९ ॥
भुक्त्वाथ वह्निस्तं देहं ददावस्मै चतुर्गुणम् ।
महतामुपयुक्तं हि सद्य एवाभिवर्धते ॥ ३० ॥
भुक्त्वा हविष्ट्वेनोपयुज्य । महतामुपयुक्तम् महद्भिः स्वीकृतमित्यर्थः ॥ ३० ॥
चतुर्मूर्तिरथोत्तस्थौ पावकाद्वसुधाधिपः ।
प्रज्वलंस्तेजसां पुञ्जैर्नारायण इवार्णवात् ॥ ३१ ॥
ते देहास्तस्य चत्वारो विरेजुर्भास्वरत्विषः ।
सहजातोत्तमोत्तंसभूषणायुधवाससः ॥ ३२ ॥
सहैव जातानि उत्तमान्युत्तंसभूषणायुधवासांसि येषाम् ॥ ३२ ॥
सकङ्कटशिरस्त्राणाः समौलिकटकाङ्गदाः ।
सहारकुण्डलाभोगाः सर्वाः सर्वे महाशयाः ॥ ३३ ॥
मौलिपदेन तद्भूषणानि शिरोरत्नादीनि लक्ष्यन्ते । सर्वान् अवन्ति रक्षन्तीति सर्वाः ।
वेरपृक्तलोपाद्वलिलोपः पूर्वविप्रतिषेधेनेति वलिलोपे पूर्वसवर्णदीर्घः ॥ ३३ ॥
सर्व एव समाकाराः सदृशावयवान्विताः ।
चञ्चलोच्चैःश्रवःप्रख्यं हयरत्नमवस्थिताः ॥ ३४ ॥
अवस्थिता अधिरूढाः ॥ ३४ ॥
ससुवर्णशरापूर्णतूणीराः सुमहाशयाः ।
समानगुणकोदण्डाः समानवपुषः शुभाः ॥ ३५ ॥
ससुवर्णपदं शरैस्तूणीरैश्च सम्बध्यते ॥ ३५ ॥
समारोहन्ति ते यस्मिन्पुंसि नागे रथे हये ।
सर्वेषामरिदोषाणां नैव गम्यो भवत्यसौ ॥ ३६ ॥
अपरमसाधारणं गुणमाह - समारोहन्तीति । ते देहा यस्मिन्पुंसि शिबिकावाहे
नागे गजे रथे हये वा समारोहन्ति । असौ नरो नागादिश्च
सर्वेषामरिप्रयुक्तमन्त्रयन्त्रकृत्याशस्त्रास्त्रादिदोषाणां नैव गम्यः प्राप्यो
भवतीति ॥ ३६ ॥
पीत्वा धृत्वा चिरं कालं गर्भे पुरुषतापिताः ।
वेद्यामिव हितास्तत्र सागरा वडवार्चिषा ॥ ३७ ॥
किं ते देहाश्चत्वारः सागराः वडवार्चिषा मात्रा प्रथमं पीत्वा ततो गर्भे चिरं
कालं धृत्वा पुरुषतां पुरुषाकारं आपिताः प्रापिताः
ततस्तत्राग्निकुण्डवेद्यामाहिताः प्रसूता इवेत्युत्प्रेक्षा ॥ ३७ ॥
रत्नाश्वदेहकुसुमोत्करपूर्णदेहाश्चत्वार इन्दुहसितैरवभासयन्तः ।
सन्मूर्तयो हरय एव यथाब्धयो वा वेदा इवाहुतिहुतादनलात्प्रसस्रुः ॥ ३८ ॥
किं च रत्नभूषितेषु रत्नभूतेषु च अश्वदेहेषु कुसुमोत्करैः पूर्णदेहा
इन्दुसदृशैर्हसितैर्दिशोऽवभासयन्तस्त चत्वारो विपश्चित आहुतिभिर्हुतादनलाच्चत्वारो
हरयो विष्णव एव यथा सन्मूर्तयो मूर्तिमन्तः । अब्धयो वा यथा तथा मूर्तिमन्तो
वेदा इव वा प्रसस्रुर्निर्जग्मुः ॥ ३८ ॥
इत्यार्षे श्रीवासिष्ठ० वाल्मी० मो० निर्वा० उ० अवि० वि० अग्निप्रवेशाद्देहलाभो नाम
नवाधिकशततमः सर्गः ॥ १०९ ॥
इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे निर्वाणप्रकरणे उत्तरार्धे
अग्निप्रवेशाद्देहलाभो नाम नवाधिकशततमः सर्गः ॥ १०९ ॥