१०८

अष्टाधिकशततमः सर्गः १०८

श्रीराम उवाच ।

अविद्या दृश्यरूपेयं कचन्ती यस्य विद्यते ।
चिन्नभःस्वप्ननगरी दृश्यमानापि शून्यकम् ॥ १ ॥

अनष्टायामविद्यायां जगदन्तो न कर्हिचित् ।
अत्रार्थे विस्तराच्चित्रमविद्याख्यानमीर्यते ॥

वर्णितायाः संसृतिरूपाया अविद्यायास्तत्त्वज्ञानेन त्रैकालिका सत्त्वापत्तिलक्षणं
वाधं विनापि देशतः कालतो वा अन्तः सम्भवति न वेति सन्देहानो रामः पृच्छति

  • अविद्येति । इयं चिन्नभःस्वप्ननगरी विद्यमानापि शून्यभूता दृश्यरूपा
    अविद्या यस्य पुंसः अबाधात्कचन्ती विद्यते तस्याज्ञस्य सा कियत्कालं स्यात् किंरूपा
    स्यात्किमात्मिका च स्यात् देशतश्च कियती वा स्यादित्येवं पुनर्मेत्वया कथ्यतामिति
    द्वयोरन्वयः ॥ १ ॥

तस्याज्ञस्य कियत्कालं क्ंरूपा स्यात्किमात्मिका ।
कियती सा च वेत्येवं मुने मे कथ्यतां पुनः ॥ २ ॥

तस्मिन्विपश्चिच्चरिते चतुर्दिक्षुविपश्चितः ।
इह द्विषत्समुत्थानोदन्तश्रुत्यन्तमुच्यते ॥

श्रीवसिष्ठ उवाच ।

अविद्या विद्यते येषामज्ञानां भूतलादिका ।
तेषामस्यां ब्रह्मणीव नास्त्यन्तोऽत्र कथां शृणु ॥ ३ ॥

तत्र संशयद्वितीयकोटिं परिगृह्य वसिष्ठस्तत्प्रतिष्ठापनाय प्रथमं
विपश्चित्कथां श्रावयितुं राममवधापयति - अविद्येति । ब्रह्मणि यथा देशतः
कालतो वा अन्तो नास्ति तद्वदस्यामपि नास्ति । ब्रह्मणि यथा देशतः कालतो वा अन्तो नास्ति
तद्वदस्यामपि नास्ति । अत्रास्मिन्नर्थे उपपादिकां वक्ष्यमाणकथां शृण्वित्यर्थः
॥ ३ ॥

सदृशं जगतोऽस्यास्ति क्वचिदम्बरकोणके ।
कस्मिंश्चित्त्रिजगत्किञ्चिदनयैव व्यवस्थया ॥ ४ ॥

तामेव प्रस्तौति - सदृशमिति । लोकालोककलधौतशिलाप्राये कस्मिंश्चिद्वस्तुनि
स्थिते चिदम्बरस्य कोणके तत्रापि क्वचित्प्रदेशे अस्य जगतस्त्रैलोक्यस्य सदृशं
किञ्चित्त्रिजगदनयैवैतज्जगत्प्रसिद्धया भुवनद्वीपदेशकालादिव्यवस्थया
मर्यादया अस्ति ॥ ४ ॥

अस्ति कश्चिद्भुवो भागो भूषणं तत्र भूस्थितेः ।
पुरी ततमितिर्नाम्ना सुव्यक्तकलनाऽवनौ ॥ ५ ॥

तत्र जम्बूद्वीपलक्षणाया भूस्थितेर्भूषणभूतः कश्चिद्भुवो भागोऽस्ति । तत्रापि
गिरिवप्रवालुकादिकृतवैषम्याभावान्नरगजतुरगरथादीनां सुव्यक्ता
सञ्चारादिव्यवहारकलना यस्यां सम्भवति तथाविधायामवनौ समभूमौ
नाम्ना ततमितिरिति प्रसिद्धा पुरी अस्तीत्यर्थः ॥ ५ ॥

तत्रासीत्पार्थिवः कश्चिद्विपश्चिदिति विश्रुतः ।
यः सभायां सुसभ्यायां विपश्चित्त्वाद्विराजते ॥ ६ ॥

तत्र तस्यां पुर्या शोभनाः सभ्या यस्यां तथाविधायां सभायां
विपश्चित्त्वात्सर्वशास्त्रेषु विद्वत्त्वाद्विराजते ॥ ६ ॥

राजहम्स इवाब्जिन्यामृक्षचक्र इवोडुराट् ।
सुमेरुरिव शैलौघे यः सभायामराजत ॥ ७ ॥

वैभवसौन्दर्यादिनापि तस्य तत्र विराजमानतामाह - राजहम्स इति ।
अब्जिन्यामब्जवत्यां सरस्याम् । ऋक्षचक्रे नक्षत्रगणे उडुराट् चन्द्र इव ॥ ७ ॥

निवर्तते यतोऽशक्त्या वचनं गुणवर्णनात् ।
कबीनामचलाकारा भवेद्भा भूधरो यथा ॥ ८ ॥

सर्वत्रोत्तरोत्तरगुणोत्कर्षवर्णने प्रवृत्तं कवीनां वचनं यतो
यस्माद्विपश्चितोऽवधेः सकाशाद्गुणानन्त्येन निरुपमत्वेन च वर्णनाशक्त्या
वर्णनान्निवर्तते तथापि कवयस्तं भजन्त एव । यतो यस्माद्विपश्चितः
सकाशात्कवीनामचलाकारा स्थिरा सम्पत्ख्यातिगुणोत्कर्षप्रयुक्ता भा शोभा भवेत् ।
स हि भूधरो मेरुर्यथास्वाश्रितनरमृगतृणगुल्मादीन्स्वभासा स्वणीकरोति
तादृश इत्यर्थः ॥ ८ ॥

प्रातःप्रातर्विकसितात्सर्वाशाभासनोद्यतात् ।
यतः प्रतापजनितश्रीरुदेत्यम्बुजादिव ॥ ९ ॥

श्रीः सम्पत् । अम्बुजपक्षे प्रतापादातपाज्जनिता श्रीः शोभा ॥ ९ ॥

स ब्रह्मण्यमतिर्मानी वह्निमेवाधिदैवतम् ।
अपूजयत्समं भक्त्या देवं वेत्ति स्म नेतरम् ॥ १० ॥

ब्रह्मण्या ब्राह्मणहिता मतिर्यस्य अत एव देवेषु
वह्नेर्ब्राह्मणत्वाद्वह्निमेवाधिदैवतं देवेषु अपूजयत् । तथा चाग्न्युपस्थाने
मन्त्रः त्वं देवेषु ब्राह्मणोऽस्यहं मनुष्येषु ब्राह्मणो हि
ब्राह्मणमुपधावत्युप त्वा धावामिति । तदग्निनैव देवेषु ब्रह्माभवत् इति
वाजसनेयके ॥ १० ॥

समत्स्यमकरव्यूहा गजवाजिगणान्विताः ।
आवर्तचक्रव्यूहाढ्याः कल्लोलबलमालिताः ॥ ११ ॥

अस्य मन्त्रिषु मध्ये अकम्पना धीरा बाहुबलेन चाधिका अकम्पनेन निर्भयेन बलेन
सैन्येन चाधिकाश्चत्वारो मन्त्रिणश्चत्वारः सत्सागरा इव चतसृषु दिक्षु
परचक्रनिरोधेन देशमर्यादापालने युक्ता नियुक्ता इति द्वयोरन्वयः । तत्र सागराः
समत्स्यमकरव्यूहाः मन्त्रिणस्तु गजवाजिगणान्विताः । समुद्रा आवर्तव्यूहाढ्याः
मन्त्रिणश्चक्रव्यूहाढ्याः । समुद्राः कल्लोलमालिताः । मन्त्रिणो बलमालिताः ॥ ११ ॥

मर्यादापालने युक्ता अकम्पनबलाधिकाः ।
मन्त्रिष्वप्यस्य चत्वारो दिक्षु सत्सागरा इव ॥ १२ ॥

समुद्राः अकम्पनानां पर्वतानां बलेनाधिकाः ॥ १२ ॥

तैरशेषककुप्चक्रनाभिराभासितावनिः ।
आसीत्सुदुर्जयो जेता स दुदर्शनचक्रवत् ॥ १३ ॥

तैर्मन्त्रिभिः स राजा अशेषणां ककुप् चक्राणां दिक्चक्राणां नाभिरिव
आधारभूतः सन् सुदर्शनचक्रवत्सुदर्जयः शत्रुभिरपरिभवनीयः स्वयं जेता च
आसीत् ॥ १३ ॥

तमेकदा ययौ पूर्वदिङ्मुखाच्चतुरश्चरः ।
स उवाच रहो रंहोगतिघोराक्षरं वचः ॥ १४ ॥

चरश्चारः आययौ । रंहः कालरय इव दुर्निवारत्वाद्घोराण्यक्षराणि यस्मिन् ॥ १४ ॥

देव दुर्द्रुमविश्रान्तधरागोबन्धनाच्युत ।
श्रूयतां मन्मुखात्पश्चाद्यथाप्राप्तं विधीयताम् ॥ १५ ॥

दोर्द्रुमयोर्विश्रान्तेन धरागोबन्धनेन अच्युत अविच्युत । सदैव
भूस्त्वद्भुजावष्टब्धेति यावत् । अत्राच्युतपदश्लेषाद्विष्णुत्वारोपोऽपि गम्यते ॥ १५ ॥

पूर्वदिङ्मुखसामन्तो ज्वरेणास्तमुपागतः ।
मन्ये जेतुं यमं यातस्त्वयारब्धो जितारिणा ॥ १६ ॥

पूर्वदिङ्मुखे त्वया मर्यादापालनाय नियुक्तो यः सामन्तः प्रागुक्तमन्त्री स
ज्वरेणास्तं मरणमुपागतः । तत्रोत्प्रेक्षते - मन्ये इति । जितारिणा त्वया दिग्विजयाय
आरब्धः उपक्रम्य नियुक्तः स दक्षिणदिक्पतिं यमं जेतुं यात इति मन्ये ॥ १६ ॥

तस्मिन्समन्ततो जेतुं दक्षिणापथनायकः ।
पूर्वापराभ्यामाक्रम्य बलाभ्यामरिणाऽऽहतः ॥ १७ ॥

तस्मिन्मृते सति दक्षिणापथनायकस्त्वत्सामन्तः समन्ततः पूर्वां दक्षिणां च
दिशं जेतुन्न् प्रवृत्तः सोऽप्यरिणा पूर्वापराभ्यां बलाभ्यामाक्रम्य हतः ॥ १७ ॥

तस्मिन्मृते समागम्य यावद्वारुणदिक्पतिः ।
बलेनायाति ककुभौ ते समादातुमादृतः ॥ १८ ॥

तस्मिन्मृते सति वारुणदिशः पतिस्ते सामन्तो यावद्बलेन समागम्य ते पूर्वदक्षिणे
ककुभौ दिशौ समादातुमादृतः सन्नायाति तावदेव अरिभिः पूर्वदेशनृपैः
सार्धं दक्षिणापथपार्थिवैः असौ अर्धमार्गे रणे हत इति द्वयोः सम्बन्धः ॥ १८ ॥

पूर्वदेशनृपैः सार्धं दक्षिणापथपार्थिवैः ।
तावदेवारिभिरसावर्धमार्गे रणे हतः ॥ १९ ॥

श्रीवसिष्ठ उवाच ।

अथास्मिन्कथयत्येवं त्वरार्तमपरश्चरः ।
उपप्लवजडोत्पीड [उपप्लवो जडोत्पीड इति पाठश्चिन्त्यः ।] इव हर्म्यं
विवेश ह ॥ २० ॥

अपरश्चरस्त्वरया आर्त पीडितं यथा स्यात्तथा हर्म्यं विवेश ह किल । उपप्लवे प्रलये
प्रसिद्धो जडोत्पीडो जलप्रवाह इव ॥ २० ॥

चर उवाच ।

उत्तराशाबलाध्यक्षो देवारिभिरुपद्रुतः ।
इत आयाति सबलो भग्नसेत्वम्बुपूरवत् ॥ २१ ॥

हे देव ॥ २१ ॥

श्रीवसिष्ठ उवाच ।

इति श्रुत्वा महीपालः कालक्षेपमवास्तवम् ।
मन्यमान उवाचेदं निर्गच्छन्वरमन्दिरात् ॥ २२ ॥

वस्तूनां वास्तूनां चाहितमवास्तवं मन्यमानः सन् वरमन्दिरान्निर्गच्छन्नेव
उवाच । सन्निहितान्पुरुषान्प्रतीत्यर्थः ॥ २२ ॥

राज्ञः सन्नह्य सामन्तानानीयन्तां च मन्त्रिणः ।
उद्घाट्यन्तां हेतिशाला दीयन्तां घोरहेतयः ॥ २३ ॥

किमुवाच । राज्ञस्तथा सामन्तान्मन्त्रिणश्च सन्नह्य युद्धसन्नाहयुक्तान्कृत्वा
सर्वेऽप्यानीयन्ताम् । ल्यबन्तक्रियाकर्मणोऽनभिहितत्वात्पक्त्वौदनं भुज्यत
इतिवद्द्वितीया । पक्त्वौदनो भुज्यत इति प्रयोगे त्वभिहिते प्रधानक्रियाकर्मणि प्रथमैव
। क्त्वान्तक्रियायां त्वार्थिकोऽन्वयो न शाब्दः । हेतीनामायुधानां शालाः
कोशगृहा उद्घाट्यन्ताम् ॥ २३ ॥

श्लेष्यन्तां कङ्कटा देहेष्वागच्छन्तु पदातयः ।
गण्यन्तामाशु सैन्यानि क्रियन्तां वरकल्पनाः ॥ २४ ॥

वरकल्पनाः भटश्रेष्ठसमर्थनाः ॥ २४ ॥

कल्प्यन्तां च बलाध्यक्षाः प्रेष्यन्तामभितश्चराः ।

श्रीवसिष्ठ उवाच ।

वदत्येवं त्वरायुक्तं संरम्भवति राजनि ॥ २५ ॥

प्रतीहार उवाचेदं प्रविश्याकुलमानतः ।

प्रतीहार उवाच ।

उत्तराशाबलाध्यक्षो देव द्वार्यवतिष्ठति ।
काङ्क्षत्यब्जमिवार्कस्य देवदेवस्य दर्शनम् ॥ २६ ॥

देवदेवस्य राजाधिराजस्य तव ॥ २६ ॥

राजोवाच ।

गच्छाविलम्बितं तावदेनमेव प्रवेशय ।
जानीमः किं दिगन्तेषु वृत्तं वृत्तान्तसंश्रवात् ॥ २७ ॥

वृत्तान्तस्य संश्रवात्सम्यक्श्रवणात् दिगन्तेषु किं वृत्तमिति जानीमो ज्ञास्यामः
॥ २७ ॥

श्रीवसिष्ठ उवाच ।

इत्युक्त उत्तराशेशं प्रतिहारप्रवेशितम् ।
प्रणामपरमग्रेऽसौ राजाऽपश्यद्बलाधिपम् ॥ २८ ॥

इति राज्ञा उक्ते सति प्रतिहारप्रवेशितमुत्तराशेशमग्रे प्रणामपरं राजा अपश्यत् ॥
२८ ॥

क्षतविक्षतसर्वाङ्गमङ्गमङ्गेषुसन्ततम् ।
श्वासाकुलं वमद्रक्तं धैर्येणाबलनिर्जितम् ॥ २९ ॥

अङ्गमङ्गं प्रत्यङ्गं इषुभिः सन्ततम् । अबलमत एव निर्जितम् । धैर्येणेति
पदस्योत्तरत्र सम्बन्धः ॥ २९ ॥

स प्रणम्य त्वरायुक्तमुवाचेदमुपक्रमम् ।
संस्तभ्याङ्गव्यथामाशु सन्ततोच्छ्वासमुच्छ्वसन् ॥ ३० ॥

स धैर्येण अङ्गव्यथां संस्तभ्य प्रणम्य अयं वक्ष्यमाण उपक्रमो
यस्मिंस्तदिदमुपक्रमं वाक्यमुवाच ॥ ३० ॥

बलाध्यक्ष उवाच ।

देव त्रयोऽपि दिक्पाला बलेन बहुना सह ।
त्वदाज्ञयेव निर्जेतुं यमं यमपुरं गताः ॥ ३१ ॥

त्रयोऽपि प्रागुक्तास्ते दिक्पालाः सामन्ता यमपुरं गताः । मृता इति यावत् । त्वदाज्ञया
यमं निर्जेतुमिवेत्युत्प्रेक्षा ॥ ३१ ॥

तद्देशपालनाद्यर्थमशक्तं मामिमं ततः ।
अनुद्रवन्तो बहवो भूपाः प्राप्ता बलादिह ॥ ३२ ॥

महत्परबलं प्राप्तमिदं देवस्य मण्डलम् ।
विधीयतां तथाप्राप्तं न देवस्यास्ति दुर्जयम् ॥ ३३ ॥

श्रीवसिष्ठ उवाच ।

अथ तस्मिन्वदत्येवमार्तिमत्याजिविक्षते ।
सहसैवाभ्युवाचेदं प्रविश्य पुरुषोऽपरः ॥ ३४ ॥

प्राप्तं परबलं तथा तन्निर्जितास्मद्बलवद्दुर्दशाप्राप्तं विधीयताम् ॥ ३३ ॥

पुरुषा मण्डलस्यास्य विपुला दललीलया ।
स्थितान्यरिबलान्युच्चैश्चतुर्दिक्कं नरेश्वर ॥ ३५ ॥

हे नरेश्वर अस्य मण्डलस्य पुरुषादलानामश्वत्थादिपर्णानां प्रसिद्धया
कम्पलीलया विपुला विस्तीर्णाः सम्पन्नाः । चतुर्दिक्कमरिबलान्युच्चैः स्थितानि ॥ ३५ ॥

कचच्चक्रगदाप्रासकुन्तकाननकान्तिभिः ।
वलिता नोऽरिभिर्भूमिर्लोकालोकतटैरिव ॥ ३६ ॥

नः भूमिररिभिर्वलिता वेष्टिता ॥ ३६ ॥

पताकायुधयोध्रङ्गाश्चलत्परिकराकुलाः ।
विसरन्ति रथास्तत्र प्रोड्डीनत्रिपुरौघवत् ॥ ३७ ॥

पताका आयुधानि योद्धारश्चाङ्गे येषाम् ॥ ३७ ॥

करानुन्नामयन्तः खे मांसवृक्षवनोपमाः ।
बृंहन्ति वारणव्यूहा वर्षावारिदवृन्दवत् ॥ ३८ ॥

करान् शुण्डाग्राणि । वर्षासु प्रसिद्धवारिदवृन्दवत् बृंहन्ति गर्जन्ति ॥ ३८ ॥

नतोन्नतानि कुर्वन्तः स्पन्देनोर्वीनतोन्नतैः ।
हेषन्ते हयसङ्घाता वातस्पन्दमहाब्धिवत् ॥ ३९ ॥

स्पन्देन गतिक्रमेण उर्वीनतोन्नतैः सदृशानि नतोन्नतानि कुर्वन्तः । वातेन स्पन्दन्त
इति वातस्पन्दैर्महाब्धिभिस्तुल्यं हेषन्ते ॥ ३९ ॥

रसन्ति तुरगापुराः फेनिलावर्तपातिनः ।
सर्वतो बलयाकारा लवणार्णववारिवत् ॥ ४० ॥

रसन्ति ध्वनन्ति । फेनिलाश्च ते आवर्तवत्पातिनो भ्रमन्त इति यावत् ॥ ४० ॥

आकाशकान्तिसन्नाहैर्दिशं प्रति बलं बलम् ।
उदेत्यलघुकल्लोलैः प्रलयार्णवपूरवत् ॥ ४१ ॥

आकाशवत्स्वच्छकान्तिभिः कवचशस्त्रादिसन्नाहैरुपलक्षितं बलं दिशं दिशं
प्रति उदेति । वीप्साव्यत्यासश्छान्दसः ॥ ४१ ॥

शरास्त्रशस्त्रसन्नाहमुकुटाभरणत्विषः ।
कचन्ति त्वत्प्रतापाग्नेर्ज्वाला इव तदङ्गगाः ॥ ४२ ॥

तेषां बलानामङ्गगाः शरास्त्रशस्त्रादित्विषस्त्वत्प्रतापाग्नेर्ज्वाला इव कचन्ति ॥ ४२ ॥

समत्स्यमकरव्यूहाः सचक्रावर्तवृत्तयः ।
उद्यन्ति सैन्यसङ्घट्टैः कल्लोला जलधेरिव ॥ ४३ ॥

मत्स्यमकराद्याकारैर्व्यूहैः सहिताः । उदधिपक्षे स्पष्टम् । कल्लोला
बृहत्तरङ्गाः सैन्यप्रसरभेदाश्च ॥ ४३ ॥

परस्परपरामर्शात्कुन्ताद्यायुधपङ्क्तयः ।
कोपादिवोग्रहुङ्कारैर्ज्वलन्ति विरटन्ति च ॥ ४४ ॥

उग्रैर्हुङ्कारैर्हुङ्कारप्रायैर्झणत्कारैः ॥ ४४ ॥

इति कर्तुमहं देव विज्ञप्तिं स्वामिनेरितः ।
तस्मान्मण्डलसीमान्तगुल्माद्युद्धाय गच्छता ॥ ४५ ॥

स्वामिना त्वत्सामन्तेन त्वत्समीपे ईरितः प्रेषितः ॥ ४५ ॥

तमहं देव गच्छामि शक्त्यृष्टिशरसङ्गतः ।
मयेहावेदितं सर्वं देवो जानात्यतः परम् ॥ ४६ ॥

तं प्रेषयितारमहं शक्त्यृष्टिशरैः सङ्गतः सन्नद्धः सन् गच्छामि ।
तदीयवचनं सर्वमिह त्वत्पुरो मया आवेदितं विज्ञापितम् । अतः परं यत्कर्तव्यं
तद्देवो जानाति नाहमित्यर्थः ॥ ४६ ॥

श्रीवसिष्ठ उवाच ।

इत्युक्त्वाथ प्रणामं च स कृत्वा त्वरया ययौ ।
कृत्वा गुलुगुलारावं शान्तो वीचिरिवाम्बुधेः ॥ ४७ ॥

सम्भ्रान्तमन्त्रिनृपयोधनियोगिनागनारीरथाश्वपरिचारकनागरौघम् ।
राज्ञो गृहं स्वभयतोलितहेतिसार्थं चण्डानिलाकुलमहावनतुल्यमासीत् ॥ ४८ ॥

सम्भ्रान्ता मन्त्रिणो नृपा योधा नियोगिनो राजनियोगानुष्ठातारो नागा गजा नार्यो
रथा अश्वाः परिचारकाः परिचर्याकारिणो नागरौघा यस्मिन् । स्वभयेन तोलिता उद्यता
हेतयो यैस्तथाविधाः सार्था जन्तुसङ्घा यत्र । अलिहतेतिसार्थम् इति पाठे अलय इव हता
उपगता ईतिसार्था ईतिसमूहा यस्मिंस्तथाविधं राज्ञो गृहं चण्डानिलाकुलेन
महावनेन तुल्यं तुलनार्हमत्यन्तव्याकुलमासीदित्यर्थः ॥ ४८ ॥

इत्यार्षे श्रीवा० वा०दे० मो० नि० उ० अविद्योपाख्यानान्तर्गतविपश्चिदुपा० अविद्याक्षेपणे
पार्थिवसंरम्भवर्णनं नामाष्टोत्तरशततमः सर्गः ॥

इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे निर्वाणप्रकरणे उत्तरार्धे
पार्थिवसंरम्भवर्णनं नामाष्टोत्तरशततमः सर्गः ॥ १०८ ॥